यद् वाचाऽनभ्युदितं येन वागभ्युद्यते

सर्वेन्द्रियप्रेरकस्य इन्द्रियातीतत्वसमर्थनम्

उपनिषत्

यद् वाचाऽनभ्युदितं येन वागभ्युद्यते ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥

यन्मनसा न मनुते येनाऽहुर्मनो मतम् ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ।। ६ ।।

यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ।। ७ ।

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥ ८ ॥

यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥

॥ इति प्रथमः खण्डः ||

श्रीव्यासतीर्थविरचितंविवरणम्

व्यासतीर्थीयम्- न तत्र चक्षुर्गच्छतीत्यादिविवृण्वन्मनोगोचरजीवात्मकत्वात् कथं मनोगोचरत्वमिति शङ्कां च परिहरति यद्वाचानभ्युदितमित्यादिना ।। येन चक्षूंषि पश्यन्ति दृश्यन्ते । ते तब उप आस तदेव ब्रह्म विद्धि । यद्वाचानभ्युदितमित्यादिवाक्यजातं व्याचष्टे - प्राणादीनामिति । तद्वाक्यजातस्य तात्पर्यमाह - यं सम्यगिति ॥

॥ इति प्रथमः खण्डः ॥

श्रीवामनपण्डितविरचिताटीका

बामनटीका– ‘न वाग् गच्छति', 'यद् वाचो ह वाचम्' इत्यादावुक्तलक्षणंयद् वाचाऽनभ्युदितम्' इत्यादिनाऽनूद्य तदेव ब्रह्म त्वं विद्धि' इत्युपदिशति । यदिदं प्रत्यक्षादिसिद्धं अस्वतन्त्रं जीवस्वरूपं जडं वा केचिदज्ञा ब्रह्मेति उपासते नेदं ब्रह्म विद्धि । अत्यन्तविरुद्धत्वात् । तस्मात् सर्वज्ञत्वसर्वनियामकत्वादि- लक्षणश्रवणात् सत्यज्ञानानन्तं ब्रह्मेति सिद्धम् ।

॥ इति प्रथमः खण्डः ॥

श्रीवेदेशतीर्थविरचितश्रुत्यर्थ:

d. श्रुत्यर्थ:- लक्षणान्तराण्यपि वदल्लक्षणोक्तेः प्रयोजनमाह- यद्वाचेत्यादिना ।। यद्वाचा बागिन्द्रियेणानभ्युदितं सम्यगुदितं न भवति । यन्मनसा न मनुते न ज्ञायते पुरुषेण न पश्यति न शृणोति पुरुषः । उपलक्षणमेतत् । अनेनेन्द्रिया- गोचरत्वं लक्षणमुक्तं भवति । यद्वाचानभ्युदितमित्यनेन साकल्येन सर्ववेदाप्रतिपाद्यत्वं चोच्यते । एतेन ' साकल्येन सर्वदेवाज्ञेयत्वमपि इन्द्रियागाचरत्वेनोपपादितं भवति । यथा देवाः परमात्मस्वरूपं सम्यक् न जानन्तीत्य सर्वज्ञास्तथा परमात्मापि किं नेत्याह । 'येन बागभ्युद्यते' इत्यादिवाक्यचतुष्टयेन । बाकू वागिन्द्रियविषयीभूतं दशब्दजातं येनानूद्यतं । वाक् शब्दां वेदादिसर्ववाकसमूहवाचको वा ||||

मनो मनोविषयीभूतं पदार्थजातं येन मतं मनोविषयीकृतमाहुर्विद्वान्सः |||| चक्षूंषि चक्षुर्विषयीभूतानि वस्तूनि । येन पश्यन्ति दृश्यन्ते |||| इदं प्रसिद्धं श्रोत्रं श्रात्रविषयीभूतं वस्तु येन श्रुतं श्रोत्रेन्द्रियविषयीकृतम् । तदेव ब्रह्म विद्धीत्यर्थः । अनेन सर्वज्ञत्वं लक्षणमुक्तं भवति । एवकारव्यावर्त्यमाह- नंदमिति ॥ तत् ब्रह्म इदं जीवस्वरूपं न विद्धि तथाज्ञानस्य मिथ्याज्ञानत्वेनानर्थ- हेतुत्वादिति भावः । अनेन जीवभेदज्ञापनमेव लक्षणोक्ति- प्रयोजनमुक्तं भवति । यदि जीवस्वरूपं न ब्रह्म तर्हि किन्तत् इत्यत आह- यदिदमिति ॥ यदिदं

प्रसिद्धं उप त्वदुपलक्षितजीवस्य समीपे आसते विनियामकतया आस्ते तदेव ब्रह्मेत्यर्थः ।। ८ ।।

यत् प्राणेन प्रेरितं सत् न प्राणिति न चेष्टते । किन्तु स्वत एवेत्यनेन पारतन्त्र्योपलक्षितसर्वदोषाभावरूपं लक्षणान्तरमुक्तं भवति I येन प्राणो मुख्यप्राणः प्रणीयते सम्यक् नीयत इति सकलनियामकप्राणनियामकत्वोत्तत्या सर्वनियामकत्वमेव लक्षणमुक्तं भवति ।। ९ ।।

॥ इति प्रथमः खण्डः ॥

नृसिंहभिक्षुविरचिताउपनिषदार्थप्रकाशिका

नृसिंहप्रकाशिका - 'न तत्र चक्षुर्गच्छति' इत्यादि विवृण्वन् मनोगोचरं जीवाभिन्नस्य कथं मनोजन्यज्ञानाविषयत्वमितिशङ्कां च परिहरति- यद्वाचेति ॥ यत्स्वरूपं बाचा वागिन्द्रियाभिमानिदेवेन । अनभ्युदितं साकल्येनानुक्तम् । येन वाक् वागभिमानी अभ्युद्यते साकल्येनोच्यते । इदं ते उप समीपे नियामकत्वेन आस । तदेव स्वेतराज्ञेयम् । स्वेतरसर्वज्ञस्वेतरसर्वनियामकमेव ब्रह्म त्वं विद्धि । इदं जीवस्वरूपं ब्रह्म न विद्धि । एवमुत्तरत्रापि योजना द्रष्टव्या । चक्षुषा न पश्यति न दृश्यते । चक्षूंषि पश्यति दृश्यते || ५ - ९॥

।। इति प्रथमः खण्डः ।

श्रीसत्यप्रियतीर्थविरचिताभाष्यविवृतिः

स.भाष्यविवृतिः- यद्वाचेति । यत् यत्स्वरूपं वाचा वागिन्द्रियाभि- मानिदेवेन वागिन्द्रियेण च अनभ्युदितं साकल्येनानुक्तं येन वाक् वागिन्द्रिया- भिमानिदेवः वागिन्द्रियं च अभ्युद्यते साकल्येनोच्यते यदिदं ते समीपे नियामकत्वेनास तदेव स्वेतराज्ञेयं सर्वज्ञं सर्वनियामकं ब्रह्म त्वं विद्धि । इदं जीवस्वरूपं ब्रह्म न विद्धि । यन्मनसा न मनुते मनसा इन्द्रियेण तदभिमानिंदेवतया च न मनुते न मन्यते जनः येनाहुर्मनो मतं येन ब्रह्मणा मनो मतं विचारितमाहुः । शिष्टमुपदिष्टवदेव हि । यच्चक्षुषा न पश्यति जनः येन चक्षूंषि पश्यति दर्शनानुकूलव्यापारवन्ति । करणे कर्तृत्वम् । भगवत्प्रेरितान्येव चक्षूंषि स्वविषयविषयीकरणनिपुणचणानीति भावः । यः श्रोत्रेण न शृणोति जनः येन श्रोत्रमिदं श्रुतं श्रोत्रं तदभिमानिदेवश्च श्रुतं श्रुते श्रवणविषयाँ । 'यत्प्राणेन न प्राणिति' यद् ब्रह्म प्राणेन प्रेरितं सत् न प्राणिति न चेष्टते । येन ब्रह्मणा प्राणः मुख्यो वायुः प्रणीयते स्वव्यापार प्रवर्त्यते ।

अत्र भाष्यकारोदाहृतव्याख्यानरूपस्मृतिभागस्य पूर्वस्मृतिभागवत् व्याख्या- तव्यखण्डवाक्यक्रमेणाप्रवृत्तत्वात् खण्डवाक्यस्य भाष्यकारोदाहृतस्मृतिवाक्यस्य व्याख्यंयत्र्याख्यानभावः प्रदश्यते । तत्र अन्यदेव तद्वितादथो विदितादित्यंशस्य नातिवेद्यो न चावेद्यः परमेश्वर इति उपपाद्योपपादनमुखेन व्याख्यानम् । अधीत्यंशस्य सर्वोत्तमश्चासर्वत्र स विष्णुरितिधार्यतामित्यंशः अयमिहार्थः । अधीश्वरभावे वर्तते इत्यवोचाम I अधेर्विभक्त्यर्थे वर्तमानस्य अधिकरणार्थकत्वात् । अधि सर्वाधिकरणेषु तदित्यस्य सम्बन्धात् सर्वाधिकरणेषु स विष्णुरेव धार्यतामिति ।

यद्वा ' उपसर्गाः क्रियासन्निधाने तद्विशेषका भवन्ति । असन्निधाने ससाधनां क्रियामाहः' इति । अत्र अधिशब्द एव अध्यासीनमभिधत्ते । स चावर्तते । अधिकरणविशेषानुक्त्या च सर्वत्रेति लभ्यते । ततश्च सर्वत्र अधिको विष्णुरधिवर्तमान इति । येन वागभ्युद्यते येनाहुर्मनो मतं येन चक्षूंषि पश्यति येन श्रोत्रमिदं श्रुतं येन प्राणः प्रणीयत इत्यंशानां सर्ववेत्ता च सर्वशः इत्यंशः । प्राणं सर्वजगञ्चष्टकं प्रवर्तयमानस्य परमेश्वरस्य सर्ववेदितत्वस्य सुवचत्वात् वागाद्यभिवन्दनादिना च सार्वज्ञस्य स्पष्टत्वात् । यद्वाचा अनभ्युदितं यन्मनसा न मनुते यचक्षुषा न पश्यति यच्छ्रोत्रेण न शृणोति यत्प्राणेन न प्राणितीति पञ्चांशानां प्राणादीनां प्रणेता चेत्ययमंशः । उपपन्नश्चायमर्थः ।

न ह्युत्पाद्यउत्पादकस्वरूपं जानीते 'तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' इति पञ्चस्य ' नेदं जीवस्वरूपमि' त्यारभ्य 'किमु जीवस्य तद्भावो न मन्तव्य इतीर्यत' इत्यन्तोऽशः । अत्र भाष्ये 'आसते विनियामकमि' त्यत्र आस ते विनियामकमिति च्छेदः । न त्वासत इत्येकं पदम् । आस्तेः लुग्विकरणस्थत्वात् । अथ कथमास त इति बोभूयामास किन्तु अस्तेर्भूरित्यार्ध-धातुकं भूभावोऽनुशासनात् । आसत इत्येतच्चेयते समीपस्थमित्यर्थनिर्देशाय उपनिषद्गत आस त इति पदद्वयानुवादपरत्वं आसतेर्गत्याद्यर्थस्य लिटि रूपमेतत् । भावनार्थत्वं तु अनेकार्थत्वात् धातूनामुपपद्यते । अत इति रुद्रप्रयुक्त- युष्मच्छन्दोपलक्षितसकलदेवनियामकत्वोत्त्या कँमुत्यसिद्धसकलमर्त्यनियामकत्व- प्रदर्शनपरी नियामकं तद्देवानां मर्त्यानां किमुतोत्तममित्ययमंशः ।

उपासत इति नियामकत्वोक्त्या तत्प्रसादासादितप्रवृत्तिमतो जीवस्य दूरनिरस्त- तत्समभावस्य च तदभेदं इति कैमुत्य प्रदर्शनपरः । तत्प्रसादं विनेत्यारभ्य इतीर्यते इत्यन्तोंऽशः ।

॥ इति प्रथमः खण्डः ॥

व.उ.मन्त्रार्थः- यद्वाचा वागिन्द्रेणानभ्युदितं सर्वात्मना नेत्युदितम् । येन च ब्राक् वागिन्द्रियं साकल्येन अशेषविशेषसाहित्येनाभ्युद्यते प्रोच्यते । त्वं तदेव वस्तु ब्रह्म न भवति किन्तु यदिदं वामिन्द्रियाद्यगोचरं वस्तु ते तव उप समीपे प्रेरकत्वेनास्थितं आस तदेव ब्रह्मेत्यर्थः । यन्मनसा न मनुत इत्यादेरप्येवमेवार्थो द्रष्टव्यः । येन चक्षूंषि पश्यति । येन चक्षूंषि दृश्यन्त इत्यर्थः ॥५-९||

॥ इति प्रथमः खण्डः ।।

श्रीराघवेन्द्रयतिविरचितःतलवकारोपनिषत्खण्डार्थः

खण्डार्थःननु मनोवाग्गोचरजीवरूपत्वात् ब्रह्मणः वाङ्मनसागोचरत्वोक्ति- रयुक्तेत्यतो न तत्र चक्षुर्गच्छतीत्यादेस्तात्पर्योक्तिपूर्वकं पञ्चभिर्मन्त्रैर्भेदमाह- यद्वाचेति ।। यद् ब्रह्म वाचाऽनभ्युदितं साकल्येन नोक्तं, येन प्रेरिता सती वाक् अभ्युद्यते पुरुषैरुच्चार्यते तदेव त्वं ब्रह्म विद्धि जानीहि । नेदं जीवस्वरूपं ब्रह्म । ते तव उप समीपे आस, तिङन्तप्रतिरूपकमव्ययम्, आस्ते नियामकतया वर्तते । इदमेव ब्रह्मेति तदेव विद्धीत्यर्थः । एवमग्रेऽप्यर्थो ध्येयः । पुरुषो न मनुते । मतं विज्ञातम् । चक्षूंषि पश्यति दृश्यन्त इत्यर्थः । न मनुते इत्यादौ साकल्येनेति ज्ञेयम् । प्राणेन मुख्यवायुना न प्राणिति न चेष्टते । प्रणीयते प्रेर्यते । तदाह भाष्ये-

प्राणादीनां प्रणेता च सर्ववेत्ता च सर्वशः ।

यं सम्यङ् नैव जानाति कश्चिन्निरवशेषतः ।

नेदं जीवस्वरूपं तद्ब्रह्म विष्ण्वाख्यमव्ययम् ।

किन्तु यत्ते समीपस्थमास ते विनियामकम् ।

तदेव ब्रह्म विद्धि त्वम्' ।। इति ।

तथाऽन्यत् प्रतिषेधात्' इति (ब्र. सू. ३-२-३२) सूत्रभाष्ये तु यदिदं वासनामयमुपासते ध्यायन्ति नेदं वासनामयं ब्रह्म । किन्तु तदेव वाङ्मनोऽगोचरं वासनामयस्थं ब्रह्म विद्धीत्यर्थोऽभिहितः ।। ५-९ ।।

।। इति प्रथमखण्डखण्डार्धः ॥