नाहमन्ये सुवेदेति नो न वेदेति वेद च
सामस्त्येनाज्ञेयस्यापि जीवयोग्यतानुसारेण ज्ञेयत्वप्रतिपादनम्
उपनिषत्
नाहमन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद् वेद तद् वेद नो न वेदेति वेद च ॥ २॥
श्रीव्यासतीर्थविरचितंविवरणम्
व्यासतीर्थीयम्- अस्तु त्वदतिरिक्तः सर्वोऽपि जनः ब्रह्म न सम्यग्वेदेति त्वं तु सम्यग्वेत्थंत्यत आह- मन्यइति ॥ मामन्ये अयं ब्रह्मासु सम्यग्वेदति वदन्ति अहं तु ब्रह्म विदितं न मन्य इति योजना । तर्हि त्वमपि ब्रह्म न वेत्थ किमित्यत आह- नो न वेदेति ॥ न वेदेति नो किन्तु वेद चेति ।
ब्रह्मणः साकल्येनाज्ञेयत्वमुपपाद्य उपसंहरति- योन इत्यादिना || नोऽस्माकं मध्यं यस्तु ब्रह्म अहं वेदेति वदति स तन्नो वेद । तत्कुतः । परिच्छिन्नत्ववंदनात् । अहं न वेदेति यो वदति असौ वेद च कुतः ब्रह्मणोऽपरिच्छिन्नत्वज्ञानात् । यस्य ब्रह्माविदितमिति मतं तस्य ब्रह्म विदितम् । उक्तहेतोः । यस्य ब्रह्म मतमिति मतं स न वेद । 'वयं ब्रह्म सम्यगपरोक्षतो विद्य इति विजानतामविज्ञातम् । उक्तहेतोः । उक्तवैपरीत्येन विजानतां विज्ञातं उक्तहृतो: ।
श्रीवामनपण्डितविरचिताटीका
बामनटीका - पक्षान्तरे तु ज्ञानानुदयदोषस्य सर्वसम्मतत्वात् मीमांसापक्ष- मंत्राऽश्रित्याह- विदितमित्यादि ॥ अयमर्थः- मीमांसयाऽपि सर्वजन्तुभिः विदितं भवतीति न मन्ये । 'असार्वत्रिकी' (ब्र. सू. ३.४.१० ) इति सर्वाधिकारस्य निषेधात् । तर्हि अविदितं केनापीति च न मन्ये । तद्भक्तैर्यथाधिकारं विदितत्वात् । भक्ताग्रणीरेकस्तु तदनुग्रहात् सुवेद । स च वायुरहं च । छन्दसां योगार्थवित्त्वात् । इतिशब्दादितोऽधिकोऽधिकारी नास्तीति सूचयति । समाप्ति- वाचकत्वात् । ‘नाहमन्ये' इत्युभयत्राप्यहशब्दस्तु एवमहो महदाश्वर्यं ब्रह्मेति वक्ति । एवं स्वमतमुपन्यस्तम् । अथ परमतं दूषयति-- नो इति ॥ यदिदं सच्चित्सुखाद्वयं ब्रह्म तत् सर्वथा कश्चित् न वेद वेत्तुरेवासम्भवात् नहि स्वयमेव स्वात्मानं वेद, कर्मण: कर्तृत्वासम्भवात् नच परो वेद, परस्य स्वरूपासिद्धेः, नच तस्य वेद्यत्वमस्ति, अविषयत्वात्, मिथ्यात्वप्रसक्तेश्च, तस्मात् कोऽपि ब्रह्म न वेदेति यदिदमासुरमतं तदप्यहं ग्राह्यमिति नो वेद । चशब्दोऽवधारणे । न म्म मतमन्यथा भवति । 'व्याचचक्षिरे', 'शुश्रुम' इति श्रोतृत्वनिश्चयात् । ‘न कर्हिचिन्मे मनसो मृषागतिः' (२.६.३३) इति भागवतवचनाच्च । यत् पुनरिह परोत्प्रेक्षितं युक्तिजातं तदनुभवादिविरुद्धत्वादमानम् । अहं मामिति स्वग्रहणात् तद् ब्रह्मेति विषयीकरणात् स्वतोऽभेदाभावात्, बाधकाभावाच्च । तस्माद् यथायोग्यं वेद्यमेव ब्रह्मेत्येष्टव्यम् । तदेतदाह- 'नातिवेद्यो नचावेद्यः' इति । इहातिवेद्यत्वोत्प्रेक्षणमवेद्यत्वोत्प्रेक्षणं चाब्रह्मविल्लक्षणं ह्युक्तम् । अथ ब्रह्मविदः किं लक्षणमित्याकाङ्क्षायामाह - यो न इति ॥ यो मीमांसकानामस्माकं तद् यथाधिकारवेद्यत्वं ब्रह्मणो वेद स एव तद् ब्रह्म वेद । यः पुनः कोऽपि न वेदेति दुर्मतं सुमतमिति च नो वेद । वेद्यत्वमात्रस्य च दृश्यमानत्वात् । एवं च सुवेद्यत्वावेद्यत्वाभावज्ञानं ब्रह्मविल्लक्षणमिति सिद्ध्यति । तस्मादेव ब्रह्मरूपं दहरमेव वेद्यं नादहरमित्युक्तं स्यात् ।
श्रीवेदेशतीर्थविरचितश्रुत्यर्थ:
वे. श्रुत्यर्थ:- तर्ह्यस्तु त्वदतिरिक्तः सर्वोऽपि जनः ब्रह्म न सम्यग्वेदेति । त्वं तु ब्रह्म सम्यग्वेत्थ तथा व्यवहारात् । तथा च न देवाज्ञेयं ब्रह्मेत्यत आह- मन्य इति ॥ अहं मया ब्रह्म विदितं न मन्य इति सम्बन्धः । तर्हि कथं व्यवहार इत्यत अज्ञानमूलकोऽयं व्यवहार इति भावेनाह - अहमन्ये सुवेदेतीति ॥ अन्ये अज्ञानिन एवं जनाः अहं ब्रह्म सुवेदेति वदन्तीत्यर्थः । तर्हि त्वया ब्रह्म किं सर्वात्मनाऽविदितं नेत्याह - नो इति ॥ सर्वात्मना ब्रह्म न वेदेति नो किन्तु अल्पं वेद च । ननु यदि त्वं ब्रह्म सम्यक् न वेत्थ तर्हि अज्ञानी, स्या इत्यतो न ममाज्ञानित्वं, किन्तु ज्ञानित्वमेव । मया ब्रह्म सम्यक् विदितमिति जानत एवाज्ञानित्वात् । मया ब्रह्म सम्यङ् न विदितमिति जानतस्तु ज्ञानित्वादिति भावेन साकल्येनाज्ञेयत्वं किंचिद् ज्ञेयत्वं चोपपादयति- य इति ।। नः अस्माकं मध्ये यः पुरुषः अहं तद् ब्रह्म सम्यग् वेदेति वेद स तद् ब्रह्म नो वेद न जानाति । तस्य परिच्छिन्नत्वात् । यश्चाहं तद्ब्रह्म सम्यङ् न वेदेति वेद, स ब्रह्मस्वरूपं वेद । तस्यापरिच्छिन्नत्वज्ञानात् ।
नृसिंहभिक्षुविरचिताउपनिषदार्थप्रकाशिका
नृसिंहप्रकाशिका - त्वं तु सम्यग्वेत्थेत्यत आह- मन्य इति ॥ मां अन्ये । अयं चतुर्मुखः परं ब्रह्म सम्यग्वेदेति वदन्ति । अहं तु परं ब्रह्म मया साकल्येन विदितं न मन्ये । अनन्तत्वात् । तर्हि ब्रह्म त्वं न वेत्थ किमित्यत आह- नो नेति ।। न वेदेति नो । किन्तु अहं ब्रह्म मद्योग्यतानुसारेण वेद च । ब्रह्मणस्तत्तद्योग्यतानुसारेण ज्ञेयत्वात् । ब्रह्मणः साकल्येन अज्ञेयत्वमुपपाद्य उपसंहरति- यो न इति || नः अस्माकं मध्ये यस्तु तत् ब्रह्म साकल्येन वेदेति वदति सः तद् ब्रह्म न वेद । कुतः साकल्येनाज्ञेयत्वावेदनात् । यः तं न वेदेति वदति असौ तद्वेद च । कुतः साकल्येनाज्ञेयत्ववेदनात् । यस्य ब्रह्म मतमित्यङ्गीकारः ||२||
श्रीसत्यप्रियतीर्थविरचिताभाष्यविवृतिः
स. भाष्यविवृतिः - तर्हि त्वं अस्मान् ब्रह्मोपादिश इति ब्रह्मवेदी स्याः इत्यतः नाहं ब्रह्म सुबेद्मीत्याह- मन्ये विदितमिति ॥ अहं मया ब्रह्म विदितं न मन्ये । तर्हि कथं लोकाः व्यवाहरन् इत्यतोऽजानाना एव व्यावहार्षुरित्याशयेनाभिदधौ- अन्ये सुवेदेति ॥ अन्ये अजानानाः जनाः अहं ब्रह्म सुवेदेति मन्यन्ते । तर्हि त्वं ब्रह्म सर्वथा किं मा स्म जानाः इत्यतः लेशतो जाने श्रीजानिं कार्त्स्न्येन तु न जाने इत्याचख्यौ - नो न वेदेति । सर्वात्मना ब्रह्म न वेदेति नो किन्त्वल्पं वेद च । साकल्येनाज्ञयत्वमुपपाद्य उपसंहरति यो न इति ।। यः नो अस्माकम् । निर्धारणे षष्टी । अहं तद् ब्रह्म सम्यग्वेदेति वेद स तद् ब्रह्म नो न जानाति नस्य परिच्छिन्नत्ववेदित्वात् । यश्व अहं तद्ब्रह्म सम्यङ् न वेद इति वेद स ब्रह्मणः रूपं वेद जानीते । तस्यापरिच्छिन्नत्ववेदित्वात् ।
व.उ.मन्त्रार्थः- त्वत्तोऽधिकस्य ममापि साकल्येन ब्रह्मज्ञानं नास्तीत्युच्यते । ये । यद्यपि अन्ये जनाः अयं ब्रह्मा सुवेदेति वदन्ति तथापि अहं ब्रह्मविदितं साकल्येन मया ज्ञातमिति न मन्ये इत्यर्थः । एवं सति सर्वात्मना ज्ञानं नास्तीत्यपि न मन्तव्यमित्याह - नो इति ॥ अहं सर्वात्मना ब्रह्म न वेदेति च नोक्तः किन्तु वेद च । किञ्चिज्जानामीति । एवमन्योऽपि यो जनः अस्माकं मध्ये ब्रह्मा अहं वेदेति मन्यते सोऽपि पुरुष तद् ब्रह्म नो वेद त जानाति । अथ यः पुरुषः ब्रह्मा अहं न वेदेति मन्यते स तद् ब्रह्म जानाति अहं ब्रह्म साकल्येन न जानामीत्यस्य यथार्थज्ञानत्वादित्यर्थः ||२||
श्रीराघवेन्द्रयतिविरचितःतलवकारोपनिषत्खण्डार्थः
खण्डार्थः- न भवत्वन्येषां कार्त्स्न्येन ब्रह्मज्ञानित्वं, तव तु अस्ति सम्यग्ज्ञानित्वमिति पृष्ठो ब्रह्मा वक्ति मन्य इति ॥
अन्ये सम्यग्वेद ब्रह्माऽयमिति मां प्रवदन्ति । अहं तु ब्रह्म विदितं न मन्य इति योजना । तर्हि त्वमपि सर्वथा न वेत्थ किमित्यत आह- नो नेति ॥ न वेदेति नो न जानामीति न, किन्तु वेद चेति । ब्रह्मणः साकल्येनाज्ञेयत्वमुप- पाद्योपसंहरति- यो न इत्यादिना ॥ नोऽस्माकं मध्ये यस्तु ब्रह्माहं वेदेति वदति स तन्नो बेद । कुतः ? परिच्छिन्नत्ववेदनात् । अहं न वेदेति यो वेद असौ वेद च । कुतः? ब्रह्मणोऽपरिच्छिन्नत्वज्ञानात् ।।२।।