केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः
वैजयन्तशब्दार्थवर्णनम्
उपनिषत्
केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥
भाष्यम्
वैजयन्ते समासीनमेकान्ते चतुराननम्
विष्णोर्विविदिषुस्तत्त्वं पर्यपृच्छत्सदाशिवः ॥
यदिदं पुरुषावश्यं तत्र तत्र पतेन्मनः ।
केन तत्प्रेरितं याति प्राण: सर्वोत्तमस्तथा ॥
चक्षुः श्रोत्रं तथा वाचं को देवो विनियोजयेत् ।
इति पृष्टस्तदा ब्रह्मा प्राह देवमुमापतिम् ॥
ध्यात्वा नारायणं देवं सर्वाधारमनूपमम् ।
सर्वज्ञं सर्वशक्तिं च सर्वदोषविवर्जितम् ॥
श्रीव्यासतीर्थविरचितंविवरणम्
व्यासतीर्थीयम् –इषितमिष्टं साध्वसाधु वा प्रति मनः पतति तत्करणत्वान्मनसः स्वतो न युक्तम् । अतः केन प्रेषितं प्रेरितं पतति । प्रथमो मुख्यः । युक्तो नियुक्तः । इमां वाचं केन इषितां प्रेरितां वदन्ति । चक्षुः श्रोत्रं क उ देवो युनक्तीति प्रश्नः । यन्मनआदिप्रेरकं त्वया पृष्टं स उ इति परिहारश्च प्रतीयते प्रष्टा उत्तरप्रदाता च काविति न ज्ञायते अतस्तत्प्रश्नवाक्यं व्याचष्टे- वैजयन्त इति ।। वैजयन्तो नाम कश्चित्पर्वतः । इतः पूर्वं कस्याप्यप्रकृतत्वात् स उ इति कथं तच्छब्देन परामर्श इत्यतो ध्यानस्य प्रकृतत्वेन तद्धयन् श्रोत्रस्य श्रोत्रमित्यादिपरिहारवाक्यं व्याचष्टे - ध्यात्वेति ॥
श्रीवामनपण्डितविरचिताटीका
वामनटीका—एवं चेन्मीमांसकेषु देवेषु कतमः ‘केनेषितम्' इति प्रष्टा ? परिहर्ता च गुरुः कतमः? किं चेदं विचार्यमाणं विलक्षणं वस्तु ? इत्याकाङ्क्षायामुच्यते । सदाशिवः प्रष्टा । परिहर्ता चतुर्मुखः । विचार्यमाणं विष्ण्वारत्र्यं ब्रह्म । तदेतत् सर्वं भगवान् भाष्यकारों ब्रह्मपारवचनेन सुव्यक्तं वक्ति– “वैजयन्तं समासीनम्' इत्यादिना । वैजयन्ताख्ये पर्वते । सत्पुरुष निर्दोषपुरुष, सर्वज्ञपुरुष । 'सन्मनीषी' इत्यभिधानात् । सतां जन्मादिकृदधिपते गुरो । 'इषितं ' वाञ्छितम् । इषु इच्छायामिति धातोः । ' प्रेषितं ' प्रेरितम् । स्वेच्छया प्रेरितमित्यर्थः । 'युक्तः' नियुक्तः । विनियोजयेत् विषयेषु प्रवर्तयेत् । नारायणं ध्यात्वेति वचनं शयनासनाद्युपकार्येऽपि तद्ध्यानपूर्वकत्वेन भाव्यमित्युप- लक्षयति । ' स्मृत्वा हरिं समुत्थाय' इति सदाचारस्मृतेः । अनूपमं अत्यन्तानुपमम् । ‘आधिक्येऽधिकम्' इति सूत्रात् ।
श्रीवादिराजतीर्थविरचिताप्रकाशिका
प्रकाशिका –वैजयन्तो नाम बहुयोजनवान् मेरोः शृङ्गविशेषः । तत्राप्येकं ब्रह्मणो मन्दिरमस्ति । तत्राऽसीनं ब्रह्माणमित्यर्थः ।
'केनेषितं पतति प्रेषितं मनः' इत्यादिना मनआदीन्द्रियाणां प्रवृत्तिप्रेरकः क इति प्रश्नः क्रियते । इन्द्रियाणां स्वस्वविषयेषु गमनस्य स्वाभाविकत्वाद्व्यर्थोऽयं प्रश्न इति न मन्तव्यम् । इन्द्रियाणां जडत्वेन घटवत् स्वतःप्रवृत्त्ययोगेन प्रवर्तकप्रश्नस्य न्यायप्राप्तत्वात् । तर्हि तत्तज्जीवा एव स्वस्वेन्द्रियाणि प्रवर्तयन्तु, चेतनत्वेन तेषां प्रवर्तकत्वसम्भवादिति च न मन्तव्यम् ।
वि मे कर्णा पतयतो विचक्षुर्वी ३दं ज्योतिर्हृदय आहितं यत् ।
वि मे मनश्चरति दूर आ धीः किंस्विद्वक्ष्यामि किमनू मनिष्ये ॥' क्र.६-९-६
इति कर्णादीन्द्रियाणां तत्तज्जीवानधीनत्वोक्तेः । मनआदीन्द्रियप्रेरकैरिन्द्रिया- भिमानिदैवैर्मनआदीन्द्रियाणां प्रवृत्तिरस्तु । किं प्रेरकान्तरप्रश्नेनेति चेन्न ।
निषुसीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् ।
न ऋते त्वत्क्रियते किश्चनारे महामर्कं मघवश्चित्रमर्च ॥' ऋ.१०-११२-९
इति श्रुत्या इन्द्रियगणप्रवर्तनाय सर्वेन्द्रियगणाधिपतेरेकस्येन्द्रिगणेषु निषुसीदेति सन्निधानस्य प्रार्थनात् । तदुक्तम् भागवते -
अन्तर्बहिश्वाखिललोकपालकैरदृष्टरूपो विचरस्युरुश्च नः ।
स ईश्वरस्त्वं य इदं वशे नयन्नात्मा यथा दारुमयीं नरः स्त्रियम् ।
यं लोकपालाः किल मत्सरज्वराः हित्वा यतन्तोऽपि पृथक् समेत्य च ।
त्रातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपः स्थास्नु यदत्र दृश्यते ।। ' इति ।
इदं च मत्स्यतनुं हरिं प्रति मनोः प्रार्थनम् । अत इयमुपनिषत् प्राकृतभाषया यामिकसनाम्ना शङ्काकृतश्चोरान् दूरे धुनोतीत्यत . उपपन्नतरः प्रश्न इति श्रुतेरभिसन्धिरनुसन्धेयः । ' केनेषितं पतति प्रेषितं मनः । ' इत्यादेरर्थमाह-
यमिति ॥ मन इषितमिष्टं प्रति केन प्रेषितं प्रेरितं पतति गच्छति । स्वानभीष्टस्वजिह्वादंशनादावपि मनसः प्रवृत्तिदर्शनात् पततीत्युक्तम् । बलात्पततीत्यर्थः । स्वादुतरवस्त्वास्वादनसमये हरिं विस्मृत्य स्वतृप्तिमेवोद्दिश्य तत्स्वादुस्वीकारात्र्यदोषपरिहाराय बलात् स्वभक्तकृपालुना हरिणा प्रेरितं मनस्तत्र बलाद्गच्छतीति भावः । इदमपि पदं प्रेरकान्तरावश्यम्भावसूचकम् । अत एवाऽह भगवान् भाष्यकार:- पुरुषावश्यमिति ॥ पुरुषेण वशीकर्तुमशक्यम् पुरुषावश्यमित्यर्थः । मन आदीन्द्रियाभिमानिदेवैस्सह पठितोऽपि प्राणो न तत्समानयोगक्षेम इति भावेनोक्तम्- प्राण: प्रथम इति ।। तस्यार्थमाह- सर्वोत्तम इति ॥ सर्वेभ्य इन्द्रियाभिमानिदेवेभ्योऽप्युत्तम इत्यर्थः ।
'स उ प्राणस्य प्राणः' इत्यत्र प्राक्कस्यापि परामर्शाभावात्तच्छब्दः स्वबुद्धिस्थवस्तुपरामर्शीति भावेनोक्तम्- ध्यात्वेति ॥
॥ इति प्रथमः खण्डः ।।
श्रीवेदेशतीर्थविरचितंविवरणम्
वे. विवरणम् –ननु श्रुतौ केनेषितमित्यादिप्रश्नः श्रोत्रस्य श्रोत्रमित्यादिपरिहारश्च प्रतीयते । तत्र प्रष्टा परिहर्ता च काविति न ज्ञायते । अतस्तौ दर्शयति- वैजयन्त इति ॥ वैजयन्तो नामान्तरिक्षस्थं ब्रह्मसदनम् । ‘जयन्तन्त्वन्तरिक्षगम्' इति वचनात् इदानीं केनेत्यादिप्रश्नवाक्यं व्याचष्टे- यदिदमिति ।। तत्र तत्र साधुष्वसाधुषु वा विषयेषु । अनेनेषितमित्येतदुक्तार्थम् । प्रेषितमित्यस्यार्थः प्रेरितमिति । न च मनः स्वत एवं याति करणस्य कर्तृप्रयोज्यत्वनियमात् । न च जीवप्रेर्यं मनः तदवश्यत्वादित्याह- पुरुषावश्यमिति ॥ न च मुख्यप्राणो जीवप्रेरित एव यातीति वाच्यम् । तस्यास्मदादिसर्वजीवोत्तमत्वात् । नच स त्वत्प्रेरितः त्वत्समत्वात् । नापि रमाप्रेरितः तस्या अपि परतन्त्रत्वेन मुख्यतः प्रेरकत्वायोगादिति भावेनाह- सर्वोत्तम इति ॥ अनेन प्रथमशब्दो व्याख्यातः । उपलक्षणमेतत् । तथाशब्दः केन प्रेरितो यातीत्यस्यानुकर्षणार्थः समुच्चयार्थो वा । समुच्चयार्थकद्वितीय- तथाशब्देन श्रौत उशब्द उक्तार्थः । चक्षुरादीनां जीवावश्यत्वस्य प्रत्यक्षत एव सिद्धत्वात् । स्वान्तत्र्यादिलक्षणक्रीडावान् देव एव तन्नियमको वक्तव्यः । स क इत्यर्थः । यदि नारायण एव मनआदिप्रेरकः तर्हि स किंलक्षणक इति प्रश्नाशयः श्रुतौ तस्मै सहोवाचेत्यादिपरिहारवाक्यत्वज्ञापकाभावाच्छ्रोत्रस्य श्रोत्रमित्यादि- परिहारवाक्यमिति न प्रतीयते । अतो मध्ये वक्तव्यमाह - इति पृष्ट इति ॥
ननु यच्छ्रोत्रस्य श्रोत्रं त्वया पृष्टं तत् स उ स एवेति परिहारवाक्ये स इति कस्य परामर्शः । पूर्वं कस्याप्यप्रकृतत्वादित्यतः चतुर्मुखध्यानप्रकृतनारायण- परामर्शोऽयमिति भावेनाह- ध्यात्वेति || यद्वा भगवत्स्वरूपोपदेशाय वक्ष्यमाणोपनिषत्प्रतिपाद्यगुणवद्भगवद्ध्यानलक्षणं मङ्गलं कृतं ब्रह्मणेत्याह- ध्यात्वेति ॥ श्रोत्रस्य श्रोत्रमित्यादिना तत्र तत्र स्थितस्य तत्तनियामकोत्त्या वा ‘यदिदमुपासते' इत्यनेन विनियामकतया तत्तज्जीवसमीपस्थत्वोत्तत्या वा 'येन प्राणः प्रणीयते' इति सर्वनियामकप्राणनियामकत्वोक्त्या वा सर्वाधारत्वम् 'अन्यदेव तद्विदितात्' इत्यादिनाऽनुपमत्वम्, 'येन वागभ्युद्यते' इत्यादिना सार्वज्ञं पूर्वोक्तरीत्या तत्तन्नियामकत्वोक्त्या वा 'ब्रह्म ह देवेभ्यो विजिग्ये' इति सर्वदैत्यदानवजयोत्त्या वा सर्वशक्तित्वम् । 'यत्प्राणेन न प्राणिति' इति पारतन्त्र्याभावोक्त्या तदुपलक्षितसर्वदोषवर्जितत्वं चोक्तमिति ज्ञेयम् ।
श्रीवेदेशतीर्थविरचितश्रुत्यर्थ:
वे. श्रुत्यर्थ:-सदाशिवो ब्रह्माणं पृच्छति - केनेति ॥ मनः केन प्रेषितं प्रेरितं सत् इषितं इष्टं साध्वसाधु वा प्रति पतति याति । मनस्तावत्करणत्वात्केनचित्प्रेर्यम् । न च जीव एव तत्प्रेरकः मनसस्तदधीनत्वेनादर्शनात् । अतो जीवभिन्नः कश्चित्तत्प्रेरको वाच्यः स क इति भावः । प्राणो मुख्यप्राणः केन युक्तो नियुक्तः प्रेरितः प्रति प्रकर्षेण स्वव्यापारं करोति । न च तस्य कश्विदस्मदादिजीव एव प्रेरकः । तस्यास्मदादिसर्वोत्तमत्त्वादिति भावेनाह - प्रथम इति ॥ सर्वजीवोत्तम इत्यर्थः । तव तु तत्समत्वात् । रमायाश्च परतन्त्रत्वान्न मुख्यतस्तत्प्रेरकत्वम् । मुख्यप्रेरक एव मया पृष्ट इति भावः । इमां प्रमाणप्रसिद्धां वाचं केन देवेनेषितां प्रेरितां वदन्ति विद्वान्सः । उ शब्दश्वशब्दार्थः । चक्षुःश्रोत्रं चेति सम्बन्धः । द्वन्द्वैकवद्भावोऽयं भिन्नपदं वा । युनक्ति प्रेरयति । वागादीनां जीवानधीनत्वदर्शनात् कश्चिद्देवो नियामको वाच्यः स च क इत्यर्थः । यदि मनआदीनां प्रेरको देवो नारायणस्तर्हि स किंलक्षणक इत्याशयः । अत्र मनोवाक्चक्षुःश्रोत्रशब्दैस्तदभि-मानिदेवाश्च ग्राह्याः । अत एव मुख्यप्राणप्रेरकप्रश्नो युक्तः । अन्यथेन्द्रियप्रेरक- प्रश्नप्रस्तावेऽनिन्द्रियभूतमुख्यप्राणप्रेरकप्रश्नोऽसङ्गगत इति ज्ञातव्यम् । उपलक्षण- मेतत् । इतरेन्द्रियनियामकप्रश्नोऽपि द्रष्टव्यः ॥ १॥
नृसिंहभिक्षुविरचिताउपनिषदार्थप्रकाशिका
व्यासतीर्थोक्तिमाश्रित्य श्रीपूर्णप्रज्ञनामकम् ।
नत्वा तं तलवकारोपनिषदर्थः प्रकाश्यते ॥
इह हि अमुत्र फलभोगविरक्तस्य शमदमादिमतो मुमुक्षोरधिकारिणो अनिष्टनिवृत्तये परमानन्दावाप्तये च सर्वोत्तमत्त्वेन वासुदेवं प्रतिपादयितुं तलवकारोपनिषत्प्रवृत्ता । तत्रादौ वैजयन्तपर्वताख्यस्वस्थाने समासीनं चतुर्मुखमुमापतिः पृच्छति - केनेति ॥ इषितमिष्टं साध्वसाधु वा प्रति पतति प्रवर्तते । तत्प्रवर्तनम् मनसो अस्वतन्त्रत्वात्स्वतो न युक्तं अतः केन प्रेषितं प्रेरितं पतति । प्रथमः प्राणो मुख्यो वायुः केन युक्तो नियुक्तः प्रैति सर्वव्यापारेषु प्रवर्तते । केनेषितां केन स्वतन्त्रपुरुषेण प्रेषितेन वागभिमानिदेवेन प्रवर्त्यमानां इमां श्रूयमाणां वाचं जना अभिवदन्ति । चक्षुः श्रोत्राभिमानिदेवौ क उ देवः कः स्वतन्त्रदेवः युनक्ति प्रेरयति ||१||
श्रीसत्यप्रियतीर्थविरचिताभाष्यविवृतिः
स.भाष्यविवृतिः –केनेषितमित्यादौ पृच्छकोत्तरदातारौ नैव संविदाते । तावददर्शत्- वैजयन्ते समासीनमिति || वैजयन्तः पर्वतविशेष इति व्यासतीर्थीये । वैजयन्तो नाम अन्तरिक्षस्थब्रह्मसदनम् । जयन्तन्त्वन्तरिक्षकमितिवचनादिति वेदशीय अत्र एकान्ते इत्यनेन ब्रह्मोपदेशस्य अनाविष्कार्यत्व- मनाविष्कुर्वन्नन्वयादिति सूत्रोक्तमसुसूचत् । हिरण्यगर्भमित्यनभिधाय चतुरानन- मित्युक्त्या च वाक्वमत्कृतिमदाननत्वं च चतुरशब्दस्य दक्षाभिधायकत्वात् दक्षं तु चतुर पेशलपाटव इति ह्यभिधानम् ।
सदाशिवः ब्रह्माणमपृच्छत् केनेषितमिति ॥ मनः पुरुषप्रयत्नागोचरः केन प्रेरिनं सत् इषितमिष्टं साध्वसाधु वा प्रति पतति याति । प्रथमः प्राणः मुख्यो वायुः केन युक्तो नियुक्तः प्रेरितः प्रति सर्वव्यापारेषु प्रवर्तते । केन इषितां केन
स्वतन्त्रपुरुषेण प्रेरितेन वागभिमानिदेवेन प्रवर्तमानामिमां श्रूयमाणां वाचं जनाः अभिवदन्ति । चक्षुःश्रोत्रं च को देवो युनक्ति प्रेरयति । अत्र मनोवाक् चक्षुरादिशब्दैः तदभिमानिदेवा रुद्रादयो ग्राह्याः । इन्द्रियप्रकरणे प्रथमः प्राण इति मुख्यप्राणस्यापि प्रश्नात् ||१||
श्रीवरदतीर्थभिक्षुविरचिताटीका
वरदतीर्थीयम्- तत्र केनेषितं पतति इत्यादिप्रश्नवाक्यस्य 'श्रोत्रस्य श्रोत्रं' इत्यादि परिहारवाक्यस्य च कर्तुरविज्ञायमानत्वात् तत्स्वरूपं ज्ञात्वार्पयन्नेव चोद्यपरिहारवाक्ये व्याचष्टे वैजयन्ते इत्यादिना श्रोत्रादिप्रेरकस्य
पूर्वमप्रकृतत्वात् कथं तस्य ' स उ प्राणस्य प्राणः' इति तच्छब्देन परामर्शः इत्यत्र बुद्धिसन्निहितत्वादेव न तु ग्रन्थप्रकृतत्वादिति भावेनाह- ध्यात्वेति । अनेनैव तदुपनिषदो ब्रह्मा ऋषिः, नारायणो देवता इति चोक्तं भवति ।
व.उ.मन्त्रार्थः- मनः मनइन्द्रियं केन पुरुषेण प्रेषितं सत् प्रेरितं सत् इषितं इष्टं पदार्थं प्रति पतति गच्छति । स पुरुषः कः । प्रथमः प्राणो मुख्यप्राणः पुरुषेण नियुक्तः सन् प्रैति प्रकर्षेण वर्तते । यां चेमां वाचं वागिन्द्रियं अभिवदन्ति जनास्तं वाचं केन पुरुषेण इषितां प्रेरितां वदन्ति । चक्षुः श्रोत्रं को देवो युनक्ति स्वस्य विषये योजयति सोऽपि क इति ||१||
अयं भावः । मनआदीनां करणत्वेनावश्यं कर्तृप्रेर्यतानियमात् प्रेरकः कश्चिदङ्गीकार्यः । न च जीवेन प्रेर्याणीति युक्तम् । अनिच्छतोऽपि विषयदर्शनान्तस्येन्द्रियवशीकरणायोगात् । अत एषां मनआदीनां मुख्यतया यः कर्ता प्रवृत्यादिकर्ता पुमान् तं व्याचष्टे ।
श्रीराघवेन्द्रयतिविरचितःतलवकारोपनिषत्खण्डार्थः
अनन्तगुणपूर्णाय दोषदूराय विष्णवे ।
नमः श्रीप्राणनाथाय भक्तेभ्योऽभीष्टदायिने ।।
अस्या उपनिषदो विरिञ्चशिवसंवादरूपत्वात्तावत्र ऋषी ज्ञेयौ । देवता तु ब्रह्मशब्दोदितो विष्णुः । छन्दस्त्वक्षरपरिगणनया त्रिष्टुबादि यथायोग्यं ज्ञेयम् । जानन्नप्युमापतिर्विशेषज्ञानार्थं वा, ज्ञातस्य दाढयर्थं वा, लोकानुग्रहार्थं वा सर्वेन्द्रियप्रेरकं पृच्छति ब्रह्माणं - केनेत्यादिना || इषितम् इष्टं साध्वसाधु वा प्रति मनः केन देवेन प्रेषितं प्रेरितं सत् पतति गच्छति । करणत्वादवश्यं केनचित् प्रेरितमिति वाच्यम् । न तावज्जीवेन, निगृह्णतोऽपि विषयान् प्रति पतनात् । अतो बलवता देवेनैव प्रेरितमिति वाच्यम् । स क इति प्रश्नाभिप्रायः एवमग्रेऽपि । इषितमितीडागमः छान्दसः । मुख्यवायुरस्तु मनः प्रेरक इत्यत आह- केनेति ॥ प्रथमः सर्वजीवोत्तमः, प्राणो मुख्यवायुरपि केन युक्तः नियुक्तः प्रेरितस्सन् प्रैति याति, स्वं व्यापारं करोतीत्यर्थः । तस्यापि पारतन्त्र्यात् न मनः प्रेरको वायुरिति भावः । इमां लौकिकीं वैदिकीं वा वाचं केन इषितां प्रेरितां वदन्ति जनाः इत्यर्थः । चक्षुः श्रोत्रमिति प्राण्यङ्गत्वादेकवद्भावः । उ सम्बुद्धिः । भो ब्रह्मन् को देवो युनक्ति नियुङ्क्ते, कः प्रेरयतीत्यर्थः ||१||