यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम्
अथ द्वितीयखण्ड:
ब्रह्मणः साकल्येनाज्ञेयत्वकथनम्
उपनिषत्
यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते ( मन्ये विदितं ) ॥ १ ॥
श्रीव्यासतीर्थविरचितंविवरणम्
व्यासतीर्थीयम्— ब्रह्म साकल्येन ज्ञातुमशक्यमित्युक्तमुपपादयति- यदीति ।। यदि त्वं ब्रह्म अहं वेदेति मन्यसे तर्हि त्वमपि नूनं दहरमेव ब्रह्मणोऽरूपं वेत्थ ब्रह्मणोऽनन्तत्वादित्यर्थः । यत् यस्माद्दहरमेव वेत्थ । अथ तस्मात् त्वं त्वयि देवेषु चास्य ब्रह्मणो यद्रूपं तत्ते मीमांस्यमेव ।
श्रीवामनपण्डितविरचिताटीका
वामनटीका - अथापि 'विद्धि' इत्यभ्याससामर्थ्यात् केनचित् सुविदितं भवितुमर्हति ब्रह्मेति श्रतुमनःशङ्कां स्वयमेवाऽशङ्कय परिहरति- यदि मन्यस इति ॥ यदि कश्चित् सुतरां वेद ब्रह्म इति मन्यसे, अहं सुवेदेति वा, तर्हि त्वं दहं स्वहृदयस्थमेव ब्रह्मणो रूपं नूनं न वेत्थ । यदस्य त्वं यदस्य देवेषु, यदस्य ब्रह्मणः त्वंशदितं रूपं प्रतियोगित्वात् त्वद्गतत्वाद् वा यच्चास्य देवेषु नियामकत्वेन स्थितं रूपं तदुभयमपि न वेत्थ किंपुनः सर्वगं रूपम् ? एतेष्वेकमपि रूपं न वेत्थ चेत् सुवेद्यं सुवेदेति कथमेव मन्येथाः ? अथ तस्मादज्ञस्य तव मीमांस्यमेव ब्रह्मेति अहं मन्ये । अथनुशब्दात अथवा नैवं त्वं मन्यस इति पक्षान्तरं च सूचितम् । अत्र पुनः 'ते मीमांस्यम्' इति कर्तृविशेषांक्तः आत्मनो मीमांसिनमवेति च सूचयति ।
श्रीवेदेशतीर्थविरचितंविवरणम्
वे. विवरणम् - 'यदि मन्यसे सुवेदेति' इत्यारभ्य 'नाहमन्ये सुवेद' इत्यन्तवाक्ये रुद्रब्रह्मभ्यामंत्र साकल्यंनाज्ञेयत्वं विष्णोरुक्तं न सर्वैरित्यतस्तत्कैमुत्यसिद्धमिति- भावन तत्तात्पर्यमाह- यमिति ॥ सम्यगित्यस्य विवरणं निरवशेषत इति ।
श्रीवेदेशतीर्थविरचितश्रुत्यर्थ:
वे. श्रुत्यर्थ:- ननु यदुक्तं नो मन इति मनोऽभिमानिदेवताज्ञेयं ब्रह्मेति तदयुक्तम् । तदभिमानीन्द्राद्यज्ञेयत्वेऽपि मया सम्यक् ज्ञातुं शक्यत्वादिति रुद्रस्याशङ्कां परिहरति- यदीति ॥ हे रुद्र त्वं यदि ब्रह्माहं सुवेदेति मन्यसे तर्हि त्वमपि इतरवत् ब्रह्मणो रूपं स्वरूपं नूनं दहरं अल्पमेव वेत्थ ब्रह्मस्वरूपमात्रज्ञानित्वेऽपि तस्य साकल्येनाज्ञेयत्वाज्ञानात् । तस्यापरिच्छिन्नत्वात् । तव च तत्परिच्छिन्नत्ववेत्तृत्वाद्वेति भावः । यद्यस्मात् त्वं, दहरमल्पमेव वेत्त्थ जानीयाः अथ तस्मात् अस्य ब्रह्मणो यद्रूपं त्वं, प्रथमा सप्तम्यर्थे । त्वयि वर्तते । अस्य ब्रह्मणो यद्रूपं देवेषु वर्तन तत् ते त्वया नु इदानीमपि मीमांस्यमेव ।।१।।
नृसिंहभिक्षुविरचिताउपनिषदार्थप्रकाशिका
नृसिंहप्रकाशिका - ब्रह्म साकल्येन ज्ञातुं न शक्यमित्युक्तमुपपादयति- यदीति । यदि त्वं ब्रह्माहं सुवेदाते मन्यसे । तर्हि त्वमपि नूनं निश्चयेन दहरं अल्पमेव ब्रह्मणो रूपं वेत्थ । ब्रह्मणोऽनन्तत्वात् । यत् यस्मात् । दहरं अल्पं वेत्थ । तस्मात् त्वं त्वयि अस्य यद्रूपं वेद वेत्थ यद्देवेष्वपि अस्य यद्रूपं तद्रूपं ते त्वया नु निश्चयेन मीमांस्यमेव । अस्तु त्वदतिरिक्तः सर्वोऽपि जन: ब्रह्म न सम्यक् वेदेति ||१||
श्रीसत्यप्रियतीर्थविरचिताभाष्यविवृतिः
स.. भाष्यविवृतिः - इतः परं ब्रह्म ह देवेभ्यो विजिग्ये इत्यतोऽर्वाक्ति-नोग्रन्थः अन्यदेव तद्विदितात् अथो अविदितादित्युक्तसाकल्येनाविदितत्वैकदेश-विदितत्वयोः प्रपञ्चयिषया प्रववृते । हे रुद्र अस्य ब्रह्मणः यत् प्रवर्तकं रूपं त्वं वेत्थ तदहं सुवेदेति त्वं यदि मन्यसे तदयुक्तम् । यतो अनन्तमपि ब्रह्मणो त्वं नूनं दहरमेव वेत्थ । जानीषे । यद्यस्मात् दहरमल्पमेव वेत्थ अथ तस्मात् अस्य ब्रह्मर्णो यद्रूपमध्यात्मं मन आदिदेवेषु अधिदैवं सूर्यादिदेवेषु चास्ति तत्तु ते तव नु इदानीं मीमांस्यमेव त इति कृत्यानां कर्तरि वेति षष्ठी ।
व.उ.मन्त्रार्थः- ब्रह्मसाकल्येन ज्ञातुमशक्यमित्युक्तमुपपादयति- यदीति । भो महेश्वर यदि त्वं अहं ब्रह्म सुवेद सम्यग्वेदेति मन्यसे तर्हि त्वं नूनं निश्चितं ब्रह्मणोरूपं ब्रह्मस्वरूपं दहरमेव अल्पमेव वेत्थ न साकल्येन जानासीत्यर्थः । अथ तस्मात् कारणात् अस्य ब्रह्मणः यद्रूपं त्वयि स्थितं यच्चरूपं देवेषु स्थितं तद्रूपं ते मीमांस्यमेव विचार्यमेव ||१||
श्रीराघवेन्द्रयतिविरचितःतलवकारोपनिषत्खण्डार्थः
खण्डार्थः– ब्रह्म साकल्येन न ज्ञेयमित्युक्तमर्थं व्यनक्ति- यदि मन्यस इत्यादिना ।।
हे महश्वर, अहं सुवेद ब्रह्म सम्यग्जानामीति यदि मन्यसे तर्हि त्वमपि नूनं दहमेव अल्पमेव ब्रह्मणां रूपं वेत्थ, तस्यानन्तत्वादिति भावः । यत् यस्मात् दहरमेव वेत्थ अथ तस्मात् त्वं त्वयि व्यत्ययात्, देवेषु वाऽस्य ब्रह्मणो यद्रूपं, तदिति शेषः, मीमांस्यमेव विचार्यमेव नु इदानीं ते त्वयेति ॥ १ ॥