ब्रह्मेति होवाच

चतुर्थः खण्डः

ब्रह्मेति होवाच । ब्रह्मणो वा एतद्विजयेऽमहीयध्वमिति । ततो ह वै विदाञ्चकार ब्रह्मेति ॥ १ ॥

तस्माद् वा एते देवा अतितरामिवान्यान् देवान् यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पृशुः ॥ २ ॥

ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३ ॥

तस्माद्वा इन्द्रोऽतितरामिवान्यान् देवान् । स ह्येनन्नेदिष्ठं पस्पर्श । स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥ ४ ॥

तस्यैष आदेशो यदेतद् विद्युतो व्यद्युतदा३ इति । न्यमीमिषदा३ इत्यधिदैवतम् । अथाध्यात्मम् ॥ ५ ॥

यदेतद्गच्छतीव च मनोऽनेनैव तदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ ६ ॥

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यम् । स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥ ७ ॥

उपनिषदं भो ब्रूहीति । उक्ता त उपनिषद् । ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ८ ॥

तस्मै तपो दमः कर्मेति प्रतिष्ठा । वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ९ ॥

यो वा एतामुपनिषदमेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति ज्येये प्रतितिष्ठति ॥ १० ॥

॥ इति चतुर्थः खण्डः ॥

इति तलवकारोपनिषत्

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं तलवकारोपनिषद्भाष्यं समाप्तम् ॥

उमा सा सम्यगाचष्ट तस्मै विष्णुं परं पदम् ।

यस्माद् ब्रह्मा च वायुश्च शेषवीन्द्रौ शिवस्तथा ॥

सभार्या गर्विणो नासन् सुरेभ्यस्तेऽधिकास्ततः ।

इन्द्रस्तु प्रथमं ब्रह्म व्यजानात् तेन तूत्तमः ॥

दक्षादिभ्यस्तथा कामः स ज्ञातुं पूर्वमुक्तवान् ।

दक्षो बृहस्पतिश्चैव मनुः कामात्मजस्तथा ॥

सूर्याचन्द्रमसौ धर्मो वरुणश्चोचुरोमिति ।

नासिक्यवायुरग्निश्च प्रथमं तदपश्यताम् ॥

सर्वदेवाधिकास्तस्माद् एते देवाः प्रकीर्तिताः ।

एतेभ्यश्चेन्द्रकामौ तु ताभ्यां ब्रह्मादयोऽधिकाः ॥

एतेषामवमो वह्निः परमो विष्णुरुच्यते ।

अन्तराले स्थितास्त्वन्ये ब्रह्माद्याः पूर्वमीरिताः ॥

अग्निः पश्चाद्व्यजानात् तदिन्द्रवाक्यात् ततोऽवमः ।

तस्माद्विष्ण्वभिसम्बन्धात् पारावर्यं सुरेष्विदम् ॥

व्यद्योतयद्विद्युदादीन् कपिलाख्यस्तु यो हरिः ।

अक्ष्णोर्निमेषणं कृत्वा यः शेते क्षीरसागरे ॥

स एवैकः परं ब्रह्मेत्येवं तस्योपदेशनम् ।

अधिदैवे तथाऽध्यात्मे यं मनो गच्छतीव च ॥

सम्यङ् न गच्छति क्वापि मनो येन स्मरत्यपि ।

सोऽनिरुद्धाख्य ईशेशः परं ब्रह्मेति कीर्त्यते ॥

स विष्णुस्तद्वनं नाम ततत्वाद् वननीयतः ।

एवमेनं तु यो वेद भवेत् सर्वैरपेक्षितः ॥

एतत् श्रुत्वा हरोऽपृच्छद् ब्रह्माणं पुनरेव तु ।

विद्याकारं मम ब्रूहीत्युक्तो ब्रह्माऽऽह तं पुनः ॥

विद्यावेद्यं तव प्रोक्तमास्थानं ते वदाम्यहम् ।

तपोदानस्वधर्मेषु ये स्थितास्तेषु तिष्ठति ॥

विद्यास्थानानि तस्यास्तु वेदा अङ्गानि निर्णयः ।

वेदैतामेवमखिलां यो विष्णौ प्रतितिष्ठति ॥

इत्यादि ब्रह्मसारे ॥

विद्युतः सूर्यादिप्रकाशान् । आसमन्ताद्व्यद्युतत्प्राकाशयत् ।

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ इति वचनात् ।

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति इति च ।

न्यमीमिषदा आ समन्तान्निमीलिताक्षमभवत् ।

स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि ।

अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मा निशि सुप्तशक्तिषु ॥ इति वचनात् ।

पूर्णत्वाच्च आः । अभीक्ष्णं सङ्कल्प इति मनसो विशेषणम् । सङ्कल्पकमित्यर्थः । सप्रतिष्ठां सायतनामुपनिषदं ब्रूहीत्युक्ते सम्यगेव मयोपनिषत्स्वरूपमुक्तम् । तत्र वक्तव्यं नास्ति ।

तपो दमः कर्म च विद्यायाः प्रतिष्ठा । तद्वत्सु विद्या प्रतितिष्ठतीत्यर्थः । सत्यमिति मीमांसा ।

निर्णीयते यतः सम्यगिदं सत्यमिति स्फुटम् ।

श्रुतिस्मृत्युदितं सर्वं व्यक्तं मीमांसयैतया ॥

सत्यमित्युच्यते तस्मान्मीमांसा ब्रह्मनिश्चयाः ॥

इति शब्दनिर्णये ॥

ऋग्यजुस्सामाथर्वाख्याः पञ्चरात्रं च भारतम् ।

मूलरामायणं चैव पुराणं भगवत्परम् ॥

वेदा इत्युच्यते सदि्भः शिक्षाद्यं स्मृतयस्तथा ।

अङ्गानि सत्यं मीमांसा तद्विद्यायतनं त्रयम् ॥

इति विद्यानिर्णये ॥ यश्चिदानन्दसच्छक्तिसम्पूर्णो भगवान् परः ।

नमोऽस्तु विष्णवे तस्मै प्रेयसे मे परात्मने ॥