श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः
ब्रह्मणः सर्वेन्द्रियप्रेरकत्ववर्णनम्
उपनिषत्
श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥२॥
भाष्यम्
यः प्राणस्य प्रणेता च चक्षुरादेश्व सर्वशः ।
अगम्यस्सर्वदेवैश्व परिपूर्णत्वहेतुतः ॥
प्राणादीनां प्रणेता च सर्ववेत्ता च सर्वशः ।
सर्वोत्तमश्च सर्वत्र स विष्णुरिति धार्यताम् ॥
॥ इति प्रथमः खण्डः ॥
श्रीव्यासतीर्थविरचितंविवरणम्
व्यासतीर्थीयम्– यः प्राणस्य प्रणेता चक्षुरादेश्च प्रणेता स विष्णुरवधार्यतामिति सम्बन्धः । चक्षुरादिप्रणेतृत्त्ववेत्तुः फलमाह - अतिमुच्येति ॥ अस्माल्लोकात्प्रेत्य गत्वाऽतिमुच्य संसारादमृताभवन्तीति सम्बन्धः । कीदृशं भगवतः प्राणादिप्रेरकत्व- मिति जिज्ञासायां तत्र चक्षुराद्यप्रवृत्तेः कीदृशं तदिति न जानीम इत्याह- न तत्र चक्षुरिति ॥ तद्व्याचष्टे - अगम्य इति ।। सर्वात्मना चक्षुराद्यगम्यस्तर्हीत्यत आह- अन्यदेवेति । विदिताज्जगतोऽविदिताच्छशविषाणादेरन्यदेव तत् । तत्राधीत्यस्यार्थमाह- सर्वोत्तमश्च सर्वत्रेति ॥
श्रीवामनपण्डितविरचिताटीका
वामनटीका - ‘यः प्राणस्य प्रणेता च' इत्यादिना 'श्रोत्रस्य श्रोत्रम्' इत्यादि परिहारवाक्यं विवृणोति । यः प्राणादीनां प्रणेता स सर्वदेवैरप्यगम्यः, अनन्तगुणत्वात् । एवंलक्षणको लोकविलक्षणः पुरुषः क इत्याकाङ्क्षायामाह- प्राणादीनामिति ॥ योऽसौ प्राणादिप्रणेता, अत्यन्तविलक्षणः सः सर्वत्र सर्वदेशकालेषु सर्ववेदशास्त्रेषु च विष्णुरिति धार्यताम् निर्धार्यताम् । 'विष्णुरेव हि तच्छ्रुतेः' इति सूत्रात् । तन्निर्धारणफलमाह - 'अतिमुच्य' इति । एवं सर्वाधिको विष्णुरिति या बुद्धिः सैव धीरित्युच्यते । तत्र रताः धीराः । ते पापकृतीः अतिमुच्य अस्माल्लोकात् प्रेत्य अमृता भवन्ति ।।
श्रीवेदेशतीर्थविरचितंविवरणम्
वे. विवरणम् - इदानीं श्रोत्रस्य श्रोत्रमित्यादिपरिहारवाक्यं व्याचष्टे - यः प्राणस्येति ॥ श्रुतौ क्रमाविवक्षयोक्तावपि स्वयं मुख्यत्वक्रममनुसृत्य प्राणस्य प्रणेता चेत्यादावुक्तम् । आदिपदेन श्रोत्रवामनसां ग्रहणम् । न केवलं एतावत एव नियामकः किन्त्वन्येषां ज्ञानकर्मेन्द्रियाणामपीत्याह- सर्वशः सर्वस्येति ॥ अनेन श्रुतौ प्रश्नपरिहारवाक्यगतं मनआदिपदमुपलक्षणपरमिति सूचितम् । यच्छब्दस्य स विष्णुरित्युत्तरेण तच्छब्देनान्वयः । 'न तत्र चक्षुर्गच्छति' इत्यादिवाक्यं चक्षुरादिपदेन जडेन्द्रियमात्रमुच्यत इति प्रतीतिनिरासाय व्याचष्टे- अगम्यः सर्वदेवैश्चेति ॥ श्रुत्युक्तमुपलक्षणमितिभावेन वा न विद्म न विजानीम' इति ब्रह्माज्ञेयत्वोक्त्या तदवरसर्वदेवाज्ञेयत्वमुक्तप्रायमेवेति भावेन वा सर्वदेवैरित्युक्तम् । ‘येन प्राणः प्रणीयत' इति वाक्यं व्याचष्टे - प्राणादीनामिति ॥ अत्रापि श्रुत्युक्त- मुपलक्षणमितिभावेन वा, रुद्रादिसर्वनियामकप्राणनियामकत्वोत्त्या तन्नियामकत्व- मुक्तप्रायमेवेति भावेन वा प्राणादीनामित्यादिपदप्रयोगः । येन वागभ्युद्यते' ‘येनाहुर्मनो मतं’ ‘येन चक्षूंषि पश्यन्ति' ' येन श्रोत्रमिदं श्रुतम् इति वाक्यजातस्य तात्पर्यमाह- सर्ववेत्ता चेति ॥ रमादीनामपि सर्ववेत्तृत्वादाह - सर्वशः सर्वापेक्षयेति ॥ अविदितादधीत्युक्ताधीत्यस्यार्थमाह- सर्वोत्तम इति ॥ देशकालान्तरयोरन्यः सर्वोत्तमः किं नेत्याह- सर्वत्रेति ॥
|| प्रथमः खण्डः ॥
श्रीवेदेशतीर्थविरचितश्रुत्यर्थ:
वे. श्रुत्यर्थ:- एवं शिवेन पृष्टश्चतुर्मुखो नारायणं ध्यात्वा परिहारमाह- श्रोत्रस्येति ॥ यत् श्रोत्रस्य श्रोत्रं श्रोत्रत्वप्रदं त्वया पृष्टं यन्मनसो मनः मनस्त्वप्रदं पृष्टं यच्च वाचो ह वाचं वाक्त्वप्रदं पृष्टं, यश्च प्राणस्य मुख्यप्राणस्य प्राणत्वप्रदः पृष्टः, यच्चक्षुषः चक्षुष्ट्वप्रदं पृष्टं उपलक्षणमेतत् यच्चान्येन्द्रियनियामकं पृष्टं तत् स उ स एव मम ध्यानविषयीभूतो नारायण एवेत्यर्थः । श्रोत्रादीन्द्रियदेवतानियामको, नारायण इति वेत्तुः फलमाह- अतिमुच्येति ॥ धीरा मनोधैर्यवन्तः श्रोत्रस्य श्रोत्रमित्याद्युक्तप्रकारेण नारायणं प्रेत्य प्रकर्षेण ज्ञात्वा तमपरोक्षीकृत्येति यावत् । अस्माल्लोकात् चरमत्वेन प्रसिद्धाच्छरीरात्प्रत्य हृदयाग्रप्रज्वलनप्रकाशितद्वारत्वादिलक्षणप्रकर्षेण गत्वा अतिमुच्य प्रारब्धकर्मणेति शेषः । अमृता मुक्ता भवन्तीत्यर्थः ॥ २ ॥
नृसिंहभिक्षुविरचिताउपनिषदार्थप्रकाशिका
नृसिंहप्रकाशिका - एवमुमापतिना पृष्टश्चतुराननो नारायणं ध्यायन् उत्तरमाह - श्रोत्रस्येति ॥ श्रोत्रस्य श्रोत्रं मनसां मनः, वाचो ह यद्वाचं वाक्, चक्षुषश्चक्षुः श्रोत्रादिदेवानां श्रवणादिव्यापारजनकशक्तिप्रदत्वेन मुख्यप्राणस्यापि सर्वचेष्टकत्वशक्तिप्रदत्वेन वा त्वया पृष्टः प्रेरकः स उ विचारपूर्वं प्राणादि- सर्वदेवप्रेरकत्वेन मया ध्यानः स विष्णुरेव । एवं वेत्तुः फलमाह अतिमुच्येति ॥ अस्मान् लोकात् देहात् प्रेत्य मृत्वेत्यर्थः । संसारादतिमुच्य अमृताः स्वरूपानन्दानुभविनो भवन्ति ||२||
श्रीसत्यप्रियतीर्थविरचिताभाष्यविवृतिः
स. भाष्यविवृतिः-एवमुमापतिना पृष्टश्चतुराननो नारायणं ध्यात्वा उत्तरमवोचत - श्रोत्रस्य श्रोत्रमिति ॥ यत् श्रोत्रस्य श्रोत्रं श्रोत्रत्वप्रदं त्वया पृष्टं यन्मनसां मनः मनस्त्वप्रदं यच वाचो ह वाचं वाक्तत्वप्रदं वाचमिति द्वितीया प्रथमार्थे सुपां सुपो भवन्तीति वचनात् । यश्च प्राणस्य मुख्यप्राणस्य प्राणः प्राणत्वप्रदः यच्चक्षुषश्चक्षुः चक्षुष्ट्वप्रदम् उपलक्षणमेतत् । यच्चान्येन्द्रियनियामक- त्वमप्राक्षीः तत् सउ स एव मम ध्यानविषयीभूतो नारायण एवेत्यर्थः ।
श्रोत्रादीन्द्रियतद्देवतानियामकः नारायण इति वेदितुः फलमभ्यधात्- अतिमुच्येति ॥ धीराः धीमन्तः प्राणादिसर्वप्रेरकत्वेन विष्णुज्ञाः अस्माल्लोकात् देहात् प्रेन्य मृत्वा संसारादतिमुच्य अमृताः स्वरूपानन्दानुभविनो भवन्ति ।
तदेतदाख्यासीत् भाष्यकारः । 'यदिदं पुरुषावश्यम्' इत्यारभ्य 'चक्षुरादेश्च सर्वशः’इत्यन्तेन । अत्र च भाष्ये 'चक्षुश्रोत्रं तथावाचम्' इत्यत्र चक्षुश्रोत्रवाक् शब्दानां देवतापरत्वे विनियोजयेदिति स्वार्थिको णिच् । इन्द्रियपरत्वे हेतुमण्णिच्च । खण्डस्थसइत्यनेन पराम्रष्टव्यार्थं ध्यात्वा 'नारायणं वन्दे? इत्यस्मादारभ्य 'दोषवर्जितम्' इत्यन्तेन अचकथ
अत्र सर्वाधारत्वादिगुणविशिष्टस्य ब्रह्मणो ध्यानम् । एतद्गुणविशिष्टस्यैव तच्छब्देन परामर्शश्च एतेषां गुणानां ध्यातृब्रह्मदृष्टं एतदुपनिषद्वाक्यप्रतिपाद्यत्वात् अवजग्माते । तथा हिं श्रोत्रस्य श्रोत्रमित्यादिना तत्र तत्र स्थितस्य तत्तन्नियामकत्वोक्त्या वा यदिदमुपासत इत्यनेन नियामकतया तत्तज्जीवसमीप- स्थत्वोक्त्या वा सर्वाधारत्वं अन्यदेवतद्विदितादित्यनौपमत्वम्, येन बागभ्युद्यत इत्यादिना सार्वज्ञं, बागादिशब्दानां तद्विषयोपलक्षकत्वात् पूर्वोक्तरीत्या तत्तन्नियामकत्वोक्त्या ‘ब्रह्म ह देवेभ्यो विजिग्य' इति सर्वदैत्यदानवजयोक्त्या वा सर्वशक्तित्वम् 'यत्प्राणेन न प्राणिति' इति पारतन्त्र्याभावोक्त्या तदुपलक्षितसर्वदोषवर्जितत्वं च अवाचिषतेति ज्ञेयम् ।
अनौपमम् । उपमैव औपमम् । स्वार्थिको अण् । न विद्यते औपमं यस्यासौ अनौपमः । तं अनौपमम् । यद्वा उपमाया अयं औपमः सोपम इति यावत् । ततो नञ्समानाधिकरणतत्पुरुषः ।
श्रीवरदतीर्थभिक्षुविरचिताटीका
वरदतीर्थीयम् –अथ 'श्रोत्रस्य श्रोत्रम्' इति परिहारवाक्यं व्याचष्टे - य इति ॥ प्राणस्य मुख्यप्राणस्य सर्वशः चक्षुरादीन्द्रियगणस्य च य: प्रेरकस्त्वया पृष्टः स विष्णुरिति धार्यतां अवधार्यतामित्यर्थः ।
व.उ. मन्त्रार्थ:- परिहारमाह श्रोत्रस्य श्रोत्रमित्यादिना । यद्वा अस्तु श्रवणशक्तिप्रदानेन श्रोत्रस्य श्रोत्रं मननशक्तिप्रदानेन मनसोऽपिमनस्त्वप्रदं एवं वचनशक्तिप्रदानेन वागिन्द्रियस्यापि वागिन्द्रियत्वप्रदम् । प्राणप्रेरकत्वात् प्राणस्यापि प्राणं, दर्शनशक्तिप्रदत्वात् चक्षुषोऽपि चक्षुः त्वया पृष्टं तद्वस्तु स उ सविष्णुरेवेत्यर्थः ||२||
श्रीराघवेन्द्रयतिविरचितःतलवकारोपनिषत्खण्डार्थः
खण्डार्थ:-इति शिवेन पृष्टो ब्रह्मोवाचेति योज्यम् । यत् यः श्रोत्रस्य श्रोत्रं श्रवणशक्तिप्रदः, मनसो मनः मननशक्तिप्रदः, वाचो वागिन्द्रियस्य वाचं वागुच्चारणशक्तिप्रदः, प्राणस्य मुख्यवायोः प्राणः प्रणेता, चक्षुषः चक्षुः दर्शनशक्तिप्रदः, श्रोत्रादेर्नियन्ता यस्त्वया पृष्टः स इत्यन्वेति । स उ स एव, प्रसिद्धां विष्णुरेवेत्यर्थः । स इत्यस्यावृत्तिर्वा । तदाह भाष्ये ' यः प्राणस्य चक्षुरादेश्च प्रणता स विष्णुरिति धार्यताम्' इति । 'प्राणस्य प्राणमुत चक्षुषश्चक्षुः' इत्यादिकाण्वश्रुतेः, 'प्राणादयो वाक्यशेषात्’(ब्र.सू.१-४-१३)इति सूत्रात् तत्र प्राणादिनियन्तुर्विष्णुत्वनिर्णयादिति भावः । श्रोत्रादिप्रेरकज्ञानिनः फलमुच्यते - अतिमुच्येति ॥ धीराः धीमन्तः श्रोत्रादिप्रेरकत्वं विजानन्तः अस्माल्लोकात् भौतिकदेहात् प्रेत्य निर्गत्य, मृत्वेति यावत्, अतिमुच्य लिङ्गबन्धं हित्वा अमृता मुक्ता भवन्तीति ।। २ ।।