अनन्तगुणपूर्णत्वादगम्याय सुरैरपि । सर्वेष्टदात्रे देवानां नमो नारायणाय ते

तलवकारोपनिषद्भाष्यम्

भाष्यम्

मङ्गलाचरणम् -

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्

अनन्तगुणपूर्णत्वादगम्याय सुरैरपि ।

सर्वेष्टदात्रे देवानां नमो नारायणाय ते ॥

श्रीव्यासतीर्थविरचितंविवरणम्

जाजडात्मकं विश्वं कृत्वाधिष्ठाय संहरन् ।

स्वभावात्क्रीडते यस्तं वन्दे श्रीमध्ववल्लभम् ॥

योऽसुरानजयद्देवहृदयस्थस्तदर्थतः ।

ददौ चाभीष्टमिष्टेभ्यस्तं वन्दे मध्ववल्लभम् ॥

तलवकारोपनिषदं यथावद्व्याचिरख्यासुः भगवान् आनन्दतीर्थमुनिः तदुक्तगुणै- रुपश्लोकयन्नारायणं प्रणमति - अनन्तेति ॥ ' न तत्र चक्षुर्गच्छति' इत्यादिना सुरैरप्यगम्यत्वमुक्तं तत्सर्वथा दर्शनायोग्यत्वात्किमित्यत उक्तम्- अनन्तगुण- पूर्णत्वादिति । ब्रह्म ह देवेभ्यो विजिग्ये' इत्यादिनोक्तं सर्वेष्टदातृत्वम् ।

श्रीवामनपण्डितविरचिताटीका

वन्दे विष्णुं रमानाथमगण्यगुणवारिधिम् ।

निर्दोषं सर्वकर्तारं सर्वाभीष्टप्रदं सदा ॥ १ ॥

श्रीमन्मध्वमहाचार्यं तच्छिष्यान् परमान् गुरून् ।

तच्छिष्यान् स्वगुरूंश्वापि वन्देऽथो सर्वसज्जनान् ॥२॥

माध्वं तलवकारोपनिषद्भाष्यं महार्थवत् ।

व्याख्यास्यामो यथाबोधं विष्णुदेवप्रसत्तये ॥ ३ ॥

अनन्तगुणपूर्णत्वात्' इत्यादिश्लोकेन श्रीमध्वाचार्यो भगवान् तद्भाष्यमारभमाणः स्वेष्टदेवतायै नारायणाय 'नमस्करोति शिष्टाचाररक्षणार्थम् । अत्र सम्बोधनाभावात् 'ते नमः' इत्युक्तं कथमिति चेत्, “अनभिमुखस्य प्रतियोगिनोऽभिमुखीकरणं हि सम्बोधनंनाम  । इह तु नित्याभिमुखत्वाद् विष्णोस्तात्कालिकसम्बोधन- मन्तरेणापि तुभ्यमित्यादिव्यवहारो युज्यते । अस्य भगवतो नारायण एवं गुरुरिति तन्नमस्कारोऽप्यत्रैव कृतो भवति । अत्र पुनः 'केनेषितम्' इत्याद्युपनिषदभि- प्रेतार्थसूचनात् तद्भाष्यमिदं क्रियत इति वस्तुनिर्देशोऽप्यर्थतः कृत एव स्यात् । अधिकार्यादयश्चात्र सूचिता भवन्ति । नन्तृनम्यावधिकारिविषयौ । सर्वेष्टस्वीकारः फलम् । एवं चेदिदंदेवानाम्' इत्येषोक्तत्वात् मनुष्याणां न किञ्चित् फलमनु- ज्ञातमिति चेत्, मैवम्, देवानां सर्वेष्टद इत्युक्त्या तदवराणां मनुष्याणामल्पेष्टदः, तद्विरुद्धानामसुराणां सर्वानिष्टद इत्युपलक्षितम् । 'सुरैरप्यगम्याय' इति प्रत्यक्षादि- विवक्षयैवाक्तत्वात् तैरपि जिज्ञास्यो भगवानागमैरिति गम्यते । 'अथ नु मीमांस्यमेव ते मन्ये' इति वचनाच्च । अतो जिज्ञास्यजिज्ञासुभावः सम्बन्धः।

श्रीवादिराजतीर्थविरचिताप्रकाशिका

दयाद्विद्यां हयग्रीवः पद्मा दद्याच्छ्रियं मम ।

विद्वान् मध्वो बुद्धिशुद्धिं दद्यादद्य महर्धिमान् ॥ प्रणम्य कमलाकान्तमनन्तं चिन्तितार्थदम् ।

कुर्वे तलवकारोपनिषद्भाष्यस्य टिप्पणीम् ॥

तलवकारोपनिषदं व्याचिरख्यासुर्भगवानानन्दतीर्थमुनिस्तदुक्तगुणवत्तया भगवन्तं स्तुवन् प्रणमति - अनन्तगुणपूर्णत्वादिति ॥ तन्न व्यजानन्त किमिदं यक्षम्इत्यस्यार्थकथनम्अगम्याय सुरैरपि' इति । 'तस्मिन्नैवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीम् इति पार्वतीमुखेनेन्द्रादीनां ज्ञानदानस्योक्तत्वात् 'देवानां सर्वेष्टदात्रे' इत्युक्तम् ।

श्रीवेदेशतीर्थविरचितंविवरणम्

प्राणादेरीशितारं निखिलगुणनिधिं सर्वदेवाद्यगम्यं

व्यक्ताव्यक्तात्परं तं परमसुखनिधिं सर्वदोषातिदूरम् ।

सर्वज्ञं सर्वदेवेष्टदमपि निखिलं भासयन्तं स्वभासा

न्दे विष्णुं सदाहं निखिलगुणसमूहात्परं मुक्तगम्यम् ॥ १ ॥

निखिला द्वैतसिद्धान्तप्राप्ताज्ञानविनाशकः ।

श्रीमदाचार्यसूर्योऽयं दद्यात्तत्त्वप्रकाशनम् ।। २ ।।

श्रीमदाचार्यसान्निध्यबलाद्यस्तस्य भाववित् ।

प्रकटीकृत्य तं सम्यग्जयतीर्थोऽभिभासते ॥ ३ ॥

येन वेदान्तभाष्याणि विवृतानि महात्मना ।

तं वन्दे व्यासतीर्थाख्यं वेदान्तार्थप्रसिद्धये ॥ ४ ॥

रधूत्तमगुरुर्भूयान्मम ज्ञानाय सर्वदा ।

श्रीमध्वशास्त्रं संशोध्य यः सम्यक् ज्ञानमाप्तवान् ॥ ५ ॥

नत्वा रमापतिं सर्वदेवानामिष्टदं हरिम् ।

भाष्यं तलवकारस्य व्याख्यास्येऽहं यथामति ॥ ६ ॥

इह हि विविधसांसारिकदुःखदर्शनेन विरक्तस्य शमदमादिमतोऽधिकारिणो मोक्षार्थं भगवत्स्वरूपप्रतिपादनाय प्रवृत्तां तलवकारोपनिषदमन्यैरन्यथाव्याख्या- तत्वेनाप्रवृत्तामिव मन्यमानां भगवान् आनन्दतीर्थमुनिः तां यथावद्व्याचिख्यासुः प्रारिप्सितनिर्विध्नपरिसमाप्त्यादिप्रयोजने उपनिषत्प्रतिपाद्यगुणवन्नारायणस्तुतिनती

शिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति - अनन्तेति ॥ अगम्याय साकल्येन ज्ञातुमशक्याय । पृथग्जनैरज्ञेयत्वं देवादिसाधारणमित्यत उक्तं- सुरैरपीति ॥ अपिशब्दः कैमुत्यद्योतनार्थः । सर्वज्ञकल्पैरपीति वा । रमाब्रह्मादावविद्यमानं साकल्येन ज्ञातुमश्यक्यत्वमस्यैव कुत इत्यत उक्तम्- अनन्तेति ।। वक्ष्यति चैतत् 'न तत्र चक्षुर्गच्छति' इत्यादिना । अनेन नम्यत्वोपपादकं विशिष्टत्वमुक्तं भवति । तदुपपादकमिष्टत्वं चाह- सर्वेति । इदमपि 'ब्रह्म ह देवेभ्यः' इत्यादिना वक्ष्यति ।

सर्वदाऽपरोक्षीकृतनारायणोऽपि भगवान् ग्रन्थकरणसमये विशेषतोऽपि तमपरोक्षी- कृतवानिति त इत्यपरोक्षनिर्देशः । अनेन नारायणो विषयः, सर्वेष्टमेव प्रयोजनम्, तदर्थं तजिज्ञासुरधिकारीति सूचितम् । तेन युक्तमेतदुपनिषदो व्याख्यानम् ।

श्रीसत्यप्रियतीर्थविरचिताभाष्यविवृतिः

अजीजयत् पूर्वदेवान् देवान् योऽर्थमवापिपत् ।

अबीभसद्भास्वदादीन् श्रीजानिर्नोऽस्तु सम्पदे ॥

तलवकारोपनिषदं व्याकरिष्यन् भगवानाचार्यश्चिकीर्षिताविघ्नपरिसमाप्त्यादि प्रयोजने तत्प्रतिपाद्यदेवतास्तुतिनती प्रथमं न्यबध्नात् - अनन्तेति ॥ न तत्र चक्षुर्गच्छतीत्यादिना सुरागम्यत्वं उपनिषत् प्रत्यपीपदत् । तत् समगृहात् अगम्याय सुरैरपीति ॥ ' ते ह्येनं नेदिष्टं पस्पृशुः तर्ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति' देवगम्यत्वप्रतिपादनांद्दवागम्यत्वोक्तिरत्र अनन्तगुणपरिपूर्णत्वात् ब्रह्मणः साकल्येनागम्यत्वपरा । तदाह- अनन्तगुणपूर्णत्वादगम्याय सुरैरपीति ॥

'ब्रह्म ह देवेभ्यो विजिग्ये ' इति वाक्यं भगवतो देवेष्टदातृत्वमवोचत । तदुपपादनायाह- सर्वेष्टदात्रे देवानामिति । अत्र देवानामिति षष्ठी सम्प्रदान- स्यापि शेषत्वविवक्षया । रजकस्य वस्त्रं ददातीतिवत् ।

यद्वा, देवान् आम् नम इति च्छेदः । तत्र देवान् प्रति सर्वेष्टदात्र इति योजना । गुणोत्कर्षं वदतः प्रति सर्वमभिप्रेतं ददातीतिवत् । आमेवमर्थेआमेवं स्वयमात्मना' इत्यमरः । तथा चैवं योजना । आम् एवं अनन्तगुणपूर्णत्वात् देवेष्टदातृत्वाच्च नारायणाय । न पुनरश्वकर्णादिवत्सङ्केतमात्रेणेति । अनन्तगुण- पूर्णत्वं नारायणशब्दार्थ इति स्पष्टं टीकायाम् । देवेष्टदातृत्वं तु 'नरौ तावबिना- शित्वादुपचारः कचिद्भवेत्' इति ऋग्भाष्यं नरशब्दस्य उपचरितामृतत्वार्थप्रदत्व- प्रतिपादनात् नरशब्द: उपचरितामृतदेवपरः ततस्तस्येदमित्यणि नारं देवसम्बन्धि देवेष्टमिति लभ्यते । ततः नारं देवेष्टं आपयति प्रापयतीति नारायणः । न जायते अर्दयति च संसारमिति जनार्दन इतिवत् । अयतेर्ण्यन्तात् कर्तरि ल्युः नन्दादित्वात् अनकरणात् । ' कृत्यल्युटो बहुलम्' इति वचनात् ल्युड्वा । ल्युटः

कर्त्रर्थत्वं च 'रुजार्थानां भाववचनानां मज्वरे:' ( सि. कौ. ६१५) इति सूत्रे वचनशब्दे प्रत्ययार्थकर्ता विवक्षितः, कर्तरि ल्युटो विधानात् । प्रकृत्यर्थवचन- क्रिया न विवक्षिता । तेन भावो वचनः कर्ता येषां ते भाववचनाः । भावकर्तृका इत्यर्थः सम्पद्यते इति कैय्यटोतेरवबुध्यामहे । 'भाववचनाश्व’(सि.कौ.३१८०) इति सूत्रे वक्तीति वचनं कृत्यल्युटो बहुलमिति कर्तर्यपि ल्युट् इति हरदत्तोक्तेश्च ।

अत्र च नारायण एव विषयः 1 तज्ज्ञप्तिसाधनज्ञानविषयत्वेन तच्छेषतया तारतम्यं च विषयः । तज्ज्ञानमवान्तरप्रयोजनम् । सर्वेष्टं मुख्यं प्रयोजनम् । तत्त्वं विविदिषुरेवाधिकारीति सूचितम् । सम्बन्धस्तु स्पष्टः ।

श्रीवरदतीर्थभिक्षुविरचिताटीका

नत्वा तलवकाराणां हरिं पूर्णज्ञजन्मनः ।

रहस्यभाष्यस्यार्थोऽयं समासेन विलिख्यते ।

अथान्यैरन्यथा व्याख्यातां तलवकारोपनिषदं यथावद् व्याचिख्यासुः भगवानाचार्यः प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नपरिसमात्याद्यर्थं एतदुपनिषदुक्त- विशेषणविशिष्टं नारायणं नमति अनन्तेति ॥ श्रूयतेह्यत्रैव ।न तत्र चक्षुर्गच्छति' इत्यादिना हरेः सुरैरगम्यत्वं, 'ब्रह्म ह देवेभ्यो विजिग्ये' इत्यादिना देवेभ्य इष्टदातृत्वं च । हरेः सुरैरगम्यत्वं सर्वथाऽविज्ञेयत्वं प्राप्तम् । अत आह- अनन्तेति ॥