ब्रह्मेति होवाच
अथ चतुर्थः खण्डः
देवतातारतम्यनिरूपणम्
उपनिषत्
ब्रह्मेति होवाच । ब्रह्मणो वा एतद् विजयेsमहीयध्वमिति । ततो हैव विदाञ्चकार ब्रह्मेति ॥ १ ॥ तस्माद् वा एते देवा अतितरामिवान्यान् देवान् यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पृशुः । ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥२॥ तस्माद् वा इन्द्रोऽतितरामिवान्यान् देवान् । स ह्येनन्नेदिष्ठं पस्पर्श । स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३॥
भाष्यम्
उमा सा सम्यगाचष्ट तस्मै विष्णुं परं पदम् ।
यस्माद् ब्रह्मा च वायुश्च शेषवीन्द्रौ शिवस्तथा ॥
सभार्या गर्विणो नाऽसन् सुरेभ्यस्तेऽधिकास्ततः ।
इन्द्रस्तु प्रथमं ब्रह्म व्यजानात्तेन तूत्तमः ॥
दक्षादिभ्यस्तथा कामस्तज्ज्ञातुं पूर्वमुक्तवान् ।
दक्षो बृहस्पतिश्चैव मनुः कामात्मजस्तथा ।।
सूर्याचन्द्रमसौ धर्मो वरुणश्रोचुरोमिति ।
नासिक्यवायुरग्निश्च प्रथमं तदपश्यताम् ॥
सर्वदेवाधिकास्तस्माद् एते देवाः प्रकीर्तिताः ।
एतेभ्यश्वेन्द्रकामौ तु ताभ्यां ब्रह्मादयोऽधिकाः ।।
तु एतेषामवमो वह्निः परमो विष्णुरुच्यते ।
अन्तराले स्थितास्त्वन्ये ब्रह्माद्याः पूर्वमीरिताः ।।
अग्निः पश्चाद्व्यजानात्तदिन्द्रवाक्यात्ततोऽवमः ।
तस्माद्विप्ण्वभिसम्बन्धात् पारावर्यं सुरेष्विदम् ||
श्रीव्यासतीर्थविरचितंविवरणम्
व्यासतीर्थीयम्- तस्माद्वा इति परामृष्टो हेतुः क इति न ज्ञायते । एते देवा अतितरामिवान्यान् देवान्' इत्यन्यदेवतातिशयिता देवाश्च क इत्यतस्तद्वाक्यं व्याचष्ट- यस्मादिति । अथवा तस्माद्वा एते देवा अतितरामिवान्यान्देवान् एते इत्युक्ताः के यदनिर्योऽयमनिर्वायुरिन्द्रस्तस्मादिति परामृष्टं हेतुमेव विशदमाह ते ह्येनं नेदिष्ठं पस्पृशुरिति ॥ नेदिष्ठं अतिसमीपस्थम् । स्पर्शनमेव विवृणोति - ते ह्येनत् प्रथमः प्रथमं विदाञ्चकार विदाञ्चक्रुरिति ॥
यदग्निर्वायुरिन्द्र इत्युक्तेन्द्रस्याग्न्यादिसाम्यं प्रतीयते तां परिहरति- तस्माद्वा इन्द्र इति ॥ तव्याचष्टे - इन्द्रस्त्विति ॥ तस्माद्वा एते देवा इतिवाक्यं प्रकारान्तरेण व्याचष्टे - दक्षादिभ्य इत्यादिना || ओमिति यक्षं विचार्यमेवेत्यूचुः ।
नासिक्यवायुरित्युक्तरीत्या व्याख्यानान्तरम् । ब्रह्मादीनामुक्तमप्याधिक्यं प्रसङ्गप्राप्तं पुनराह - एतेभ्य इति ॥ यदग्निर्वायुरित्युक्त्याऽग्नेः श्रेष्ठत्वप्रतीतिं निवारयंस्तारतम्ये कः प्रथमः कोऽन्तिम इत्यत आह- एतेषामिति । पूर्वमीरिताः उत्तरकक्ष्यात्वेनेति शेषः । अग्रेः सर्वावमत्वे कारणमाह- अग्निरिति ॥ विष्ण्वभिसम्बन्धात् विष्णुज्ञानादितारतम्याभिसम्बन्धात् ।
श्रीवामनपण्डितविरचिताटीका
वामनटीका- 'ब्रह्मेति होवाच' इत्युत्तरखण्डार्थमाह- उमा सा सम्यगाचष्टे - त्यादिना ॥ ब्रह्मणो वा एतद्विजये । युष्मत्स्थस्य ब्रह्मणः प्रसादादेव ह्येतेषां दैत्यादीनां विजये युष्माभिः कृते । अतस्तस्यैव एतद्विजयित्वम् । तस्मिन् सति हि यूयं लोकेषु अमहीयध्वम् । नहि युष्मच्छत्त्या ।
एते देवा: अग्निवाखिन्द्राः । अन्यान् तत्रानादिष्टदेवान् प्रति अतितरामित्र भवन्ति । गुणाधिका भवन्ति । इवशब्दस्तु ब्रह्मव्यतिरिक्तानाममितगुणाधिक्य- निवारणार्थः । सर्वेऽप्यते यथाश्रुतगुणाधिका भवन्तीत्यर्थः । तत्र हेतुमाह- 'ते हि' इति ॥ ते ह्येनत् यक्षं अतिसमीपस्थं पस्पृशुः चक्षुरादिना विपयचक्रुः । किश्च त एव ह्येनत् यक्षं ब्रह्मेति प्रथमतो विदाञ्चकुः । न तेऽपि युगपदेव विदाञ्चक्रुः । किन्तु एकैक एवैकस्मात् प्रथमतो विदाञ्चकार इत्येकवचनार्थः ।
वाय्वादिभ्यां दक्षादिभ्यश्चेन्द्रोऽधिकः । तेभ्यः प्रथमवेत्तृत्त्वात् । तद्वत् कामोऽपि तेभ्योऽधिकः । ज्ञातव्यं यक्षमिति पूर्ववक्तृत्वात् । तस्मादिन्द्रकामौ प्रायः समानौ ।
अथ दक्षाद्याः सूर्यवाय्वादिभ्यः । वाय्वग्नी तु प्रथमद्रष्टारावप्येतेषां वचनमन्तरेण ज्ञानशक्तिविहीनत्वादेव तेभ्यः स्वयमवमौ । इतरेभ्यस्तूत्तमौ । एवं च ज्ञानजिज्ञासयोराधिक्यमेवोत्तमत्वकारणमिति भावः उक्तार्थं निगमयति- सर्वदेवाधिकास्तस्मादिति ॥ उक्तहेतोः एते दक्षाद्या अग्निपर्यन्ता देवाः मित्राश्विपर्जन्यादिभ्यो नवकोटिदेवेभ्यश्चाधिकाः प्रकीर्तिताः । एतेभ्यश्चेन्द्रकामौ अधिकौ । ताभ्यां विशेषतश्च ब्रह्मादय उत्तमाः । 'गर्विणो प्रसन्' इत्युक्तत्वात् । अथाप्येतत् तारतम्यं श्रुत्यन्तरेऽपि सुश्रुतमिति दर्शयति- 'एतेषामवमः' इत्यादिना 'अग्निर्वैदेवानामवमो विष्णुः परमस्तदन्तरेणान्या देवता:
( ऐ. बा. १. १. ) इति हि श्रुत्यन्तरम् ।
अग्नेस्तु पूर्वद्रष्टुरपीन्द्रादिवाय्वन्तेभ्योऽवरत्वे कारणमाह- अग्निः पश्चादिति ॥ अग्निः दक्षादीनां तत्परिज्ञानतः पश्वाद् एव इन्द्रवाक्यात् तद् यक्षं ब्रह्मेति व्यजानात् । तस्मादग्निः तेभ्यः अवमः । एतेषां पारावर्यकारणं निगमयति- तस्मादिति ॥ विष्ण्वभिसम्बन्धस्य बहुत्वाल्पत्वादिविशेषादेव ब्रह्मादिष्वेतत् पारावर्यं सिद्धं भवति ।
श्रीवादिराजतीर्थविरचिताप्रकाशिका
प्रकाशिका– ‘ब्रह्म व्यजानत्' इत्यत्र उमामुखात्स्वयं व्यजानात्पश्वाद्देवान् प्रत्युक्तवान् । तथा कामोऽपि दक्षादिभ्य उत्तमः । यतः स कामो देवेभ्यः पूर्वमेवेन्द्रं प्रति तज्ज्ञातुमुक्तवान् । एवं च ' कर्ता कारयिता च' इति न्यायेन द्वावपि समाविति भावः । ' सर्वदेवाधिकास्तस्मात्' इत्यत्र सर्वे देवा: 'उक्तशेषाः शतस्थाः’ इत्यत्र प्रोक्तदेवाः । तेभ्योऽधिका इत्यर्थः । 'एते देवा' इन्द्रादीनामाज्ञया प्राग्गतावग्निवायू ज्ञातुमिन्द्रस्योमित्यनुमतिकर्तारो दक्षाद्या वरुणपर्यन्ता देवा इत्यर्थः । न चात्र शङ्कनीयम् । इन्द्रादपि पूर्वगमनादग्निवायू इन्द्रादयुत्तमाविति । निष्फलगमनकर्त्रीरपेक्षया सफलगमनकर्तुरिन्द्रस्योत्तम- त्वावश्यं भावात् । अस्तु तर्ह्यगन्तृभ्यो दक्षादिभ्योऽप्यनयोरुत्तमत्वमिति चेन्न । निष्फलगमनकर्त्रीरपेक्षया सफलगमनानुमन्तॄणामेव फलोपयोगित्वेनोत्तमत्वौचित्यात् । गत्वा ज्ञानदातुरिन्द्रात् प्रथममिन्द्रगमनोत्थापकात् कामाच्च दक्षादीनामवमत्वस्य च न्यायप्राप्तत्वादुपनिषद्युक्तदेवतातारतम्यस्यैव स्पष्टीकरणादिति ज्ञेयम् ।
तस्माद्वा एते देवा अतितरामिवान्यान् देवान् इत्यत्र इवशब्देन यथाऽन्ये देवा ऋष्यादिभ्योऽतितरामतिशयेन वर्तन्त एवमेते वाय्वग्नीन्द्राख्या देवा अन्यान् देवानतितरामतिशयेन वर्तन्त एवमेते इत्युपमया तारतम्यान्तरं सूचितमिति एवमुत्तरत्रापि यथा दक्षादयोऽग्निवायुभ्यामभ्यधिका एवमिन्द्रो दक्षादिभ्योऽप्यतितरामतिशयेन वर्तत इति देवेष्ववान्तरतारतम्यमपि सूचितमिति ज्ञेयम् । अव्ययानामनेकार्थत्वादवधारणार्थो वा । ब्रह्मरुद्रशेषगरुडानामसुरावेशा- भावादेते देवा असुरावेशादहङ्कारकर्तृभ्य एतेभ्यो देवेभ्योऽतितरामिवातिशयेन वर्तन्त एवेत्युपनिषदाऽभिसन्धिः । एवं चोपनिषदङ्गना रमा पूर्वोत्तरपर्यालोचनायां स्वतनयपवनतनयमध्वस्याध्वानमेव स्थिरीचकार । पस्पृशुः भगवन्तं स्वहृदि स्थिरीचक्रुः । विदाञ्चकार व्यजानात् । इन्द्रः प्रथमो विदाञ्चकार । तदुपदेशेन तेऽपि विदाञ्चक्रुरिति योजना ।
श्रीवेदेशतीर्थविरचितंविवरणम्
वे.विवरणम् — ब्रह्मेति होवाच इति वाक्यमपेक्षितपूरणेन व्याचष्टे - उत्तमेति ॥ हेत्यस्यार्थः- सम्यगिति । तस्माद्वा एते देवा अतितरामिवान्यान् देवान् इत्येतावदेव वाक्यम् । एतं देवा इत्युक्ताः क इत्याशङ्कां परिहरन् नस्मादित्युक्तहेतुप्रदर्शनपूर्वकं व्याचष्ट यस्मादिति ॥ अत्र वायुबीन्द्रशेषाणां सभार्याणां ग्रहणेन पूर्वमुमाशिवसमन्वित इत्यत्रतेऽप्युपलक्षणीया इति ज्ञायते । ननु ' तस्माद्वा एते देवा अतितरामिवान्यान् देवान् यदग्निर्वायुरिन्द्र' इत्यग्निवाय्विन्द्राणां स्वव्यतिरिक्तदेवोत्तमत्वमुच्यते, तदयुक्तम् । तेषां ब्रह्माद्युत्तमत्वा- भावात् । नच सुरभ्यस्तेऽधिकाः इति इन्द्राद्युत्तमत्वस्य तेपामभिहितत्वात् तद्व्यतिरिक्तदवोत्तमत्वमेवात्रोच्यत इति वाच्यम् । इन्द्रस्य स्वव्यतिरिक्तकामांत्तम- त्वाभावेन नासिक्यवायादक्षायुत्तमत्वाभावनांश्च सूर्याद्युत्तमत्वाभावेन तस्याप्यनुपपत्तिरिति चेन्न । यदग्निर्वायुरिन्द्रः इत्यन्यादिशब्दैरिन्द्राग्निमध्यवर्तिनां कामादीनामप्युप- लक्षणया ग्रहणेनाग्यवरसर्वदेवाधिकत्वमेवेन्द्रकामादीनामत्र विवक्षितमिति सूचयन् अग्निबाय्खिन्द्राणामधिकत्वं ते ह्येनम् इति निमित्तकथनादस्तु सर्वदेवाधिकत्वम् । न तु कामादीनां, तत्र निमित्तकथनाभावात् इत्याशङ्कापरिहारायेन्द्राद्युत्तमत्वं निमित्तकथनमुपलक्षणपरमिन्याशयेनाह इन्द्रस्त्वित्यादिनाऽपश्यतामित्यत्यन्तेन ॥ यक्षरूपं ब्रह्मेति व्यजानात् उमोपदेशेनेत्यर्थः । द्वितीयस्तुशब्दोऽवधारणार्थः ।
तथाशब्दस्तुशब्दार्थः । कामस्तु तद् ज्ञातुम् आविर्भूतयक्षस्वरूपज्ञानाय पूर्वं दक्षादिभ्य उक्तवान् । तेन स उत्तम इत्यर्थः । वरुणश्चेत्येते ओमित्यूचुः कामेन यक्षस्वरूपं ज्ञातव्यमित्युक्ते तथैव कर्तव्यमित्युक्तवन्तः । तेन त उत्तमा इत्यर्थः । तद् यक्षरूपम् । तेन तावुत्तमावित्यर्थः । इन्द्रस्तु प्रथमं ब्रह्म व्यजानात् नासिक्यवायुरग्निश्च प्रथमं तदपश्यतामित्यनेन वाय्वग्योः प्रथमं यक्षरूपे ब्रह्मत्वज्ञानाभावात् ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति इत्युक्तमनुपपन्नमिति शङ्का परास्ता । तथाच श्रुतौ निमित्तकथनमुपलक्षणपरमिति भावः । यद्वा, यदग्निर्वायुरिन्द्रः इत्यत्राम्यादिशब्दानामितरोपलक्षकत्वं कुतोऽङ्गीकर्तव्यमित्यतः ते ह्येनत् प्रथमो विदाञ्चकार इति वाक्यशेषे इन्द्रकामादीनां सर्वेषामप्युत्तमत्वे निमित्तकथनादिति भावेन तद्वाक्यं कः कथं विदाञ्चकारेति शङ्कानिरासाय व्याचष्टे- इन्द्रस्त्वित्यादिना ॥ अस्त्वेवमुक्तरीत्या एतेषां देवानामुत्तमत्वं, तथाऽपि तस्माद्वा एते देवा अतितरामिवान्यान् देवान् यदग्निर्वायुरिन्द्रः, इति श्रुत्यर्थः क इत्यत आह- सर्वेति ॥ यस्मादुक्तरीत्या इन्द्रकामाद्या उत्तमास्तस्मादेते पूर्वोक्ताः सर्वेऽपीन्द्राद्याः अन्यवरसर्वदेवाधिकाः श्रुतावुपलक्षणया कीर्तिता इत्यर्थः ।
नन्वस्त्वेते देवा अग्यवरसर्वदेवाधिकाः । तथाऽपि किमेते परस्परं समाः, अथ तेषु कश्चिदुत्तम इत्याशङ्कापरिहाराय श्रुतौ तस्माद्वा इन्द्रोऽतितरामिवान्यान् देवान् इत्यभिहितम् । तत्रेन्द्रशब्दोऽपि उपलक्षणपर इति भावेन तद् व्याचष्टे- एतेभ्य इति ।। वचनविपरिणामेनाधिकावित्यनुवर्तते । पूर्वं सुरेभ्यस्तेऽधिका इति ब्रह्माद्युमान्तानां देवोत्तमत्वं यदुक्तं तन्नेन्द्रकामवद् दक्षाद्याधिक्यमात्रं किन्त्वित्यत आह- ताभ्यामिति भाष्यं नासिक्यवायुरग्निश्च इत्युक्त्या श्रुती यदग्निर्वायुरित्युक्त्या चाग्नयुसाम्यं प्रतीयते चाग्नेर्वासाम्यं प्रतीयते इत्याशङ्कायां पूर्वप्रसक्तानां यक्षरूपविष्णुदेवानां मध्ये कोऽवमः कः श्रेष्ठ इत्यपेक्षायां चाऽह - एतेषामिति ॥ उच्यते । ‘अनिर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता:' इति श्रुतावित्यर्थः । ब्रह्माद्या इत्यादिशब्देनाग्यवमा अपि देवा ग्राह्याः किम् ? नेति भावनान्तम्- पूर्वमीरिता इति ॥ अग्नेः सर्वावमत्वे कारणमाह- अग्निरिति ।। कामादयः सर्व इन्द्रेण सहैवोमोपदेशेन ब्रह्मस्वरूपं ज्ञातवन्तः | अग्निस्तु पश्चादिन्द्रवाक्यात् तद् यक्षरूपं ब्रह्मेति व्यजानात् यत इत्यर्थः । यद्वा उमोपदिष्टेनेन्द्रेण यक्षरूपब्रह्मस्वरूपे कामादिभ्य उपदिष्टे सति तद्वाक्यात् कामादयो वरुणान्ताः यक्षरूपब्रह्मस्वरूपं पूर्वं ज्ञातवन्तः । अग्निश्च पश्चात् व्यजानादित्यवम इत्यर्थः । अस्त्वेवम् । सर्वेष्वपि देवेषु परावरभावे किं कारणमित्यत आह- तस्मादिति ॥ यस्मात् पूर्वं ब्रह्मज्ञानिनोऽधिकाः पश्चात् तज्ज्ञान्यवमः । तस्माद्विष्ण्वभिसम्बन्धाद् ज्ञानाद्रिना विष्ण्वभिसम्बन्धपारावर्येण विष्णुविषयकज्ञानादिपारावर्येति यावत् ।
श्रीवेदेशतीर्थविरचितश्रुत्यर्थ:
श्रुत्यर्थ:- एवमिन्द्रेण पृष्टा सा उमा एतद् यक्षं युष्मदन्तर्यामिब्रह्मेति ह सम्यगुवाच । तस्य ब्रह्मण एव एतद् एतस्मिन् विजये सति यूयममहीयध्वम् अस्माकमेवायं विजय इति अहङ्कारं कृतवन्तः । तत एवोमोपदेशेनैव स इन्द्र इदं यक्षरूपं ब्रह्मेति विदाञ्चकार ज्ञातवान् । यस्माद् ब्रह्मवायुशेषगरुडरुद्राः सभार्याः स्वान्तर्यामिणो ब्रह्मणो विजयेऽस्माकमेवायं विजय इति गर्विणो नासन् तस्माद् वा तस्मादेव एते देवा अन्यान् देवान् इन्द्रादीन् अपेक्ष्यातितरामिव अतिशयिता एव । इन्द्रादीनां गर्वित्वादिति भावः । यद्वा, तस्माद् यद् ये अनिर्वायुरिन्द्रश्चेत्येते देवा अन्यान् देवान् अग्यवरसर्वदेवानपेक्ष्यातितरामिव अधिका एवेत्यर्थः । अत्रेन्द्रादिशब्दैः कामदक्षादयोऽपि ग्राह्याः । तस्मादित्युक्तं तुं विशदयति - ते हीति । हि यस्मात् ते अग्निवाय्विन्द्रा देवा एनत् यक्षरूपं भगवन्तं नेदिष्टं समीपस्थं पस्पृशुः स्पृष्टवन्तः । तस्मादिति पूर्वेण सम्बन्धः || १ ||
तदेव विवृणोति - ते हीति ॥ ते प्रागुक्ता देवा एनद् यक्षरूपं ब्रह्म प्रथमः प्रथमं विदाञ्चकार विदाञ्चक्रुः ज्ञातवन्तः । किमिति ? ब्रह्मेति । अनेन्द्र उमोपदेशेन प्रथमं ब्रह्म व्यजानात् । वाय्वग्नी तु प्रथमं यक्षरूपं अपश्यतामिति विवेकः । उपलक्षणमेतत् । दक्षादीनामुत्तमत्वेऽपि भाष्योक्तं निमित्तं ग्राह्यम् ||२||
इन्द्राद्या अपि देवाः किं परस्परं समाः ? नेति भावेनाऽह तस्माद्वा इति ॥ इन्द्रशब्देनात्र कामोऽप्युपलक्षणीयः । अन्यान् देवान् दक्षादीन् । इन्द्रस्यात्तमत्वं निमित्तमाह- स हीति ॥ तदेव विवृणोति सहीति ॥ उमोपदेशेन भगवत्स्वरूपं प्रथमत इन्द्रो व्यजानात् । पश्चादिन्द्रोपदेशेनेतरेषां भगवज्ज्ञानमिति भावः ||३||
नृसिंहभिक्षुविरचिताउपनिषदार्थप्रकाशिका
नृसिंहप्रकाशिका - ब्रह्मणो वा एतद्विजये ब्रह्मैव भवत्सु नियामकत्वेन स्थित्वा भवदभीष्टसिद्धये दैत्यान् जिगाय । ब्रह्मणो वा एतद्विजये यूयम महीयध्वम् । अस्माकमेवायं विजयोऽस्माकमेवायं महिमेत्यहङ्कारयुक्ता अभवन् | ततः उमोपदेशादिन्द्रः इदं सर्वान्तर्यामित्वं सर्वस्वातन्त्र्याद्यनन्तगुणपूर्णं विष्ण्वाख्यं परं ब्रह्मेति विदाञ्चकार है । सम्यक् गतवानभूत् ह । तस्माद्ध असुरावेशाभावेन गर्वाभावात् एते देवा: ब्रह्मवायुगरुडशेषरुद्राः सभार्याः । अन्यान् देवान् इन्द्रादीनपेक्ष्य अतितरामिव । अत्युत्कृष्टा एव भवन्ति अनुदेवानाह - यदिति ॥ ये हि यस्माच्च एतद् ब्रह्म नेदिष्ठं सर्वान्तर्यामित्वेन समीपस्था ते ब्रह्माद्याः पस्पृशुः । उमैब समं विवृणोति - तेहीति । ते हि ब्रह्माद्याः एतत् पूर्णं वस्तु प्रथमः प्रथमं परं ब्रह्मेति विदाञ्चकार । विदाञ्चक्रुः व्यजानन् । इन्द्राद्यपेक्षया ज्ञानसम्बन्धातिशयात् ब्रह्माद्या अत्युत्कृष्टा इत्यर्थः । इन्द्रस्याग्न्यादिसहोत्या अग्र्यादिसाम्यप्रतीतिं निवारयन् अग्याद्युत्तमत्वमाह- तस्मादिति ॥ पूर्ववाक्यवदिदं वाक्यं योजनीयम् । अत्रान्यदेवतासु अहङ्कारिक- प्राणबृहस्पत्याद्याः इन्द्रियाभिमानिषु अग्र्यन्ताः एतेष्वप्यवान्तरतारतम्यं एतदन्यदेवतातारतम्यं च विशेषप्रमाणादवगन्तव्यम् ।। १-३।।
श्रीसत्यप्रियतीर्थविरचिताभाष्यविवृतिः
स.भाष्यविवृतिः- एवमिन्द्रेण पृष्टा सामर्थ्यं स्मृत्या समगृह्णात् समीरगुरुः ‘इत्यत्रास्ख्यायिकां वच्मि' इत्यारभ्य योग्या उमा एतद्यक्षं ब्रह्मेति विष्णुः अन्तर्यामीत्युवाच । ब्रह्मणः अन्तर्यामिणो तस्मिन्नसुरविजये कृते मध्ये यूयमहीयध्वम् । अस्माकमेवायं विजयोऽस्माकमेवायं महिमेति । तत एव उमोपदेशेनैवेन्द्रः यक्षस्वरूपं हृदयस्थितं विजेतृब्रह्मेति विदाञ्चकार ह । यस्मादिन्द्रो नासिक्यवायुरग्निश्च गर्विणः आसन् । यस्माच्च ब्रह्मवायुशेषवीन्द्रशिवाः सभार्याः गर्विणो नाभूवन् । ततः अन्यान् देवान् इन्द्रादीन् अपेक्ष्य एते पूर्वोक्ताः अतितरामिव अधिका एव हि यस्मात् ते ब्रह्मवायुशेषवीन्द्रशिवाः सभार्याः एनत् नेदिष्ठं समीपस्थं यक्षरूपं पस्पृशुः प्राप्तवन्तः । ते ह्येनद्यक्षरूपं प्रथमः प्रथमं विदाञ्चकार विदाञ्चक्रुः । तस्मात् ते इन्द्राग्निनासिक्यवायुप्रभृतिभ्यः ब्रह्मवायुप्रभृतयः श्रेष्ठा एव ।
यद्वा येऽनिर्वायुरिन्द्राश्च ते देवाः अग्न्यपेक्षया अवरान् उषास्वाहापर्जन्य- मित्रान् तत्समान् तदन्तरालिकांश्चापेक्ष्यातितरामिव अधिका एवेत्यर्थः । अत्र इन्द्रवाय्वग्निशब्दैरेतत्समा एतदान्तरालिकाश्च ग्राह्याः तत्रेन्द्रसमः कामः । प्रवहस्य तु समो नास्ति । अग्नेस्तु समो भृगुः । प्रसूतिश्चाग्निसमा । अनिरुद्ध- स्वायम्भुवबृहस्पतिदक्षाः शची रतिश्च अहङ्कारिकप्राणश्च प्रबहेन्द्रादयोऽन्तरालिकाः नारदवरुणचन्द्रसूर्यधर्मशतरूपाः अग्निबृहस्पतयोरान्तरालिकाः । तस्मादित्युक्तं हेतुं विशदयति - ते हीति ॥ हि यस्मात् अग्निप्रवहवाय्विन्द्राः देवाः एनत् यक्षरूपं भगवन्तं नेदिष्ठं समीपस्थं पस्पृशुः अस्पृशन् । तस्मात् अतितरामेव तदेव विवृणांति - तेहीति ॥ ते अग्निवाय्खिन्द्राः तत्समाः तदान्तरालिकाश्च एनत् यक्षरूपं ब्रह्म प्रथमतः प्रथमं ब्रह्म विदाञ्चकार विदाञ्चक्रुः । अत्र किं इन्द्राद्याः समाः ? नेति प्रतिपादयाञ्चक्रे तस्माद्वा इति ॥ अत्र इन्द्रशब्देन कामः उपलक्षणीयः । अहङ्कारिकप्राणानिरुद्धस्वायम्भुवमनुबृहस्पतिदक्षशचीरतिप्रवह- शतरुपाधर्मसूर्यचन्द्रवरुणनारदाग्निभृगुप्रसूतीरपेक्ष्य अतितरामिवाधिका एव । इन्द्रस्योत्तमत्वे निमित्तमभ्यधात् स हीति ॥ तदेव विवृणोत् - स हीति ॥ उमोपदेशेन भगवत्स्वरूपं प्रथमतः इन्द्रो व्यजानात् । इन्द्रपदोपलक्षितकामस्य यक्षस्वरूपज्ञानाय अहङ्कारिकप्राणं तथा अनिरुद्धस्वायम्भुवमनुबृहस्पतिदक्षशची- रतिश्च प्रवहशतरुपाधर्मसूर्यसोमवरुणान् अचूचुरदत् । ते च ओमित्यङ्गीकार्षुः अत एतेभ्यः उत्तमः कामः । तदेतदभ्यधाद्भाष्यकारः । ' उमा सा सम्यगाचष्ट' इत्यारभ्य ‘पारावर्यं सुरष्विदम्' इत्यन्तेन । एतेषामवमो वह्निः परमो विष्णुरुच्यते इत्यनेन अग्नावैष्णवमेकादशकपालं निर्वपेत् दीक्षिष्यमाणो अग्निः सर्वा देवता विष्णुः परमो यदाग्रावैष्णवमेकादशकपालं निर्वपति देवता एवोभयतः परिगृह्ययजमानो वरुद्धं पुरोळाशे न वै देवा अमुष्मिन् लोके आर्ध्नु चरुण अस्मिन् यः कामयेत अमुष्मिन् लोके रुनुयामिति स पुरोळाशं कुर्वीत अमुष्मिन्नेव लोकरुनुयामिति स च कुर्वीत अधृतं विष्णोस्तण्डुलास्तस्मात् चरुः कार्योऽस्मिन्नेव लोकरुनोतीति यजुर्वाक्यसन्दर्भः । अग्निर्वै देवानामवभो विष्णुः परमः तदन्तरण सर्वा अन्या देवताः । अग्नावैष्णवं पुरोळाशं निर्वपन्ति दीक्षणीयमेकादशकपालं सर्वाभ्य एवैनं तदेवताभ्योऽनन्तरायं निर्वपन्ति अग्निर्वै सर्वा देवताः । विष्णुः सर्वा देवताः । एते वै यज्ञस्यान्त्ये तन्वौ यदग्निश्च बिष्णुश्च । तद्यदाग्नावैष्णवं पुरोळाशं निर्वपन्त्यन्तत एव तद्देवानृप्नुवन्ति । तदाहुः । यदेकादशकपालः पुरो॒ळाशो द्वावग्नाविष्णू कैनयोस्तत्र लृप्तिः का विभक्तिरिति । अष्टाकपाल आग्नेयः । अष्टाक्षरा वै गायत्री । गायत्रमग्नेश्छन्दः । त्रिकपालो वैष्णवः । त्रिदं विष्णुर्व्यक्रमत । सेनयोस्तत्र लृप्तिः सा विभक्तिः । घृते चरुं निर्वपेत योऽप्रतिष्ठितो मन्येत । अस्यां वाव स न प्रतितिष्ठति यो न प्रतितिष्ठति तद् यद् घृतं तत् स्त्रियै पयः । ये तण्डुलास्ते पुंसः । तन्मिथुनम् । मिथुनेनैवैनं तत् प्रजया पशुभिः प्रजनयति । प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद । (ऐतरेयब्राह्मण-१खं, १अ) इति ब्राह्मणवाक्यसन्दर्भश्च । अमुमर्थमवाजीग- मतामित्यसुसूचत् ।
श्रीवरदतीर्थभिक्षुविरचिताटीका
बरदतीर्थीयम्- नन्वेवं चेदुमा किमर्थं न तिरोहिता कृतेत्यत आह- एषैवेति ॥ तस्माद्वा एते देवा अतितरामिवान्यान् देवान् इति वाक्यमावृत्या योजनीयम् । प्रमाणवाक्ये अस्य वाक्यस्य ब्रह्मादिविषयतयापि व्याख्यातत्वात् यदग्निर्वायुरिन्द्र इत्यत्र इन्द्रस्य यदग्न्यादिसाम्यं प्रतीतं तन्निराकरणार्थमुच्यते तस्माद्वा इन्द्रोतितरामिवान्यान् देवान् इत्यादि । तद्व्याचष्टे - इन्द्र इति ॥ तथाकामोपि इन्द्रवत् दक्षादिभ्य उत्तमः । कामस्यापि दक्षादिभ्य उत्तमत्वे निमित्तमाह- स इति ॥ तस्माद्वा एते देवा अतितरामिवान्यान् देवान् इति वाक्यं प्रकारान्तरेण व्याचष्टे - दक्ष इत्यादिना ॥ एते दक्षादयः यदा देवाः यक्षरूपो विष्णुः विचार्य एवेत्यूचुरिति यतः अतो अन्येभ्यो देवेभ्य: उत्तमा इत्यर्थः । अग्निवायोरितरदेवोत्तमत्वे निमित्तमाह नासिक्येति । ब्रह्मादीनामितर- देवाधिक्यमुक्तं स्पष्टयति । एतेभ्यः इति । उक्ततारतम्ये कः प्रथमः को बावसान इत्यत आह- एतेषामिति ॥ अग्नेरवरत्वे कारणमाह अग्निरिति । अग्निः पश्चाद्व्यजानादिन्द्रवाक्यात्ततोऽवमः ।
श्रीराघवेन्द्रयतिविरचितःतलवकारोपनिषत्खण्डार्थः
खण्डार्थ:- इन्द्रेण पृष्टा सा तद्यक्षं ब्रह्मेति होवाच । हेति निश्चयमाह । एतद् एतस्य देवेष्वनुप्रविष्टस्य ब्रह्मणां विजयं तद्विजयनिमित्तममहीयध्वं महिमवन्तोऽभवत, न त्वात्मनी विजयनिमित्तं गर्विणो भवत । निश्चयमेतत् ।
इति चोवाच ह वै इत्यन्वयः । एवमुमयोपदिष्ट इन्द्रः किं चकारेत्यत आह ब्रह्मा शिवं प्रति तत इति ॥ ततो हैव देव्युपदेशादेव तद्यक्षम् इन्द्रः ब्रह्मेति दैत्यविजयोऽस्मदनुप्रविष्टब्रह्मकृत इत्यादि विदाञ्चकार ज्ञातवान् । तस्माद् वै तस्मादेव गर्वशून्यत्वादेव एते देवाः ब्रह्मवायुशेषवीन्द्रशिवाः सभार्या अन्यान् देवानतितरान्, अन्यदेवेभ्योऽधिका इत्येकोऽर्थः । इवशब्दस्तु गर्भाभावादाधिक्यम् अविद्यमानं देवानां नेदानीमेव प्राप्तं, किं त्वनादिसिद्धमेव, तदिदानीं व्यक्तमभूदित्यभिप्रायः । अन्योऽर्थस्तु तस्मात् वै यक्षतया प्रादुर्भूतस्य स्वरूपं विचार्यमिति प्रथममुक्तत्वादेव, एते देवाः कामदक्षबृहस्पतिस्वायम्भुवमन्वनिरुद्ध- सूर्यचन्द्रधर्मवरुणा अन्यान् देवानतितरामिवेति । प्रागिवास्यार्थः । तत्रापि दक्षादिभ्यः प्राग् विचार्यं यक्षमित्युक्तत्वात् । कामस्तेभ्योऽधिक इति ज्ञेयम् । तृतीयोऽर्थस्तु- तस्मात् वै एते देवाः । वायुरत्र नासिक्यो ग्राह्यः । कुत एत अधिका यक्षरूपं ब्रह्म नेदिष्ठं समीपस्थं, कालतः सामीप्यमत्र ध्येयं, इतरेभ्यः पूर्वकाल एव पस्पृशुः, स्पृश आमर्शन, परामर्शं कृतवन्त इत्यर्थः । परामर्श- श्वाग्निवाय्वोर्यक्षदर्शनमात्रम्, इन्द्रस्य तु यक्षस्य ब्रह्मत्वादिना ज्ञानं ध्येयम् ||१||
तद्व्यनक्ति- ते हीति ॥ अग्निवाविन्द्राः प्रथमः प्रथमं विदाञ्चकार विदाञ्चक्रुः | वेदनं चेन्द्रस्य देव्युपदेशात्, अन्ययास्तु इन्द्रोपदेशादिति भावेनेन्द्रज्ञानोदय- प्रकारमाह- तस्माद्वा इति । तस्मादित्युक्तं हेतुं व्यनक्ति- सह्येनदिति ॥ एनत् देवम् । तद्वाक्यार्थमेव व्यक्तमाह- स ह्येनत् प्रथम इति प्रथममित्यर्थः || २ - ३ ||