ब्रह्म ह देवेभ्यो विजिग्ये

अथ तृतीयखण्डः

इन्द्रादिदेवानां अहङ्कारखण्डने काञ्चनाख्यायिका प्रदर्शनम्

उपनिषत्

ब्रह्म ह देवेभ्यो विजिग्ये ।

तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ।

त ऐक्षन्त । अस्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ १॥

तद्धैषां विजज्ञौ ॥ तेभ्यो ह प्रादुर्बभूव ।

तन्न व्यजानन्त । किमिदं यक्षमिति ||||

भाष्यम्

इत्यत्राख्यायिकां वच्मि श्रुणु तां त्वं महेश्वर ।

स्थित्वा देवेषु तद् ब्रह्म व्यजयद्दैत्यदानवान् ॥

देवेभ्योऽर्थाय विजयं ते देवा मेनिरे स्वकम् ।

आविष्टा असुरैस्तेषां प्रबोधाय जनार्दनः ।।

यक्षरूपः प्रादुरभूदुमाशिवसमन्वितः ।

ब्रह्मणा चापि सहित एतेभ्योऽपि परो ह्ययम् ॥

एतेSपि भृत्यभूताः परिवार्य व्यवस्थिताः ।

इति ज्ञापयितुं विष्णुः सह तैरप्युपागतः ॥

यूयमेतानपि ज्ञातुमशक्ताः किमु मामिति ।

श्रीव्यासतीर्थविरचितंविवरणम्

व्यासतीर्थीयम्ब्रह्मादृश्यमत्यद्भुतमित्युक्तम् । तत्रार्थे काञ्चनाख्यायिकामाह- ब्रह्म हेत्यादिना ।। तत् तेषामहङ्कारं तेभ्यो ह प्रादुर्बभूव । ब्रह्मादिसहितमितिशेषः । तद्वाक्यजातं व्याकरोति- इत्यत्रेत्यादिना ॥ ब्रह्मादिभि: सहागमनस्य जिज्ञाप- यिषितं प्रयोजनमाह- एतेभ्योऽपीति ॥ प्रयोजनान्तरमाह - यूयमिति ॥

श्रीवामनपण्डितविरचिताटीका

बामनटीकादेवानामपि पारतन्त्र्यातिरेकाद् ब्रह्मत्वं दूरतो निवारितमिति यदुक्तं तत्रेदमुपाख्यानं वक्ति- 'ब्रह्म ह देवेभ्यो विजिग्ये' इत्यादि । अस्याभिप्रायं कथयतिइत्यत्राख्यायिकां बच्मीत्यादिना । स्थित्वा देवेषु तद्

ब्रह्म यत् सर्वभूतसंस्थं पुरस्तादुक्तं तद् ब्रह्म देवेषु नियन्तृत्वेन स्थित्वा देवेभ्यः प्रयोजनाय असुरान् विजिग्ये । तं जयं देवाः परकृतमपि स्वकृतं मेनिरे । 'तद्वैषां विजज्ञौ' तेषां तत् अन्यथामननं तद् ब्रह्म विजज्ञौ व्यजानात् ।

श्रीवादिराजतीर्थविरचिताप्रकाशिका

प्रकाशिका - 'ब्रह्म ह देवेभ्यो विजिग्ये' इत्यत्र देवेभ्य इति चतुर्थी । देवानामर्थं इत्यर्थः । तद्वैषाम् इत्यत्र तत् त ऐक्षन्तेत्युक्तमस्माकमेवायं महिमंतीक्षणमर्थः । तेभ्यो ह प्रादुर्बभूव इत्यत्र तेभ्य इति चतुर्थी देवानां प्रयोजनायेत्यर्थः ।

श्रीवेदेशतीर्थविरचितंविवरणम्

वे. विवरणम् - इदानीं ब्रह्म ह देवेभ्यो विजिग्ये इत्यादिकं प्रकृतासङ्गतं किमर्थमुच्यत इत्याशङ्कापरिहाराय तस्य सङ्गतिं करोति - इत्यत्रेति ॥ ब्रह्मणः साकल्येन देवाज्ञेयत्वे । इदानीं तद्वाक्यं व्याचष्टे - स्थित्वेति ॥ यदि ब्रह्म रामकृष्णाद्यवताररूपेण दैत्यदानवानजयत् तदा तज्जये कथं देवानां स्वकीयत्वभ्रमः स्याद् विशेषदर्शनसत्वादित्यत उक्तम् - स्थित्वा देवेष्विति ॥ दैत्यदानवानिति शेषोक्तिः । देवेभ्य इत्येतत् पञ्चमीति भ्रमनिरासाय तदनूद्य विभक्त्यर्थमाह- देवेभ्योऽर्थायेति ॥ अनेन तादर्थ्ये चतुर्थीत्युक्तं भवति

अथ तस्य ह ब्रह्मणः इत्यारभ्य अयं महिमा इत्यन्तवाक्यं व्याचष्टे - विजयं तमिति ॥ ब्रह्मज्ञानिनां देवानामेवं भ्रमः कुतः ? इत्यत आह- आविष्टा इति ।। तेभ्यो ह प्रादुर्बभूव इति वाक्यं व्याचष्टे- तेषामिति || किमिदं यक्षमिति इत्याद्युत्तरवाक्यानुसारेण यक्षरूप इत्युक्तम् । किं सर्वेषामपि देवानां भ्रमः? नेति भावनाऽह उमेति ॥ एवशब्द इन्द्रादिव्युदासाय । अत्र यद्यपि तस्मिन्नवाकाशे स्त्रियमाजगाम इत्युत्तरवाक्यपर्यालोचनया उमासहित एव प्रादुरभूदिति ज्ञायते । तेन चीमाया एव नैतादृशभ्रमवत्वमिति गम्यते । तथाऽपि उमायास्तादृशभ्रमाभावे तदधिकस्य शिवस्य ततोऽधिकस्य ब्रह्मणश्च सुतरामेवंविधभ्रमाभावः सिद्ध इति भावेन शिवसमन्वितो ब्रह्मणा चैव सहित इत्युक्तम् । ननूमादीनां तादृशभ्रमाभावे तैः सह प्रादुर्भावि किं कारणम् । न चेन्द्रोपदेशार्थं तैः सह प्रादुर्भावः । तथाऽपि रुद्रब्रह्मसाहित्यस्य व्यर्थत्वात् इत्याशङ्कां परिहरति- एतेभ्योऽपीति यदाऽहमतेभ्यो भवदुत्तमेभ्योऽपि पर उत्तमः । किमु भवद्भ्यः । युष्मदधिका एतेऽपि में भृत्यभूताः किमु यूयम् । तथा च मदीय एवायं विजय इति न

युष्माभिस्तथा भ्रमः कार्य इति ज्ञापयितुं तैरपि सहोपागत इत्यर्थः । प्रयोजनान्तरमाह- यूयमिति ॥ इति ज्ञापयितुं विष्णुः सह तैरप्युपागतः इति पूर्वेण सम्बन्धः ।

श्रीवेदेशतीर्थविरचितश्रुत्यर्थ:

वे. श्रुत्यर्थ:- साकल्येन देवाज्ञेयः परमात्मेत्यत्रार्थे काञ्चनाऽख्यायिकामाह- चतुर्मुखः ब्रह्मेति ॥ ब्रह्म देवान्तर्यामिरूपं देवेभ्यो देवार्थं देवानाम् ऐश्वर्यप्राप्त्यर्थं विजिग्ये व्यजयत् । दैत्यदानवान् इति शेषः । तस्य देवान्तर्यामिणो ब्रह्मणः दैत्यादिविजये सति देवा अमहीयन्त । अहङ्कारं कृतवन्तः । कथम् ते देवा अयं विजयो दैत्यदानवविजयोऽस्माकमेव न ब्रह्मणः । तथाचायं महिमाऽस्माकमेवेत्यैक्षन्त ज्ञातवन्तः । एवं देवैः अहङ्कारे कृते सति देवानां तद् तद् देवान्तर्यामिरूपं ब्रह्म एषां अहङ्कारं विजज्ञौ ज्ञातवान् ।

एवं ज्ञात्वा तेभ्यो देवेभ्यो देवानां स्वस्वरूपज्ञापनाय यक्षरूपं सद् ब्रह्मवायुशेषगरुडरुद्रैः सभार्यैः सह प्रादुर्बभूव । एवं ब्रह्मणि प्रादुर्भूते ते देवाः तत् प्रादुर्भूतं न व्यजानत न ज्ञातवन्तः । प्रत्यक्षतो दर्शनात् कथं न व्यजानतेत्यत आह- किमिति ॥ इदं परिदृश्यमानं यक्षं किमिति किं रूपमिति न व्यजानतेति सम्बन्धः || १-२॥

नृसिंहभिक्षुविरचिताउपनिषदार्थप्रकाशिका

नृसिंहप्रकाशिका - ब्रह्मादृश्यमित्यद्भुतमित्युक्तम् । तत्रार्थे काञ्चनाख्या- यिकामाह- ब्रह्मेति ॥ ब्रह्म देवेभ्यः विजिग्ये ह । इन्द्रादिदेवाभीष्टसिद्धये इन्द्राद्यन्तर्गतः सन् असुरान् व्यजयत् । एतत् प्रमाणसिद्धम् । एवं तस्य ब्रह्मण एव विजये सति इत्याविष्टा इन्द्राद्यास्तं विजयं स्वकं मत्वा अमहीयन्त । महिमवत्वेन अहङ्कारयुक्ता अभवन् ।

अहङ्कारप्रकारं दर्शयति त इति ॥ ते देवाः अस्माकमेवायं विजयः अस्माकमेवायं महिमेति । एक्षन्त व्यजानन् । तत् ब्रह्म । एषां देवानां तत् साहङ्कारलक्षणम् । विजज्ञौ । व्यजानत् । देवानामहङ्कारशान्तये ब्रह्मरुद्रोमासहितं परं ब्रह्म यक्षस्वरूपं सत् तेभ्यः प्रादुर्बभूव । ब्रह्मरुद्रादिज्ञानेऽपि भवतां व्यावृत्यर्थं किमु तज्ज्ञाने इति दर्शयितुं तैः सहागतं इन्द्रोपदेशे साक्षाद्गुरुमेवेति ज्ञापयितुं उमया सहागतम् ॥ १-२।।

 

श्रीसत्यप्रियतीर्थविरचिताभाष्यविवृतिः

स. भाप्यविवृतिः - 'ब्रह्म ह देवेभ्यो विजिग्ये' इत्यस्मादारभ्य 'विदाञ्चकार ब्रह्म' इतीत्यन्तेन । इन्द्रादिदेवानां अभीष्टाय इन्द्राद्यन्तर्गतः सन् असुरान् व्यजैष्ट । तस्य देवान्तर्यामिब्रह्मणः दैत्यादिविजये सति देवा अमहीयन्त । महीङ् पूजायां कण्ड्वादिः । आत्मनः सम्भावयाञ्चक्रिरे । पूर्वदेवावेशवशंवदः कथमयं दैत्यदानवविषयां विजयः । अस्माकमेव नान्यस्य अयं महिमा अस्माकमेवेति ऐक्षन्त अपश्यन् । तद्ब्रह्मा एषां देवानां तत् आत्मसम्भावनं विजज्ञौ व्यज्ञासीत् । ज्ञात्वा तेभ्यो देवेभ्यः देवानां स्वस्वरूपज्ञापनाय यक्षरूपं सत् ब्रह्मवायुशेषगरुडरुद्रैः सभार्यैः सह प्रादुरभूत् । ते देवाः तद्यक्षरूपं न व्यजानत । नावबुध्यन्त । प्रत्यक्षतो दर्शनात् कथमनवबोधः इत्यतो ब्रूते- किमिति ॥ इदं परिदृश्यमानं यक्षं किं किं धर्मावच्छिन्नं इति न व्यजानतेति पूर्वेण सम्बन्धः ।

श्रीवरदतीर्थभिक्षुविरचिताटीका

वरदतीर्थीयम् - ब्रह्मादृश्यमित्यत्र आख्यायिकोच्यते 'ब्रह्म ह देवेभ्यो विजिग्ये ' इत्यादिना । तां व्याचष्टे - इत्यत्रेत्यादिना ॥ यक्षरूपस्य विष्णोः ब्रह्मादिसाहित्येन प्रादुर्भावे किं निमित्तमिति तत्राह - एतेभ्योऽपीति ।। तैस्सह प्रादुर्भाव निमित्तान्तरञ्चाह- यूयमिति ॥

ब.उ.मन्त्रार्थः- ब्रह्म ह देवेभ्यो विजिग्ये इति देवेषु स्थित्वा देवेभ्यो अर्थाय दैत्यान् विजिग्य इत्यर्थः । अमहीयन्त अपूज्यन्त । तद्वैषां विजज्ञौ इति । तत् ब्रह्म तेषां मनोगतं व्यजानादित्यर्थः || १ - २ ।।

श्रीराघवेन्द्रयतिविरचितःतलवकारोपनिषत्खण्डार्थः

खण्डार्थ:-- अत्यद्भुतत्वात् ब्रह्म साकल्येनाज्ञेयमित्युक्तेऽर्थे काञ्चनाऽख्या- यिकामाह - ब्रह्मेति ॥ देवानां दैत्यदानवर्युद्धे प्रस्तुते सति ब्रह्म देवानाविश्य देवेभ्यो दवानामर्थे दैत्यादीन् विजिग्ये व्यजयत् । हेति । निश्चितमेतदित्यर्थः । अथ विजयानन्तरं तस्य देवेष्वाविष्टस्य ब्रह्मणो विजये सति देवा अमहीयन्त अपूज्यन्त । महीङ् पूजायामित्यस्मात् 'कण्ड्वादिभ्यो यक्' इति यक् प्रत्ययः । गर्विणो अभवन्निति यावत् । हेत्याश्चर्यम् । ब्रह्मणां विजये कुतो देवानां गर्व इति तदेव व्यनक्ति त इति ॥ ते देवा अस्माकमेवायं विजयोऽस्माकमेवायं महिंमत्यैक्षन्त व्यजानन् । एषां देवानां तद् असुरांवंशकृतेश्वराज्ञाननिमित्त-महङ्कारादिकं विजज्ञौ व्यजानात् ब्रह्मेत्यनुषङ्गः । तेभ्यो देवेभ्योऽर्थे देवानां स्वात्मतत्त्वबोधाय यक्षरूपतया प्रादुर्बभूव ब्रह्मेत्यर्थः । उमाशिवचतुर्मुखसहितं सदिति योज्यम् । तद् यक्षरूपं ब्रह्म इदं यक्षं किमिति न व्यजानन्त न व्यजानन् ।।१-२।।

Load More