तस्यैष आदेशो यदेतद् विद्युतोऽभिव्यद्युतदा इति
इन्द्रं प्रति उमाकृतब्रह्मतत्वोपदेशः
उपनिषत्
तस्यैष आदेशो यदेतद् विद्युतोऽभिव्यद्युतदा इति ।
न्यमीमिषदा३ इत्यधिदैवतम् ॥४॥ अथाध्यात्मम् ।
यदेतद् गच्छतीव च मनोऽनेनैव तदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥५॥
भाष्यम्
व्यद्योतयद्विद्युदादीन् कपिलाख्यस्तु यो हरिः ।
अक्ष्णोर्निमेषणं कृत्वा यः शेते क्षीरसागरे ॥
स एवैकः परं ब्रह्मेत्येव तस्योपदेशनम् ।
अधिदैवे तथाऽध्यात्मे यं मनो गच्छतीव च ॥
सम्यङ् न गच्छति क्वापि मनो येन स्मरत्यपि ।
सोऽनिरुद्धाख्य ईशेशः परं ब्रह्मेति कीर्त्यते ॥
श्रीव्यासतीर्थविरचितंविवरणम्
व्यासतीर्थीयम्- अधिदैवमध्यात्मं चोपास्यं रूपमुपदिशति - तस्यैष इत्यादिना ॥ अप्रतीतेस्तद्वाक्यजातं व्याचष्टे - व्यद्योतयदित्यादिना ॥ रूपाणां स्थानभेदकृतो भेदो न मन्तव्य इति भावेनोक्तम् - स एवैक इति ।। येन प्रेरितं मनो विषयान् स्मरति ||४-५||
श्रीवामनपण्डितविरचिताटीका
वामनटीका- यदेतत् प्रादुर्भूतं यक्षं तत् सामान्यत एव हि पूर्वोपदिष्टमथ वस्त्वन्तरव्यावृत्तये विशेषधर्मैः सहोपदिशति सा देवी ‘तस्यैषः’ इत्यादिना । अथ भगवांस्तदभिप्रायं द्योतयति- 'व्यद्योतयत्' इत्यादिना ॥ इत्येव तस्योपदेशनम् इत्येतद् वचनं ‘तस्यैष आदेशः' इत्यस्य व्याख्यानम् । तस्य ब्रह्मणः एष आदेशः विशेषधर्मोपदेश इत्यर्थः ।। ४–५ ।।
श्रीवेदेशतीर्थविरचितंविवरणम्
वे.विवरणम्- ‘तस्यैष आदेश' इत्यादि ' इत्यधिदैवतम्' इत्यन्तं वाक्यमप्रतीतेर्व्याचष्टे- व्यद्योतयदित्यादिनाऽधिदैव इत्यन्तेन ॥ श्रुतौ विद्युच्छब्द उपलक्षक इति भावेन विद्युदादीनित्युक्तम् । अभिव्यद्युतदित्यस्यार्थः- व्यद्योतयदिति ॥ कपिलाख्य इत्यनेन यदेतदित्युक्तैतच्छब्दार्थ उक्तः । न्यमीमिषदित्यत्रापि यच्छब्दोऽनुवर्तनीय इति भावेन तस्यार्थमाह- अक्ष्णोरिति ॥ श्रुतौ यच्छब्दस्य तच्छब्दाभावेनानन्वयशङ्कां तदध्याहारेण परिहरन् अभिव्यद्युतदा इत्यत्र न्यमीमिषदा इत्यत्र चोक्तस्य आ इत्यस्यार्थमाह- स एवेति ॥ स्थानभेदेन भेदो न शङ्कनीय इति भावेनोक्तम् - एक इति ॥ अथाध्यात्मम् इत्यारभ्य तद्ध इत्यन्तं वाक्यं व्याचष्टे- तथाऽध्यात्म इत्यादिना ॥ यम् . अनिरुद्धाख्यम् । उत्तरत्रानुवादात् । तेन श्रुतावेतच्छब्दार्थ उक्तः । इवशब्दार्थं व्यनक्ति- सम्यगिति ।।
श्रीवेदेशतीर्थविरचितश्रुत्यर्थ:
वे.श्रुत्यर्थः– तस्य भगवत अधिदैवमध्यात्मं चोपास्यरूपमुपदिशति- तस्येति ।। अधिदैवतं तस्य भगवत एष वक्ष्यमाण आदेश उपदेश इति सम्बन्धः । एतत् प्रसिद्धं यत् कपिलारख्यं रूपं विद्युतो विद्युदादिप्रकाशान् आ समन्तात् अभिव्यद्युतद् व्यद्योतयत् प्राकाशयत् । स एव आः पूर्णत्वादाकारवाच्यं परं ब्रह्मेति तस्याऽदेश इत्यर्थः । यदेतदित्यत्रापि सम्बध्यते । यदेतत् कपिलाख्यं आ समन्तात् न्यमीमिषत् निमीलिताक्षमभवत् । अक्ष्णोर्निमेषणं कृत्वा क्षीरसागरे शेते स एव आः पूर्णत्वादाकारवाच्यं परं ब्रह्मेति तस्याऽदेश इत्यर्थः । अथ अधिदैवमुपास्वरूपक्रथनानन्तरमध्यात्मं तस्याऽ देशप्रकार उच्यत इत्यर्थः । यदेतत् प्रसिद्धम् अनिरुद्धाख्यं रूपं प्रति अभीक्ष्णं निरन्तरं सङ्कल्पः सङ्कल्पकं मनो गच्छतीव कापि सम्यक् न गच्छति । चशब्दो वक्ष्यमाणविशेषणसमुच्चये अनेनैवानिरुद्धाख्येन भगवता प्रेरितं तन्मन उपस्मरति स्मरणसाधनं भवति तद्ध तदेव । आ इत्यनुवर्तते आः परं ब्रह्मेत्यर्थः ||४-५||
नृसिंहभिक्षुविरचिताउपनिषदार्थप्रकाशिका
नृसिंहप्रकाशिका - अधिदैवमध्यात्मं चोपास्यरूपमुपदिशति- तस्येति ॥ विद्युतः बहुवचनमाद्यर्थे विद्युदादीन् । यत् रूपं आसमन्तात् व्यद्योतयत् प्रकाशकशक्तिं दत्वा प्रकाशयामास । इति एवं धर्मिकम् । तं चैतत् कपिलाख्यं रूपमेत्र । आः पूर्णं मूलरूपं सत् । अ न्यमीमिषत् । अक्ष्णोनिर्मीलनं कृत्वा समन्तात् क्षीरसागरे शेते I कपिलाख्यावताररूपं मूलरूपं चेत्युभयं एकमेवेत्यर्थः। इत्यधिदैवं तमुपास्यं निरूपितम् । अथाध्यात्ममुपास्यमुपदिश्यते । अभीक्ष्णं सङ्कल्पः सङ्कल्पकम् । यदेतत् मनः विष्ण्वादिविषयं गच्छतीव अल्पं स्मरति । सम्यक् च न स्मरति । तदेनत् । मनः । अनेनानिरुद्धाख्यपरमात्मना प्रेरितं सत् । विष्ण्वादिविषयं उपस्मरति वै । तत् ब्रह्म गुणैस्ततत्वात् ॥ ४-५||
श्रीसत्यप्रियतीर्थविरचिताभाष्यविवृतिः
स.भाप्यविवृतिः- एवमाख्यायिकां चतुर्मुखः पञ्चमुखं प्रति अधिदैवमाध्यात्मं चोपास्यं रूपमुपादिशत् । तस्यैषेत्यादि । अधिदैवतं तस्य भगवतः एष क्षमाणः आदेश उपदेश इति सम्बन्धः । भावे घञ् । एतत् तत् प्रसिद्धं कपिलात्र्यं रूपं विद्युतः प्रकाशात् आसमन्तात् । व्यद्युतत् प्राकाशयत् । स एव आः पूर्णत्वादाकारवाच्यं परं ब्रह्म । आ आः इति च्छेदः । यदेतद्ब्रह्म । कपिलाख्यं आसमन्तात् आः पूर्णं न्यमीमिषत् स्वार्थे णिच । आ आकारवाच्यं परं ब्रह्मेत्यधिदैवतं तस्यादेश इत्यन्वयः । विद्युदादिप्रकाशस्य भगवतः कपिलस्य क्षीरसागरमधिशयानस्य न्यमीमिषत् स्वार्थे णिच् । अक्ष्णोर्निमेषणं कृत्वा क्षीरसागरे अशेत । तदेव आ आकारवाच्यं परं ब्रह्मेत्यधिदैवतं तस्यादेश इत्यन्वयः । विद्युदादिप्रकाशस्य भगवतः कपिलस्य क्षीरसागरमधिशयानस्य च कपिलस्य स्थानभेदेन भेदमाशङ्किष्ठ इति उभयोः पूर्णत्वविधानम् । अथ अधिदैवमुपास्य रूपकथनानन्तरं अध्यात्मं तस्य एष आदेश अभीक्ष्णं सङ्कल्पकं यदेतन्मनः विष्ण्वादिविषयं गच्छतीव सम्यङ् न गच्छति । येन अनिरुद्धाख्येन भगवता प्रेरितं मनः एनत् ब्रह्म स्वरूपं उपस्मरति । तदनिरुद्धाख्यं रूपमेव आ पूर्णं तदेवानिरुद्धाख्यं रूपं तद्वनं नाम ततत्वात् तत्, वननीयत्वात् वनम् इत्यनुवर्तते । तद्ब्रह्म एतदुभयनामधेयाभिधेयमिति भावः ।
श्रीवरदतीर्थभिक्षुविरचिताटीका
वरदतीर्थीयम्- इदानीमधिदैवमध्यात्मं चोपासितव्यं ब्रह्मरूपमुपदिश्यते । तस्यैषआदेश इत्यादि । तव्याचष्टे - व्यद्योतयदिति ॥ नचैवं स्थानभेदेन तस्मिन्भेदः शङ्कनीय इत्याह- स इति ॥
श्रीराघवेन्द्रयतिविरचितःतलवकारोपनिषत्खण्डार्थः
खण्डार्थः– अधिदैवतमध्यात्मं चोपास्यरूपमुपदिशति - तस्यैष इत्यादिना ॥ तस्य ब्रह्मणः एष आदेशः उपदेशः । यदेतत् कपिलाख्यं परं विद्युतः, बहुवचनमाद्यर्थे, उपलक्षणं वा, विद्युदादीन् तेजोरूपानर्थान् आ समन्तात् व्यद्युतत् व्यद्योतयद् आदीपयदिति । आ न्यमीमिषत् सम्यक् न्यमीलयत् । आः पूर्णं ब्रह्माक्षिणी निमील्य क्षीरसागरे शेत इति यावत् । ‘आ प्रगृह्यः स्मृतौ वाक्येऽप्यास्तु स्यात् कोपपीडयोः' इत्यव्ययवर्गे अमरोक्त्या प्रगह्य संज्ञकस्य आ इति निपातस्य च सत्वेन भाष्ये न्यमीमिषदा इत्यत्र प्रगृह्याकारस्य सन्ध्यभावेन आ समन्तादित्येकमर्थमुक्त्वा आः इति पदविभागमाश्रित्य आः पूर्णमित्यर्थं उक्तः इत्येष आदेशः अधिदैवे स्थितस्य तस्येति । इतिशब्दद्वयस्य पूर्वेणान्वयः । अथेत्यर्थान्तरे । अध्यात्मं देहे, तस्योपदेश उच्यते इत्यर्थः । यदेतन्मनोऽनेनैव प्रेरितं सद् गच्छतीव च सम्यङ् न गच्छति । साकल्येन वस्तु न विषयीकरोति । अनेनैवानिरुद्धात्र्येन हरिणा तद् विषयजातम् उपस्मरति । कीदृशं मन इत्यत उक्तम्- अभीक्ष्णं सङ्कल्प इति ॥ भृशमनेकार्थान् सङ्कल्पयतीति सङ्कल्पः, सङ्कल्पकमित्यर्थः । लिङ्गव्यत्ययश्छान्दसः, शब्दस्वभावाद्वा । अभीक्ष्णं नित्यं भृशं सङ्कल्पश्च भवति । तस्यानिरुद्धस्य हरेरेष उपदेश इत्यर्थः ||४-५ ||