श्रीशङ्कर भाष्यम्

ईशावास्योपनिषदि श्रीमच्छङ्करभगवत्पादाचार्यविरचितं भाष्यम्
ईशावास्यम्इत्यादयो मन्त्राः कर्मस्वविनियुक्तास्तेषामकर्मशेषस्याऽऽत्मनो याथात्म्यप्रकाशकत्वात् । याथात्म्यं चाऽऽत्मनः शुद्धत्व, अपापविद्धत्व, एकत्व, नित्यत्व, अशरीरत्व, सर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा युक्त विरुध्येतेति युक्त एवैषां कर्मस्वविनियोगः । न ह्येवंलक्षणमात्मनो याथात्म्यमुत्पाद्यं विकार्यमाप्यं संस्कार्यं कर्तृभोक्तृरूपं वा येन कर्मशेषता स्यात्? सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपक्षयात् । गीतानां मोक्षधर्माणां चैवम्परत्वात् । तस्मादात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वादि चाशुद्धत्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्धं कर्माणि विहितानि । यो हि कर्मफलेनार्थी दृष्टेन ब्रह्मवर्चसादिनाऽदृष्टेन स्वर्गादिना
च द्विजातिरहं न काणकुब्जत्वाद्यनधिकारप्रयोजकधर्मवान् इत्यात्मानं मन्यते सोऽधिक्रियते कर्मस्विति ह्यधिकारविदो वदन्ति । तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रकाशनेनाऽऽत्मविषयं स्वाभाविकमज्ञानं निवर्तयन्तः
शोकमोहादिसंसारधर्मविच्छित्तिसाधनमात्मैकत्वादिविज्ञानं उत्पादयन्ति इत्येवमुक्ताधिकार्यभिधेयसम्बन्धप्रयोजनान्मन्त्रान् सङ्क्षेपतो व्याख्यास्यामः ।ईशावास्यम्इत्यादि

ईशा वास्यमिदं सर्वं यत्किं च जगत्यां जगत् 
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥

ईशा ईष्ट इतीट् तेनेशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वमीष्टे सर्वजन्तूनामात्मा सन् प्रत्यगात्मतया, तेन स्वेन रूपेणाऽऽत्मनेशा वास्यमाच्छादनीयम् । किम् ? “इदं सर्वयत्किञ्चिज्जगत्यां पृथिव्यां जगत्तत्सर्वं स्वेनाऽऽत्मनेशेन प्रत्यगात्मतयाऽहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्वं चराचरमाच्छादनीयं स्वेन परमात्मना । यथा चन्दनागर्वादरुदकादि- सम्बन्धजक्लेदादिजमौपाधिकं दौर्गन्ध्यं तत्स्वरूपनिघर्षणेनाऽऽच्छाद्यते स्वेन परमार्थिकेन गन्धेन तद्वदेव हि स्वात्मन्यध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्वैतरूपंजगत्यांपृथिव्यां जगत्यां इत्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया व्यक्तं स्यात्? एवमीश्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसंन्यास एवाधिकारो, न कर्मसु ।तेन त्यक्तेन”, त्यागेन इत्यर्थः । न हि त्यक्तो मृतः पुत्रो वा भृत्यो वाऽऽत्मसम्बन्धिताया अभावादात्मानं पालयति, अतस्त्यागेनेत्ययमेव वेदार्थः ।भुञ्जीथाःपालयेथाः । एवं त्यक्तैषणस्त्वंमा गृधः", गृधिमाकाङ्क्षां मा कार्षीर्धनविषयाम् ।कस्यस्विद्धनंकस्यचित्परस्य स्वस्य वा धनं मा काङ्क्षीरित्यर्थः । स्वदित्यनर्थको निपातः । अथवामा गृधः। कस्मात् ? “कस्यस्विद्धनम्इति आक्षेपार्थो, न कस्यचिद्धनमस्ति यद्ध्येत ? 'आत्मैवेदं सर्वम्' इतीश्वरभावनया सर्वं त्यक्तमत आत्मन एवेदं सर्वमात्मैव च सर्वमतो मिथ्याविषयां गृधिं मा कार्षीः इत्यर्थः ॥१॥

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः 
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥

एवमात्मविदः पुत्राद्येषणात्रयसंन्यासेनाऽऽत्मज्ञाननिष्ठतयाऽऽत्मा रक्षितव्य इत्येष वेदार्थः । अथेतरस्यानात्मज्ञतयाऽऽत्मग्रहणायाशक्तस्य इदमुपदिशति मन्त्रःकुर्वन्नेवइति ।कुर्वन्नेवेहनिर्वर्तयन्नेव कर्माण्यग्निहोत्रादीनिजिजीविषेज्जीवितुमिच्छेत् शतसङ्ख्याकाःसमाःसंवत्सरान् । तावद्धि पुरुषस्य परमायुर्निरूपितम् । तथा च प्राप्तानुवादेन यज्जिजीविषेच्छतं वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्विधीयते । एवमेवं प्रकारेणत्वयिजिजीविषति नरे नरमात्राभिमानिनीत एतस्मादग्निहोत्रादीनि कर्माणि कुर्वत वर्तमानात्प्रकारादन्यथा प्रकारान्तरं नास्ति येन प्रकारेणाशुभं कर्म नलिप्यतेकर्मणा न लिप्स्यस, इत्यर्थः । अतः शास्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् । 'कथं पुनरिदमवगम्यते पूर्वेण मन्त्रेण संन्यासिनो ज्ञाननिष्ठोक्ता, द्वितीयेन तदशक्तस्य कर्मनिष्ठा', इति उच्यते । ज्ञानकर्मणोर्विरोधं पर्वतवदकम्प्यं यथोक्तं न स्मरसि किम्? इहाप्युक्तं, 'यो हि जिजीविषेत्स कर्म कुर्वन् । ईशा वास्यमिदं सर्वं, तेन त्यक्तेन भुञ्जीथा, मा गृधः कस्यस्विद्धनम् इति च ।न जीविते मरणे वा गृधिं कुर्वीतारण्यमियाद्इति च पदम् । पुनरियादिति संन्यासशासनात् । उभयोः फलभेदं च वक्ष्यति पन्थानावनुनिष्कान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्यासश्चोत्तरेण
इमौ द्वावेव निवृत्तिमार्गेणैषणात्रयस्य त्यागः । तयोः संन्यासपथ एवातिरेचयति ।न्यास एवात्यरेचयद्इति च तैत्तिरीयकेद्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च विभावितः
इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता । विभागं चानयोर्दर्शयिष्यामः ॥२॥

असुर्या नाम ते लोका अन्धेन तमसा वृताः 
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥

अथेदानीमविद्वन्निन्दार्थोऽयं मन्त्र आरभ्यतेअसुर्याःपरमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुरास्तेषां च स्वभूता लोका असुर्या नाम । नामशब्दोऽनर्थको निपातः । ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि ।अन्धेनअदर्शनात्मकेन, अज्ञानेनतमसाऽऽवृताआच्छादितास्तान्स्थावरान्तन्प्रेत्यत्यक्त्वेमं देहमभिगच्छन्ति यथाकर्म यथाश्रुतम् ।चाऽऽत्महनःआत्मानं घ्नन्ति इति आत्महनः । के ते जनाः ? येऽविद्वांसः । कथं त आत्मानं नित्यं हिंसन्ति? अविद्यादोषेण विद्यमानस्याऽऽत्मनस्तिरस्करणात् । विद्यमानस्याऽऽत्मनो यत्कार्यं फलमजरामरत्वादिसंवेदनलक्षणं तद्धतस्येव तिरोभूतं भवतीति प्राकृता अविद्वांसो जनाआत्महनउच्यन्ते । तेन ह्यात्महननदोषेण संसरन्ति ते ॥ ३॥

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् 
तद्धावतोऽन्यानत्येति तिष्ठ—त्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥

यस्याऽऽत्मनो हननादविद्वांसः संसरन्ति तद्विपर्ययेण विद्वांसो जना मुच्यन्ते ते नाऽऽत्महनः । तत्कीदृशमात्मतत्त्वमित्युच्यते, “अनेजद्इति ।अनेजद्”, न एजत् ।एजृ कम्पने'कम्पनं चलनं स्वावस्थाप्रच्युतिस्तद्वर्जितं सर्वदैकरूपम्, इत्यर्थः । तच्चैकं सर्वभूतेषु ।मनसःसङ्कल्पादिलक्षणाद्जवीयोजववत्तरम् । कथं विरुद्धमुच्यते, ध्रुवं निश्चलमिदं मनसो जवीय, इति च ?  नैष दोषः,  ' निरुपाध्युपाधिमत्त्वेनोपपत्तेः । तत्र निरुपाधिकेन स्वेन रूपेणोच्यते, “अनेजदेकम्इति । मनसोऽन्तःकरणस्य सङ्कल्पविकल्पलक्षणस्य उपाधेरनुवर्तनादिह देहस्थस्य मनसो ब्रह्मलोकादिदूरगमनं सङ्कल्पेन क्षणमात्राद्भवतीत्यतो मनसो जविष्ठत्वं लोके प्रसिद्धम् । तस्मिन्, मनसि ब्रह्मलोकादीन्द्रुतं गच्छति सति प्रथमं प्राप्त इवाऽऽत्मचैतन्य अवभासो गृह्यते, अतो मनसो जवीय' इत्याह द्योतनाद्देवाश्चक्षुरादीनीन्द्रियाण्येतत्प्रकृतमात्मतत्त्वं नाऽऽप्नुवन्ननैनद्देवा
प्राप्तवन्तः । तेभ्यो मनो जवीयो, मनोव्यापारव्यवहितत्वात् आभासमात्रमपि आत्मनो नैव देवानां विषयीभवति । यस्माज्जवनान्मनसोऽपि पूर्वमर्षत् पूर्वमेव गतम् । व्योमवद् व्यापित्वात् । 'सर्वव्यापि तदात्मतत्त्वं सर्वसंसारधर्मवर्जितं स्वेन निरुपाधिकेन स्वरूपेणाविक्रियमेव सदुपाधिकृताः सर्वाः संसारविक्रिया अनुभवतीवाविवेकिनां मूढानामनेकमिव च प्रतिदेहं प्रत्यवभासत', इत्येतदाहतद्धावतो द्रुतं गच्छतोऽन्यानात्मविलक्षणान्मनोवागिन्द्रियप्रभृतीनत्येत्यतीत्य गच्छतीव । वार्थ स्वयमेव दर्शयति " तिष्ठद्इति । स्वयमविक्रियमेव सदित्यर्थः ।तस्मिन्आत्मतत्त्वे सति नित्यचैतन्यस्वभावे, “मातरिश्वामातर्यन्तरिक्षे श्वयति गच्छतीति मातरिश्वा' वायुः सर्वप्राणभृत्क्रियात्मको यदाश्रयाणि कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ, स मातरिश्वा ।अप:कर्माणि प्राणिनां चेष्टालक्षणानि । अग्न्यादित्यपर्जन्यादीनां ज्वलनदहनप्रकाशाभिवर्षणादिलक्षणानिदधाति " विभजतीत्यर्थः । धारयतीति वा ।भीषाऽस्माद्वातः पवते” ( तै. उ. २. ८) इत्यादिश्रुतिभ्यः । सर्वा हि कार्यकारणादिविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वास्पदभूते सत्येव भवन्तीत्यर्थः ॥४॥

तदेजति तन्नैजति तद्दूरे तद्वन्तिके 
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥

न मन्त्राणां जामिताऽस्तीति पूर्वमन्त्रोक्तमप्यर्थ पुनराहतदेजति" इति । तदात्मतत्त्वं यत्प्रकृतं तदेजति चलति तदेव चनैजतिस्वतो नैव चलति स्वतोऽचलमेव सच्चलतीवेत्यर्थः । किञ्च "तद्दूरे" वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाद्दूर इव, तत्अन्तिक इति च्छेदः । तद्वन्तिके" समीपेऽत्यन्तमेव विदुषामात्मत्वान्न केवलं दूरेऽन्तिके च, तदन्तरभ्यन्तरेअस्य सर्वस्य”, “ आत्मा सर्वान्तरइति श्रुते: ।अस्य सर्वस्यजगतो नामरूपक्रियात्मकस्यतदु" अपि "सर्वस्यअस्यबाह्यतःव्यापकत्वाद्, आकाशवन्निरतिशयसूक्ष्मत्वादन्तः ।प्रज्ञानघन एवइति च शासनान्निरन्तरं च ॥५॥

यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति 
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥

"यस्तु स्थावरान्तानिआत्मन्येवानुपश्यति' 'आत्मव्यतिरिक्तानि न पश्यति' इत्यर्थः ।सर्वभूतेषु" च तेष्वेवचाऽऽत्मानं " तेषामपि ,भूतानां स्वमात्मानमात्मत्वेन यथाऽस्य देहस्य कार्यकारणसङ्घातस्याऽऽत्माहं सर्वप्रत्ययसाक्षिभूतश्वेतयिताकेवलो निर्गुणः” (श्वे. उ. ६.११ ) अनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवाऽऽत्मेति सर्वभूतेषु चाऽऽत्मानं निर्विशेषं यस्त्वनुपश्यति स ततस्तस्मादेव दर्शनान्नविजुगुप्सते" विजुगुप्सां घृणां न करोति । प्राप्तस्यैवानुवादोऽयम् । सर्वा हि घृणाऽऽत्मनोऽन्यद् दुष्टं पश्यतो भवत्यात्मानमेवात्यन्तविशुद्धं निरन्तरं पश्यतो न घृणानिमित्तमर्थान्तरमस्तीति प्राप्तमेवततो न विजुगुप्सत" इति ॥ ६॥

यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः 
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥

इममेवार्थमन्योऽपि मन्त्र आह यस्मिन्सर्वाणि भूतानि । यस्मिन्काले यथोक्तात्मनि वा तान्येव भूतानि सर्वाणिपरमार्थात्मदर्शनाद् "आत्मैवाभूद्" आत्मैव संवृत्तः परमार्थवस्तुविजानतस्तत्र " तस्मिन्काले तत्राऽऽत्मनि वाको मोहः कः शोकः " ? शोकश्च मोहश्च कामकर्मबीजमजानतो भवति, न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः ।को मोहः कः शोक" इति शोकमोहयोरविद्याकार्ययोराक्षेपेणासम्भवप्रदर्शनात्, सकारणस्य संसरस्य अत्यन्तमेवोच्छेदः प्रदर्शितो भवति ॥ ७ ॥

स पर्यगाच्छुक्रमकायमव्रण—मस्नाविरं शुद्धमपापविद्धम् 
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतो—ऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥

योऽयमतीतैर्मन्त्रैरुक्त आत्मा स स्वेन रूपेण किंलक्षणक?' इत्याह अयं मन्त्रःस पर्यगात्। स यथोक्त आत्मापर्यगात्परि समन्तादगाद्गतवानाकाशवद् व्यापीत्यर्थः । शुकं शुद्धं ज्योतिष्मद् दीप्तिमानित्यर्थः ।अकायम्”, “अशरीरो लिङ्गशरीरवर्जित' इत्यर्थः ।अव्रणम्अक्षतम् ।अस्नाविरम्स्नावाः शिरा यस्मिन्न विद्यन्त इत्यस्नाविरम् । अव्रणमस्नाविरमित्याभ्यां स्थूलशरीरप्रतिषेधः ।शुद्धम्निर्मलमविद्यामलरहितमिति कारणशरीरप्रतिषेधः ।अपापविद्धम्धर्माधर्मादिपापवर्जितम् ।शुक्रम्" इत्यादीनि वचांसि पुंलिङ्गत्वेन परिणेयानिस पर्यगाद्इत्युपक्रम्यकविर्मनीषीइत्यादिना पुंलिङ्गत्वेन उपसंहारात् ।कविःक्रान्तदर्शी, सर्वदृक् ।नान्योऽतोऽस्ति द्रष्टा " इत्यादिश्रुतेः ।मनीषी" मनस ईषिता सर्वज्ञ ईश्वर इत्यर्थः ।परिभूःसर्वेषां पर्युपरि भवतीति परिभूः ।स्वयम्भूः” Iस्वयमेव भवतीति । येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयम्भूः । स नित्यमुक्त ईश्वरोयाथातथ्यतःसर्वज्ञत्वाद्यथातथा भावो याथातथ्यं तस्माद्यथाभूतकर्मफलसाधनतो अर्थान्कर्तव्यपदार्थान्, "व्यदधाद्विहितवान्, यथानुरूपं व्यभजद्, इत्यर्थः ।शाश्वतीभ्योनित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यः इत्यर्थः ॥ ८ ॥
अत्राऽद्येन मन्त्रेण सर्वेषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः ।ईशावास्यमिदं सर्वम्”, “मा गृधः कस्यस्विद् धनम्इति । अज्ञानां जिजीविषूणां ज्ञाननिष्ठाऽसम्भवे, कुर्वन्नेवेह कर्माणि जिजीविषेद्इति कर्मनिष्ठोक्ता द्वितीयो वेदार्थः । अनयोश्च निष्ठयोर्विभागो मन्त्रप्रदर्शितयोर्बृहदारण्यकेऽपि प्रदर्शितः, “सोऽकामयत जाया मे स्याद्” (बृ. उ. १.४ १७) इत्यादिना अज्ञस्य कामिनः कर्माणीतिमन एवास्याऽत्मा वाग्जाया" (बृ. उ. १.४.१७) इत्यादिवचनाद् अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितमवगम्यते । तथा च तत्फलं सप्तान्नसर्गस्तेष्वात्मभावेनाऽऽत्मस्वरूपावस्थानम् । जायाद्येषणात्रय संन्यासेन चाऽऽत्मविदां कर्मनिष्ठाप्रातिकूल्येन आत्मस्वरूपनिष्ठैव दर्शिता " किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक" (बृ. उ. ४.४.२२) इत्यादिना । ये तु ज्ञाननिष्ठा: संन्यासिनस्तेभ्योअसुर्या नाम त" इत्यादिनाऽविद्वन्निन्दाद्वारेणाऽऽत्मनो याथात्म्यंस पर्यगाद्" इत्येतदन्तैर्मन्त्रैरुपदिष्टम् । ते त्राधिकृता न कामिन, इति । तथा च श्वेताश्वतराणां मन्त्रोपनिषदिअत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम्” (वे. उ. ६ . २१) इत्यादि विभज्योक्तम् । ये तु कर्मिणः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवस्तेभ्य इदमुच्यतेअन्धं तमइत्यादि । कथं पुनरेवमवगम्यते न तु सर्वेषाम् ?' इति अयं मन्त्रःस पर्यगात्। स यथोक्त आत्मापर्यगात्
परि समन्तादगाद्गतवानाकाशवद् व्यापीत्यर्थः । शुकं शुद्धं ज्योतिष्मद् दीप्तिमानित्यर्थः ।अकायम्”, “अशरीरो लिङ्गशरीरवर्जित' इत्यर्थः ।अव्रणम्अक्षतम् ।अस्नाविरम्स्नावाः शिरा यस्मिन्न विद्यन्त इत्यस्नाविरम् । अव्रणमस्नाविरमित्याभ्यां स्थूलशरीरप्रतिषेधः ।शुद्धम्निर्मलमविद्यामलरहितमिति कारणशरीरप्रतिषेधः ।अपापविद्धम्धर्माधर्मादिपापवर्जितम् ।शुक्रम्" इत्यादीनि वचांसि पुंलिङ्गत्वेन परिणेयानिस पर्यगाद्इत्युपक्रम्यकविर्मनीषीइत्यादिना पुंलिङ्गत्वेन उपसंहारात् ।कविःक्रान्तदर्शी, सर्वदृक् ।नान्योऽतोऽस्ति द्रष्टा " इत्यादिश्रुतेः ।मनीषी" मनस ईषिता सर्वज्ञ ईश्वर इत्यर्थः ।परिभूःसर्वेषां पर्युपरि भवतीति परिभूः ।स्वयम्भूः
I
स्वयमेव भवतीति । येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयम्भूः । स नित्यमुक्त ईश्वरोयाथातथ्यतःसर्वज्ञत्वाद्यथातथा भावो याथातथ्यं तस्माद्यथाभूतकर्मफलसाधनतो अर्थान्कर्तव्यपदार्थान्, "व्यदधाद्विहितवान्, यथानुरूपं व्यभजद्, इत्यर्थः ।शाश्वतीभ्योनित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यः इत्यर्थः ॥ ८ ॥
अत्राऽद्येन मन्त्रेण सर्वेषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः ।ईशावास्यमिदं सर्वम्”, “मा गृधः कस्यस्विद् धनम्इति । अज्ञानां जिजीविषूणां ज्ञाननिष्ठाऽसम्भवे, कुर्वन्नेवेह कर्माणि जिजीविषेद्इति कर्मनिष्ठोक्ता द्वितीयो वेदार्थः । अनयोश्च निष्ठयोर्विभागो मन्त्रप्रदर्शितयोर्बृहदारण्यकेऽपि प्रदर्शितः, “सोऽकामयत जाया मे स्याद्” (बृ. उ. १.४ १७) इत्यादिना अज्ञस्य कामिनः कर्माणीतिमन एवास्याऽत्मा वाग्जाया" (बृ. उ. १.४.१७) इत्यादिवचनाद् अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितमवगम्यते । तथा च तत्फलं सप्तान्नसर्गस्तेष्वात्मभावेनाऽऽत्मस्वरूपावस्थानम् । जायाद्येषणात्रय संन्यासेन चाऽऽत्मविदां कर्मनिष्ठाप्रातिकूल्येन आत्मस्वरूपनिष्ठैव दर्शिता " किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक" (बृ. उ. ४.४.२२) इत्यादिना । ये तु ज्ञाननिष्ठा: संन्यासिनस्तेभ्योअसुर्या नाम त" इत्यादिनाऽविद्वन्निन्दाद्वारेणाऽऽत्मनो याथात्म्यंस पर्यगाद्" इत्येतदन्तैर्मन्त्रैरुपदिष्टम् । ते त्राधिकृता न कामिन, इति । तथा च श्वेताश्वतराणां मन्त्रोपनिषदिअत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम्” (वे. उ. ६ . २१) इत्यादि विभज्योक्तम् । ये तु कर्मिणः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवस्तेभ्य इदमुच्यतेअन्धं तमइत्यादि । कथं पुनरेवमवगम्यते न तु सर्वेषाम् ?' इति उच्यते, अकामिनः साध्यसाधनभेदोपमर्देनयस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः, तत्र को मोहः कः शोक एकत्वमनुपश्यत" इति यदात्मैकत्वविज्ञानं तन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चिचीषति । इह तु समुच्चिचीषयाऽविद्वदादिनिन्दा क्रियते । तत्र च यस्य येन समुच्चयः सम्भवति न्यायतः, शास्त्रतो वा, तदिहोच्यते । यद्दैवं वित्तं देवताविषयं ज्ञानं कर्मसम्बन्धित्वेनोपन्यस्तं, न परमात्मज्ञानम् ।विद्यया देवलोक" (बृ. उ. १.५.१६ ) इति पृथक्फलश्रवणात् । तयोर्ज्ञानकर्मणोरिहैकैकानुष्ठाननिन्दा समुच्चिचीषया न निन्दापरैवैकैकस्य पृथक्फलश्रवणात् ।विद्यया तदारोहन्ति”, “विद्यया देवलोक”, " न तत्र दक्षिणा यान्ति”, “कर्मणा पितृलोक" (बृ. उ. १.५.१६ ) इति ।

अन्धं तमः प्रविशन्ति ये अविद्यामुपासते 
ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ९ ॥

न हि शास्त्रविहितं किञ्चिद् अकर्तव्यतामियात् । तत्रान्धं तमोऽदर्शनात्मकं तमः प्रविशन्ति । "के" येऽविद्यां विद्याया अन्याऽविद्या तां कर्मेत्यर्थः । कर्मणो विद्याविरोधित्वात् । तामविद्यामग्निहोत्रादिलक्षणामेव केवलामुपास्ते तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः । ततस्तस्मादन्धात्मकात्तमसोभूय इवबहुतमेवतेतमः प्रविशन्ति । "के" कर्महित्वाये" "उ" ये तु विद्यायामेव देवताज्ञान एव रता अभिरताः ॥ ९॥

अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया 
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥

तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणमाहू, अन्यथा फलवदफलवतोः सन्निहितयोरङ्गाङ्गितैव स्यादित्यर्थः ।अन्यदेवइत्यादि । अन्यत्पृथगेव विद्यया क्रियते फलमित्याहुर्वदन्ति, “विद्यया देवलोको", "विद्यया तदारोहन्तिइति श्रुतेः ।अन्यदाहुरविद्यया" कर्मणा क्रियते, “कर्मणा पितृलोकइति श्रुतेः । इत्येवंशुश्रुम" श्रुतवन्तो वयंधीराणां " धीमतां वचनम् । य आचार्या नोऽस्मभ्यं तत्कर्म च ज्ञानं चविचचक्षिरेव्याख्यातवन्तस्तेषामयमागमः पारम्पर्यागत, इत्यर्थः ॥१०॥

विद्यां चाविद्यां च यस्तद्वेदोभयं सह 
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥ ११ ॥
यत एवमतोविद्यां चाविद्यां चदेवताज्ञानं कर्म चेत्यर्थः, “यस्तद्एतद्उभयं सहएकेन पुरुषेणानुष्ठेयंवेदतस्यैव समुच्चयकारिण एवैकपुरुषार्थसम्बन्धः क्रमेण स्यादित्युच्यतेअविद्ययाकर्मणाऽग्निहोत्रादिनामृत्युम्" स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यमुभयंतीर्त्वा" अतिक्रम्यविद्ययादेवताज्ञानेनअमृतम्देवतात्मभावंअम्नुतेप्राप्नोति । तद्धि अमृतमुच्यते यद्देवतात्मगमनम् ॥ ११ ॥

अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते 
ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥ १२ ॥
अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यतेअन्धं तमः प्रविशन्ति येऽसम्भूतिम्सम्भवनं सम्भूतिः सा यस्य कार्यस्य सा सम्भूतिस्तस्या अन्याअसम्भूतिःप्रकृतिः कारणमविद्याऽव्याकृताख्या तामसम्भूतिमव्याकृताख्यां प्रकृतिं कारणमविद्यां कामकर्मबीजभूतामदर्शनात्मिकांउपासते" ये ते तदनुरूपमेवान्धं तमोऽदर्शनात्मकं प्रविशन्ति ।ततःतस्मादपिभूयो " बहुतरमिवतमःप्रविशन्तिय उ सम्भूत्याम्कार्यब्रह्मणि हिरण्यगर्भाख्येरताः॥१२॥
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् 
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥

अधुनोभयोरुपासनयोः समुच्चयकारणमवयवफलभेदमाह इति । अन्यदेव पृथगेवाऽऽहुः फलंसम्भवात्सम्भूतेः कार्यब्रह्मोपासनादणिमाद्यैश्वर्यलक्षणं व्याख्यातवन्त, इत्यर्थः । तथा च, “अन्यदाहुरसम्भवाद्असम्भूतेरव्याकृतादव्याकृतोपासनाद्यदुक्तं, “अ॒न्धं तमः प्रविशन्तिइति प्रकृतिलय इति च पौराणिकैरुच्यते । इत्येवंशुश्रुम धीराणां " वचनंये नस्तद्विचचक्षिरे " व्याकृताव्याकृतोपासनफलं व्याख्यातवन्त इत्यर्थः ॥१३॥
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह 
विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते ॥ १४ ॥

अधुनोभयोरुपासनयोः समुच्चयकारणमवयवफलभेदमाह इति । अन्यदेव पृथगेवाऽऽहुः फलंसम्भवात्सम्भूतेः कार्यब्रह्मोपासनादणिमाद्यैश्वर्यलक्षणं व्याख्यातवन्त, इत्यर्थः । तथा च, “अन्यदाहुरसम्भवाद्असम्भूतेरव्याकृतादव्याकृतोपासनाद्यदुक्तं, “अ॒न्धं तमः प्रविशन्तिइति प्रकृतिलय इति च पौराणिकैरुच्यते । इत्येवंशुश्रुम धीराणां " वचनंये नस्तद्विचचक्षिरे " व्याकृताव्याकृतोपासनफलं व्याख्यातवन्त इत्यर्थः ॥१३॥
यत एवमतः समुच्चयः सम्भूत्यसम्भूत्युपासनयोर्युक्त एवैकपुरुषार्थत्वाच्च, इत्याह "सम्भूतिं च विनाशं च यस्तद्वदोभयं सह ।विनाशेनविनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणाऽभेदेनोच्यतेविनाशइति । तेन तदुपासनेन अनैश्वर्यमधर्मकामादिदोषजातं चमृत्युं तीर्त्वाहिरण्यगर्भोपासनेन ह्यणिमादिप्राप्तिः फलम् । तेनानैश्वर्यादिमृत्युमतीत्यअसम्भूत्याअव्याकृतोपासनयाऽमृतं प्रकृतिलयलक्षणमनुते ।सम्भूतिं च विनाशं च" इत्यत्र अवर्णलोपेन निर्देशो द्रष्टव्यः, प्रकृतिलयफलश्रुत्यनुरोधात् ॥१४॥
मानुषदैववित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम् । एतावती संसारगतिः । अतः परं पूर्वोक्तंआत्मैवाभूद्विजानतइति सर्वात्मभाव एव सर्वैषणासंन्यासज्ञाननिष्ठाफलम् । एवं द्विप्रकार: प्रवृत्ति- निवृत्तिलक्षणो वेदार्थोऽत्र प्रकाशितः । तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कृत्स्नस्य प्रकाशने, प्रवर्ग्यान्तं ब्राह्मणमप्युक्तम् । निवृत्तिलक्षणस्य वेदार्थस्य प्रकाशनेऽत ऊर्ध्वं बृहदारण्यकमुपयुक्तं, तत्र निषेकादिश्मशानान्तं कर्म कुर्वज्जिजीविषेद्यो विद्यया सहापरब्रह्मविषयया, तदुक्तंविद्यां चाविद्यां च यस्तद्वदोभयं सह, अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्रुत" इति तत्र केन मार्गेणामृतत्वमश्नुत, इत्युच्यतेतद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुष” (बृ. उ. ५.५.२)

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् 
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥

एतदुभयं सत्यं ब्रह्मोपासीनो यथोक्तकर्मकृच्च यः सोऽन्तकाले प्राप्ते सति आत्मानमात्मनः प्राप्तिद्वारं याचते, “ हिरण्मयेन पात्रेण। हिरण्मयमिव हिरण्मयं ज्योतिर्मयमित्येतत् । तेन पात्रेणेवापिधानभूतेनसत्यस्यएवाऽदित्यमण्डलस्थस्य ब्रह्मणोअपिहितम्" आच्छादितंमुखम्द्वारंतत्त्वम्हेपूषन्नपावृणुअपसारयसत्यधर्मायतव सत्यस्योपासनात्सत्यं धर्मो यस्य मम सोऽहं सत्यधर्मा तस्मै मह्यम् । अथवा, यथाभूतस्य धर्मस्यानुष्ठात्रेदृष्टये" तव सत्यात्मन उपलब्धये ॥१५॥

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह
रश्मीन्समूह तेजो यत्ते रूपं कल्याणतमं
तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥

हे पूषन्, जगतः पोषणात्पूषा रविस्तथैक एव ऋषति गच्छतीत्येकर्षिः । हेएकर्षेतथा सर्वस्य संयमनाद्यमः । हेयम", तथा रश्मीनां प्राणानां रसानां च स्वीकरणात्सूर्यः । हेसूर्यप्रजापतेरपत्यं प्राजापत्यः । हेप्राजापत्य” "व्यूहविगमय रश्मीन्स्वान् ।समूहएकी कुरु, उपसंहार तेतेजःतापकं ज्योतिः ।यत्ते" तवरूपं कल्याणतमम्अत्यन्तशोभनं, “तत्तेतवाऽऽत्मनः प्रसादात्पश्यामि॥१६॥

वायुरनिलममृतमथेदं भस्मान्तं शरीरम् 
ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ १७ ॥

वायुःइति अथेदानीं मम मरिष्यतो वायुः प्राणोऽध्यात्मपरिच्छेदं हित्वाऽधिदैवतात्मानं सर्वात्मकं, “अनिलम्”, “अमृतम्”, 'सूत्रात्मानं प्रतिपद्यताम्' इति वाक्यशेषः । लिङ्गं चेदं ज्ञानकर्मसंस्कृतमुत्क्रामत्विति द्रष्टव्यम् । मार्गयाचनसामर्थ्यात् । अथेदं शरीरमगौ हुतंभस्मान्तम्भूयात् । ओमिति यथोपासनम् ओम्प्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते । हे क्रतो सङ्कल्पात्मक स्मर यन्मम स्मर्तव्यं तस्य कालोऽयं प्रत्युपस्थितः, अतः स्मर एतावन्तं कालं भावितं कृतम् अग्ने स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मर इति पुनर्वचनमादरार्थम् ॥॥१७॥

अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् 
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥

पुनरन्येन मन्त्रेण मार्ग याचतेअग्ने नयइति । हेअग्ने” “नयगमयसुपथाशोभनेन मार्गेण ।सुपथा" इति
विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् । निर्वण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेनातो याचे त्वां पुनः नर्गमनागमनवर्जितेन शोभनेन पथानयरायेधनाय कर्मफलभोगायेत्यर्थः ।अस्मान्यथोक्त धर्मफलविशिष्टान्, “विश्वानि सर्वाणि हे देव वनानि कर्माणि प्रज्ञानि वाविद्वान्जानन् । किं चयुयोधि वियोजयविनाशयास्मदस्मत्तो जुहुराणं कुटिलं वञ्चनात्मकमेनः पापम् । ततो वयं विशुद्धाः सन्त इष्टं प्राप्स्याम, इत्यर्थः । किन्तु वयमिदानीं ते न शक्नुम परिचर्या कर्तु "भूयिष्ठाम्" बहुतरांते” “नमउक्तिम्" नमस्कारवचनं परिचरेम, इत्यर्थः ॥१८ ॥

"अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्रुते", "विनाशेन मृत्युं तीर्त्वाऽसम्भूत्याऽमृतमश्रुतइति श्रुत्वा केचित् संशयं कुर्वन्ति । अतस्तन्निराकरणार्थं सङ्क्षेपतो विचारणां करिष्यामः । तत्र तावत्किं निमित्त: संशय? इत्युच्यते ।विद्या" शब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यतेऽमृतत्वं च । ननूक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः । सत्यम् । विरोधस्तु नावगम्यते, विरोधाविरोधयोः शास्त्रप्रमाणकत्वात् । यथाऽविद्यानुष्ठानं विद्योपासनं च शास्त्रप्रमाणकं, तथा तद्विरोधाविरोधावपि । यथा चन हिंस्यात्सर्वा भूतानिइति शास्त्रादवगतं पुनः शास्त्रेणैव बाध्यतेअध्वरे पशुं हिंस्याद्इति । एवं विद्याविद्ययोरपि स्याद्, विद्याकर्मणोश्च समुच्चयः । दूरमेते विपरीते विषूची अविद्या या च विद्या” (क.उ. १.२.४ ) इति श्रुतेः हेतुस्वरूपफलविरोधात् । विद्यां चाविद्यां च" इति वचनादविरोध, इति चेन्न, विद्याऽविद्याविरोधाविरोधयोर्विकल्पासम्भवात् । समुच्चयविधानादविरोध एवेति चेन्न, समसम्भवानुपपत्तेः । क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेन्न, विद्योत्पत्ताविद्याया ह्यस्तत्वात्तदाश्रयेऽविद्यानुपपत्तेः । न ह्यग्निरुष्णः प्रकाशश्चेति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नं तस्मिन्नेव आश्रये शीतोऽग्निरप्रकाशो वेत्यविद्याया उत्पत्तिर्नापि संशयोऽज्ञानं वा । यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः, तत्र को मोहः कः शोक एकत्वमनुपश्यत" इति शोकमोहाद्यसम्भवश्रुतेः । अविद्याऽसम्भवात तंदुपादानाय कर्मणोऽपि अनुपपत्तिमवोचाम ।अमृतमश्नुतइत्यापेक्षिकममृतं, विद्याशब्देन परमात्मविद्याग्रहणेहिरण्मयेन" इत्यादिना द्वारमार्गादियाचनं अनुत्पन्नं स्यात्? तस्माद्, उपासनया समुच्चयो, न परमात्मविज्ञान, इति यथास्माभिर्व्याख्यात एव मन्त्रार्थ इत्युपरम्यते ॥
इति श्रीगोविन्दभगवत्पादशिष्य श्रीशङ्करभगवतः कृतौ वाजसनेयिसंहितोपनिषद्भाष्यं सम्पूर्णम्