....प्रधानज्ञानरूपतः
१६. मुख्यप्रतिमायां प्राणे अन्यासु चास्थितस्य हरेर्न भेदादिकम्
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् ।
समूह तेजः यत् ते रूपं कल्याणतमं तत् ते पश्यामि ॥ १६ ॥
भाष्यम्
.............................प्रधानज्ञानरूपतः
विष्णुरेकऋषिर्ज्ञेयो यमो नियमनाद्धरिः
सूर्यः स सूरिगम्यत्वात् प्राजापत्यः प्रजापतेः
विशेषेणैव गम्यत्वात् ..॥ १६ ॥
ईशावास्योपनिषद्भाष्यटीका
"एक" शब्दस्य प्रधानवाचकत्वात्, “ऋष ज्ञान” इत्यतश्च प्रधानज्ञानरूपत्वत “एकर्षिः” इत्युक्तम् । प्राधान्यं च ज्ञानस्य सर्वविषयत्वादिना ज्ञातव्यम् । ‘नियमनात् सर्वस्य' इति शेषः । “सूर्यः स सूरिगम्यत्वाद्” इत्यनेन “सूरि" शब्दोपपदस्य “यत्ते रूपम्” इदमित्युक्तं भवति । प्रजापतेः हिरण्यगर्भस्यायं प्राजापत्य' इत्यभिसन्धाय सम्बन्धो दर्शितः गम्यत्वाद्” इति । तर्हि “सूर्यम्" इत्यनेन गतार्थत्वम्, इत्यत उक्तम् “विशेषेणैव” इति । एतेन “प्रजापतेरपत्यम्” (शं. भा. १६) इति व्याख्यानं निरस्तं भवति ॥ १६॥
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
“सर्वविषयत्वादिना" इत्यत्र 'निरवधिकसर्वविषयत्वेन', इत्यर्थः । ” “अतीतग्रन्थेनोक्तम्" इति 'यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति” इत्याद्यतीतग्रन्थेन इत्यर्थः “सूरिशब्दोपपदस्य” इत्यत्र निरुक्तत्वादिकारलोपः । अन्यथा सूरियः ' इति स्याद् ? इति ज्ञेयम् ॥१६॥