नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये । पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः
१. मङ्गलाचरणम्
ॐ श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं
॥ श्रीयाज्ञीयमन्त्रोपनिषद्भाष्यम्॥
भाष्यम्
नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये ।
पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः ॥
यस्माद् ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोऽपि च ।
ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः ।
श्रीमज्जयतीर्थभिक्षुविरचितं
ईशावास्योपनिषद्भाष्यटीका
यज्ञं यज्ञभुजं प्राज्ञं पूर्णप्रज्ञमुनीश्वरम् ।
मनोज्ञगुणमासेवे सुज्ञानदमहर्निशम् ॥१॥
श्रीमच्छ्रीवदनाम्भोजगतसौन्दर्यसौरभम् ।
लिहद्भ्यां लोचनालिभ्यां भगवान् पातु नो हरिः ॥ २ ॥
काण्वीं मन्त्रोपनिषदं' यथावद् व्याकरिष्यन् भगवानाचार्यः चिकीर्षिताविघ्नपरिसमाप्त्यादिप्रयोजने तत्प्रतिपाद्यदेवतास्तुतिनती प्रथमं निबध्नाति "नित्य" इति । सर्वयज्ञभुज इति सर्वयज्ञभोक्तृत्वात्, यज्ञनाम्न’ इत्यर्थः । ‘यथोक्तं सुखरूपस्य भोक्तृत्वाद्' इति । 'अपूर्ण सुखाः सुखार्थं भोगान् भुञ्जते, किं तथा हरिरपि ?” नेत्याह “पूर्णानन्दाय” इति । 'भोगास्तु लीलया' इति भावः । पू॒र्णान॒न्दत्वं हरेः कुतः ? इत्यत आह “जगद्धात्र” इति । तदुक्तं “को ह्येवान्याद्” (तै. उ. २.७ ) इत्यादि । धातृत्वं च अनित्यानां एव, न तु नित्यानां, अष्टमस्कन्धे ईशावास्यादिमन्त्रान् याख्याय, ' इति मन्त्रोपनिषदं व्याहरन्तम्" (भा.पु. ८.१.१७) इत्युक्तत्वात् मन्त्रोपनिषदमित्युक्तम् । मन्त्रत्वे सत्युपनिषदमित्यर्थः । गूढकर्तृका भाष्यटीकाटिप्पणी । अनाधेयातिशयत्वाद्, इति नाऽशङ्कनीयमिति भावेन आह " नित्यानित्य” इति । “नित्यं नित्यात्मना यतः" इत्यादेः । अशरीरस्य न जगद्धातृत्वं, शरीरित्वे मरणं स्याद्? इत्यत आह “ज्ञानमूर्तये नित्याय” इति । मूर्तिमत्त्वात् जगद् धातृत्वोपपत्तिः । तस्याश्च मूर्तेर्ज्ञानाद्यात्मकत्वेन नित्यत्वोपपत्ति:' इति । वक्ष्यते चैतत्सर्वं “याथातथ्यतोऽर्थान् व्यदधात्” (ई. उ. ८), “वायुरनिलममृतम्” (ई.उ. १७), “यत्ते रूपं कल्याणतमम्” (ई. उ. १६), “स पर्यगाच्छुक्रम्” (ई. उ. ८), “ तस्मिन्नपो मातरिश्वा दधाति” (ई. उ. ४) इत्यादि । देवताप्रणामानन्तरं गुरुप्रणामः कर्तव्यम्' इति शिष्यान् ग्राहयितुं गुरुत्वेनापि हरिं प्रणमति, “यस्माद्” इति ।
ब्रह्मादीनामप्राप्तज्ञानमुत्पद्यते श्रियस्तु सर्वदा विद्यत', इति सूचयितुं “श्रियोऽपि " इति पृथग् ग्रहणम् । चशब्दोऽवधारणे । “यस्माद्” इत्यनेन सम्बद्ध्यते । “ज्ञानस्फूर्तिः” ज्ञातव्यार्थप्रतिभा । यथायोगं (यथायोग्यं) क्रियाध्याहारः।
॥ याज्ञीयमन्त्रभाष्यविवरणम्॥
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
ह्यास्यं व्यासकृष्णौ मां प्राणं वाणीं गुरूनपि ।
प्रणम्य वादिराजाख्ययतिना तदनुग्रहात् ॥
ईशावास्योपनिषदो भाष्यटीकाप्रकाशिका ।
क्रियते ह्रियते दुर्वाग्गर्वान्धतमसं यया ||
ईशावास्योपनिषद्भाष्यटीकां चिकीर्षुः जयतीर्थमुनिः उपनिषदुक्त गुणवत्तया प्रतिपाद्यदेवतायाः सेवारूपं मङ्गळमाचरति “यज्ञम्” इति । “यज्ञम्” इति वदता, स्वायम्भुवमनोः दौहित्र
आकूतीसूनुः यज्ञनामा हरिर्देवतेति सूचितम् । मनुना स्वदृष्टमन्त्रैस्तस्यैव स्तुतत्वात् । “यज्ञभुजम्” इति “तस्मिन्नपो मातरिश्वा दधाति” इत्यस्यार्थकथनम् । “अप्” पदोपलक्षितसर्वयज्ञादिकर्मणां सकलप्राणिप्रकृष्टचेष्टाहेतुतया “प्राण” पद वाच्येन वायुना हरावर्पितत्वस्योक्तत्वात् । “अन चेष्टायाम्” इति धातोः प्रकृष्टे “कर्मण्यनयति चेष्टयति" इति व्युत्पत्त्या प्रकृष्टचेष्टाहेतुर्हि प्राणः । “टुओवि गतिबुद्धयोः” इति धातोः, मातरि सर्वप्रमातरि हरौ सर्वकर्मणामर्पणरूपा गतिर्यस्मात्स हि मातरिश्वा' । “कविर्मनीषी” इत्यत्रोक्तसर्वज्ञत्वापरपर्यायकविशब्दार्थकथनं “ प्राज्ञम्” इति । प्रज्ञासम्बन्धी हि प्राज्ञः । ' प्रकर्षेण आ समन्तात् जानाति' इति प्राज्ञः । यद्वा “मातरिश्वा इत्यत्रोक्तमातृपदार्थसूचनाय इदम् । "पूर्णप्रज्ञमुनीश्वरम्" इत्यपि मातरिश्वा गतिरवगतिर्यस्य इति व्युत्पत्त्या सिद्धमातरिश्वपदार्थसूचनम् । मातरिश्वनः पूजकत्वोक्त्या मातरिश्वना पूज्यत्वोक्त्या हरेः पूर्णप्रज्ञेश्वरत्वमपि तत्रैव सूचितम् । “मनोज्ञगुणम्" इत्यनेन पदेन "अनेजदेकम्" इत्यादेः अर्थकथनम् । सुज्ञानदम्" इति ततो न विजुगुप्सत" इत्यस्यार्थकथनम् । ततो भगवद्दत्तज्ञानेन स्वकीयतया भुवनस्य प्राग् ज्ञातत्वात् । आत्मानं विशेषेण स्वयम् “गुपू रक्षणे”,
इति धातोर्गोप्तुं नेच्छतीति स्वोपासकाय ज्ञानदानस्यार्थत उक्तत्वात् । “अहर्निशम्” इति च “कुर्वन्नेवेह कर्माणि” इत्यस्य फलितार्थकथनम् ।
भगवत्यादरात् सकलवाङ्मनसदेवताया रमाया अपि उपसर्जनतया स्मरणाय पुनरप्याशीर्वादरूपं मङ्गळमाचरति “श्रीमद्" इति । अलिरपि पुष्पसौरभं दूरत आघ्राय तदन्तिकमायाति । भगवल्लोचनाली तु श्रीमुखसौन्दर्याख्यसौरभलोभात् प्रतिक्षणमायाति इति भावः ।
“चिकीर्षिताविघ्नपरिसमाप्त्यादि" इत्यत्र “तं हासुरा ऋत्वा विदध्वसुः” (छा. उ. १.२.७ ) इति श्रुत्युक्तवायुरूपपूर्णप्रज्ञस्य विघ्नाभावपरिसमाप्त्योः स्वतः सिद्धत्वात् भगवत्प्रसादाख्यफलस्य सम्भावितविघ्नध्वंसस्य शिष्यप्रशिष्यादिषु प्रचयाख्यफलस्य च सूचनाय “आदि" पदम् । अत्र नम्यत्वोपपादकनित्यानित्यजगद् धातृत्वादिगुणानां वस्तुगत्या स्तुतिरूपत्वेन मङ्गळत्वाच्च स्तुतिनती" इत्युक्तम् । एवमन्यत्राप्यूह्यम् । “सर्वयज्ञभोक्तृत्वाद्यज्ञनाम्न” इत्यनेन ‘य॒जनं यज्ञ' इति भावव्युत्पत्तिर्नात्राभिप्रेता, किन्तु " इज्यत इति यज्ञ' इति कर्मव्युत्पत्तिरेव सूचिता । कर्तु अकर्तु अन्यथा कर्तुं समर्थस्य हरेर्नित्यनाशकत्वशक्तिरप्यस्ति, इत्यतो “ नित्यं नित्यात्मना यत” इत्युक्तम् । “ज्ञानाद्यात्मकत्वेन” इति वदता 'मनःपरिणामरूपज्ञानस्य त्रिक्षणावस्थायित्वेऽपि करचरणाद्यात्मकज्ञानस्य विलक्षणत्वात् नित्यत्वमेव सम्भावितम्', इति सूचितम् । “याथातथ्यतोऽर्थान् व्यदधाद्” इत्यनेन नित्यानित्यजगद्धातृत्वमुक्तं भवति । यथा यथा प्रतीयते, तथा विद्यमानं हि यथातथम् तस्य भावश्च याथातथ्यम् । एवं च बहुकालस्थायिक्षित्याद्यर्थान् सृष्ट्वा स्थापयति इत्यपि सिद्धम् । न तु सृष्टिमात्रकथनमिदम्, अतो जगद्धातृत्वमपि उक्तं भवति ।
तथा “वायुरनिलममृतम्” इत्यत्र "अमृत" पदेन नित्यत्वं उक्तम् । “यत्ते रूपं कल्याणतमम्" इत्यनेन ज्ञानमूर्तित्वं उक्तं भवति । “अकायमव्रणम्” इत्यादिना व्रणादियोग्यप्राकृत कायराहित्यमुक्त्वा “यत्ते रूपं कल्याणतमम्" इति पुनः कल्याणतमत्वं वदन्ती ज्ञानाद्यात्मिकामेव मूर्तिमभिप्रतीति मूर्तेर्ज्ञानाद्यात्मकत्वं कथं न सिद्ध्येत्? “स पर्यगाच्छुक्रम्" इत्यत्र “शुक्र पदोक्त शोकेराहित्योपपादनाय पूर्णानन्दत्वं च श्रुतेः कथं नाभिप्रेतम् ? अपूर्णानन्दानां जीवानां शोकसद्भावदर्शनात् । तस्मिन्नपो मातरिश्वा दधाति इत्येतत्सर्वयज्ञभोक्तृत्वार्थकतया पूर्वमेव व्याख्यातम् । “ब्रह्मादीनामप्राप्तज्ञानमुत्पद्यत” इत्यत्र 'आलोचने सर्वविषयकज्ञानवतो ब्रह्मणः, कथमप्राप्तज्ञानम्?” इति नाऽशङ्कनीयम्, अनालोचनदशायामप्राप्तज्ञानस्यापि सम्भवात् । प्रवाहतो नित्यस्य मनोवृत्तिरूपज्ञानस्यानित्यत्वेन पूर्वपूर्वप्रज्ञान उत्पत्तिकाले उत्तरोत्तरज्ञानस्याप्राप्तत्वावश्यम्भावाच्च । ब्रह्मादिषु भवेदिति क्रियाध्याहारः, लक्ष्म्यां तु स्पष्टीभवेदिति क्रियाध्याहार इति भावेनाऽह् “यथायोग्यम्” इति ।