“यस्मिन्” परमात्मनि सर्वभूतानि स परमात्मैव तत्र सर्वभूतेष्वभूत्
९. भगवन्तं विशेषेण जानतः फलाधिक्यनिरूपणम्
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥
भाष्यम्
“यस्मिन्” परमात्मनि सर्वभूतानि स परमात्मैव तत्र सर्वभूतेष्वभूत् ।
एवं सर्वभूतेष्वेकत्वेन परमात्मानं “विजानतः” “को मोहः " ?
“ यस्मिन् सर्वाणि भूतानि स आत्मा सर्वभूतगः ।
एवं सर्वत्र यो विष्णुं पश्येत् तस्य विजानतः
को मोहः कोऽथवा शोकः स विष्णुं पर्यगाद्यतः (पर्यगादतः )”
इति पिप्पलादशाखायाम् ।
पूर्वोक्तानुवादेन शोकमोहाभावो विजानतश्चात्रोच्यते ।
अभ्यासश्च सर्वगतत्वस्य तात्पर्यद्योतनार्थः ॥७॥
ईशावास्योपनिषद्भाष्यटीका
एतन्मन्त्रार्थविवरणार्थो, “यस्मिन् सर्वाणि” इत्ययं मन्त्र इति वक्ष्यति । तत्र “ यस्मिन्” “आत्मनि” जीवे “सर्वभूतानि” स “आत्मैव” यस्य “विजानतः” तानि “संवृत्त" (शं.भा. ७) इत्याद्यन्यथाप्रतीति निरासाय मन्त्रं व्याख्याति “यस्मिन्” इति । ‘सर्वभूतानि तिष्ठति' इति शेषः । “तत्र” इत्यनुवादेन “सर्वभूतेषु" इति व्याख्यानम् । “अभूद्” अनादितो वर्तते । “विजानत” इत्यस्य अन्वयसिद्ध्यर्थं, “एवम्” इति अध्याहारः कृतः । एवं सर्वाधारतया सर्वभूतेषु परमात्मानं विजानतः, तं च एकत्वेन विजानत', इति योज्यम् । “विजानतो”, “अनुपश्यत” इति द्वयोरपि व्याख्यानं “विजानत” इति । ‘अर्थान्तरे सम्भवति, कुतोऽयं मन्त्रार्थः ?' इत्यतः 'श्रुत्यन्तरेण व्याख्यानाद्' इति भावेनाह “यस्मिन्” इति । विजानत एकत्वं च' इति शेष: 'ननु परमेश्वरज्ञानेऽपि कुतः शोकाद्यभावः ?' इत्यत आह, “स विष्णुम्” इति । यतो ज्ञानी विष्णुं पर्यगात् सम्यक् प्राप्नोत्येव, अतः शोकाद्यभावः तस्य युक्तः', इत्यर्थः । अनेन “स पर्यगाद्” इत्युत्तरमन्त्रार्थतात्पर्यमप्युक्तं भवति । “एकत्वम्” इत्यस्य पौनरुक्त्यं च, अन्यथा । अनुवादस्य वैयर्थ्यात् । नन्वेवं मन्त्रव्याख्यानेऽपि पुनरुक्तिः स्यात्, “यस्तु सर्वाणि भूतानि " (ई.उ. ६), “आत्मन्येव” (ई. उ. ६) इत्यस्य " यस्मिन् सर्वाणि भूतानि” इत्यनेन उक्तत्वात्, “सर्वभूतेषु चात्मानम्” (ई.उ. ६) इत्यस्य च “आत्मैवाभूद्” इत्यनेनोक्तत्वात् ? अतो नायं मन्त्रार्थः', इत्यत आह “पूर्व” इति । पूर्वमन्त्रोक्तस्य सर्वाधारतया, सर्वगतत्वस्य अत्र अनुवादोऽतो न पुनरुक्तिः', इत्यर्थः । न च वाच्यमधिकविधानाय अनुवादो भवति । न च अत्र अधिकं किञ्चिद्' इति । पूर्वमेवंविदो भयाभावः फलत्वेनोक्तः । अत्र पुनः शोकमोहाभावोऽपि । प्राक् सर्वाधारत्वेन सर्वगतत्वदर्शनफलमुक्तम् । अत्र तु 'विशेषतो जानत इत्येवं फले ज्ञाने च आधिक्यसद्भावाद्’ इत्यर्थः । उपलक्षणं चैतत् ।
“एकत्वमनुपश्यत” इत्याधिक्यं च द्रष्टव्यम् । “तद्धावत” (ई.उ. ४) इत्यस्य सर्वगतत्वस्य “तद्द्द्दूर” (ई. उ. ५ ) इत्यादिना पुनरुच्यमानत्वात्, पुनरुक्तिदोषः, इत्याशङ्कां पुनरुक्तिदोषपरिहारप्रसङ्गात् परिहरति, “अभ्यासश्च" इति । 'श्रुतिः स्वस्य परमात्मसर्वगतत्वे तात्पर्यं द्योतयितुं तदभ्यस्यति इति न दोष:', इत्यर्थः । “सर्वगतत्वस्य" इत्युपलक्षणम् । “अनेजत्” (ई.उ. ४ ), “तन्नैजति” (ई.उ. ५) इत्यभयत्वस्यापि द्रष्टव्यम् ॥७॥
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
‘ब्रह्मगमनस्य निश्चितत्वाद् अगादित्यतीतत्वोक्तिः' इति भावेनाह “सम्यग् प्राप्नोति” इति । “ एष्यत् च (तु) निश्चितं यत् तद् (स्याद्) अतीतत्वेन भण्यते” इति स्मृतिः” । “आत्मैवाभूद्” इति पूर्वार्धेऽपि परेणैक्यस्य कथितत्वात् पुनरुत्तरार्धे “ एकत्वमनुपश्यत" इत्येकत्वस्यैव कथनात् पौनरुक्त्यम् । न च भाष्ये वक्ष्यमाणरीत्या परेणापीदं पौनरुक्त्यमभ्यासार्थमिति परिहर्तुं शक्यम् । सर्वभूतानामन्ते ब्रह्मण्येकीभावं वदताऽपि परेणैकस्मिन् जीवे सर्वभूतैक्यं नाङ्गीक्रियते । उभयोरपि भिन्नदेहाद्यवच्छिन्नत्वेन बाधितं च । एवं च बाधितेऽर्थे 'रज्जुः सर्प' इति बहुवारमभ्यासेऽपि यथा नार्थसिद्धिः, तात्पर्यं त दूरापास्तं, तथा अत्रापि उक्तरीत्या बाधिते परस्यानभिमतेऽर्थे अभ्यास अप स्वस्य शास्त्राभ्यासराहित्यसूचक एव । न तु परस्यार्थसाधकः । टीकाकृतोक्तपौनरुक्त्यं तु अभ्युपगमवादेन, इति ज्ञेयम् । अस्माकं तु ' यस्मिन् सर्वाणि भूतानि स आत्मैव सर्वभूतेषु अभूत्' इत्यर्थाश्रयणात् स्थानभेदेन परमात्मनि प्राप्तभेदनिवारणाय “एकत्वमनुपश्यत” इति सार्थकम् इति भावः ॥ ७ ॥