पात्रं हिरण्मयं सूर्यमण्डलं समुदाहृतम्

१४. साक्षात्कारार्थं भगवत्प्रार्थना

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥

भाष्यम्

पात्रं हिरण्मयं सूर्यमण्डलं समुदाहृतम् ।

विष्णोः सत्यस्य तैनैव सर्वदाऽपिहितं मुखम् ।

तत्तु पूर्णत्वतः पूषा विष्णुर्दर्शयति स्वयम् ।
सत्यधर्माय भक्ताय ॥ १५ ॥

ईशावास्योपनिषद्भाष्यटीका

एवं प्राप्ताधिकारं शिष्यं प्रति परमात्मस्वरूपं निरूप्य 'तत्साक्षात्कारो मोक्षसाधनम्' इति अतीतग्रन्थेनोक्तम् । स च ईश्वरसाक्षात्कारो न श्रवणादिमात्रेण भवति । नापि मोक्षः साक्षात्कारमात्रेण । किन्तु भगवत् प्रसादादेवेत्यतोऽनुष्ठित श्रवणादिकेनापि साक्षात्कारार्थं प्राप्तसाक्षात्कारेणापि च मोक्षार्थं, यथा भगवत्प्रार्थनं कार्यं । तत्प्रकारप्रदर्शनार्थोहिरण्मयेन पात्रेणइत्याद्युत्तरो ग्रन्थः । `तत्र सगुणब्रह्मप्राप्त्यर्थमेकर्षिप्रभृतिशब्दाभिधेयमादित्यं प्रति मार्गयाचनमनेन क्रियतइत्याद्यन्यथाप्रतीतिनिरासाय तद् व्याख्यानरूपां स्मृतिं तावदुदाहरतिपात्रम्इति ।सत्यस्य" इत्यनूद्यविष्णोःइति व्याख्यातम् ।मुखम्इति समस्तविग्रहोपलक्षणम् । यद्यपि मन्त्रेअपावृणु" इति प्रार्थनम् । अत्र तुदर्शयतिइति स्वरूपकथनम् । तथापि मन्त्रतात्पर्यमात्रोक्तिरियम्' इति न दोषः ।पुष पुष्टौ ( ७४८.१२५९, १६३१) इत्यतः पूर्णत्वेनपूषाइत्युक्तम् ।सत्यधर्मायइत्यनूद्यभक्ताय" इति व्याख्यानम् ॥ १५ ॥

ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका

दर्शयति इति स्वरूपकथनम्" इत्यत्र प्रार्थनार्थकलोटोऽभावात् स्वरूपसङ्कीर्तनमात्रमित्युक्तम् । इदमप्युपलक्षणम् ।अपावृणुइति पदस्य फलितकथनं चेत्यपि द्रष्टव्यम् ॥ १५ ॥