भक्तानां स्मरणं विष्णोर्नित्यज्ञप्तिस्वरूपतः
१८. हरेरनुग्रहार्थं प्रार्थना
ॐ क्रतो स्मर कृतः स्मर ॐ क्रतो स्मर कृतः स्मर ॥ १९॥
भाष्यम्
“भक्तानां स्मरणं विष्णोर्नित्यज्ञप्तिस्वरूपतः
अनुग्रहोन्मुखत्वं तु नैवान्यत् क्वचिदिष्यते”
इति ब्रह्मतर्फे ॥ १९ ॥
ईशावास्योपनिषद्भाष्यटीका
अथ प्रणवप्रतीकं प्रार्थयते “ॐ” इति । 'ओतत्वादिगुणयुक्तक्रतो मां स्मर । मया कृतं ध्यानादिकं च स्मर' इति । अभ्यासस्तात्पर्यार्थः । अत्र 'स्मरणं नाम प्रसिद्धमेव ' इति प्रतीतिं स्मृत्यैव परिहरति “भक्तानाम्” इति । 'भक्तकर्मकं यद्विष्णोः स्मरणं तदनुग्रहोन्मुखत्वमेव विष्णौ यः स्मरणशब्दः प्रयुज्यते, स स्मरणकार्यानुग्रहोन्मुखत्व एव लक्षणया वर्तत' इति यावत् । 'नैवान्यत् संस्कारकारणकं ज्ञानम्' इत्यर्थः । न केवलं भक्तविषय एवं किन्तु सर्वत्रापि, इत्युक्तम् “क्वचिद्” इति । कुत: ? “नित्यज्ञप्तिस्वरूपतः” । 'स्मरणं हि अनुभवनाशे तज्जन्यसंस्कारसहकृतेन मनसा जायते, ईश्वरश्च नित्यज्ञानस्वरूप इति तस्य स्मरणासम्भवात् लक्षणाश्रयणम्’ इति भावः ॥ १९ ॥