.....एव ( एवं) सृष्टिकर्तृत्वं नाङ्गीकुर्वन्ति ये हरेः
१४. अनेकविधतत्त्वज्ञानमिथ्याज्ञानयोर्मध्ये एकविधस्य फलसाहित्येनोदाहरणम्
अन्धं तमः प्रवि॒शन्त येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्या रताः ॥१२॥
भाष्यम्
.....एव ( एवं) सृष्टिकर्तृत्वं नाङ्गीकुर्वन्ति ये हरेः I
तेऽपि यान्ति तमो घोरं तथा संहारकर्तृताम् ।
नाङ्गीकुर्वन्ति तेऽप्येवं तस्मात् सर्वगुणात्मकम् ।
सर्वकर्तारमीशेशं सर्वसंहारकारकम् (सर्वसंहारकारणम्)
॥ १२ ॥ १३ ॥
ईशावास्योपनिषद्भाष्यटीका
‘अन्यथाज्ञानमेव अनर्थसाधनं, यथार्थज्ञानमेव मोक्षसाधनम्', इत्येतद्विवरणार्थम्, “अन्धं तमः प्रविशन्ति” इत्युत्तरमन्त्रत्रयम् । तत्राद्यमन्त्रस्यार्थः “एवम्” इति । ‘यथाऽन्यथोपासका, अन्यथाज्ञानानिन्दका इत्यर्थः' । “असम्भूतिं” जगत्सृष्टेरकर्तारं इत्यस्य तात्पर्यं “सृष्टि” इति । अत्रापि “उ” शब्दो अवधारणार्थः । “सम्भूत्याम्" इत्यनेन सम्बध्यते तेन सम्भूत्यां “उ” जगत्स्रष्टृत्व एव । ‘जगत्स्रष्टैव विष्णुः, न तु संहारकर्ता इत्यस्मिन्नर्थे रता इत्येषोऽर्थो लभ्यते । तस्मादुक्तम् " तथा " इति । 'तेऽप्येवं सृष्टिकर्तृत्वानङ्गीकारिण इव तमो यान्ति' इत्यर्थः । ततः किं ?' इत्यत आह " तस्माद् इति । यस्मादेवं सृष्टिकर्तृत्वानङ्गीकारे अनर्थः विद्याद्' इति वाक्यशेषः । सृष्टिकर्तृत्वानङ्गीकारे अनर्थकथनमुपलक्षणार्थम्' इति ज्ञापयितुं “सर्वगुणात्मकम्” इत्युक्तम् । एतदप्युपलक्षणम्, उपसंहारे अधिकस्यापि वक्ष्यमाणत्वात् ॥ १२ ॥
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
न विद्यते सम्भूतिर्यस्माद्' इति व्युत्पत्तिमभिप्रेत्याह “जगत्सृष्टेरकर्तारम्” इति । “उपसंहारेऽधिकस्यापि वक्ष्यमाणत्वाद्” इत्यत्र “सर्वदोषविनिर्मुक्तम्" इत्यादिम्लोकत्रयेण बहुप्रमेयाणां निरूप्यमाणत्वाद् आधिक्यमिति भावः ॥