श्रीप्राणपतिमानम्य पूर्णबोधादिदेशिकान् । ईशावास्योपनिषदः करिष्याम्यर्थसङ्ग्रहम्

श्रीराघवेन्द्रयतिविरचितः
श्रीमदीशावास्योपनिषत्खण्डार्थः

मङ्गलाचरणम्

ॐ ॥ श्रीप्राणपतिमानम्य पूर्णबोधादिदेशिकान् ।

     ईशावास्योपनिषदः करिष्याम्यर्थसङ्ग्रहम् ॥
अस्या उपनिषदः स्वायम्भुवो मनु ऋषिः । यज्ञनामा हरिर्देवता । अनुष्टुबादि यथायोग्यं छन्दो ज्ञेयम् ।अनेजद्इत्यादिना तत्त्वं विवक्षुरुपदिष्टं तत्त्वं अधिकारिण एव हि हृद्यवतिष्ठते, नान्यस्य, इति एतदुपनिषदधिकारसिद्ध्यर्थं विच्छिन्नविषयतृष्णत्वं तावदाद्येन मन्त्रेण सयुक्तिकं विधत्ते ।

ॐ ईशावास्यमिद सर्वं यत्किञ्च जगत्यां जगत् ।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १ ॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

यत्किञ्चजगदिदं तत्सर्वं प्रवृत्त्यर्थं आत्मनिईशावास्यम्
आवासमर्हति, इति आवास्यम् । ईशस्य आवास्यंईशावास्यं”, ‘ईशानुप्रविष्टम्इत्यर्थः ।तदेवानुप्राविशद्" इत्यादेः । 'अतोऽस्वतन्त्रम्' इति भावः । किञ्चजगत्यांप्रकृताविदं सर्वमाश्रितम् । सा च ईशायत्ताऽतोऽपि अस्वतन्त्रम् । ईश एव स्वतन्त्रः । तेन कारणेनतेनईश्वरेणत्यक्तेनदत्तेन वित्तेन । यदृच्छालब्धेन', इति यावत् ।भुञ्जीथाःभोगं कुर्याः ।कस्यस्वित्कस्यापि राजादेः सकाशात्धनं” “मा गृध", नाऽकाङ्क्षेथाः ।ईशादन्यस्यास्वातन्त्र्येण तस्य दाने सामर्थ्याभावाद्, ईशदत्तेनैव वर्तेत' इति भावः ॥ १ ॥

 कुर्वन्नेवेह कर्माणि जिजीविषेच्छतः समाः ।

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥२॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

'तृष्णाविच्छेदवत्, स्वोचितकर्मानुष्ठानमपि ज्ञानार्थिनां आवश्यकम्',
इत्याह शतं समाः”, शतं वर्षाणि ।कालाध्वनोरत्यन्तसंयोगे"
(अष्टा. २.३.५) इति द्वितीया । इह मानुषादिजन्मनि यावज्जिजीविषेत्जीवितुमिच्छेत् तावत्कर्माणि” “कुर्वन्नेव” ‘आमरणं भगवत्पूजात्मकानि असङ्कल्पितफलानि स्वोचितानि कर्माणि सर्वथा कुर्याद्' इति यावत् । कुत: ? एवं कर्माणि कुर्वति नरे मनुष्यमात्रेऽपि त्वयि कर्म पापं न लिप्यते । स्वोचितेन असङ्कल्पितफलेन कर्मणा भगवत्पूजां कुर्वन्तं अल्पाधिकारिणामपि न प्रागुत्तराणि पापानि बाधन्ते । ततश्च ज्ञानाधिकारी स भवति' इति यावत् । इतःकर्मकरणात्अन्यथा अकरणे कर्म पापं न लिप्यत' इति नास्ति ।भगवत्पूजामकुर्वन्तं पापानि बाधन्त एव । ततश्चासौ ज्ञाने न अधिक्रियते । अतश्च कर्माणि कुर्याद्इति । पुरुषार्थनये, “नियमाच्च" (ब्र.सू. ३.४.७) इति सूत्रभाष्यादौ "नरे ज्ञानिन्यपि त्वयि कर्म न लिप्यत इति नास्ति" इति 'अपरोक्षज्ञानिनोऽपि कर्माकरणे मुक्त आनन्दह्लासरूप पापकर्मलेपो अस्त्येव', इति ज्ञानिपरतया मन्त्रो व्याख्यातः ॥ २॥

असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः

तास्ते प्रेत्याभिगच्छन्ति ये के चात्महनों जनाः ॥३॥

 श्रीमदीशावास्योपनिषत्खण्डार्थः

एवं प्राप्ताधिकारं प्रति परमात्मतत्त्वबुभुत्साजननाय विपरीतज्ञानिनो निन्दायां आह सुष्ठु रमणं सुर्यम् । सुपूर्वस्य रमतयप्रत्ययः तद्विरुद्धं असूयं महादुःखम् । असुर्यमेषु अस्तीत्यसुर्याः । अर्श आद्यच् प्रत्ययान्तोऽयम् । महादुःखवत्त्वाद्असुर्याः। असुरप्राप्यत्वाद् वाअसुर्याःअन्धेन तमसाःअन्धयतीति व्युत्पत्त्या, निबिडान्धकारेण इत्यर्थः । 'आवृतास्ते प्रसिद्धा य:' इति शेषः । लोकास्तान्प्रेत्यमृत्वाअभिगच्छन्ति 'ते क?' इत्यत उक्तं, "य" इति ।आत्महनः” ‘यथावद् आत्मानमज्ञात्वा वैपरीत्येन जानन्तो, ये केचन वर्तन्ते ते सर्वेऽपि अभिगच्छन्ति', इति ।नाम” ‘निश्चितमेतद्’, इत्यर्थः ॥३॥

अनेजदेकं मनसो जवीयो नैनद्देवा आनुवन्पूर्वमर्षत् ।

तद्भावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

इदानीं परमात्मतत्त्वमुपदिशति, “अनेजद्इत्यादिमन्त्रद्वयेन । तत्परमात्मस्वरूपं अनेजत् ।एज़ कम्पनेअकम्पमानं निर्भयत्वाद्', इति भावः ।एकप्रधानम् ।मनसो ऽपिजवीयः " वेगवत्तरम् ।एनत्परब्रह्मस्वरूपंदेवाःआप्नुवत्" साकल्येन न व्यजानन् । "ब्रह्म तुपूर्वअनादिकालं स्वभावतं', इति यावत् ।अर्षत्”, ‘ऋष ज्ञानेसर्वं व्यजानत् । आडागमाभावच्छान्दसः (आडागमाभावश्छन्दसः) ।तद्ब्रह्मतिष्ठत्" विद्यमानमेव (विद्यमानेव) सद्धावतो", वेगेन गच्छतोऽन्यान्जनान्अत्येतिअतिक्रम्य वर्तते ।अचिन्त्यशक्तित्वात्, सर्वगतत्वाच्च', इति भावः ।तस्मिन्" हरौमातरिश्वामुख्यवायुः आसमन्तात् पालयन्तीति व्युत्पत्त्या अपः कर्माणि । 'स्वप्रेरणया प्राणिभिः क्रियमाणानि पुण्यकर्माणिदधातिसमर्पयति' इति ॥४॥

तदेजति तन्नैजति तदूरे तद्वन्तिके ।

तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥ ५॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

तद्इति पञ्चम्यर्थे अव्ययम् ।जगद्' इति शेषः । तत्तस्मात् प्रकृताद् हरे: जगद्एजतिबिभेति न बिभेति, स्वतन्त्रत्वाद्, इति भावः तत् ब्रह्मनैजतितदु तदेव ब्रह्म दूरे । 'तदु तदेवान्तिके समीपे च, सर्वगतत्वाद्', इति भावः । तत् ब्रह्म अस्य प्रमितस्य सर्वस्यान्तः ।तदु तदेव सर्वस्य बाह्यतः, बहिरपि सर्वव्यापित्वाद्', इति भावः ॥ ५॥

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।

सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

"तद्दूरे इत्यादौ हरेः सर्वभूताश्रयतया सर्वभूतगतत्वमुक्तम् । तज्ज्ञानस्य फलमाहयस्तुइति ।सर्वाणि भूतानिचिदचिदात्मकं सर्वं जगत् ।आत्मन्येवपरमात्माश्रयत्वेन एव अस्तीति "यस्तु” “अनुनिस्सन्देहंपश्यतिजानाति । यद्वा आश्रितत्वक्रमानुरोधेनेतिअनुशब्दार्थः ।सर्वभूतेषु च आत्मानं " 'सर्वभूतेषु नियन्तृतया स्थितं हरिं यो अनुपश्यति', इत्यन्वयः । ततः परमात्मस्वरूपज्ञानित्वात् हेतोर्न विजुगुप्सतेस्वात्मानं गोतुं नेच्छति, भयाभावाद्', इति भावः ॥ ६॥

 यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।

तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

एतमेवार्थं विवृणोति -‘यस्मिन्नात्मनि सर्वाणि भूतानि तिष्ठन्तिइति शेषः । सआत्मैवतत्र सर्वभूतेषुअभूत्”, ‘अनादितो वर्तत' इत्यर्थः । 'एवम्' इति शेषः । एवंविजानतःसर्वाधारतया सर्वेषु
भूतेषु आत्मानं विशेषेण जानतः सर्वत्र स्थितस्य हरे:एकत्वं " चअनुपश्यतःजानतः, को मोहः कः शोकः ? न कोऽपि इत्यर्थः ॥७॥

स पर्यगाच्छुक्रमकायमव्रणमस्नाविरः शुद्धमपापविद्धम् ।

कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥

श्रीमदीशावास्योपनिषत्खण्डार्थः
भगवज्ज्ञानमात्रेण कुतो मोहाद्यभाव?' इत्यत आह स् ज्ञानी पर्यगात् प्राप्तोऽभूत् ब्रह्मा' इति शेषः ।तावता कथं शोकाद्यभाव?” इत्यतः तद्विशिनष्टि, “शुक्रम्" इत्यादिना । शुचं शोकं रहति त्यजति' इति शुक्रं शोकरहितम् ।अकायं लिङ्गदेहरहितम् ।अव्रणं”, “व्रण सञ्चूर्णनइत्यतः स्तोको व्रणः । कालेन अस्तोकत्वादव्रणं नित्यम् । गुणैरस्तोकत्वाद्अव्रणम्पूर्णमित्यर्थः ।अस्नाविरम्" स्नावोपलक्षितसप्तधातुमयस्थूलदेहरहितम् ।शुद्धंपावित्र्यहेतुं, शुद्धत्वादेव "अपापविद्धम् । तत एव हेतोः पापमूलस्थूलसूक्ष्मशरीरहीनम् । तत एव 'देहनिमित्तशोकादिशून्यम्, इतिशुक्रम्" इत्युच्यते । एवम्भूतं हरिंपर्यगाद्यतोऽतः कारणाच्छोकाद्यभावः । एवम्भूतहरिसारूप्यलक्षणां तद्गतिं गतस्य शोकाद्यभावो युक्त', इति भावः ।ननु एवमशरीरश्चेत्, जगत्स्रष्टा नेति प्राप्तम् । लोके सदेहस्यैव स्रष्टृतादर्शनाद्' इत्याशङ्कां निराहकविर्इति । कविः सर्वज्ञः "मनीषी प्रकृत्यादिसर्वमनसां ईशितृत्वाद् मनीषी । एतेनज्ञानाविनाभूतदेहवान्' इति लभ्यते । स च अप्राकृत एव इति प्रागुक्तः । तन्निमित्तशोकाद्यभावो युक्तः । प्राकृतस्यैव तद्धेतुत्वात् । परिभवति सर्व वशीकरोति' इति परिभूःसर्वतो वर' इत्यर्थः । `स्वयमेव परमनपेक्ष्य भवति' इतिस्वयम्भूः। सदाऽनन्याश्रयःशाश्वतीभ्यः समाभ्यइति पञ्चमी सप्तम्यर्थे । अनाद्यनन्तसंवत्सरेषुयाथातथ्यतोयाथार्थ्येन वर्तमानानर्थान्व्यदधान्" निर्मिमे । याथातथ्यत इत्युक्त्या 'ब्रह्मविवर्तत्वादर्थानां न तत्सृष्टौ देहाद्यपेक्षा' इति चोद्यं निरस्तम् ।शाश्वतीभ्यः समाभ्य" इत्युक्त्या सदा देहहीनस्यापि सृष्टिसमये देहोपादानेनास्तु सृष्टि:' इति चोद्यं निरस्तं ध्येयम् । सृष्ट्यादिप्रवाहस्य अनाद्यनन्तकालीनत्वाद्' इति ॥ ८ ॥

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।

ततो भूय इव ते तमो य उ विद्याया रताः ॥९॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

विजानतोऽनुपश्यत:" इत्यत्र 'यथावत्परमात्मज्ञानं मुक्तिहेतुः' इत्युक्तम् । ` तज्ज्ञानं मिथ्याज्ञाननिन्दासमुच्चितमेव मुक्तिहेतुः, न केवलम्', इत्याहअन्धं तमइत्यादिमन्त्रत्रयेण । तत्र तावद्यथावज्ज्ञानस्येव अन्यथाज्ञाननिन्दनस्य आवश्यकत्वोपपादनाय अन्यथाज्ञानस्य प्रागुक्तमसुर्यलोकसाधनत्वमनूद्य अन्यथाज्ञानानिन्दनस्य ततोऽधिकानर्थहेतुत्वमाद्येन मन्त्रेणोच्यते । अत्रअविद्या शब्देन विद्याविरोधिमिथ्याज्ञानवाचिना तद्विषयो अन्यथाप्रकारो ग्राह्यः । तथा च अविद्यां यथावदाकारादन्यथाकारंउपासतेध्यायन्ति ये, तेअन्धं तमः प्रविशन्तिइत्युक्तानुवादः ।ये” “विद्यायां” “तत्त्वज्ञान एवरताःमिथ्याज्ञाननिन्दका इत्येवकारार्थः । ते ततो मिथ्याज्ञानिप्राप्य तमसोभूयअधिकं तमः ।इव शब्दस्यव्यक्तम्इत्यर्थः ।असंशयम्' इति यावत् ।प्रविशन्तिइत्यन्वयः ॥ ९ ॥

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

न केवलं विपक्षे अनर्थप्राप्तेरेव सम्यग्ज्ञानासम्यग्ज्ञाननिन्दनयोः कार्यत्वं किन्तु मोक्षफलस्यांशतः उभयसाध्यत्वादपि द्वयोः कार्यत्वम्', इत्याहुः  विद्ययातत्त्वज्ञानेनअन्यदेवमोक्षैकदेशरूपं फलं प्राप्यमाहुः वृद्धाः ।अविद्यया"अन्यथाज्ञाननिन्दया च', इति यावत् ।अन्यदेवमोक्षैकदेशलक्षणं फलं प्राप्यमाहुः वृद्धाः ।इतिइत्येवं वृद्धवचनसम्मतियुक्तं वचनं धीराणां धीमतां (श्रीमतां ) सकाशात्शुश्रुमश्रुतवन्तः स्म ।ये” “धीरा” “नोऽस्माकं मोक्षसाधनंविचचक्षिरेव्याचचक्षिरे । 'अतो द्वयमपि आवश्यकम्' इति भावः ॥ १० ॥

विद्यां चाविद्यां च यस्तद्वदोभयः सह ।

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११ ॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

एतन्मन्त्रार्थमेव व्यक्तमाह विद्याम्विष्णुयाथात्म्यज्ञानम् ।अविद्याम्मिथ्याज्ञाननिन्दनम् ।शब्दावितरेतरयोगे । सह एकपुरुषार्थहेतुत्वेन तदुभयं यो वेद, ' इति शेषः ।अविद्यया" अन्यथाज्ञाननिन्दयामृत्युंदुःखाज्ञानाद्यनिष्टं "तीर्त्वा", "विद्यया" विष्णुयाथात्म्यज्ञानेनअमृतंआनन्दानुभवलक्षणं मोक्षैकदेशं, “अश्नुतेप्राप्नोति । 'अनिष्टनिवृत्तेर्मिथ्याज्ञाननिन्दनसामर्थ्यलभ्यत्वात् आनन्दानुभवस्य च तत्त्वज्ञानसामर्थ्यलभ्यत्वात् दलद्वययुक्तमोक्षप्राप्तये, द्वयमपि आवश्यकमेव', इत्युक्तं भवति ॥ ११ ॥

अन्धं तमः प्रवि॒शन्त येऽसम्भूतिमुपासते ।

ततो भूय इव ते तमो य उ सम्भूत्याः रताः ॥ १२ ॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

'मिथ्याज्ञानमनर्थहेतुः तत्त्वज्ञानमेव मुक्तिहेतु:, इति प्रागुक्तस्य विवरणंअन्धं तमःइत्युत्तरमन्त्रत्रयेण क्रियते । तत्राद्यस्य अयमर्थः ।असम्भूतिं जगत्सृष्टेरकर्तारं 'सृष्टिकर्ता न' इत्युपासते, इत्यर्थः ।सम्भूत्याम्” “शब्द एवार्थो अनेनान्वेति ।सम्भूत्याम्” “सृष्टिकर्तृत्व एव रताः । भगवान् सृष्टिकर्तेव, न संहारकर्ता', इत्युपासत इत्यर्थः । प्राग्वदेव अवशिष्टस्यार्थो ध्येयः (ज्ञेयः) ॥ १२ ॥

अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।

इति शुश्रुम धीराणां ये नस्तद्विचक्षिरे ॥ १३ ॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

'न केवलं विपक्षे अनर्थसत्त्वादेव सृष्टिसंहारयोः कर्तृत्वं हरेर्ज्ञेयं, किन्तु दलद्वययुक्तमोक्षोपयोगित्वादपि', इत्याह  सम्भवात्हरेः सृष्टिकर्तृत्वज्ञानात्, “असम्भवात्संहारकर्तृत्वज्ञानत्, इत्यर्थः । शिष्टं प्राग्वत् ज्ञेयम् ॥ १३ ॥

सम्भूतिं च विनाशं च यस्तद्वदोभयः सह ।

विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्रुते ॥१४॥१॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

एतन्मन्त्रार्थमेव व्यक्तमाह "सम्भूतिम्" सृष्टिकर्तृत्वं, “विनाशंजगत्संहारकर्तृत्वं, शिष्टं प्राग्वत् ।सृष्टि उपलक्षितानन्तगुणात्मकत्वज्ञानादानन्दानुभवः विनाशकर्तृत्वज्ञानात् अखिलक्लेशनिवृत्तिरिति उभयरूपमोक्षाय उभयज्ञानमावश्यकम्', इति भावः ॥ १४ ॥ १ ॥

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

एवमाद्यमन्त्रद्वयेनोक्तदिशा प्राप्ताधिकारं शिष्यं प्रतिअनेजदेकम्इत्यादिना भगवत्स्वरूपं निरूप्य, “यस्तु सर्वाणिइत्यादिसार्धमन्त्रद्वयेन तत्साक्षात्कारो मोक्षहेतुरित्युक्तम् । स च साक्षात्कारो न श्रवणादिमात्रेण, किन्तु ईश्वरप्रसादेन भवतीत्यतो अनुष्ठितश्रवणादिकेनापि तत्साक्षात्कारार्थं भगवत्प्रार्थनं कार्यम्' इति भावेन प्रार्थनाप्रकारमाहहिरण्मयेनइत्यादिनास्मरइत्यन्तेन ग्रन्थेन । हिरण्मयमिवहिरण्मयम्" ज्योतिर्मयम् । पिबति रसान् त्रायते जगद्' इति चपात्रम्। तेनहिरण्मयेन पात्रेणसूर्यमण्डलेनसत्यस्य" सद्गुणपूर्णस्य सूर्यमण्डलस्थस्य तव "मुखम्" । उपलक्षणं चैतत् । वपुः सर्वदाअपिहितंअस्ति । हेपूषन्पूर्ण, “पुष पुष्टौइति धातोः । तद्वपुःत्वं” “सत्यधर्माय” “सत्यं भगवन्तं हृदये धारयति' इति व्युत्पत्त्या त्वद्ध्यानादिमते भक्ताय मह्यंदृष्टयेमम त्वद्दर्शनार्थंअपावृणु”, अपगतावरणं कुरु ॥ १५ ॥

पूषन्नेर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेज:  

यत् ते रूपं कल्याणतमं तत् ते पश्यामि ॥ १६ ॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

हेपूषन्”, पूर्ण, “एकर्षेसर्वविषयकत्वादिना प्रधानज्ञानवत्त्वहेतुनाएकर्षिशब्दवाच्यः सन् एकर्ष्याख्यमुनिस्थ ।यम" सर्वनियामकतायमशब्दवाच्यः सन् यमान्तर्गत । सूरिभिः प्राप्यत्वहेतुना, “सूर्यशब्दवाच्यः सन् सूर्यान्तर्गत ।प्राजापत्यप्रजापतेः हिरण्यगर्भस्य विशेषेण प्राप्यतयाप्राजापत्यशब्दवाच्य ।रश्मीन्मदीयं स्वरूपज्ञानंव्यूहविस्तारय ।तेजोबाह्यज्ञानं चसमूहविस्तारय इत्यर्थः ।तेजइति स्वरूपज्ञानम् ।रश्मीन्इति बाह्यज्ञानं वा । तथा चयत्ते रूपं कल्याणतमं तद्रूपं ते प्रसादादहंपश्यामि ”, इति आदित्यरश्म्यादीनां अपगमनादिना तदन्तर्गतप्रतीत्यसम्भवात् आदित्यरश्म्यादिविषयं व्याख्यानमयुक्तम् ॥ १६ ॥

योऽसावसौ पुरुषः सोऽहमस्मि ॥ १७॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

सर्वजीवोत्तममुख्यवायुरूपप्रतीकस्थित्यादिज्ञानं आवश्यकम्' इति भावेन तत् स्थित्यादिकमाह "योऽसौप्रसिद्धोऽसौ मुख्यप्राणे स्थित' इति शेषः ।सोऽहेयत्वात्अहम्" इत्युक्तः सदाऽस्तित्वेन मेयत्वहेतुना "अस्मि" इति तिङ्प्रतिरूपकाव्ययपदवाच्यः तं पश्यामि' इत्यर्थः । यद्वाअसावसौइति द्वयमपि प्रथमान्तमेव । वीप्सायां द्विरुक्तिः । पूर्व पुषादिशब्दैरुपलक्षणतया प्राणाद्यनेकप्रतीकस्थत्वं विष्णोरुक्तम् तत्र भेदशङ्कायांयोऽसौइति वाक्यमुच्यते ।योऽसावसौ पुरुषःप्राणाद्यनेक (पूषाद्यनेक) प्रतीकेषु स्थितःसोऽहमस्मि" मदन्तर्यामितया अस्ति, इत्यर्थः ।सर्वप्रतीकेषु मयि च स्थित एक एव इति फलितोऽर्थः
अहंपदस्य प्रत्यगात्मं जीवान्तर्यामिणि मुख्यतया तत्समभिव्याहाराद् "अस्मि" इति उत्तमपुरुषप्रयोगोऽपि साधुरेव इति ज्ञेयम् ॥ १७ ॥

वायुरनिलममृतमथेदं भस्मान्तः शरीरम् ॥ १८ ॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

ननु परमेश्वरस्य यत्कल्याणरूपत्वमुक्तं यच्चसोऽहमस्मिइति जीवान्तर्गतस्य नित्यास्तित्वमुक्तं तन्न युक्तम् । देहनाशस्य प्रत्यक्षादिसिद्धतया, तदन्तर्गतस्य जीवस्येव मरणाद्यवश्यम्भावाद्', इत्याशङ्कां कैमुत्येन निराह वायुरनिलममृतमथेदं भस्मांतर शरीरम् यद्यपिइदं” “शरीरं” “भस्मान्तं”, तथापि तदन्तर्गतस्य हरे: न मरणादिदोषप्रसक्तिः । कुतः ? “अनिलम्” ‘अः ब्रह्मैव निलं निलयनं आश्रयो यस्य सोऽनिलः' 'परमेश्वराश्रितो वायुरपि यदाऽमृतः नित्यः, अथ तदा परमेश्वरोऽमृत इति किमु वक्तव्यम् ? ' इत्यर्थः ।अनिल” “अमृतपदयोः लिङ्गव्यत्ययो ज्ञेयः । वायोरमृतत्वं नित्यज्ञानत्वेन ज्ञेयम्, “अतिरोहितविज्ञानाद् वायुरपि अमृतः स्मृतःइत्युक्तेः ।एतेन मातरिश्वा व्याख्यातः” (ब्र.सू. २.३.८) इत्यत्र भाष्यादौ तथा निर्णयाच्च ॥ १८ ॥

ॐ क्रतो स्मर कृतः स्मर

ॐ ऋतो स्मर कृतः स्मर ॥ १९ ॥
इति ॥ १८ ॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

अथ प्रणवप्रतीकं प्रार्थयते
ओतत्वादिगुणयुक्ततया "ॐ" इत्युच्यमान
क्रतोज्ञानरूपहरे । 'माम्' इति शेषः ।स्मर" अनुगृहाण ।कृतंमदीयं ध्यानादिकं कर्मस्मरध्यानादिना मया कृतेन मयि अनुग्रहोन्मुखो भव’, इत्यर्थः । नित्यज्ञप्तिस्वरूपस्य संस्कारजन्यस्मरणायोगात् । अभ्यासः तात्पर्यार्थः ॥ १९ ॥

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ २० ॥ २ ॥

श्रीमदीशावास्योपनिषत्खण्डार्थः

'कृतश्रवणादिना पुरुषेण साक्षात्कारार्थं हरेः प्रार्थनं कार्यम्”, इत्यतः तत्प्रकारंहिरण्मयेन" इत्यादिनोक्त्वा अधुना 'प्राप्तसाक्षात्कारेणापि पुंसा मोक्षार्थं भगवदुपासनं कार्यम्' इति भावेन अग्निप्रतीकस्थ भगवत्प्रार्थनाप्रकारमाह  अग्न इति अङ्गं देहं गुणभूतं जगद्वा नयति प्रेरयति' इति व्युत्पत्त्याअग्निपदमुख्यार्थः सन् अग्नौ विद्यमानहरे ।अस्मान्” “सुपथा" पुनरावृत्तिहीनार्चिरादिमार्गेणरायेमोक्षाख्यवित्तायनय। कुत: ? हे देव अस्मदनुष्ठितानि विश्वानि सम्पूर्णानि मोक्षाय पर्याप्तानि' इति यावत् ।वयुनानि ज्ञानानि भवान्विद्वान्वेद । प्रारब्धकर्मयुक्तस्य कथं मोक्ष?', इत्यत उक्तं, “युयोधिइति ।अस्मान्इत्यत्रापि अनुषज्यते ।अस्मान्” “जुहुराणंअल्पान् कुर्वत्संसारे परिवर्तयदिति यावत् । एनः पापं अनिष्टं कर्म' इति यावत् ।अस्मत्अस्मत्तःयुयोधिवियोजय । * युयु वियोगे" इति धातोर्लुग्विकरणम् । वयं तु "ते" तुभ्यं "भूयिष्ठां " भक्तिज्ञानोपेतांनम उक्तिं" नम इत्युक्तिं "विधेमकुर्मः । न तु तत् प्रतिकर्तुं शक्नुम इति ॥२०॥२॥
समस्तगुणपूर्णाय दोषदूराय विष्णवे । नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ॥
ईषावास्योपनिषदो भाष्याद्युक्तार्थसङ्ग्रहः

राघवेन्द्रेण यतिना कृतोऽयं शिष्ययाञ्चया ॥
इति श्रीराघवेन्द्रयतिविरचितः श्रीमदीशावास्योपनिषत्खण्डार्थः समाप्तः
॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥