यस्मिन् प्राणे ( यस्मिन्नयम् ) स्थितः सोऽप्यमृतः । किमु परः ?
१७. जीवान्तर्गतस्यापि जीववन्न मरणादिदोषप्रसङ्गः
वायुरनिलममृतमथेदं भस्मान्तः शरीरम् ॥ १८ ॥
भाष्यम्
यस्मिन् प्राणे ( यस्मिन्नयम् ) स्थितः सोऽप्यमृतः । किमु परः ?
अ:, ब्रह्मैव निलयनं वायोः सोऽनिलम् ।
“अतिरोहितविज्ञानाद् वायुरप्यमृतः स्मृतः ।
मुख्यामृतः स्वयं रामः परमात्मा सनातनः"
इति रामसंहितायाम् ।
ईशावास्योपनिषद्भाष्यटीका
“ बायुरनिलममृतम्” इत्येतद्वाक्यं मरिष्यतो वायुः प्राणोऽध्यात्मपरिच्छेदं हित्वा अधिदैवमात्मानं अनिलममृतं प्रपद्यताम् । ‘अथेदं शरीरमग्नौ हुतं भस्मान्तं भूयाद्' इति केचिद्व्याचक्षते, तदसत् । अवश्यम्भाविन्यर्थे प्रार्थनानुपयोगात् । प्रकरणादपि उपपत्तेर्बलीयस्त्वात् । अतो, लिङ्गव्यत्ययेन विभक्तिव्यत्ययेन (विभक्तिव्यत्यासेन) वा समानाधिकरणानि एतानि पदानि । 'ननु तर्हि प्रकृतासङ्गतानि स्युः ? “वायुरनिलम्" इति पुनरुक्तिः स्याद्?' इत्यत आह “यस्मिन्” इति । यस्मिन् वायौ अयं परमेश्वरः । सोऽपि वायुरपि अमृतः किमु परोऽमृत इति वक्तव्यम्' इति शेषः । ननु अस्मिन् वाक्ये, “वायुरमृतम्” इत्येवोच्यते, न तु यस्मिन् वायौ अयं स्थितः' इति, तत् कुतः कैमुत्यं लभ्यते ? न हि वायोरमृतत्वमात्रेण ईश्वरामृतत्वसिद्धिः इति चेत् ? मैवम् । अस्यार्थस्य अनिल पदेन उक्तत्वात् । तत्कथमित्यतः तात्पर्यतो व्याख्यातं तदिदानीं निर्वक्ति, अः ब्रह्मैव" इति । निलं निलयनं, आश्रयः । यथा श्रुतस्य अनुवादोऽयं, इत्यतो 'अनिलम्” इत्युक्तम् । अनेन पुनरुक्तिरपि परिहृता भवति । ननु ‘यस्मिन्नयं स्थितः' इत्यनेन वायुरीश्वराश्रय इत्युक्तम् । अनेन निर्वचनेन 'ईश्वरो वायोराश्रय' इति लक्ष्यते । 'तत्कथं अनिलपदार्थोऽसौ ?” इति चेन्, मैवम् । ‘यस्मिन्नयं स्थित' इत्यनेनापि यस्मिन् वायो ,अयं परमेश्वरो नियामकत्वेन स्थित' इति वायोरीश्वराश्रितत्वस्यैव कथितत्वात् । अथवा, ‘यस्मिन् परमेश्वरे अयं वायुः स्थितः यदधीनो वर्तत', इति यावत् । स वायुरपि यदा अमृत:, तदा किमु वक्तव्यं स परोऽमृत' इति व्याख्येयम् ॥१८॥ ततश्च इदमुक्तं भवति “सोऽहमस्मि ” इति जीवान्तर्गतस्य परमेश्वरस्य नित्यास्तित्वं कल्याणतमरूपत्वं चोक्तं, तन् न अयुक्तम्, प्रत्यक्षत एव देहस्य भस्मान्तत्वदर्शनात् । देहनाशे च तदन्तर्गतस्य परमेश्वरस्य जीववन्मरणाद्यवश्यंभावात्, इति आशङ्कायां इदमुक्तम् “वायुरनिलम्” इति । अयमर्थः यद्यपीदं शरीरं भस्मान्तं, तथापि तदन्तर्गतस्य परमेश्वरस्य न मरणादिदोषप्रसङ्गः । कुत: ? अनिलः ‘परमेश्वराश्रितो वायुरपि यदाऽमृतः, अथ तदा परमेश्वरः किं वक्तव्य ?' इति तदमृतत्वस्य कैमुत्यसिद्धत्वाद् इति । ननु संसारिणो वायोः कथममृतत्वं सम्भवति ? यदि उपचारेण, तर्हि ईश्वरस्यापि किं तथाविधममृतत्वमस्ति ?" इत्याशङ्कां स्मृत्यैव परिहरति “ अतिरोहित" इति । 'देहनाशेऽपि तत्कार्यविज्ञान तिरोभावाभावसादृश्याद्', इत्यर्थः । “अतिरोहितविज्ञानाद्” इति भावप्रधानो निर्देशः । “मुख्यामृतः” देहनाशादिरहितः । “परमात्मा सनातन” इति तत्र युक्तिद्वयम् ॥ १८ ॥
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
“विभक्तिव्यत्ययेन" इत्यत्र “वायुः” इति प्रथमायाः “सुपां सुलुक्” (अष्टा. ७.१.३९) इति वचनात् द्वितीयाकरणे “वायुमनिलममृतम्” आहुरिति योजनासम्भवात् । लिङ्गव्यत्यासे तु “वायुरनिलः अमृत” इति योजनासम्भवाद् इति भावः । “प्रकृतासङ्गतान्” इत्यत्र 'भगवत एव प्रकृतत्वेन वायोः कथनं कथं सङ्गच्छत?' इति शङ्कितुरभिप्रायः ॥ १८ ॥ १९ ॥