“स्वायम्भुवः स्वदौहित्रं विष्णुं यज्ञाभिधं मनुः ईशावास्यादिभिर्मन्त्रैस्तुष्टावावहितात्मना
२.ऋष्यादिनिरूपणम्
भाष्यम्
स्वायम्भुवो मनुरेतैर्मन्त्रैर्भगवन्तमाकूतिसूनुं यज्ञनामानं विष्णुं तुष्टाव
“स्वायम्भुवः स्वदौहित्रं विष्णुं यज्ञाभिधं मनुः
ईशावास्यादिभिर्मन्त्रैस्तुष्टावावहितात्मना ।
रक्षोभिरुग्रैः सम्प्राप्तः खादितुं मोचितस्तदा ।
स्तोत्रं श्रुत्वैव यज्ञेन तान् हत्वाऽवध्यतां गतान्
प्रादाद्धि भगवांस्तेषामवध्यत्वं हरः प्रभुः
तैर्वध्यत्वं तथाऽन्येषामतः कोऽन्यो हरेः प्रभुः "
इति ब्रह्माण्डे । भागवते चायमर्थ एवोक्तः (चायमेव अर्थ उक्तः) ।
ईशावास्योपनिषद्भाष्यटीका
""यो हवा अविदितार्षच्छन्दोदैवतब्राह्मणेन मन्त्रेण यजति याजयति अध्यापयति वा स्थाणुं वर्च्छति गर्ते वापद्यते प्रवामीयत” इति श्रुतेर्देवतादिज्ञानवत एव विद्या फलतीति ज्ञायते । तत्र ब्राह्मणपदोपलक्षितार्थज्ञानं व्याख्यानादेव भविष्यति । छन्दोज्ञानं तु अक्षरगणनया सुकरमेव । ऋषिदेवते तु ज्ञापयन्नाह “स्वायम्भुव” इति । व्याचिकीर्षितत्वेन बुद्धौ प्रकृतत्वादेतैरित्युक्तम् । मूर्त्यन्तरं विहाय यज्ञस्य स्तुतौ किं कारणमित्यतो विशेषतः स्वसम्बन्धमाह “आकूतीसूनुम्” इति । “भगवन्तम्” इति पूजार्थम् । कुत एतदवगम्यत ?', इत्यत आह, “स्वायम्भुव” इति । “अवहितात्मना” सावधानेन मनसा । यद्यप्यसौ स्वपरमोक्षार्थं तुष्टाव । तथाऽप्यवान्तरमस्य फलान्तरं सिद्धं, इत्याह “रक्षोभिः” इति । तदा स्तुतिकाले स्तोत्रं श्रुत्वैव तदसहमानैः रक्षोभिः खादितुं सम्प्राप्तो यज्ञेन तेभ्यो मोचित', इत्यर्थः । तान् राक्षसान् इत्यध्याहारेण पुल्लिङ्गोपपत्तिः । अवध्यत्वे कारणमाह “प्रादाद्धि” इति । ननु, बाधने कथं तेषां शक्तिः ?' इत्यत आह, “तैः” इति । “अन्येषां तैर्वध्यत्वम्” इति तेषामन्यवधे सामर्थ्यमित्यर्थः तथा॒शब्दो वरसमुच्चये । यत एवं हरिः शिववरमपि अतिक्रान्तवान्, अतो हरेरन्यः को नाम प्रभुः समर्थः ? किन्तु हरिरेव', इत्यर्थः । अत्र प्रमाणान्तरमाह “ भागवते च ” इति । 'ईशावास्यादिमन्त्राणां योऽर्थो वक्ष्यते अयमेव भागवतेऽष्टमादौ उक्तः । तत्र च मनुः स्तोता, यज्ञनामा विष्णुः स्तुत्य, इति स्पष्टं प्रतीयते । तत्समाख्यानादत्रापि तयोरेव ऋषिदेवतात्वं ज्ञायत', इति भावः । अनेन उपनिषदो अधिकारि, विषय, प्रयोजन, अभिसम्बन्धोऽपि दर्शितो भवति । मन्वादीनामधिकारिणां यज्ञनाम्नो विष्णोर्विषयस्य मोक्षस्य प्रधानस्य रक्षोनिरसनस्याप्रधानस्य च प्रयोजनस्य सूचितत्वात् । 'अतो, युक्तमेतदुपनिषदो व्याख्यानं, गहनार्थत्वाच्च' इति ।
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
“अविदितार्षच्छुन्द” इत्यत्र “आर्ष”पदेन ऋषिसम्बन्धः कथ्यते । “ब्राह्मणपदोपलक्षितार्थज्ञानम्” इत्यत्र ब्राह्मणपदं हि संहितायाष्टीकावाचकम् । टीका च 'अर्थज्ञानोत्पादनायेत्यतो ब्राह्मणपदमर्थज्ञानोपलक्षकम्' इति भावः । “स्थाणुं वर्च्छति” इत्यत्र भावप्रधानो निर्देशः । स्थाणुं स्थाणुत्वमित्यर्थः । “गर्त पदेन भूगर्तरूपो नरकः कथ्यते । “प्रवामीयत" इत्यस्य “व्यत्ययो बहुळम्” 2 “अष्टमादौ” अष्टमस्याध्याये । “अत्र" इति “स्वायम्भुवो मनुर् एतैर्मन्त्रैर्" इत्युक्तार्थे । ननु भागवते “आत्मावास्यमिदं सर्वम्" (भा.पु. ८.१.१०) इत्यादिना ईशावास्यादिमन्त्रार्थकथनेऽपि स्वायम्भुवो मनु यज्ञं तुष्टवेत्यर्थप्रतीतेः कथमेतत् ? 'तत्र प्रमाणान्तरम्' इत्यत “तत्र च” इति । “विरक्तः कामभोगेषु शतरूपापतिः आह - प्रभुः । तप्यमानस्तमा घोरमिदमन्वाह भारत" (भा.पु. ८.१.७) इति मनोस्तोतृत्वम् । “आख्यास्ये भगवान् यज्ञो यच्कार कुरूद्वह" (भा.पु. ८.१.६ ) इत्यादिना यज्ञस्य स्तुत्यत्वं स्पष्टं प्रतीयत इति ध्येयम् श्रीमद्यदुपत्त्याचार्यशिष्य श्रीश्रीनिवासाचार्यकृतं व्याख्यानम् । ( अष्टा. ३.१.८५ ) इति वचनात्, 'प्रमीयते वा म्रियते वा', इत्यर्थः । यद्यपि “भगवत्” शब्दः षड्गुणैश्वर्यवाची, तथापि `गुरुभूतमातामहेन कथं लघुभूतो दौहित्रः स्तूयत?', इति शङ्कावारणाय दौहित्रोऽप्ययं हरवतारत्वात् पूज्य इत्यर्थसूचनाय “भगवन्तम् इति पूजार्थम्" इत्युक्तम् । खादनार्थं प्रागनागतरक्षसामिदानीमागमने हेतुसूचनाय “स्तोत्रं श्रुत्वैव तदसहमानैः” इत्युक्तम् । भगवतस्तु मनोः स्वमातामहत्वात् तददनार्थमागतानां अनादिवैरिणां रक्षसां हननं न स्तोत्रश्रवणसापेक्षं, इति भावः । शिवेनान्येषां राक्षसैः वध्यत्ववरे दत्ते सर्वेषां वधोऽपि स्यादेव । न च सर्ववधो दृश्यते । “अतोऽन्यवधे सामर्थ्यम्” इत्युक्तम् । “अत्र प्रमाणान्तरमाह” इत्यत्र अत्र मनो ऋषित्वे यज्ञस्य देवतात्वे च प्रमाणं समाख्यारूपमित्यर्थः ।।