“शुक्रं तच्छोकराहित्यादव्रणं (अब्रणं) नित्यपूर्णतः
१०. भगवज्ज्ञानिनः शोकाद्यभावे युक्तिकथनम्
स पर्यगाच्छुक्रमकायमव्रणमस्नाविर शुद्धमपापवि॑िद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥
भाष्यम्
“शुक्रं तच्छोकराहित्यादव्रणं (अब्रणं) नित्यपूर्णतः ।
पावनत्वात् सदा शुद्धं अकायं (शुद्धमकार्य) ° लिङ्गवर्जनात् ।
स्थूलदेहस्य राहित्यादस्नाविरमुदाहृतम् ।
एवम्भूतोऽपि सार्वज्ञ्यात कविरित्येव शब्द्यते ।
ब्रह्मादिसर्वमनसां प्रकृत्या मनसोऽपि च
ईशितृत्वान्मनीषी स परिभूः सर्वतो वरः I
सदाऽनन्याश्रूयत्वाच्च स्वयम्भूः परिकीर्तितः
स सत्यं जगदेतादृङ्गित्यमेव प्रवाहतः ॥
अनाद्यनन्तकालेषु प्रवाहकप्रकारकम् ( प्रवाहैकप्रकारत : )
नियमेनैव ससृजे भगवान् पुरुषोत्तमः ।
सज्ज्ञानानन्दशीर्षोऽसौ सज्ज्ञानानन्दबाहुकः
सज्ज्ञानानन्ददेहश्च सज्ज्ञानानन्दपादवान् ।
एवम्भूतो महाविष्णुर्यथार्थं जगदीदृशम् ।
अनाद्यनन्तकालीनं ससर्जाऽत्मेच्छया प्रभुः " ॥
इति वाराहे ॥८॥
ईशावास्योपनिषद्भाष्यटीका
ज्ञानिनः शोकाद्यभावे युक्तित्वेन “स पर्यगाद्” इति विष्णुप्राप्तिरुक्ता । तत्र च 'राजादीनिव परमेश्वरं प्राप्तस्यापि शोकाद्यभावः किं निमित्त ?' इत्यतः “शुक्रनिमित्त” इत्यादिविशेषणानि । तत्रादेहोक्क्या प्राप्तशङ्कापरिहाराय “कविः" इत्युत्तरार्धः । तमिमं मन्त्रमपि' इत्यादिपरिहाराय पुराणवाक्येन व्याख्याति “शुक्रम्” इति । शुचं शोकं रहति त्यजति, इति शुक्रम्' इत्यर्थः । “नित्यपूर्णत” इति नित्यत्वपूर्णत्वाभ्याम्' इत्यर्थः । “व्रण सञ्चूर्णन” इत्यतः स्तोको व्रणः कालेनास्तोकं नित्यं गुणैरस्तोकं पूर्णम्, इति । पावनत्वात्, पावित्र्यहेतुत्वात् । यद्यपि कायशब्दः स्थूलसूक्ष्मशरीरसाधारण:, तथापि अस्नाविरम्" इति स्थूलशरीराभावस्य पृथगुक्तेः, “अकायं लिङ्गवर्जनाद्” इत्युक्तम् । स्नावोपलक्षितधातुमयं स्नाविरं स्थूलशरीरमेव शुद्धमकायम्' हि प्रसिद्धम् । यतो हि ब्रह्म “शुद्धम्”, तस्माद् “अपापविद्धम्” । ततश्च पापमूलस्थूलसूक्ष्मशरीरविधुरम् । तथा च देहनिमित्तशोकादिशून्यम् । एवम्भूतं च ज्ञानी “पर्यगाद्”, सारूप्यादिलक्षणां तद्गतिं गतो भवति । अतः तस्य शोकाद्यभावो युक्तः इति भावः I 'यदि अशरीरो विष्णुः, न तर्हि तस्य जगत्सर्जनादि उपपद्यते । । सृष्ट्यादौ शरीरान्वयव्यतिरेकानुविधानदर्शनात् । न च वाच्यम् शुक्तिकायामिव रजतं परमात्मनि जगदारोपितमेव, अतो न शरीरापेक्षा, इति । बाधाभावेन तत्सत्यत्वनिश्चयात् । न च अदेहत्वस्य जगत्सृष्ट्यादेश्च कालभेदेन व्यवस्था । जगत्सृष्ट्यादिप्रवाहस्य अनाद्यनन्ततया प्रमितत्वात् । अतः, सत्यानाद्यनन्तकालीनजगदुत्पत्त्यादिकारणस्य विष्णोः कथमशरीरत्वम्?” इत्याशङ्कापरिहाराय उक्तस्य 'कविर्" इत्यादेः व्याख्यानम् “एवं भूतोऽपि” इति । ‘एवम्भूतोऽशरीरोऽपि स पुरुषोत्तमः सत्यं प्रवाहतो नित्यमपि जगत्ससृजः, इति सम्बन्धः । “एतादृग्” इति सत्यत्वादिना प्रमितम्' इत्यर्थः । “ससृज” इत्युपलक्षणम् । ‘प्रवाहतो नित्यत्वेऽपि पूर्वोत्तराणां जगतां वैचित्र्यं सम्भवति, तन् नास्ति', इति स्वरूपकथनम् "अनादि" इति । नियमेन प्रवाहकप्रकारतः' इति प्रवाहिणामेकप्रकारत्वं अभिप्रैति । तदनेन “शाश्वतीभ्यः समाभ्यः” इति सप्तम्यर्थे व्याख्यातं भवति । 'अनाद्यनन्तसंवत्सरेषु याथार्थ्येन, वर्तमानान् अपि', इत्यर्थः । अशरीरस्य जगत्सृष्ट्यादिनिर्वाहार्थमाह, “सार्वज्ञाद्” इति । “एवाह्येवैवाहि” इतिवत्, “कविरित्येव” कविरित्येवं परिभवति । ‘सर्वं वशीकरोति' इति “परिभूः”, सर्वतो वरः । स्वयमेव परमनपेक्ष्य भवति' इति “स्वयम्भूः”, सदा अनन्याश्रयः । “च शब्दौ विशेषणसमुच्चयार्थौ । 'ननु शरीराधीनत्वात् सर्जनादेः, कथं सार्वज्ञादिता घटते?' इत्यत आह “सज्ज्ञान” इति । 'जडशरीराभावेऽपि सज्ज्ञानाद्यात्मकशीर्षादिमान् भवति । यत् एवम्भूतस्तस्माज्जगत्ससर्जा' इति योजना । सज्ज्ञानाद्यात्मकविग्रहवत्वं अन्येषामविद्यमानं तस्योपपादयितुं सार्वज्ञादिमाहात्म्यमुक्तम् इति भावः । अपरे तु “योऽयमतीतैः मन्त्रैरुक्त आत्मा स स्वेन रूपेण किंलक्षणक?” (शं.भा. ८) इत्यपेक्षायामयं मन्त्रमित्युक्त्वा, “स पर्यगाद्” इत्येतदपि आत्मविषयं व्याकुर्वते, 'स आत्मा पर्यगात् व्याप्तोऽभूद्' इति । तत् तु असत्, “शुक्रम्” इत्यादेः द्वितीयान्तस्य अन्वयाभावप्रसङ्गात् । न चैतत् प्रथमान्तम “आत्मान" एव विशेषणं लिङ्गव्यत्ययात् विपरिणामस्तु, 'अगतिका गतिः' । ' स्वयमेव सर्वं भवति, इति स्वयम्भूः' इति च "मनीषी परिभूः" इत्यनेन विरुद्धम् । न च एवंविधमात्मनो निष्कृष्टं रूपं तेषाम् इति ॥ ८ ॥
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
“स्तोको व्रण" इत्यत्र स्तोकोऽल्पता । “किञ्चिन्मात्रं तनुस्तोकहू स्वाल्पत्रुटयस्समाः" :" इति हलः । “न च अकायम्" इत्यत्र सर्वथा कायाभावः शङ्क्यः । “यत्ते रूपं कल्याणतमम्" इत्युपरि कल्याणरूपस्य वक्ष्यमाणत्वात् “अकायमव्रणम्” इत्यत्रापि प्राकृतदुर्भगदेहस्यैव निषेधः । अत एव व्रणादियोग्यदेहाभावसूचनाय “अव्रणमस्नाविरम्" इत्युक्तम् । तस्य हरे: शोकरहितत्वेन तं प्राप्तस्य मुक्तस्यापि शोकराहित्यघटनाय “सारूप्यादिलक्षणां तद्गतिम्” इत्युक्तम् । “नियमेन प्रवाहैकप्रकारत” इतीत्यत्र प्रवाहस्यैकत्वात् तत्रैकप्रकारोक्तिः व्यर्था स्यात् ? अत एव प्रवाहिणाम्" इत्युक्तम् । “कविरित्येव शब्द्यत” इत्युक्ते ‘नामान्तरं नास्ति' इति भ्रमः स्यात् ? अत “ एव" शब्दार्थं सदृष्टान्तमाह “एवाह्येवैव” इति । “एवाह्येवैवाह्यग्नाइ” 7 इत्युपनिषद्वाक्येषु “एवाहि”, “इति” शब्दस्य एवं हि' इत्यर्थ उक्त, इति भावः । " ननु “कवि पदेन भगवतः सार्वज्ञकथनेऽपि तार्किकसर्वज्ञेश्वरवत् देहाभावे कथं सृष्टि: ? कुम्भकरण कौशलज्ञानवतोऽपि कुम्भाकारस्य हस्तच्छेदे कुम्भकर्तृत्व अदर्शनाद्' इति । हरेरपि अलौकिकदेहसद्भावं प्रमाणेन दृढयति “सज्ज्ञानानन्दशीर्ष” इति । “न चैवंविधम्” इत्यत्र तेषां स्वयमेव सर्वं स्वयं भवति, इति वादिनामेवंविधं “ शुक्रमकायमव्रणमस्नाविरम्” इत्यादिनोक्तं निष्कृष्टरूपं अस्ति । मनुष्यपशुपक्ष्यादिरूपेषु शोकसहितत्वात् सकायत्वात् सव्रणत्वात् स्नाविरविशिष्टत्वात् पापविद्धत्वाच्च । तथा च "स्वयम्भु " पदेन सर्वजीवात्मकत्वं वदतां कथं न पूर्वोत्तरविरोध इति भावः ॥ ८ ॥