“अनेजन्निर्भयत्वात् तदेकं प्राधान्यतस्तथा

७. निर्भयत्वप्रधानत्वादिगुणोपेतपरमात्मतत्त्वोपदेशः

अनेजदेकं मनसो जवीयो नैनद्देवा आनुवन्पूर्वमर्षत् ।

तवावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥

भाष्यम्

अनेजन्निर्भयत्वात् तदेकं प्राधान्यतस्तथा

सम्यग् ज्ञातुमशक्यत्वादगम्यं तत् सुरैरपि ।

स्वयं तु सर्वानुगमात् (सर्वानगमत् ) पूर्वमेव स्वभावतः

अचिन्त्यशक्तितश्चैव सर्वगत्वाच्च तत् परम् ।

द्रवतोऽत्येति सन्तिष्ठत् तस्मिन् कर्माण्यधान्मरुत् ।

मारुत्येव यतश्चेष्टा सर्वो तां हरयेऽर्पयेत्
इति ब्रह्माण्डे ।ऋष ज्ञाने॥४॥

ईशावास्योपनिषद्भाष्यटीका

एवं निवृत्तकर्मणा, विशुद्धाशयस्यैहिकामुष्मिकाशेषविषयेभ्यो व्यावृत्तस्य ईश्वरतत्त्वबुभुत्सावतः, 'कोऽसावात्मा, यद्विपरीतोपासनं असुर्यलोकप्राप्तिसाधनं स्याद् ?' इत्यपेक्षायां परमात्मतत्त्वोपदेशः क्रियते, “अनेजद्इत्यादिना । तत्राद्यं मन्त्रमन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे अनेजद्इति । तत्परमात्मस्वरूपं निर्भयत्वादेवअनेजद्अकम्पमानम् । न तु निष्क्रियत्वात् । प्राधान्यत एव चैकं, न तु द्वितीयवस्तुरहितत्वात् ।तथाशब्दो विशेषणसमुच्चये ।मनसोऽपिजवीयोवेगवत्तरम् । मनो हि वेगवत्प्रसिद्धसम्यग्ज्ञातुमशक्यत्वादेवनैनद्देवा आनुवान्इति तत्सुरैरपि अगम्यमुच्यते, न तु सर्वथा अगोचरत्वात् ।पूर्वमर्षद्इत्यस्य व्याख्यानंस्वयं तु सर्वान्" इति ।अगमद्व्यजानात् ।पूर्वमेवइत्यनुवादेनस्वभावत" इति विवरणं अचिन्त्यशक्तितश्च सर्वगतत्वाच्च तत्परं ब्रह्म सन्तिष्ठत् द्रवतोऽन्यान् अत्येति उच्यते । न तु अन्यस्य कल्पितत्वात् ।अपइत्यस्य व्याख्यानंकर्माणिइति । आसमन्तात् पालयन्ति, इति कर्माण्यापः 'सर्वैः क्रियमाणानि कर्माणि तस्मिन्नर्पितवान्' इत्यर्थः ।अन्यकर्माणि कथं मातरिश्वा अर्पयेद् ?' इत्यत आहमारुतिइति ।यतः सर्वा चेष्टा मरुत्प्रेरणयोत्पन्नत्वात् मारुती, अतः तां हरये हरौ अर्पयेदित्युक्तम्' इत्यर्थः ।अर्षद्इत्येतत्अगमद्इति व्याख्यातम् । तन्मूलभूतं धातुसूत्रमपि पठति, “ऋष ज्ञानइति ।अनेजद्इत्यादेः निष्क्रियत्वाद्यर्थकल्पनेमनसो जवीय" इत्यादिविरोधश्च । न च सोपाधिकनिरुपाधिकत्वेन व्यवस्था, मुख्यार्थसम्भवे अमुख्यार्थायोगात् । स्वप्रधाने ब्रह्मणि वेदान्तानां तात्पर्यादत्र स्वरूपकथनमात्रेण वाक्यपरिसमाप्तिः ॥ ४॥

ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका

अगमद्व्यजानाद्इत्यत्रगत्यर्थानां ज्ञानार्थत्वाद्इति भावः ।अचिन्त्यशक्तितइति वदता भाष्यकारेण 'अत्रैव स्थितस्य अनन्तरूपग्रहणशक्तिसद्भावाच्च एकेन रूपेण तिष्ठत रूपान्तरेण द्रवतोऽत्येति' इति गत्यन्तरं सूचितम्अप इत्यस्य व्याख्यानं कर्माणि इतिकर्माणिइत्यत्र सर्वकर्मणामन्ते कृष्णार्पणबुद्ध्या अपां दीयमानत्वात् शिखाग्रहणेन शिखिनामाकर्षवद्अप्पदेने सर्वकर्मणामुपलक्षणाम् इति भाव: ।एतादृशं ब्रह्मोपासीत " इत्यादिज्ञात्रपेक्षितक्रियानभिधानात्, “स्वप्रधाने ब्रह्मणि इत्युक्तम् । ।सास्नादिमती गौः’, ‘पृथुबुध्नोदराकारो घट:' इत्यादौ लौकिकवाक्ये, “सत्यं ज्ञानमनन्तं ब्रह्म" (तै. उ. २.१.१) इति श्रौतवाक्ये च, स्वरूपमात्रनिरूपणेनापि वाक्यपर्यवसानदर्शनाद्, इति भावः ॥ ४ ॥

Load More