ॐ तदव्यक्तमाह हि ॐ

विश्वं सत्यं'तदेतत्सत्यम्' 'याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः सामाभ्य’ ‘यतो वा इमानि भूतानि जायन्ते' इत्याद्यनेकश्रुतिभिः, ‘जन्माद्यस्य यतः’ ‘अन्तस्तद्धर्मोपदेशात्' इत्यादिसूत्रैः, ‘असत्यमप्रतिष्ठन्ते' इत्यादि गीतावाक्यैः शास्त्रं स्वयमेव मूर्तामूर्तादिजगद्दर्शयित्वा स्वेनैव पुनः जगद्विषयप्रतिषेधकरणस्य ' न हि महता परिकरबन्धेन 'ब्रह्मविदाप्नोति परं’ ‘सत्यं ज्ञानमनन्तं ब्रह्म' इत्येवमादिना वेदान्तेषु ब्रह्म प्रतिपाद्य, तस्यैव पुनरभावोऽभिलप्यते ' प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर' मिति ब्रह्मविषयप्रतिषेधस्य शङ्कराचार्योक्तायुक्ततेवप्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर'मिति न्यायेन अयुक्तत्वेन नेति नेतीति वाक्येन जगतो निषेधायोगात् । उक्तं हि शङ्कराचार्यै:- न तु रूपप्रपञ्चः प्रत्यक्षादिगोचरत्वात् प्रतिषेधार्हः इति वाक्येन प्रतिषेधानर्हत्वम् ।

न च शास्त्रं ब्रह्मणो रूपद्वयं न प्रतिपादयति किं तु निषेधायानुवदतीति तु वाच्यम् । प्रसक्त्यभावेन निषेधायानुवादायोगात् । न ह्यद्वैतिभिः निषेध्यत्वेनाभिमताः पुण्यपापदेवस्वर्गलोकनकवैकुण्ठादयः प्रत्यक्षादिसिद्धा इति तेषां वेदेन (स्वेनैव ) प्रपञ्चयित्वा निषेधः क्रियते इति वक्तव्यत्वेन 'प्रक्षालनाद्धि पङ्कस्य' इति न्यायविरोधस्य सुस्थिरत्वात् ।

अपि चयुक्तं च कार्यस्य वाचारम्भणशब्दादिभ्यो ऽसत्वमिति नेति नेतीति प्रतिषेधनमितियदुक्तं तत्तुच्छम् । वाचारम्भणश्रुतौ जगतः असत्त्वबोधकपदाभावेन असत्त्वबोधकत्वासम्भवात् । वाचारम्भणश्रुत्यर्थस्तु पूर्वमेव वर्णितो द्रष्टव्यः । अद्वैतिभिर्जगतोऽसत्त्वोक्तौ अपसिद्धान्तश्च । यत्तुरूपवतः स्वरूपजिज्ञासायामिदमुपक्रान्तम्अथात आदेशो नेति नेति' (बृ.२-३-६ ) इति तत्र कल्पितरूपप्रत्याख्यानेन ब्रह्मणः स्वरूपावेदनमिति निर्णीयते" इत्युक्तं तत्तुच्छम् । अद्वैतमते कल्पनाधिष्ठानस्य निर्गुणब्रह्मणः अज्ञेयत्वेन स्वरूपजिज्ञासायाः नत्स्वरूपज्ञानस्य चायोगेन ब्रह्मस्वरूपावेद- कत्वस्यासम्भवात् ।

किं च "नापि ब्रह्मप्रतिषेध उपपद्यते ; 'ब्रह्म ते ब्रवाणि' (बृ. २.११) इत्याद्युपक्रमविरोधात् 'असन्नेव स भवति । असद्ब्रह्मेति वेद चेतू' ( तै. २- ६ - १) इत्यादिनिन्दाविरोधात्, 'अस्तीत्येवोपलब्धव्यः' (कठ. ६-१३) इत्यवधारणविरोधात् सर्ववेदान्तव्याकोपप्रसङ्गाच्च' इति वाक्येन यथा ब्रह्मप्रतिषेध उक्तैर्हेतुभिर्नोपपद्यते इत्युक्तं तथा तैरेव हेतुभिः सप्रपञ्चरूपद्वयस्य (जगतः ) निषेधस्यानुपपद्यमानत्वात् जगतो निषेधोऽपि न कार्य एव । तथा हि- सर्ववेदेषु ब्रह्मण: प्रतिपाद्यमानत्वेन निषेधे यथा सर्ववेदान्तव्याकोपप्रसङ्गः तथा सर्ववेदेषु जगतः प्रतिपाद्यमानत्वेन तस्य जगतः निषेधे सर्ववेदान्तव्याकोपोऽस्त्येवेति ।

अङ्गीकृत्य चेदमुक्तम् । अद्वैतमतरीत्या शुद्धब्रह्मणः अज्ञेयत्वेन एकेनापि वेदान्तवाक्येन अप्रतिपादनात् तस्य निषेधे वेदान्तव्याकोकप्रसङ्ग एव नास्ति । जगतः ज्ञेयत्वेन वेदान्तप्रतिपाद्यतया अद्वैतिभिरङ्गीकृतत्वेन जगतो निषेध एव सर्ववेदान्तव्याकोपप्रसङ्ग इति ।

यथा ब्रह्मणोऽसत्त्वे 'अस्तीत्येवोपलब्धः' (कठ. ६ - १३) इति कठश्रुतौ अवधारणविरोधः, तथा 'अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे' (कठ.२ - ६ ) इति तस्यामेव कठश्रुतौ एतल्लोकपरलोकानाम् असत्त्वोक्तौ यमप्राप्तिरूपनिन्दाकरणेन सत्वसिध्या तद्विरोधः प्राप्नोति । इदमपि अङ्गीकृत्योक्तम् । अस्तीत्येवोपलब्धव्य इति वाक्यस्य अद्वैतमतरीत्या ब्रह्मणः अस्तित्त्वबोधकत्वाभावात् । तथा हि 'अस्तीत्येवोपलब्धव्यः' इति वाक्येन किं निर्गुणस्य अस्तित्वेन उपलब्धव्यत्वमुच्यते उत सगुणस्य । नाद्यः, निर्गुणस्यास्तित्वादिधर्माणामभावेन अज्ञेयत्वेन च अस्तित्वेन ज्ञातव्यत्वबोधनासम्भवात् । सगुणस्य तु मिथ्यात्वेन अस्तित्वेनोपलब्धेः भ्रमत्वेन तादृशश्रुतेः तदर्थे प्रामाण्यस्य च अद्वैतिभिरेवानङ्गीकारात् ।

'असन्नेव स भवति । असह्मेति वेद चेत्' (तै. २-६-१) इत्यादिनिन्दाविरोधात्' इति यदुक्तं तदपि तुच्छम् । तथा हि- सत्त्वं नाम किं देशकालसम्बन्धित्वं किं वा प्रामाणिकत्वं ? उभयमपि नाद्वैतमते शुद्धब्रह्मणस्सम्भवति । देशकालासम्बन्धात् । प्रमाणाविषयत्वाच्च । अत एव (सत्यत्वरूपप्रवृत्तिनिमित्तासम्भवेन शक्त्या बोधनायोगादेव ) सत्यादिशब्दानां लक्षणया ब्रह्मवोधः स्वीकृतः शङ्कराचार्यैः तदुपनिषद्भाष्ये । तथा च सत्त्वाभाव एवासत्त्वमिति ब्रह्मणः सत्त्वाभावेन असत्त्वज्ञानस्य अद्वैतमते आवश्यकत्वेन असन्नेवेति वाक्यं ब्रह्मणोऽसत्त्वज्ञानिनः निन्दां करोतीति वक्तुं न शक्यमिति निन्दाविरोधादित्युक्तिरयुक्तैव । प्रत्युतअस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति वाक्यं ब्रह्मणस्सत्त्वज्ञानिनः साधुत्वं कथयतीत्युक्तिरेवाद्वैतमतेऽयुक्ता । ब्रह्मणस्सत्त्वाभावेन अविद्यमानसत्त्वज्ञानस्य भ्रमत्वेन भ्रमवतः पुरुषस्य साधुत्वोक्तेरयुक्तत्वात् ।

किं चनापि ब्रह्मप्रतिषेध उपपद्यते ।ब्रह्म ते ब्रवाणि' (बृ.२.१.१) इत्याद्युपक्रमविरोधात्इत्युक्तिरपि स्वव्याहता ।दर्शयति चाथो अपि स्मर्यते' (ब्र.सू.३.२.१७) इति सूत्रभाष्ये - 'सहो वाचाधीहि भो इति स तूष्णीं बभूव' इति, भाष्यरत्नप्रभायाम् –'तस्य तूष्णींभाव एवोत्तरम्' इति इत्यादिग्रन्थैः ब्रह्मणः प्रश्ने तूष्णींभावस्योत्तरत्वोक्ते: 'ब्रह्म ते वाणि' इति कथनस्य अद्वैतमतेऽयोगेन उपक्रमविरोधाभावात् ।

यच्चोक्तंन तावदुभयप्रतिषेध उपपद्यते ; शून्यवादप्रसङ्गात्इति तत्तुच्छम् । अद्वैतवादस्य शून्यवादाविशेषेण शून्यवादप्रसङ्गादित्यापादनस्या- योगात् । तथा हि शङ्कराचार्यैर्विष्णुसहस्रनामभाष्ये ब्रह्मणः शून्यपद- प्रतिपाद्यत्वकथनावसरे– 'निर्विशेषत्वाच्छून्यवच्छून्यः' इति शून्यवत् ब्रह्मणोऽपि निर्विशेषत्वमङ्गीकृत्य शून्यादवैलक्षण्यं स्वीकृतम् । तथा जगद्विषयेब्रह्मभिन्ने शून्यवादिभिरस्माकं साम्यमिष्टमित्यपि बोध्यम्' इत्यद्वैत- सिद्धिव्याख्यायां, तथा 'यद्यपि बाह्यार्थनिराकरणं ज्ञानमात्रकल्पना चाद्वयवस्तुसामीप्यमुक्तम्' इति गौडपादकारिकाभाष्ये, तथान्येषु च ग्रन्थेषु जगतश्शून्यवादिवत् असत्त्वमुक्तमिति ब्रह्मविषये जगद्विषये च शून्यवादरूपत्वम् अद्वैतवादस्य स्वीकृतमिति शून्यवादप्रसङ्ग इत्यापादनमयुक्तम् ।

योक्तं "किञ्चिद्वि परमार्थमालम्व्यापरमार्थः प्रतिषिध्यते, यथा रज्ज्वादिषु सर्पादयः । तच्च परिशिष्यमाणे कस्मिंश्चिद्भावेऽवकल्प्यते । उभयप्रतिषेधे तु कोऽन्यो भावः परिशिष्येत् । अपरिशिष्यमाणे चान्यस्मिन् य इतरः प्रतिषेद्धुमारभ्यते प्रतिषेद्धुमशक्यत्वात् स्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिःइति, तदपि तुच्छम् । निर्विशेषब्रह्मणोऽपि अद्वैतमते परमार्थत्वाभावात् । शून्यवादिमतेऽपि - ' द्वे सत्त्वे समुपाश्रित्य बुद्धानां धर्मदेशना । लोके सांवृत्तसत्यत्वं सत्त्वं च परमार्थतः ।।' इति शून्यस्य परमार्थत्वाङ्गीकारावगमात्, 'शून्यवादेऽपि शून्यतायाः सत्यत्वाङ्गीकारात्इति भामत्युक्तेश्च ।

शून्यं प्रामाणिकं नसत् । न अर्थक्रियाकारि, न शून्यं नास्तीत्यादिरूपेण शून्यस्य निषेधेऽपि निषिद्धे शून्ये रूपवन्न इत्यादि रूपेण अन्यधर्मनिषेधसम्भवात् । तथा च रज्जौ सर्पारोपः, तदनन्तरं तत्र विषययुक्तत्त्वारोपः कुण्डलत्वाद्यारोपः बाधकाले रज्जौ सर्पत्वनिषेधः तदनन्तरं निषिद्धे सर्प आरोपितविषययुक्तत्वकुण्डलित्वादीनां निषेधो दृष्ट इति किञ्चित् परमार्थमालम्ब्य निषेध इत्युक्तेरयुक्तवात् । किञ्चित्परमार्थमालम्ब्य निषेध इत्यस्मिन् विषये यथा रज्वादिषु सर्पादय इति दृष्टान्तग्रहणमप्ययुक्तम् । अद्वैतमते रज्जोरपि कल्पितत्वेन पारमार्थिकत्वाभावात् ।

'ततो ब्रवीति च भूयः' इति सूत्रखण्डस्य " इतश्चैष एव निर्णय: यतस्ततः=प्रतिषेधात् भूयो ब्रवीति 'अन्यत्परमस्ति' (बृ. २- ३-६ ) इति । अभावावसाने हि प्रतिषेधे क्रियमाणे किमन्यत्परमस्तीति ब्रूयात् ? तत्रैषाऽक्षरयोजनानेति नेतीति ब्रह्मादिश्यच तमेवादेशं पुनर्निर्वक्ति । नेति नेतीत्यस्य कोऽर्थ : ? न ह्येतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीत्यतो नेतिनेतीत्युच्यते, न पुनः स्वयमेव नास्तीत्यर्थः । तच्च दर्शयत्यन्यत्परम- प्रतिषिद्धं ब्रह्मास्तीति यद्व्याख्यानं तदप्ययुक्तम् । अथात आदेश इति वाक्यस्य जगन्निषिध्य जगदतिरिक्तस्य ब्रह्मणः अस्तित्वबोधकत्वाभावात् । तथा हिअथात आदेशो नेति नेति' इति पूर्वभागेन ब्रह्म मूर्तामूर्त- भिन्नमित्यादिश्यनह्येतस्मादिति नेत्यन्यत्परमस्ति' इति वाक्यं नेति इति मूर्तामूर्तभिन्नत्वेन कथ्यमानात् एतस्माद्ब्रह्मणः अन्यत् भिन्नं परं=उत्कृष्टं नास्ति हि इति परमात्मनः सकाशात् अन्यवस्तुनः परत्वनिषेधमेव करोति । न हि जगतः असत्त्वं बोधयित्वा अन्यत्परमस्तीति वस्तु गमयति । नेति निषिध्यमानादेतस्माज्जगतः अन्यत्परं वस्तु ब्रह्म अस्तीत्यर्थकरणे न हीति निषेधवाचकपदस्य अन्वयाभावेन वैयर्थ्यं स्यात् । तस्य सार्थक्याय इति नेति निषिध्यमानाज्जगतः अन्यत् परं वस्तु न हि अस्तीति निषेधे ब्रह्मणोऽपि निषेधः प्राप्नोति । तस्मात् न ह्येतस्मादिति नेत्यन्यत्परमस्तीति वाक्यं जगत् निषिध्य न ब्रह्मणोऽस्तित्वबोधकम् ।

किं चन ह्येतस्मादिति नेत्यन्यत्परमस्ति इति वाक्यस्य इति नेत्येतस्मात् प्रपञ्चनिषेधरूपात् आदेशनात् अन्यत्परमादेशनं ब्रह्मणो नास्तीति यद्व्याख्यानं भाष्ये तदप्ययुक्तम् । पूर्वोत्तरग्रन्थानवलोकनमूलत्वात् । तथा ग्रन्थान्तरानवलोकनमूलत्वाच्च । पूर्वोत्तरग्रन्थे ग्रन्थान्तरे च ब्रह्मणोऽनेकनाम्नां निर्देशात् । तथा हि उत्तरवाक्ये 'अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यं' (बृ.२-३-६) इति नेत्यस्मान्निर्देशात् सत्यस्य सत्यमित्यन्यनिर्देशस्य कथनात् । तस्योपनिषदहमिति तस्योपनिषदहमिति अहः अहमिति निर्देशस्य कथनात् । तस्योपनिषत् सत्यस्य सत्यमिति (बृ. २-१-१०) ब्रह्मणस्सत्यमित्यादेशः इति कथनात् । अहं नामाभवत् इत्यहमिति निर्देशस्य कथनात् ब्रह्मणो नाम सत्यमिति (छां.८-३ - ४ ) इत्यादौ सत्यमिति ब्रह्मणो नामकथनात् । विष्णुनामसहस्त्रेषु च बहूनां नाम्नां कथनाच्च । 'विद्युद्ब्रह्मेत्याहुः 'इन्द्रमित्याचक्षते' इत्याद्यनेकनाम्नां कथनाच्च । ग्रन्थगौरवभयादुपरम्यते । किं च नेति नेतीति आदेशादन्यदादेशनं ब्रह्मणो नास्तीत्येतावन्मात्रेण निर्वाहे परमितिपदवैयर्थ्यं चैतद्व्याख्याने ।

ॐ तदव्यक्तमाह हि ॐ (३.२.२३)

इति सूत्रस्य ‘“यत्प्रतिषिद्धात्प्रपञ्चजातादन्यत्परं ब्रह्म तदस्ति चेत्कस्मान्न गृह्यत इति ? उच्यते- तत् अव्यक्तमनिन्द्रियग्राह्यम्; सर्वदृश्यसाक्षित्वात् । आह ह्येवं श्रुतिः - 'न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा' । (मुण्ड.३-१-८) ( स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते' (बृ.३-९-२६)यत्तदद्रेश्यमग्राह्यम्' (मुण्ड. १-१-६) 'यदाह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने' ( तै.२-७-१) इत्याद्या । स्मृतिरपिअव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते' (गी.२-२५) इत्याद्या। इति यद्व्याख्यानं तत्र ब्रह्म अस्ति चेत् कस्मान्न गृह्यते इति शङ्कायां तत्=ब्रह्म, अव्यक्तं = इन्द्रियाग्राह्यं हि यस्मात् श्रुतिः स्मृतिश्च अव्यक्तत्वं इन्द्रियाग्राह्यत्वमाहेत्युक्तं युक्तमेव । परन्तु प्रतिषिद्धात्प्रपञ्चादिति यत्प्रपञ्चस्य प्रतिषिद्धत्वं विशेषणं दत्तं तदयुक्तम् । प्रपञ्चस्याप्रतिषिद्धत्वात् । प्रमाणसिद्धस्य प्रतिषिद्धत्वासम्भवाच्च । किं च तदव्यक्तं अनिन्द्रियग्राह्यं सर्वदृश्यसाक्षित्वादिति अनिन्द्रियग्राह्यत्वे सर्वदृश्यसाक्षित्वहेतुकथनमयुक्तम् । तथा हि- साक्षादृष्टरि संज्ञायाम् इति द्रष्टा इत्यस्मिन्नर्थे साक्षाच्छब्दात् इनि प्रत्यये निष्पन्नस्य साक्षिशब्दस्य साक्षादृष्टा इत्यर्थकत्वेन परमात्मनः सर्वद्दृश्यविषयकापरोक्षज्ञानकर्तृत्वरूपसर्वदृश्यसाक्षित्वस्य (सर्वापरोक्षज्ञानवत्त्वस्य) अनिन्द्रियग्राह्यत्वे हेतुत्वायोगः । चैत्रविषयकापरोक्षज्ञानवान् मैत्रः चैत्रेण न दृश्यते किम् ? दृश्यत एव । एवं सर्वविषयकापरोक्षज्ञानवतोऽपि ईश्वरस्यान्यकर्तृकापरोक्षज्ञानसम्भवात् इति ।

ॐ अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॐ (३.२.२४)

इति सूत्रस्यअपि चैनमात्मानं निरस्तसमस्तप्रपश्चमव्यक्तं संराधनकाले पश्यन्ति योगिनः । संराधनं च भक्तिध्यानप्रणिधानाद्यनुष्ठानम् । कथं पुनरवगम्यते संराधनकाले पश्यन्तीति ? प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः । तथा हि श्रुतिः -'परांचिखानि व्यतृणात्स्वयं भूस्तस्मात्पराक् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्त चक्षुरमृतत्वमिच्छन् ।।' (कठ. ४।१) इति । 'ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः' (मुं. ३-१-८) इति चैवमाद्या । स्मृतिरपि -यं विनिद्रा जितश्वासाः सन्तुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ।। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ।इति चैवमाद्याइति यद्व्याख्यानं तत्र भक्तिध्यानप्रणिधानाद्यनुष्ठाने योगिनः परमात्मानं पश्यन्तीति श्रुतिस्मृतिभ्यां सिध्यतीति यदुक्तं तद्युक्तमेव । प्रामाणिकत्वात् । परन्तु निरस्तसमस्तप्रपञ्चम् इति यत् परमात्मनः विशेषणं दत्तं, तदयुक्तम् । अप्रामाणिकत्वात् प्रमाणविरुद्धत्वात् प्रकृतपूर्वोत्तर- वाक्यविरुद्धत्वात् । तथा हि- प्रपञ्चनिरासे (प्रपञ्चाभावविषये) श्रुतिसूत्रगीता- रूपप्रमाणस्य मायवादिना अप्रदर्शितत्वात् । प्रपञ्चसद्भावेविश्वं सत्यं’ ‘जन्माद्यस्य यतः’ ‘असत्यमप्रतिष्ठं ते' इत्यादि प्रमाणानां सत्त्वात् पूर्वोत्तरवाक्यैः योगिन इति योगिनां योगस्य च पश्यन्तीति दर्शनस्य दर्शनकर्तृत्वस्य भक्तेर्ध्यानस्य प्रणिधानस्य सत्त्वोक्तेः श्रुतौ स्मृतौ चानेकेषां पदार्थानां सत्त्वोक्तेश्च पूर्वोत्तरवाक्यविरोधात् निरस्तसमस्तप्रपश्चमिति ब्रह्मणो विशेषणमयुक्तम् ।

ननु संराध्यसंराधकभावाभ्युपगमात् परेतरात्मनोः (परमात्माजीवयोः) अन्यत्वं (भेदः) स्यादित्याशङ्कानिवर्तकतया -

ॐ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॐ (३.२.२५)

इति सूत्रमवतार्य तस्य ‘“यथा प्रकाशाकाशसवितृप्रभृतयोऽङ्गुलि- करकोदकप्रभृतिषु कर्मसूपाधिभूतेषु सविशेषा इवावभासन्ते । न च स्वाभाविकीमविशेषात्मतां जहति । एवमुपाधिनिमित्त एवायमात्मभेदः स्वतस्त्वैकात्म्यमेव । तथा हि-वेदान्तेष्वभ्यासेनासकृज्जीवप्राज्ञयोरभेदः प्रतिपाद्यतेइति यद्व्याख्यानं कृतं शङ्कराचार्यैः तस्ययथा प्रकाशादयः उपाधिषु भिद्यन्ते न स्वतः एवं प्रकाशः चिदात्मापि कर्मणि=ध्यानादिकर्मणि उपाधौ भिद्यते, स्वतः तस्य अवैशेष्यं=एकरसत्वमेव वेदान्तेषु तत्त्वमसीत्याद्यभेदविषयकाभ्यासात् इति खल्वर्थः ? स च न युक्तः । तत्त्वमसीत्यादिवेदानां जीवब्रह्माणोरेकत्वप्रतिपादकत्वाभावात् । अद्वैतिभिरेव तत्त्वमसीत्यादिवाक्यानां बोधकत्वमेव नास्तीति, बोधकत्वाङ्गीकारेऽपि चिदिति अभेदाविषयकचिन्मात्रविषयकबोधजनकत्वमिति अङ्गीकारेण अभेदाबोधकत्वात् चिन्मात्रविषयबोधजनकत्वमपि असम्भावितमिति बहुवारं प्रदर्शितत्वाच्च ।

यदुक्तं ध्यानादिकर्मणि उपाधौ भिद्यन्ते स्वतस्तु एकरसमेवेति तदप्ययुक्तमेव । तथा हिध्यानादिरूपोपाधिः किं सम्बद्धः सन् भेदकः उत असम्बद्ध एव भेदकः । न ह्यसम्बद्ध एव भेदकः । अनुभवविरोधात् । तथाङ्गीकारे सदा सर्वेषां भेदकः स्यात् असम्बद्धत्वाविशेषात् । न हि सम्बद्धः सन् भेदक इत्याद्यः पक्षः सम्भवति । अद्वैतिभिःअसङ्गो ह्ययं पुरुष:' इति श्रुत्या ब्रह्मणः असम्बद्धत्वाङ्गीकारात् । उपाधिसम्बन्धोऽपि किं ब्रह्मणः एकदेशस्य उत समग्रस्य ? नाद्यः । निरवयवस्य ब्रह्मणः एकदेशाभावेन एकदेशसम्बद्धः भिनत्तीति कथनायोगात् । न हि समग्रं ब्रह्म सम्बध्य भेदक इति द्वितीयः । समग्रसम्बन्धस्य भेदकत्वायोगात् । ध्यानादेरद्वैतमते कल्पितत्वेन ध्यानरूपोपाधिसिद्धी जीवपरमात्मनोर्भेदसिद्धिः भेदसिद्धौ ब्रह्मभिन्नस्य जीवत्वसिध्या तस्य ध्यानाद्युपाधिसिद्धिः । उपाधिसिद्धौ भेदसिद्धिरित्यन्योन्याश्रयचक्रकानवस्थादिदोषदुष्टत्वेन उपाधिना भेदसिद्धेर्वक्तुमशक्यत्वाच्च ।

यथा प्रकाशाकाशसवितृप्रभृतय अङ्गुलिकरकोदकप्रभृतिषु उपाधिषु भिद्यन्ते न स्वतः इति दृष्टान्तोऽप्ययुक्तः । न हि गगनस्थसवितुर्भूमिस्थितोदकेन सम्बन्धः । असम्बद्धस्य भेदकत्वे सर्वमपि सर्वदा भिद्येतेति अतिप्रसङ्गः । गगनस्थसूर्यस्य भूमिस्थजलेन सम्बन्धस्तु नास्त्येवेति भेदकत्वायोगः । एवमाकाशस्याप्युपाधिर्न भेदकः । एकदेशं सम्बध्य उत समग्रमित्यादि- विकल्पानां समग्रसम्बन्धे भेदकत्वायोगस्य, गगनस्य भिन्नैकदेशाभावेन एकदेशसम्बन्धायोगस्य, एकदेशमपि उपाधिना प्रकल्प्य कल्पितैकदेश- सम्बन्धस्वीकारे भेदकल्पकोपाधिसम्बन्धेऽपि एकदेशसमग्रविकल्पप्रसक्त्या अन्योन्याश्रयचक्र कानवस्थादिदोषप्राप्त्या गगनेऽप्युपाधिसम्बन्धेन भेदकल्पनायोगश्च ।। एकदेशस्य ( भागस्य ) उपाधिसम्बन्धार्थं स्वतः (स्वाभाविकः) भागः (भेदः) स्वीकृतश्चेत् उपाधिकल्पनावैयर्थ्यम् । भेदसिध्यर्थं खलूपाधिकल्पना । भेदस्य स्वतः सिद्धत्वादिति । एवं प्रकाशेऽपीति प्रकाशाकाशसवितृदृष्टान्तेन परब्रह्मण उपाधिना भेदसिद्धिरयुक्तेति ।।

'पृथगात्मानं प्रेरितारं च मत्वा' 'द्वा सुपर्णा' 'जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः' इत्याद्यनन्त श्रुतिभिः, श्रुत्यर्थनिर्णायकैःभेदव्यपदेशात् ' 'भेदव्यपदेशाच्चान्यः' ‘स्मृतेश्च’ ‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयते' इत्यादिसूत्रैःउत्तमः पुरुषस्त्वन्यः' ‘ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' इत्यादिगीतावाक्यैः ईश्वरोऽहं ' इतीश्वराभेदवादिना निन्दावाक्येन च ईशित्रीशितव्यत्वादिविरुद्ध- धर्मवत्त्वरूपानुमानैः, नाहमीश्वरः नाहं सर्वज्ञः इत्यादि प्रत्यक्षैश्च जीवपरमात्मनोर्भेदस्य प्रमितत्वात् स एव प्रामाणिक इति भेदशङ्कानिवृत्त्यर्थं सूत्रं प्रसक्तमित्युक्तिः केवलमाग्रहमूलैव, न प्रामाणिकीति ।

ॐ अतोऽनन्तेन तथाहि लिङ्गम् ॐ (३.२.२६)

इति सूत्रस्य ‘‘अतश्च स्वाभाविकत्वादभेदस्य अविद्याकृतत्वाच्च भेदस्य विद्यया अविद्यां विधूय जीवः परेणानन्तेन प्राज्ञेनात्मनैकतां गच्छति । तथा हि लिङ्गम्– ‘स योहं वै तत्परमं ब्रह्मवेद ब्रह्मैव भवति' (मुं.३- २-१)ब्रह्मैव सन् ब्रह्माप्येति' (बृ. ४-४-६ ) इत्यादि" इति यद्व्याख्यानं, तदतितुच्छम् । अभेदस्याप्रामाणिकत्वेन स्वाभाविकत्वायोगात् । भेदस्य प्रामाणिकत्वेन अविद्याद्युपाधिसम्बन्धाद्ययोगेन च अविद्याकृतत्वस्य (कल्पितत्वस्य) अयोगाच्च । किञ्च चैत्रनिष्ठे शुक्तिविषयकज्ञाने शुक्ति- विषयकचैत्रनिष्ठाज्ञाननिवर्तकत्वस्य दृष्टत्वेन विद्यायाः स्वसमानविषयक- स्वसमानाधिकरणाविद्यानिवर्तकत्वस्याङ्गीकार्यत्वेन अद्वैतमते विद्यया अविद्यां विधूयेत्युक्तिरयुक्तैव । तथा हि- ब्रह्मविषयकं ज्ञानं ब्रह्मविषयकं स्वसमानाधिकरणं (ब्रह्मविषयकज्ञानसमानाधिकरणं) अज्ञानं निवर्तयतीति वक्तव्यम् । अद्वैतमते भेदादिजगत्कल्पकम् न तावत् जीवनिष्ठमिति शक्यते वक्तुम् । जीवस्याविद्याकल्पितत्वेन अविद्यासिध्यनन्तरभावित्वेन आश्रय- सापेक्षाविद्यायाः पूर्वं जीवस्याभावेन जीवाश्रितत्वायोगात् ।

नापि ब्रह्माश्रितं, ब्रह्मणः 'यस्सर्वज्ञस्सर्वविदिति श्रुत्यवगतसर्वविषय- ज्ञानवत्त्वेन कस्मिंश्चिदपि विषये अज्ञानासम्भवात् । इत्याश्रयासम्भवात् अज्ञानासम्भवः ।। अज्ञानस्य विषयासम्भवादप्यसम्भवः । न तावदज्ञानस्य जीवो विषयः । जीवस्य अविद्यासिद्ध्युत्तरकालीनत्वेन अविद्याया विषयमन्तरा असम्भवेन अविद्यासिद्धौ तत्कल्पितजीवसिद्धिः जीवस्य सिद्धौ तद्विषयकाज्ञानसिद्धिरित्यन्योन्याश्रयादिना जीवस्याज्ञानविषयत्वासम्भवात् ।नापि ब्रह्म अज्ञानस्य विषयः । तस्य स्वप्रकाशत्वेन (सर्वदा प्रकाशमानत्वेन) अज्ञानविषयत्वासम्भवात् । नापि ब्रह्मणो धर्माः अज्ञानस्यविषयाः । अद्वैतमतरीत्या ब्रह्मधर्माणाम् अज्ञानकल्पितत्वेन अज्ञानानन्तरभावित्वेन अज्ञानाविषयत्वासम्भवात् ।आव्रियमाणवस्त्वभावेनापि (विषयाभावेनापि ) अविद्याया असम्भव एव । अस्तु वा ब्रह्माज्ञानं, तस्य ज्ञानेन निवृत्तिरपि न सम्भवति । ज्ञानस्य स्वसमानविषयकाज्ञाननिवर्त - कत्वस्वभावेन तत्त्वमस्यादिवाक्यस्य ज्ञानजनकत्वाभावेन ज्ञानजनकत्वेऽपि तादृशज्ञाने अद्वैतमतरीत्या ब्रह्मणो विषयत्वासम्भवेन च ज्ञानस्य ब्रह्माविषयकतया अज्ञानविषयविषयकत्वाभावेन (समानविषयकत्वाभावेन) अज्ञाननिवर्तकत्वासम्भवात् । अद्वैतमते अविद्यानिवृत्तिफलदर्शनात् ( ब्र.सू. २-१-१४) इति भाष्यव्याख्यानभामत्यादौ न हीयमुत्पन्ना सतीपश्चादविद्यां निवर्तयति, येनान्या स्यात् । किन्त्वविद्याविरोधिस्वभावतया तन्निवृत्त्यात्मैवोदयते' इति ज्ञानस्य अविद्यानिवर्तकत्वाभावस्योक्तेश्चविद्यया अविद्यां विधूय' इत्युक्तिरयुक्तैव ।

जीवः परेणानन्तेन प्राज्ञेनात्मना एकतां गच्छति' इति कथनमुत्सूत्रितं, अपसिद्धान्तकरम्, अप्रामाणिकं च । तथाहि - सूत्रे अनन्तेनेत्येतावन्मात्रमस्ति। न तु एकतां गच्छति इति जीव इति च अस्ति । अतः तद्बोधकपदानामभावात् जीव एकतां गच्छतीति उत्सूत्रितम् ।

अद्वैतमते जीवस्य सदा ब्रह्मरूपत्वेन ब्रह्मताप्राप्तिकथनानङ्गीकारेण ब्रह्मणा एकतां गच्छतीत्यङ्गीकारे अपसिद्धान्तः, प्राज्ञेनात्मना जीवस्य एकत्वप्राप्तौ प्रमाणाभावेन अप्रामाणिकं च ।न चस यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' (मुं.३-२- ९) 'ब्रह्मैव सन् ब्रह्माप्येति' (बृ. ४-४-६ ) इति श्रुती जीवस्य परमात्मना एकतां वदतः इति वाच्यम् । तयोर्जीवपरमात्मनोरेकताबोधकत्वाभावात् । तथाहि — ‘परात्परं पुरुषमुपैति दिव्यं (मु. ३-२-९) इति पूर्ववाक्येन (क्वचिज्जीवप्राज्ञयोर्भेदो व्यपदिश्यते । 'परात्परं पुरुषमुपैति दिव्य' मिति गन्तृगन्तव्यत्वेन (ब्र.सू.शां. ३-२-२७) इत्यादि शाङ्करभाष्योक्तरीत्या ) गन्तृगन्तव्यभावेन जीवपरमात्मनोर्भेदकथानानन्तरं तदुपरि श्रेयसि अनेके विघ्नाः प्रसिद्धाः । अतः क्लेशानामन्यतमेन अन्येन वा देवादिना विनितो ब्रह्मविदपि अन्यां गतिं मृतो गच्छति न ब्रह्मैव इति शङ्कायां प्रवृत्तस्यस यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' इति वाक्यस्य ब्रह्मवित् नान्यां गतिं गच्छति । देवैरपि तस्य ब्रह्मप्राप्तिविघ्नो न शक्यते कर्तुम् ।य:, परमं ब्रह्म=परमात्मानं, वेद=जानाति, सः=ब्रह्मज्ञानी, ब्रह्म भवत्येव=प्राप्नोत्येव, इत्यर्थकत्वेन जीवब्रह्मणोरेकताबोधकत्वाभावात् ।

न च ब्रह्म भवतीत्यस्य ब्रह्म प्राप्नोतीत्यर्थकरणमयुक्तमिति वाच्यम् । एतच्छ्रुतिविचारे शाङ्कवार्तिककाराभ्यामेव भवतीत्यस्य प्राप्त्यर्थकत्वस्य मुख्यत्वोक्तेः । तस्मात् परमं ब्रह्म वेद ब्रह्मैव भवतीति वाक्यं न जीवब्रह्मर्णोरैक्यबोधकम् । प्रत्युत प्राप्यप्राप्तृभावेन जीवब्रह्मणोर्भेदवोधकमेवेति ।

ब्रह्मैव सन् ब्रह्माप्येति' (बृ. ४-४-६) इति वाक्यमपि जीव- ब्रह्मणोर्भेदमेव बोधयति, नत्वैक्यम् । तथा हि- ब्रह्मैव सन् ब्रह्माप्येतीति वाक्यं ब्रह्म अप्येति=प्राप्नोति इत्यर्थकत्वेन प्राप्यप्राप्तृभावेन जीव- ब्रह्मणोर्भेदबोधकमेव न त्वैक्यबोधकम् ।

शङ्कराचार्यैरपि ब्रह्माप्येतीति वाक्यस्य मुख्यार्थस्वीकारे जीवब्रह्मणोर्भेद- सिध्यापत्तेः अमुख्यार्थः स्वीकृतः । अमुख्यार्थेनाप्यभेदो न बोध्यते प्रत्युत ज्ञातृज्ञेयभावेन, जीवस्य भ्रमादिनिवृत्त्या च भेद एव सिध्यति । तथा हि तद्वाक्यं 'तस्मात् ब्रह्माप्येतीत्युपचारमात्रमेतत् विपरीतग्रहवदेह- सन्ततेर्विच्छेदमात्रं विज्ञानफलमपेक्ष्य' (बृ.शां. ४ - ४ - ६ ) विपरीतग्रहवती या देहसन्ततिस्तस्या विच्छेदमात्रं ज्ञानफलमपेक्ष्य उपचारमात्रमित्यर्थ इति (आनन्दगिरीयम्) । एताभ्यां शाङ्करभाष्यतद्व्याख्यानाभ्यां ब्रह्माप्येतीत्यस्य ब्रह्म प्राप्नोतीति मुख्यार्थस्वीकारेण जीवब्रह्मणोर्भेद एव सिध्यति । स माभूत् इति स्वीकृतोऽपि गौणार्थ: भेदसाधक एव, नत्वभेदसाधक इति ।

न च ब्रह्मैव सन्निति भागः जीवस्य ब्रह्मभावं (ब्रह्मत्वं) गमयतीति वाच्यम् ।अथ कस्मादुच्यते ब्रह्मेति, बृंहति बृंहयति च' इत्यादिश्रुत्यनुसारेण ब्रह्मशब्दस्य बृहत्त्वादिगुणविशिष्टार्थकत्वेन वृहत्त्वादिगुणानां जीवे असम्भवेन जीवः ब्रह्म सन्=बृहत्त्वादिगुणविशिष्टः सन् ब्रह्मप्राप्नोतीत्यर्थस्यासम्भवात् । ब्रह्मैव सन् इत्यत्रत्यब्रह्मशब्दस्य लक्षणया चेतनमात्रार्थकत्वं स्वीकृत्य ब्रह्मैव सन् चेतनः सन् ब्रह्म अप्येति प्राप्नोति इत्यर्थस्य स्वीकारे जीवब्रह्मणोरभेदासिद्धेः ।

किं चब्रह्मैव सन् ब्रह्माप्येति' इतिमंत्रार्थदृढीकरणायोदाहृतेअत्र ब्रह्म समश्नुते' इति मन्त्रे ब्रह्म समश्नुते = प्राप्नोति इति प्राप्यप्राप्तृभावेन भेदस्यैवोक्तेः पूर्वमन्त्रस्यापि प्राप्यप्राप्तृभावेन भेदवोधकत्वमेव । अन्यथा एतन्मन्त्रविषये संवादितया 'ब्रह्म समश्नुते' इति भेदबोधक - मन्त्रोदाहरणस्यानुपपत्तेरिति ।

ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ (३.२.२७)

इति सूत्रस्य ‘“तस्मिन्नेव संराध्यसंराधकभावे मतान्तरमुपन्यस्यति स्वमतविशुद्धये । क्वचिज्जीवप्राज्ञयोर्भेदो व्यपदिश्यतेततस्तु तं पश्यते निष्कलं ध्यायमानः' (मुण्ड. ३-१-८) इति ध्यातृध्यातव्यत्वेन द्रष्टृद्रष्टव्यत्वेन च परात्परं पुरुषमुपैति दिव्यम्' (मुण्ड.३-२-८) इति गन्तृगन्तव्यत्वेन ।यः सर्वाणि भूतान्यन्तरो यमयति' इति नियन्तृनियन्तव्यत्वेन । क्वचित् तयोरेवाभेदो व्यपदिश्यते 'तत्त्वमसि' (छां. ६ - ८- ७ ) ' अहं ब्रह्मास्मि' (बृ.१-४-१०) एष त आत्मा सर्वान्तर:' (बृ.३-४-१) 'एष त आत्मान्तर्याम्यमृतः' (बृ.३-७-३) इति तत्रैवमुभयव्यपदेशे सति यद्यभेद एवैकान्ततो गृह्यते, भेदव्यपदेशो निरालम्बन एव स्यात् । अत उभयव्यपदेश- दर्शनादहिकुण्डलवदत्र तत्वं भवितुमर्हति । यथाऽहिरित्यभेदः कुण्डलाभोग- प्रांशुत्वादीनीति तु भेद एवमिहापीति" इति यत् व्याख्यानम् ।

ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ (३.२.२८)

इति सूत्रस्य च " अथवा प्रकाशाश्रयवदेतत् प्रतिपत्तव्यम् । यथा प्रकाशः सावित्रस्तदाश्रयश्च सविता नात्यन्तभिन्नौ उभयोरपि तेजस्त्वाविशेषात् । अथ च भेदव्यपदेशभाजौ भवत एवमिहापि " इति च यत् व्याख्यानं, तत्र जीवप्राज्ञयोर्भेदो व्यपदिश्यते इत्युक्तिर्युक्तैव ।ततस्तु तं पश्यते निष्कलं ध्यायमानः' (मुण्ड.३-१-८) इत्यादि श्रुतिभिस्तदुक्तरीत्या भेदकथनात् । 'यत्तूक्तं तत्त्वमसि' 'अहं ब्रह्मास्मि' एष ते आत्मा सर्वान्तरः । (बृ. ३ - ४ - १) 'एष त आत्मान्तर्याम्यमृतः ' (बृ. ३-७-३) इति श्रुतिभिरभेदो व्यपदिश्यते इति, तत्तु अयुक्तम् ।तत्त्वमसि' ‘अहं ब्रह्मास्मि' इति श्रुत्योरभेदप्रतिपादकत्वाभावस्य ‘‘सर्वेशत्वस्वतन्त्रत्वसवज्ञत्वादिभिर्गुणैः । सर्वोत्तमस्सत्यकामस्सत्यसंकल्प ईश्वरः ।। तत्पदार्थस्त्वमर्थस्तु किञ्चिज्ज्ञो दुःखजीवनः । संसार्ययं तद्गतिको जीव: प्राकृतलक्षणः ।। कथमेकत्वमनयोर्घटते विपरीतयोः । विरुद्धधर्माक्रान्तत्वात्परस्परविलक्षणौ । जीवेशौ वह्नितुहिनाविव' इत्याद्यनेकग्रन्थैरभेदबोधकत्वाभावस्य स्वेनैव (शङ्कराचार्येणैव ) वर्णितत्त्वात् ।

'एष ते आत्मा सर्वान्तरः' (बृ.३-७-३) इति वाक्यस्य 'भेदव्यपदेशाच्चान्यः' ( ब्र. सू. १ १ २१ ) इति सूत्रभाष्येअस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी, 'य आदित्ये तिष्ठान्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यश्शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः' (बृ.३-७-९) इति श्रुत्यन्तरे भेदव्यपदेशात् । तत्र हि 'आदित्यादन्तरो यमादित्यो न वेद' इति वेदितुरादित्याद्विज्ञानात्मनोऽन्योऽन्तर्यामी स्पष्टं निर्दिश्यतेइत्याद्यनेकवाक्यैः जीवपरमात्मनोर्भेदः स्पष्टं प्रतीयते इति शङ्कराचार्यैरेवोक्तेर्नाभेदबोधकत्वम् । एवम् ‘“एष ते आत्मा सर्वान्तर" इति वाक्येन सर्वान्तरत्वाद्युक्त्या भेदस्यैव प्रतीयमानत्वात् नैकमप्यभेदबोधकमिति द्वैत्यद्वैतिभ्यां भेदव्यपदेशस्याङ्गीकृतत्वेऽपि द्वैत्यद्वैतिभ्यामभेदव्यपदेशस्यानङ्गीकृतत्वात् भेदाभेदव्यपदेशस्यासिद्धत्वात् अहिकुण्डलवत् भेदाभेदस्वीकार इति पूर्वपक्षस्यानुत्थानात् अहिकुण्डलवद्वा प्रकाशाश्रयवद्वा जीवपरमात्मनोर्भेदा- भेदाविति पूर्वपक्षकरणमयुक्तम् ।

ॐ पूर्ववद्वा ॐ (३.२.२९)

इति सूत्रस्य "यथा वा पूर्वमुपन्यस्तं प्रकाशादिवच्चावैशेष्यमिति तथैवैतद्भवितुमर्हति । तथा ह्यविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते । यदि पुनः परमार्थत एव बद्धः कश्चिदात्माऽहिकुण्डलन्यायेन परस्यात्मनः संस्थानभूतः प्रकाशाश्रयन्यायेन चैकदेशभूतोऽभ्युपगम्येत, ततः पारमार्थिकस्य बन्धस्य तिरस्कर्तुमशक्यत्वान्मोक्षशास्त्रवैय्यर्थ्यं प्रसज्येत, न चात्रोभावपि भेदाभेदौ श्रुतिस्तुल्यवद्व्यपदिशति । अभेदमेव हि प्रतिपाद्यत्वेन निर्दिशति, भेदं तु पूर्वप्रसिद्धमेवानुवदत्यर्थान्तर- विवक्षया, तस्मात्प्रकाशादिवच्चावैशेष्यमित्येष एव सिद्धान्तःइति यत् सिद्धान्तसूत्रतया व्याख्यानं कृतवन्तश्शङ्कराचार्याः, तत्तु अतितुच्छम् । तथा हि-"यथा वा पूर्वमुपन्यस्तं प्रकाशादिवच्चावै शेष्यमिति तथैवैतद्भवितुमर्हति इति यदुक्तं तत् तत्सूत्रव्याख्यानिराकरणावसरे निराकृतमिति ।

यच्चोक्तंअविद्याकृतत्वाद्बन्धस्य विद्याया मोक्ष उपपद्यते । यदि पुनः परमार्थत एव बद्धः कश्चिदात्मा अहिकुण्डलन्यायेन परस्यात्मनः संस्थानभूतः प्रकाशाश्रयन्यायेन चैकदेशभूतोऽभ्युपगम्येत ततः पारमार्थिक- बन्धस्य तिरस्कर्तुमशक्यत्वान्मोक्षशास्त्रवैय्यर्थ्यं प्रसज्येत' इति तदप्ययुक्तम् । अद्वैतमते ब्रह्मातिरिक्तजीवाभावात् ब्रह्मणश्चासङ्गत्वेन सर्वज्ञत्वेन चाविद्यासम्बन्धाद्ययोगेन बन्धः अविद्याकृतः (कल्पितः) इत्यस्यायोगात् ।

विद्यया मोक्ष इत्येतदपि न युज्यते । तथा हि- मोक्षः ब्रह्मस्वरूपो वा अविद्यानिवृत्तिरूपो वा । नाद्यः । अद्वैतमते जीवस्य ब्रह्मस्वरूपतायाः सर्वदा सिद्धत्वेन विद्यासाध्यत्वायोगात् । नापि मोक्षः अविद्यानिवृत्तिरूप इति शक्यते वक्तुम् । अद्वैतमते विद्यायाः असम्भवस्य तयोर्निवर्त्य- निवर्तकभावासम्भवस्य च 'अतोऽनन्तेन' (व्र.सू.३-२-२६) इति सूत्रार्थ- निराकरणावसरे उक्तत्वात् । 'यदि परमार्थ एव बन्धः ... तदा पारमार्थिकबन्धस्य तिरस्कर्तुमशक्यत्वात् मोक्षशास्त्रवैयर्थ्यं प्रसज्येत' इति यदुक्तं तदप्ययुक्तम् (यथा दृष्ट्या प्रसन्नः सन् राजा बन्धापनोदकृत् । एवं तुष्टस्स भगवान् कुर्याद्बन्धविभेदनम् ।।) यथा राजा आराधनादिना प्रीतस्सन् सत्यभूतनिगडवन्धादिभ्यः निवृत्तिं करोति, तथा ईश्वरस्याप्याराधनादिना प्रीतस्य बन्धनिवर्तकतायाः सम्भवात् । प्रत्युत अद्वैतिभिरेव– “न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्नवै मुक्तइत्याद्युक्तरीत्या बन्धस्यासत्त्वेन तन्निवृत्तिरूपमोक्षस्य अयुक्ततायाः स्वीकारात् अद्वैतमत एव मोक्षासम्भवः ।

यच्चोक्तंन चात्रोभावपि भेदाभेदौ श्रुतिस्तुल्यवद्व्यपदिशति । अभेदमेव हि प्रतिपाद्यत्वेन निर्दिशति, भेदन्तु पूर्वप्रसिद्धमेवानुवदत्यर्थान्तरविवक्षया' इति तत्तुच्छम् । विपरीतत्वात् । तथाहि - अभेदप्रतिपादकश्रुतेरेवाभावस्य भेदप्रतिपादकश्रुतेस्सत्त्वस्य च अद्वैतिभिरङ्गीकृतत्वेन 'अभेदं प्रतिपाद्यत्वेन निर्दिशति, भेदमनुवदति अर्थान्तरविवक्षया' (निराकरणार्थं) इत्यस्यायोगात् । श्रुतौ सूत्रे गीतायां च भेदस्यानिराकरणात् । तस्मात् जीवपरमात्मनोभेदः, जगतः सत्यत्वं ब्रह्म सर्वाध्यक्षत्वसृष्टिस्थितिसंहारकारणत्वदेशकाल- विशेषाभिज्ञत्व (सर्वज्ञत्व) सर्वशक्तिमत्त्वाद्यनन्तगुणयुक्तमित्येष एव वैदिकानां सिद्धान्तः प्रामाणिकत्वात् । जीवपरमात्मनोरभेदः, जगतः मिथ्यात्वापरपर्यायमसत्त्वं ब्रह्म शून्यवत् सकलधर्मरहितं सर्वज्ञत्वादिगुणरहितमिति न वैदिकानां सिद्धान्तः, किन्तु अवैदिकानां बौद्धानां सिद्धान्त इति ।

ॐ प्रतिषेधाच्च ॐ (३.२.३०)

इति सूत्रस्य " इतश्चैष एव सिद्धान्तः - यत्कारणं परस्मादात्मनोऽन्यं चेतनं प्रतिषेधति शास्त्रम्- 'नान्योऽतोऽस्ति द्रष्टा' (बृ. ३-७-२३) इत्येवमादि 'अथात आदेशो नेति नेति' (बृ. २-३-६) ' तदेतद् ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्' (बृ.२-५-१९) इति च ब्रह्मव्यतिरिक्तप्रपञ्च- निराकरणाद् ब्रह्ममात्रं परिशेषाच्चैष एव सिद्धान्त इति गम्यते " इति यद्व्याख्यानं, तदपि तुच्छम् । तथा हि- 'नान्योऽतोऽस्ति द्रष्टा' इति श्रुतेः ब्रह्मातिरिक्तचेतननिषेधकत्वाभावस्य पूर्वं बहुवारमुक्तत्वात् तत्रैव द्रष्टव्यम् ।

'अथात आदेशो नेति नेति' इति श्रुतेरेवेदानीं विचारविषयत्वेन तस्य ब्रह्मातिरिक्तजगतः असत्त्वे हेतूकरणमयुक्तम् । न हि सन्दिग्धं कस्यचिदर्थस्य साधनाय प्रभवति ।

तदेतद् ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः ' इति श्रुतौ जगतो निषेधकपदाभावात् प्रत्युत सर्वानुभूरिति पदं सर्वमनुभावयति=उत्पादयति इति सर्वस्रष्टृत्वोक्त्या, सर्वं अनुभवति = जानाति इति सर्वज्ञत्वोक्त्या ब्रह्मणा ज्ञातस्य च जगतः सत्त्वमेव बोधयतीति नेमाः श्रुतयः जगतः प्रतिषेधं (असत्वं ) प्रतिपादयन्ति । प्रत्युत अद्वैतमतरीत्या ब्रह्मणः ज्ञेयत्वासम्भवेन ज्ञेयत्वानङ्गीकारेण च प्रमाणाभावात् शशविषाणवत् निर्गुणब्रह्मण एवासत्त्वं प्रतिपादयन्ति । तथा चयः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतःयतो वा इमानि भूतानि जायन्ते’ ‘यः सर्वज्ञः सर्ववित्.... तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते’ ‘आत्मन आकाशः सम्भूत' इत्याद्यनेकवाक्यैः पृथिव्यादिजगतः सत्त्वं, ब्रह्मणः सर्वज्ञत्वसर्व कर्तृत्वाद्यनन्तगुणवत्त्वमेव सिध्यतीति जगतः सत्त्वं सर्वज्ञत्वादिगुणयुक्तब्रह्मणस्सत्त्वं वैदिकानां सिद्धान्तः, जगतः असत्वं शून्यवद् ब्रह्मणः निर्गुणत्वं (निर्विशेषत्वं ) अवैदिकानां बौद्धानां सिद्धान्तः । स एव स्वीकृतः शङ्कराचार्यतत्परमगुरुगौडपादाचार्यादिभिरिति आस्तिकैर्न ग्राह्यमेतन्मतमिति ।

(अधिकरणम् ७)

ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ (३.२.३१)

इति सूत्रेण अतः ब्रह्मणः परं अन्यत्तत्वमस्ति वा न वा इति संशये सेतुव्यपदेशात् उन्मानव्यपदेशात् सम्बन्धव्यपदेशात् भेदव्यपदेशाच्च अन्यत्तत्वमस्ति इति पूर्वपक्षयित्वा-

ॐ सामान्यात्तु ॐ (३.२.३२)

इति सूत्रस्य 'न ब्रह्मणोऽन्यत् किञ्चिद्भवितुमर्हति प्रमाणाभावात् । न ह्यन्यस्यास्तित्वे किञ्चित्प्रमाणमुपलभामहे । सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रह्मणो भवतीति निर्धारितम् । अनन्यत्वं च कारणात् कार्यस्य । न च ब्रह्मव्यतिरिक्तं किञ्चिदजं सम्भवति ।सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम्' (छां. ६-२- १ ) इत्यवधारणात् । एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानान्न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमव- कल्पते' इति ब्रह्मणोऽन्यत्तत्वं नास्तीति शङ्कराचार्याणां यद्व्याख्यानं तदुत्सूत्रितम्, प्रमाणविरुद्धं च । तथा हि- 'सामान्यात्तु' इति सूत्रेण ब्रह्मणोऽन्यत्तत्वं नास्ति इत्यर्थस्य यथाकथञ्चिदप्यप्रतीतेः उत्सूत्रितम् । "सूत्रार्थो वर्ण्यते यत्र पदैस्सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदु' 'रिति भाष्यलक्षणाभावेन तस्य अभाष्यत्वं च ।

श्रुतिसूत्रगीताप्रत्यक्षानुमानरूपैः सर्वैः प्रमाणैः जगतस्सत्यत्वकथनात् प्रमाणविरुद्धं च । न हि जगतोऽभावे ब्रह्मणो जगत्सृष्टिकर्तृत्वं नियामकत्वमीशितृत्वं सर्वज्ञत्वमित्यादयः श्रुत्युक्ताः धर्माः सम्भवन्ति । न हि चैत्रः शशविषाणकर्ता शशविषाणनियामक इत्यादि कथनं घटते इति ।

'न ह्यन्यस्यास्तित्वे किञ्चित्प्रमाणमुपलभामहे' इत्यस्तित्वे प्रमाणानुपलम्भोक्तिः जन्मान्धस्य बधिरस्य ' क्षीरे शौक्यस्यास्तित्वे न किञ्चित् प्रमाणमुपलभामहे' इत्युक्तिसदृश्येव ।

यच्चोक्तंसर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रह्मणो भवतीति निर्धारितम् । अनन्यत्वं च कारणात् कार्यस्य । न च ब्रह्मव्यतिरिक्तं किञ्चिदजं सम्भवति ।सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' (छां.६-२-१) इत्यवधारणात् । एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानान्न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमवकल्पते' इति, तदयुक्तमेव । घटं प्रति कुलालस्येव ब्रह्मणो जगत्प्रति निमित्तकारणत्वेन कुलालस्य घटात् भिन्नत्वमिव ब्रह्मणो जगतो भिन्नत्वेन जगदभिन्नत्वाभावात् ।

न च मृदो घटं प्रत्युपादानकारणत्वेन घटाभिन्नत्वमिव ब्रह्मणः जगत्प्रत्युपादानकारणत्वेन जगदभिन्नत्वमिति वाच्यम् । निर्विकारस्य ब्रह्मणो जगत्प्रति विकारवत्त्वरूपोपादानकारणत्वासम्भवात् । विवर्तोपादानत्वं तु अप्रामाणिकम् । तुष्यत्विति न्यायेन विवर्तोपादानत्वस्वीकारेऽपि अधिष्ठानतया स्वीकृतब्रह्मज्ञानेन अध्यस्तजगज्ज्ञानासम्भवः, अधिष्ठानाध्यस्तशुक्ति- रूप्ययोरिव ब्रह्मजगतोरभेदासम्भवश्च । न हि मिथ्यासत्ययोरैक्यं क्वापि दृष्टमित्यादयो दोषाः पूर्वं बहुधा प्रपञ्चिताः तत्रैव द्रष्टव्याः । एवं प्रमाणविरुद्धत्वात् अप्रामाणिकत्वात् सूत्राप्रतिपाद्यत्वात् ( उत्सूत्रितत्वात्) नानेन सूत्रेण ब्रह्मणो जगदनन्यत्वसिद्धिः ।

यच्चोक्तंअथ च य आत्मा स सेतुर्विधृतिः ” (छां. ८-४-१) इति श्रुत्या ब्रह्मव्यतिरिक्तं तत्वं सिध्यतीति तदयुक्तम् । श्रुतौ ब्रह्मणस्सेतुत्वमुक्तं, न तु द्वितीयवस्तुसत्त्वम् । न च लोके सेतोः सद्वितीयत्वेन ब्रह्मणः सेतुत्वोक्त्या 'ब्रह्म सद्वयं (द्वितीयवस्तु- सहितं) सेतुत्वात् लौकिकसेतुवत्' इत्यनुमानसूचनद्वारा द्वितीयवस्तु- सिद्धिरिति वाच्यम् । तथा सति सेतो : मृद्दारुमयतादृष्टेः ब्रह्म मृद्दारुमयं सेतुत्वाल्लौकिकसेतुवत्' इति ब्रह्मणः मृद्दारुमयताया अपि सिध्यापत्तेः, तस्मात् सेतुरिव सेतुः यथा लौकिकसेतुः आधारस्तथा सेतुसामान्यात् ब्रह्म जगतस्तन्मर्यादानां च विधारकत्वात् सेतुरिति श्रुतौ उक्तमिति न सेतुत्वोक्त्या द्वितीयवस्तुसिद्धिरिति । नापि 'सेतुं तीर्त्वा' (छां.८-४-

२) इति श्रुत्या सेतुशब्दबोध्यब्रह्मातिक्रमणोक्त्या ब्रह्मातिरिक्तं वस्तु सिध्यतीति युक्तम् । व्याकरणं तीर्णमित्यादिप्रयोगे तरतेः प्राप्त्यर्थकत्वस्य दृष्टेः सेतुं तीर्त्येत्यत्रापि सेतुं=ब्रह्म, तीर्त्वा=प्राप्य इत्यर्थस्यैव न्याय्यत्वेन द्वितीयवस्त्वसिद्धेरितिसामान्यादि' ति सूत्रस्य यद्व्याख्यानं तदप्ययुक्तम्, सूत्रादेतादृशार्थस्याप्रतीतेः ।

सेतुशब्देन जगतस्तन्मर्यादानां च धारकत्वोक्तावपि धार्यजगतः धार्यमर्यादानां च सत्त्वं सिध्यति । धार्यधारकभावेन चेतनाचेतनात्मक-जगतः परमात्मना भेदश्च सिध्यतीति 'सेतुं तीर्त्वा ' त्यनेन सेतु (ब्रह्म) प्राप्त्युक्तावपि प्राप्यप्राप्तभावेन प्राप्यब्रह्मणः प्राप्तजीवेन भेदः सिध्यतीति अद्वैतिनामनिष्टमेवेति ।

ॐ बुद्ध्यर्थः पादवत् ॐ (३.२.३३)

इति सूत्रस्ययच्च लोके उन्मितं ( एतावदिदमिति परिच्छिन्नं) कार्षापणादि ततोऽन्यद्वस्तु अस्तीति प्रसिद्धम् । तथा ब्रह्मणोऽपि तदेतद्ब्रह्म चतुष्पादष्टाशकं षोडशकलमिति उन्मानव्यपदेशात् ततोऽन्येन वस्तुना भवितव्यम्' इति तत्राभिधीयते । उन्मानव्यपदेशः न ब्रह्मातिरिक्तवस्तु- प्रतिपादनार्थः । किं तर्हि बुध्यर्थः=उपासनार्थः, पादवत्

= यथा कार्षापणे पादविभागः व्यवहारप्राचुर्याय कल्पते तद्वत्' इति व्याख्यानमपि उत्सूत्रितं सूत्रपदाबोध्यत्वात् ।

यच्चोक्तंउन्मानव्यपदेशः बुध्यर्थः उपासनार्थः' इति तदप्ययुक्तम् असदुपासनाया निषिद्धत्वेन उपासनार्थमविद्यमानस्य कथनायोगादिति ।   

ॐ स्थानविशेषात्प्रकाशादिवत् ॐ (३.२.३४)

यदप्युक्तं सम्बन्धव्यपदेशाद्भेदव्यपदेशाच्च परमतः स्यादिति पूर्वपक्ष्युक्तम् आक्षिप्य, तदप्यसत् । यत एकस्यापि स्थानविशेषापेक्षयैतौ व्यपदेशावुपपद्यते इत्यादिना यत् सम्बन्धव्यपदेशस्य मिथ्यात्वेन सत्यद्वितीयवस्त्वसाधकत्वमुक्तं तत्तुच्छम् । 'सता सोम्य तदा सम्पन्नो भवति (छां. ६-८-१) 'प्राज्ञेनात्मना सम्परिष्वक्तः' (बृ. ४-३ - २१) इति श्रुत्युक्तः, तथा सम्बन्ध (भेद) साधकतया 'सुषुप्त्युत्क्रान्त्योर्भेदेन' इति सूत्रेण प्रतिपादितः । " सुषुप्तावुत्क्रान्तौ च शारीराद्भेदेन परमेश्वरस्य व्यपदेशात् । सुषुप्तौ तावत् अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्' (बृ.४-३-२१) इति शारीराद्भेदेन परमेश्वरं व्यपदिशति” (ब्र.शां.भा. १ - ३- ४२ ) इति शाङ्करभाष्येण भिन्न (द्वितीय) वस्तुसाधकतया उक्तः सम्बन्धः मिथ्या, स च न सत्यद्वितीयवस्तुसाधक इति सम्बन्धस्य मिथ्यात्वोक्तेः श्रुतिविरुद्धत्वात् सूत्रविरुद्धत्वात् स्वव्याहतत्वाच्च । एवं श्रुत्यादिप्रतिपादिततया अद्वैत्युक्तस्य भेदव्यपदेशस्य मिथ्यात्वकल्पनस्याप्ययुक्तेश्च ।

एतेन 'उपपत्तेश्च' (३५) इति सूत्रव्याख्यानमपि निराकृतं वेदितव्यम् ।

ॐ तथाऽन्यप्रतिषेधात् ॐ (३.२.३६)

इति सूत्रस्य ‘“तथान्यवस्तुनः प्रतिषेधादपि न ब्रह्मणः परं वस्त्वन्तरमस्तीति गम्यते । तथाऽहि - ' स एवाधस्तात्' (छां. ७-२५- १) 'अहमेवाधस्तात्' (छां. ७ - २५ - १) 'आत्मैवाधस्तात्' (छां.७-२५- २)सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद' (बृ.२-४-६) 'ब्रह्मैवेदं सर्वम्' आत्मैवेदं सर्वं (छां. ७८-२५-२) 'नेह नानास्ति किञ्चन’ (बृ.४-४-१९)यस्मात्परं नापरमस्ति किञ्चित्' (३.३-९)तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्' (वृ.२-५-१९) इत्येवमादिवाक्यानि स्वप्रकरणस्थान्यन्यार्थत्वेन परिणेतुमशक्यमानानि, ब्रह्मव्यतिरिक्तं वस्त्वन्तरं वारयन्ति । सर्वान्तरश्रुतेश्च न परमात्मनोऽन्योऽन्तरात्माऽस्तीत्यवधार्यतेइति व्याख्यानमप्ययुक्तम् । उदाहृतश्रुतौ अन्यवस्तुनिषेधाभावात् । अद्वैतमतरीत्या अन्यवस्तुनिषेधस्य ब्रह्मातिरिक्तत्वे मिथ्यात्वात् तद्बोधने वेदस्याप्रामाण्यापत्तेश्च । ननु वेदादेः सर्वस्यासत्त्वात् वेदस्य वेदप्रामाण्यस्य च असत्त्वमङ्गीक्रियत इति चेत् अन्यवस्तुनिषेधरूपप्रकृतप्रमेयासिद्धेः उदाहृतश्रुतौ अन्यवस्तुनिषेधः न क्रियते । तथा हि- न तावत्स एवाधस्तात्' (छां.७-२५- १) 'आत्मैवाधस्तात्' (छां. ७ - २५ - २)अहमेवाधस्तात्’ (छां.७-२५- १) इति श्रुतयः अन्यवस्तु निषेधन्ति । प्रत्युत अन्यवस्तुसद्भावं ज्ञापयन्ति इति पूर्वमेव वर्णितं तत्रैव द्रष्टव्यम् ।

'आत्मैवाधस्तात्' 'आत्मा उपरिष्टात् ...... आत्मैवेदं सर्वम्'  इति एकवाक्यस्थमेव आत्मैवाधस्तादिति पूर्ववाक्यम् अभेदविषये धृत्वा पुनः आत्मैवेदं सर्वमिति वाक्योदाहरणम् अभेदविषये अनेकाः श्रुतयः सन्तीति जनानां वंचनार्थमेव कृतम् ।

यस्मात्परं नापरमस्ति किञ्चित् ' ( श्वे. ३ ९) इति श्रुतिरपि यस्मात्=नारायणात्, परं उत्तमं नास्ति, अपरं= उत्तमभिन्नं अधमं किश्चिदल्पमस्तिमत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय' इति, 'न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः' इति च गीतोक्तेः । तथा च इदं वाक्यं परमात्मनः अधमं वस्तु अङ्गीकृत्य उत्तमवस्तु निषेधति, न तु परमात्मातिरिक्तवस्तु ।

न चतस्मान्नाणीयो न ज्यायोऽस्ति किञ्चित्' इत्युत्तरश्रुतिः यथा परमात्मनस्सकाशात् अणीयः वस्तु ज्यायः वस्तु नास्तीति उभयमपि निषेधति तथा यस्मात्परं नापरमस्ति इति वाक्यं उत्तममधमं च वस्तु निषेधतीति वाच्यम् । तत्र 'नाणीयः न ज्यायः' इति नञ् द्वयसद्भावेन उभयनिषेधेऽपि अत्र यस्मात्परं न अपरमस्ति किञ्चित् इत्येकस्यैव नञः विद्यमानत्वेन उत्तमवस्तुन एव निषेधात् ।

तेनेदं पूर्णं पुरुषेण सर्वम्' (श्वे. ३-९) इत्युत्तरवाक्ये तेन पुरुषेण इदं सर्वं पूर्णमिति अनेकपदार्थानङ्गीकृत्य परब्रह्मणा पूर्णत्वोक्त्या अनेके पदार्थाः सन्तीति चावगम्यते । 'अग्निर्वै देवानामवमो विष्णुः परमः' ‘मत्तः परतरं नान्यत्किश्चिदस्ति धनञ्जय' (गी. ७-७) 'न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्य:' ( गी. ११-४३) इत्यादि श्रुतिस्मृत्यादिभिः यथा उत्तमवस्तुनिषेधः अधमवस्तुसद्भावश्च अवगम्यते तथाऽनेनापि वाक्येन परब्रह्मण उत्तमं वस्तु निषिध्य अधमवस्तुसद्भावो बोध्यते ।

तथाय एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवाभियन्ति' (श्वे.३- १०) इत्युत्तरवाक्यं ब्रह्मज्ञानिनां सुखं इतरेषां दुःखं प्रतिपादयत् ज्ञातृज्ञेयभावेन जीवब्रह्मणोर्भेदं जीवानां सत्त्वम् सुखदुःखयोस्सत्त्वं च बोधयति ।

तथाअङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः..... य एतद्विदुरमृतास्ते भवन्ति ' ( श्वे. ५ - १३ ) इतीदमपि वाक्यं परब्रह्मातिरिक्ताननेकान् पदार्थान् बोधयति ।

अपि चवशी सर्वस्य लोकस्य स्थावरस्य चरस्य च' (श्वे.५- १८) इत्यादीनि अनेकानि उत्तरवाक्यानि ब्रह्मातिरिक्तानां स्थावरचरपदार्थानां सत्त्वं स्वीकृत्य तेषां परब्रह्माधीनत्वं कथयन्ति ।

द्यावाभूमी जनयन् देव एकः' (श्वे. ५ - ३) 'यो देवानां प्रभवः' (श्वे.३-४)सर्वभूतेषु गूढं' (श्वे. ३-७) 'वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् । तमेवं विदित्वा अतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' (श्वे. २ - ८) इत्यादि पूर्ववाक्यानि द्यावाभूमी परब्रह्मणा जन्ये इति द्यावाभूम्योः सत्त्वं देवानां सत्त्वं सर्वप्राणिषु ब्रह्मणः अन्तःस्थित्युक्त्या सर्वप्राणिनां सत्त्वं परब्रह्मणः तमसः प्रकृतेः परतस्त्वोक्त्या प्रकृतेः सत्त्वं च ज्ञापयन्ति । तस्मात् पूर्वोत्तरवाक्यैः स्वेन च अनेकपदार्थानां सत्त्वस्य कथनात् ब्रह्मातिरिक्तद्वितीयवस्तुनः निषेधाभावाच्च नेदं वाक्यं ब्रह्मातिरिक्तद्वितीयवस्तुनिषेधकम् ।

तदेतद्ब्रह्मापूर्वमनपरमनन्तरमवाह्यमयमात्मा ब्रह्म सर्वानुभूः' (बृ.२- ५-१९) इति श्रुतिरपि ब्रह्मणोऽन्यद्वस्तु न निषेधति, किन्तु अपूर्वं=नास्य पूर्वं कारणं विद्यते इत्यपूर्वमिति ब्रह्म अनादित्वेन कारणशून्यमिति ब्रह्मणः कारणाभावमेव बोधयति । तदेव व्यनक्तिनापरमिति । अपरं कार्यं नेति न अपरं कार्यभिन्नमिति, अनन्तरं परमात्मा सर्वान्तर्यामीति परमात्मनः अन्तः किञ्चिद्वस्तु न अस्तीति अनन्तरमित्युच्यते । अवाह्यम् अस्य बहिः किञ्चिन्नास्तीत्यवाह्यमित्युच्यते न तु वस्तुन एवाभावात् । तथा सति (वस्तुत एवाभावे) सर्वानुभूरित्युत्तरपदेन सर्वमनुभवतीति वा सर्वमनुभावयतीति वा व्युत्पत्त्या सर्वज्ञानवत्त्वं सर्वोत्पादन- कर्तृत्वमुक्तमयुक्तं स्यात् । न ह्यन्यस्य पदार्थस्यैवाभावे अन्यपदार्थकर्तृत्वं वा अन्यपदार्थानुभवितृत्वं वा सम्भवति । तस्मान्नेदमपि वाक्यं ब्रह्मातिरिक्तवस्त्वन्तरं वारयति ।

यच्चोक्तं 'सर्वान्तरश्रुतेश्च न परमात्मनोऽन्योऽन्तरात्मास्तीत्यवधार्यते' इति तदप्ययुक्तम् । सर्वान्तरत्वोक्त्यैव अन्तर्विद्यमानस्य ब्रह्मणः बहिर्विद्यमानात् भेदसिद्धेः । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः' इत्याद्यन्तरत्ववोधकश्रुतीनां भेदबोधकत्वात्, भेदबोधकत्वेन शङ्कराचार्यैरपि

व्याख्यातत्वाच्च ।

ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ (३.२.३७)

इति सूत्रस्य " अनेन सेत्वादिव्यपदेशनिराकरणेनान्यप्रतिषेधसमाश्रयणेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति अन्यथा हि तन्न सिध्येत् । सेत्वादिव्यपदेशेषु हि मुख्येष्वङ्गीक्रियमाणेषु परिच्छेद आत्मनः प्रसज्येत, सेत्वादीनामेवमात्मकत्वात् । तथाऽन्यप्रतिषेधेऽप्यसति वस्तु वस्त्वन्तराद्व्यावर्तत इति परिच्छेद एवात्मन: प्रसज्येत । सर्वगतत्वं चास्यायामशब्दादिभ्योऽभिज्ञायते । आयामशब्दो व्याप्तिवचनश्शब्दः ।यावान्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाश: ' (छां.८-१-३) 'आकाशवत्सर्वगतश्च नित्यः ' ' ज्यायान् दिवः' (छां. ३ १४-३)ज्यायानाकाशात्’ ‘नित्यः सर्वगतस्थाणुरचलोऽयं सनातनः' (गी.२- २४) इत्येवमादयो हि श्रुतिस्मृतिन्यायाः सर्वगतत्वमात्मनोऽवबोधयन्तिइति यद्व्याख्यानं तदप्ययुक्तम् । सेत्वादिव्यपदेशनिराकरणेन अन्यप्रतिषेध- समाश्रयणेन च सर्वगतत्वमात्मनः सिद्धं भवतीत्युक्तिरत्यन्तमसङ्गतैव । सर्ववस्तुसम्बन्धित्वं हि सर्वगतत्वम् । तच्च सर्वगतत्वं हि आत्मातिरिक्त- वस्तुनः सत्त्व एवोपपद्यते । नत्वसत्वे । शशविषाणवन्ध्यापुत्रादीनामभावेन शशविषाणादिसम्बन्धित्वं न हि यस्य कस्यापि सम्भवति ।

आकाशवत्सर्वगतश्च नित्यः' इति श्रुतिः यथा आकाशव्यतिरिक्त- ब्रह्मादिपदार्थसद्भावम् आकाशस्य तत्र सद्भावं तेन च आकाशस्य सर्वगतत्वमवगमयति । तथा ब्रह्मातिरिक्तवस्तुसद्भावं ब्रह्मणः तत्र सत्वं, तेन च ब्रह्मणः सर्वगतत्वमवगमयति, न तु ब्रह्मातिरिक्तं वस्तुनिषिध्य तस्य सर्वगतत्वं वक्ति । स्वातिरिक्तवस्तुनोऽभावे तत्सम्बन्धाभावे च न सर्वगतत्वमुपपद्यते । शशविषाणस्यासत्त्वे शशविषाणसम्वन्धाभावे वा तद्गतत्त्वं न हि कस्यचिदुपपद्यते । सर्वा ( पदार्था) भावमात्रेण तत्सम्बन्धाभावमात्रेण वा ब्रह्मणः सर्वगतत्वे नरविषाणस्यापि सर्वगतत्वं स्यात् । अद्वैतमतरीत्या स्वातिरिक्तपदार्थाभावात्, तत्सम्बन्धाभावाच्च ।

न च असतो नरविषाणस्य सम्बन्धाभावात् सर्वगतत्वं नोपपद्यते इति वाच्यम् । 'असो ह्ययं पुरुष' इति श्रुत्या ब्रह्मणोऽपि पदार्थसम्बन्धाभावावगमात् ।

न च अन्यप्रतिषेधे असति (अन्यपदार्थसत्त्वे) वस्तु वस्त्वन्तराद्व्यावर्तत इति परिच्छेद एवात्मनः प्रसज्येतेति वाच्यम् । तथोक्तेरयुक्तत्वात् । तथा हिसर्वगतत्त्वं हि सर्वपदार्थप्रतियोगिकसम्बन्धः । तच्च सर्वगतत्वं (स च सम्बन्धः) सर्वपदार्थप्रतियोगिकभेदसापेक्षं स्वेन स्वस्य सम्बन्धा- योगात् । तथा च ब्रह्मणः परिच्छेदरूपा व्यावृत्तिः सर्वगतत्वस्यानुकूलैव (साधिकैव) । न तु सर्वगतत्वप्रतिक्षेपिकेति । एतेन सेतुव्यपदेशेऽङ्गीक्रियमाणे इतरस्मात् परमात्मनः परिच्छेदः प्रसज्येतेत्यापादनमपि निरस्तम् । परिच्छेदो हि भेदः स च सर्व (प्रतियोगिक) सम्बन्धरूपसर्वगतत्वसाधक एव न हि स्वस्य स्वेनैव सम्बन्धः सञ्जाघटीति । तथा च ' अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः' इत्यादिप्रमाणसिद्धं सर्वगतत्वम् अन्यपदार्थसत्त्व एवं सम्भवतीति इतरप्रतिषेधः सर्वगतत्वविरोध्येवेति अन्यप्रतिषेधोऽयुक्त एवेति ।

ॐ फलमत उपपत्तेः ॐ (३.२.३८)

इति सूत्रस्ययदेतदिष्टानिष्टव्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनां किमेतत्कर्मणो भवत्याहोस्त्विदीश्वरात् इति भवति विचारणा । तत्र तावत् प्रतिपाद्यते फलमत ईश्वराद्भवितुमर्हति कुत: ? उपपत्तेः स हि सर्वाध्यक्षः सृष्टिस्थितिसंहारान्विचित्रान्विदधद्देश-कालविशेषाभिज्ञत्वात्कर्मिणां कर्मानुरूपं फलं सम्पादयतीत्युपपद्यते । कर्मणस्त्वनुक्षणविनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम्, अभावाद्भावानुत्पत्तेः । स्यादेतत् कर्म विनश्यत् स्वकालमेव स्वानुरूपं फलं जनयित्वा विनश्यति तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति, तदपि न परिशुध्यति, प्राग्भोक्तृसम्बन्धात्फलत्वानुपपत्तेःइति यद्व्याख्यानं शङ्कराचार्याणां तद्युक्तमेव प्रामाणिकत्वात्; परन्तु कर्मकर्मफल- तद्दातृत्वादीनां सत्यत्वसिध्या अद्वैतिनां प्रतिकूलम् ।

ॐ श्रुतत्वाच्च ॐ (३.२.३९)

इति सूत्रस्य चन केवलमुपपत्तेरेवेश्वरं फलहेतुं कल्पयामः, किं तर्हि, श्रुतत्वादपीश्वरमेव फलहेतुं मन्यामहे - तथा च श्रुतिर्भवति । 'स वा एष महानज आत्मान्नादो वसुदान:' (बृ. ४-४-२४) इत्येवञ्जातीयकाइति यद्व्याख्यानं तद्युक्तमेव । परन्तु निर्विशेषब्रह्मवादिनामद्वैतिनां प्रतिकूलम् । ईश्वरस्य सर्वाध्यक्षत्वविचित्रसृष्टिस्थितिसंहारकारणत्व - देशकालविशेष- ज्ञानवत्त्वादीनां सिद्ध्या सविशेषत्वसिद्धेः जगतः सृष्ट्याद्युक्त्या असतः सृष्टिस्थित्यादेः असम्भवात् जगतस्सत्त्वसिद्धेः, स्वर्गादिफलस्य च सत्त्वसिद्धेः द्वैतिनामनुकूलम् । न च तस्यैव ब्रह्मणः व्यावहारिक्याम् ईशित्रीशितव्य- विभागावस्थायां अयमन्यः स्वभावो वर्ण्यते इति सर्वाध्यक्षत्वादीनां व्यावहारिकत्वमुक्तमिति वाच्यम् । स्वव्याहतत्वात् । स्वयमेव बौद्धैः प्रमाणानि व्यावहारिकवस्तुविषयकाणि मया पारमार्थिकत्वं वस्तूनां निराकरिष्यते इत्युक्तौ प्रमाणानि पारमार्थिकत्वमेव वस्तूनां विषयीकुर्वन्ति न व्यावहारिकत्वम् । बाधकप्रमाणसत्त्वे असत्त्वमेव वस्तूनां न व्यावहारिकत्वमिति (ब्र.सू.२-२-३१) सूत्रभाष्यभामत्यादौ उक्तत्वेन पदार्थानां व्यावहारिकत्वोक्ती स्वव्याहते । स वा एष महानज आत्मा अन्नादो वसुदानः' इत्यादिश्रुत्युक्तफलस्य तद्दातृत्वस्य च नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधप्रतियोगित्वरूपव्यावहारिकत्वकथनायोगात् इति ।

ॐ धर्मं जैमिनिरत एव ॐ (३.२.४०)

इति सूत्रेण ‘“जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते । अत एव श्रुतेरुपपत्तेश्चइति पूर्वपक्षयित्वा ।

ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ (३.२.४१)

इति सूत्रस्य ‘‘बादरायणस्त्वाचार्यः पूर्वोक्तमेवेश्वरं फलहेतुं मन्वते । हेतुव्यपदेशात्, धर्माधर्मयोरपि हि कारयितृत्वेन ईश्वरो हेतुर्व्यपदिश्यते । फलस्य च दातृत्वेनएष ह्येव साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधुकर्म कारयति तं यमधो निनीषते' इति । स्मर्यते चायमर्थो भगवद्गीतासु – 'यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् । स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान् मयैव विहितान् हि तान् ।।' (गी. ७.२१) इति, सर्ववेदान्तेषु चेश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते । तदेव चेश्वरस्य फलहेतुत्वं यत्स्वकर्मानुरूपाः प्रजाः सृजतीति ।इति यद्व्याख्यानं तदपि ब्रह्मणो निर्विशेषत्वं जगतः त्रैकालिकनिषेधप्रतियोगित्वापरपर्यायम् असत्त्वं (मिथ्यात्वं) वदतामद्वैतिनां प्रतिकूलम् । द्वैतिनामनुकूलम् । ब्रह्मणः फलदातृत्व- कर्मकारयितृत्वादिधर्मोक्त्या सविशेषत्वसिद्धेः फलकर्मादिजगतः ईश्वर- सृष्टत्वोक्त्या जगतः सत्त्वसिद्धेश्चेति ।

न च सर्वमसदेवेति वदतामस्माकं (अद्वैतिनां) ब्रह्मण: फल- दातृत्त्वादेरसत्त्वादेव ब्रह्मणः सविशेषत्वं वा फलादिजगतः सत्यत्वं वा न सिध्यतीति वाच्यम् ।

बालस्य हि विनोदाय धात्री वक्ति शुभां कथाम् । क्वचित् सन्ति महाबाहो राजपुत्रास्त्रयश्शुभाः ।। द्वौ न जातौ तथैकस्तु गर्भ एव न च स्थितिः। वसन्ति ते धर्मयुक्ता अत्यन्तासति पत्तने ।। स्वकीयाच्छून्यनगरान्निर्गत्य विमलाशयाः । गच्छन्तो गगने वृक्षान् ददृशुः फलशालिनः । भविष्यन्नगरे तत्र राजपुत्रास्त्रयोऽपि ते । सुखमद्य स्थिताः पुत्र मृगयाव्यवहारिणः । धात्र्येति कथिता राम बालकाख्यायिका शुभा । निश्चयं स ययौ बालो निर्विचारणया धिया ।। इयं संसाररचना विचारोज्झितचेतसाम् । बालकाख्यायिका वेत्थमवस्थितिमुपागता ।।" इत्यादिवाक्यैःहे बाहुशालिन् बालक ! कस्मिंश्चिद्रामे शुभास्त्रयो राजपुत्राः सन्ति, तेषां मध्ये द्वौ न जातौ, एको गर्भ एव न स्थितः, एतादृशास्त्रयः पुत्रा : अत्यन्तासति शशविषाणसदृशे पत्तने (गन्धर्वनगरे) धर्मयुक्ताः सन्तो वासं कुर्वन्ति । ते शुद्धान्तःकरणाः कदाचित् स्वकीयात् शून्यनगरात् निर्गत्य गच्छन्तो गगने फलशालिनः वृक्षान् दृष्टवन्तः । त्रयस्ते राजपुत्राः मृगयाव्यवहारिणस्सन्तो भविष्यन्नगरे ( इदानीमविद्यमाने नगरे) सुखं यथा स्यात्तथा वासं चक्रुः । इति धात्र्या बालकं प्रति कथा कथिता । विचारशून्यः स बालकः कथितं सर्वं निश्चितमिति यथा ज्ञातवान् तथा विचारशून्यमानसाः इमां कर्तृत्वभोत्कृत्वफलदातृत्वादिरूपां संसाररचनां विचारशून्यबालकवत् निश्चिता मन्वते' इति पञ्चदश्यां विद्यारण्योक्तरीत्या राजपुत्रकथां कथयित्री धात्रीव अद्वैतमतोपदेष्टारश्शङ्काचार्याः विचारशून्यान् बालान् प्रतीव विचारोज्झितचेतसः मूर्खान् प्रति भ्रमोत्पत्तये एव शास्तृशास्त्र- शिष्यगुरुयज्ञदेववेदब्राह्मणादिवर्णब्रह्मचर्याद्याश्रमस्वर्गलोकवैकुण्ठादिलोक शिवविष्णुचतुर्मुखेन्द्रादिसर्वदेवतादिकथाः कथितवन्त इत्युक्तिरपि साधु वैदिकत्वं ख्यापयति । अवैदिकाग्रेसराणां भवतामिति उपरम्यते एतादृशैः सह वैदिकचर्चेति शिवम् ।

लौकिकश्चेश्वरो दानपरिचरणप्रणामाञ्जलिकरणस्तुतिमयीभिरति श्रद्धागर्भाभिर्भक्तिभिराराधितः प्रसन्नः स्वानुरूपमाराधकाय फलं प्रयच्छति, विरोधतश्चापक्रियादिभिर्विरोधकायाहितमित्यपि सुप्रसिद्धम् । तदिह केवलं कर्म वा पूर्वं वा चेतनानधिष्ठितमचेतनं फलं प्रसूत इति दृष्ट विरुद्धम् । यथा विनष्टं कर्म न फलं प्रसूत इति कल्प्यते दृष्टविरोधादेवमिहापि इति, तथा देवपूजात्मको यागो देवतां न प्रसादयन् फलं प्रसूत इत्यपि दृष्ट विरुद्धम् । न हि राजपूजात्मकमाराधनं राजानमप्रसाद्य फलाय कल्पते । तस्मात् दृष्टानुगुण्याय यागादिभिरपि देवताप्रसत्तिरुत्पाद्यते । तथा च देवताप्रसादादेव स्थायिनः फलोत्पत्तेरुपपत्तेः कृतमपूर्वेण एवमशुभेनापि कर्मणा देवताविरोधनं श्रुतिस्मृतिप्रसिद्धम् । ततः स्थायिनोऽनिष्टफलप्रसवः । न च शुभाशुभकारिणां तदनुरूपं फलं प्रसुवाना देवता द्वेषपक्षपादवतीति युज्यते । न हि राजा साधुकारिणमनुगृह्णन्निगृह्णन् वा पापकारिणां भवति द्विष्टो रक्तो वा तद्वदलौकिकोऽपीश्वरः । यथा च परमापूर्वे कर्तव्ये उत्पत्त्यपूर्वाणामङ्गापूर्वाणां चोपयोगः, एवं प्रधानाराधनेऽङ्गाराधनाना- मुत्पत्त्याराधनानां चोपयोगः, स्वाम्याराधन इव तदमात्यतत्प्रणयि- जनाराधनानामिति सर्वं समानमन्यत्राभिनिवेशात्' इत्यादिभामतीकारोक्तिरपि बालकं प्रति धात्रीकथितराजपुत्रकथेव अज्ञजनमोहिकैवेति मङ्गलम् ।

इति शाङ्करभाष्यस्य अद्वैतमतप्रतिकूलत्व प्रमाणविरुद्धत्वाप्रामाणिकत्वसमर्थने तृतीयाध्यायस्य द्वितीयः पादः ।