ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ

।। श्रीरामचन्द्राय नमः ॥

।। अथ द्वितीयाध्यायप्रारम्भः ॥

द्वितीयाध्याय प्रथम: पाद:

शाङ्करभाष्यम्-प्रथमाध्याये सर्वज्ञस्य सर्वेश्वरस्य ब्रह्मणः उत्पत्त्यादिकारणत्वं समर्थितम्, प्रधानादिकारणवादाश्च निराकृताः । इदानीमस्मिन् द्वितीयेऽध्याये स्वपक्षे स्मृतिन्यायविरोधपरिहारः प्रथमपादे, प्रधानादि-कारणवादानां न्यायाभासोपबृंहितत्वं द्वितीयपादे, प्रतिवेदान्तं सृष्ट्यादिप्रक्रियाया अविगीतत्वं तृतीयचतुर्थपादयोः प्रतिपाद्यते ।

ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ।।(२.१.१)

यदुक्तं-ब्रह्मैव सर्वज्ञं जगतः कारणमिति, तदयुक्तम् । कुतः ? स्मृत्यनवकाशदोषप्रसङ्गात् । ब्रह्मणः कारणत्वाङ्गीकारे प्रधानादीनां कारणत्वप्रतिपादिका तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता स्मृतिः, अन्याश्च तदनुसारिण्यः स्मृतयः अनवकाशाः प्रसज्येरन् । तस्मात्तदविरोधेन वेदान्ता व्याख्येया इति न ब्रह्म जगत्कारणमित्याशङ्कय, नैतदाशङ्का युक्ता । अन्यस्मृत्यनवकाशदोषप्रसङ्गात् । यदि ब्रह्मणो जगत्कारणत्वाङ्गीकारे कपिलादिस्मृतीनां अनवकाशदोषप्रसङ्गेन ब्रह्मणः कारणत्वं निषिध्यते तर्हि ब्रह्मणः कारणत्वप्रतिपादिकानां स्मृतीनामनवकाशदोषप्रसङ्गात् ब्रह्मणः कारणत्वमङ्गीकरणीयम् । न चानिर्णयः । श्रुत्यनुसारिस्मृतिभिः ब्रह्मणः कारणत्वनिर्णयोपपत्तेः इति ।। १ ।।

ॐ इतरेषां चानुपलब्धेः ॐ (२.१.२)

सांख्यस्मृत्युक्तानां महदादीनां वेदे लोकेचानुपलब्धेः महदादिकार्यप्रतिपादकस्मृतीनां अप्रामाण्यात् कारण (प्रधान) प्रतिपादकस्मृतेरप्यप्रामाण्यमिति न तद्विरोधः ब्रह्मकारणवादस्येति शङ्कराचार्यैर्व्याख्याते इमे सूत्रे प्रधाननिरासेन सर्वज्ञस्य सर्वेश्वरस्य ब्रह्मणः कारणत्वं प्रतिपादयती सर्वज्ञत्व- सर्वेश्वरत्वादिधर्मरहितात् जीवजडात्मकप्रपञ्चात् ब्रह्मणः भेदबोधके एवेति नैतत्प्रमेये विवादः । परन्तु यच्चोक्तं शङ्करभाष्ये मनुना च -

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । -

सम्पश्यन् आत्मयाजी वै स्वाराज्यमधिगच्छति ॥ ( गी. १२.९१ )

इति सर्वात्मदर्शनं प्रशंसता, कापिलं मतं निन्द्यत इति गम्यते । कपिलो हि न सर्वात्मत्वदर्शनं अनुमन्यते आत्मभेदाभ्युपगमात् इति । तदत्यन्तमयुक्तम् ।

मनुवाक्ये सर्वात्मत्वाप्रतीते: (सर्वाभेदाप्रतीतेः) प्रत्युत भेदस्यैव प्रतीतेश्च । तथा हि – ‘यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरः... यः सर्वाणि भूतानि अन्तरो यमयति' (बृ.३.७.१५) इति वाक्ये सर्वभूतानामन्तर्गतेन परमात्मना भेदस्यैव बोधनात् शङ्कराचार्यैरपि इदं वाक्यं भूतानां भूतान्तर्गतपरमात्मना भेदं बोधयतीत्युक्तत्वाच्च तद्वत् सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि इति मनुवाक्यमपि सर्वप्राणिषु (चेतनेषु) आत्मानं परमात्मानं सम्पश्यन्निति सर्वप्राणिनां नियामकतया अन्तःस्थितेन (अन्तर्यामिणा) परमात्मना भेदमेव बोधयति ।

तथास तत्र पर्येति' (छां . ८.१२.३) इत्यधिकरणाधिकर्तव्यनिर्देशात् भेदेनैवावस्थानमिति (ब्रह्मसू.४.४.४) शाङ्करभाष्यरीत्या सर्वभूतान्यात्मनि पश्यन्निति परमात्मन अधिकरणत्वस्य भूतानामाधेयत्वस्य च कथनेन भेदबोधकम् ।

तथा, ‘ततस्तु पश्यते निष्कलं ध्यायमानः' (मुं.३.१.८) इति वाक्यं द्रष्टृद्रष्टव्यभावेन भेदबोधकम् । शङ्कराचार्यैरपि द्रष्टृ द्रष्टव्यभावेन भेदं बोधयतीत्युक्तम् । तद्वत् आत्मानं पश्यन्निति मनुवाक्यमपि द्रष्टृद्रष्टव्यभावेन भेदस्यैव बोधकमिति । मनुवाक्ये सर्वात्मत्व (सर्वाभेद) बोधकपदाभावेन भेदवोधकपदानां सत्वेन च कपिलमनुमतयोः साम्ये सर्वात्मत्वदर्शनं प्रशंसता मनुना कापिलं मतं निंद्यते इत्युक्तिः वंचनामूलैव ।

यच्चोक्तंमहाभारतेऽपि च बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ' इति विचार्य 'बहवः पुरुषा राजन् सांख्ययोगविचारिणाम्' इति परपक्षमुपन्यस्य तब्द्युदासेन 'बहूनां पुरुषाणां हि यथैका योनिरुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ।।' इत्युपक्रम्य 'ममांतरात्मा तव च ये चान्ये देहसंस्थिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् चित् । विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । एकश्चरति भूतेषु स्वैरचारी यथासुखम् ।।' इति सर्वात्मतैव निर्धारितेति । तदप्ययुक्तम् । अस्मिन् महाभारतवाक्ये अभेदवोधकपदाभावेन अभेदाप्रतीतेः (सर्वात्मत्वाप्रतीतेः) प्रत्युत भेदबोधक पदानां सत्वेन भेदस्यैव प्रतीतेः । तथा हिबहवः पुरुषा ब्रह्मन्नुताहो एक एव तु' (महाभा. शां. ३५०.अ.१.श्लो) इति वाक्येन हे ब्रह्मन् = वैशम्पायन! पुरुषाः=चेतनाः, बहवः उत एक एव ? (न बहव:) इति जनमेजयेन प्रश्ने कृते,

'बहवः पुरुषा लोके सांख्ययोगविचारणे ।

नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ।

इति श्लोकेन सांख्ययोगविचारणे=सांख्यस्य योगस्य च शास्त्रस्य विचारणे कृते, लोके=संसारे, (ईशितव्यवर्गे) पुरुषाः-चेतनाः, बहवः, हे कुरुकुलोद्वह=जनमेजय, 'एतत्' इत्यस्य विवरणम्एकं पुरुषं न इच्छन्ति इति । एकपुरुष (सर्वात्मत्व) पक्षं निराकृत्य ते बहवः पुरुषाः समाः किं वा तेषु मध्ये एकः श्रेष्ठः अन्ये अवराः इति शङ्कायां वैशम्पायनः-

'बहूनां पुरुषाणां च यथैका योनिरुच्यते ।

तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ॥'

इति श्लोकेन बहूनां पुरुषाणां मध्ये एका एक योनिः कारणमितिद्यावाभूमी जनयन् देव एकः' इति श्रुतौ यथा येन प्रकारेण उच्यते तथा तेन प्रकारेण तं पुरुषं परमात्मानं विश्वं = पूर्णम्, गुणाधिकं आख्यास्यामि' इति अनेकपुरुषमध्ये परमात्मनः कारणत्वं सर्वोत्कृष्टत्वं चाभिधाय स्वोक्तार्थस्य (पुरुषा बहव: नत्वेक: बहुषु पुरुषेषु परमात्मा श्रेष्ठः सर्वज्ञत्वादिगुणपूर्णः इत्यस्यार्थस्य) दाढर्याय

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

ब्रह्मणा सह संवादं त्र्यम्बकस्य विशांपते ।। ( ३५०.८)

इत्यादितः स्वोक्तार्थप्रतिपादिकां पितापुत्रसंवाद (चतुर्मुखरुद्रसंवाद ) रूपामाख्यायिकां वक्ति वैशम्पायनः ।

रुद्र उवाच-

कौतूहलं चापि हि मे एकान्तगमनेन ते । नैतत्कारणमल्पं हि भविष्यति पितामह ||

किन्तु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् । सुरासुरैरध्युषितं ऋषिभिश्चामितप्रभैः ।।

गन्धर्वैरप्सरोभिश्च सततं सन्निषेवितम् । उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि ।।

इति । सुरासुरा यत्र तिष्ठन्ति, यत्र अमितप्रभाः ऋषयो गन्धर्वाश्च तिष्ठन्ति क्षुत्पिपासावर्जितं वैराजसदनं त्यक्त्वा वैजयन्तनामकं गिरिवरं एकाकी कुत आगतोऽसि इति पृष्टो ब्रह्मा उवाच

'वैजयन्तो गिरिवरः सततं सेव्यते मया ।

अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट् ।। २२ ।।

वैजयन्तनामके स्थित्वा एकाग्रेण मनसा विराट्पुरुषः मया चिन्त्यते इति ब्रह्मवचनं श्रुत्वा रुद्र उवाच-

'बहवः पुरुषा ब्रह्मन् त्वया सृष्टाः स्वयम्भुवा ।

सृज्यन्ते चापरे ब्रह्मन् स चैकः पुरुषो विराट् ।। २३ ।।

को सौ चिन्त्यते ब्रह्मन् त्वयैकः पुरुषोत्तमः ।

एतन्मे संशयं ब्रूहि महत् कौतूहलं हि मे ।। २४ ।। " इति ।

हे ब्रह्मन्! त्वया पुरुषा बहवः सृष्टाः अपरे सृज्यन्ते । एतादृशेन त्वया चिन्तनीयः पुरुषोत्तमः कः ? एतद्विषये मम संशयो वर्तते । एतच्छ्रोतुं मम महत्कौतूहलमस्ति इति रुद्रेण पृष्टो ब्रह्मा पुनरुवाच

बहवः पुरुषाः पुत्र ये त्वया समुदीरिताः । एवमेतत् ...

बहूनां पुरुषाणां स यथैका योनिरुच्यते ।। २६ ।।

तथा तं पुरुषं विश्वं परमं सुमहत्तमम् ।

निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् ।। २७ ।।

३५० अध्यायः समाप्तः ।

हे पुत्र रुद्र, त्वया ये समुदाहृताः बहवः पुरुषाः एतत् =बहुपुरुषवत्वं एवं तथैव….बहूनां पुरुषाणां मध्ये द्यावाभूमी जनयन् देव एकः इति श्रुतौ यथा येन प्रकारेण एका योनिः एकं कारणमित्युच्यते तथा तेन प्रकारेण इत्युक्तः पुनः ब्रह्मा उवाच - तं = मया ध्येयं पुरुषं विश्वं=पूर्णं, परमं=उत्तमं, सुमहत्तमं= अतिशयेन श्रेष्ठं, निर्गुणं कदापि सत्वरजस्तमो- गुणरहितं, सनातनं परमात्मानं, निर्गुणाः=सत्वरजस्तमोगुणरहिता भूत्वा प्रविशति (मोक्षं प्राप्नुवन्ति ) इति तं वक्ष्यामि ।

श्रुणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः ।

अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥ १ ॥

न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम ।

सगुणैर्निर्गुणैर्विश्वो ज्ञानदृश्यो सौ स्मृतः ॥ २॥

अशरीरश्शरीरेषु सर्वेषु निवसत्यसौ ।

वसन्नपि शरीरेषु न स लिप्यति कर्मभिः ।। ३ ॥

ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः ।

सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ॥ ४ ॥

विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः ।

एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥ ५ ॥

महापुरुषशब्दं स बिभर्त्येकः सनातनः ।। ९ ।।

देवास्सर्वे मुनयस्साधुशान्तास्तं प्राग्वंशे यज्ञभागं यजन्ते ।

अहं ब्रह्मा आद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः ।। २० ।।

मत्तो जगज्जङ्गमं स्थावरं च सर्वे वेदाः सरहस्याश्च पुत्र ||

एतत्ते कथितं पुत्र यथावदनुपृच्छतः ।

सांख्यज्ञाने तथा योगे यथावदनुवर्णितम् ।। २२ ।। (शां. ३५१. अ )

हे पुत्र रुद्र, यथा एष पुरुषः, शाश्वतः = शश्वदेकप्रकारः, अव्ययः= स्वरूपतो नाशरहितः, अक्षयः = धर्मतो नाशहीनः, अप्रमेयः = साकल्येन ज्ञातुमशक्यः, सर्वगश्च=सर्वत्र विद्यमानः, इति निरुच्यते=कथ्यते तथा श्रुणु ।। १ ।। हे सत्तम = अतिशयेन साधो, सः =पुरुषोत्तमः, त्वया मया अन्यैर्वापि चक्षुषा द्रष्टुं न शक्यः ।। २ ।। अशरीरः=प्राकृतशरीररहितः, सर्वेषु प्राकृतेषु शरीरेषु निवसति । प्राकृतशरीरे विद्यमानोऽपि तच्छरीरकृतकर्मभिः न लिप्यते ।। ३ ।।

स च परमपुरुषः (परमात्मा) मम अन्तरात्मा=अन्तःस्थित्वा नियामकः, तव चान्तरात्मा । ये च अन्ये देहे विद्यमानास्तेषां सर्वेषां अन्तरात्मा असौ परमात्मा साक्षिभूतः सर्वजनक्रियमाणकर्मद्रष्टा केनचित्पुरुषेण क्वचिदपि काले न ग्राह्यः स्वकीयेच्छामन्तरा दृश्यो न भवति ।। ४ ।। विश्वमूर्धा = अनेक शीर्षवान्, अनेक बाहुबानू, अनेकपादनेत्रनासिकावान्, क्षेत्रेषु = महाभूतादिसमस्तपदार्थेषु, सुखविशिष्टः सन् स्वैरचारी=यथेष्टं चरति ।। ५ ।।

सनातनः एकः सः परमात्मा । महापुरुषशब्दं, महापुरुष इति शब्दो महापुरुषशब्दस्तं विभर्ति महापुरुषशब्दवाच्यः (इतरे सर्वे पुरुषशब्दवाच्याः, अयं तु महापुरुषशब्देन वाच्य इति) सर्वे देवाः साधुभूताश्शान्ताश्च मुनयः, तं यज्ञभागं=परमात्मानं, यजन्ते । प्रजानां ईशः आद्यः अहं=ब्रह्मा (चतुर्मुखः) तस्मात्=पूर्वोक्तात् परमात्मनः जातः । त्वं (रुद्रः) मत्तः (चतुर्मुखात्) प्रसूतः । मत्तः सङ्गमं स्थावरं च जगत् जातम् । हे पुत्र रुद्र! सरहस्याः सर्वे वेदाः अभिव्यक्ताः ।। २० ।।

हे पुत्र रुद्र! अनुपृच्छतः=प्रश्नं कुर्वतस्ते, सांख्यज्ञाने=सांख्यशास्त्रे, तथा, योगे=योगशास्त्रे यथावत् अनुवर्णितम् अनुपृच्छतः प्रश्नं कुर्वतस्तव, यथावत्=यथा वर्तते तथा कथितम् ।। २२ ।।

इति पुरुषैक्य (सर्वात्मत्व) पक्षं निराकृत्य पुरुषवहुत्वपक्षं व्यवस्थाप्यउत्तमः पुरुषस्त्वन्यःइति गीतोक्तरीत्या बहुपुरुपेभ्यः भिन्नं महापुरुष-शब्दवाच्यं ब्रह्मरुद्रादिदेवर्षिगन्धर्वादिनियामकं तैः पूज्यं ब्रह्मरुद्रादिसर्वोत्पादकं अतिश्रेष्ठं परमात्मानं सेतिहासं सतात्पर्यं प्रतिपादयति ।

महाभारते सर्वात्मता निर्धारिता' इत्युक्तिः अज्ञान (भ्रम) मूला वा प्रतारणमूला वा स्यात् ।

केचित् वदन्ति-भगवदाज्ञया मोहनार्थं शङ्कराविष्टशङ्कराचार्यस्य मोहनार्थैवेयमुक्तिरिति । अपरे तु अज्ञानमूलैवेति वर्णयन्ति । सुधीभिरेव अन्यतरपक्षो निर्धार्यताम् ।

वयं तु न सर्वात्मत्वं (सर्वाभेदः) भारतसिद्धमिति वाढं वदामो वदिष्यामः साधयामश्च ।बहवः पुरुषा राजन् सांख्ययोगविचारिणाम् इति परपक्षमुपन्यस्य तद्व्युदासेन... सर्वात्मतैव निर्धारिता इत्युक्तिरत्यन्तमसङ्गता । तथा हि-बहवः पुरुषा राजन् सांख्ययोगविचारिणामिति' स्वपक्ष एव उपन्यस्तः न तु तस्य परपक्षत्वमुक्तम् । नापि व्युदासः कृतः।प्रत्युत सांख्ययोगपक्षस्यैव ब्रह्म (चतुर्मुख) सम्मतत्वं उक्तम् भारते अस्मिन्नेव प्रकरणे वक्ष्यमाणश्लोकाभ्याम् ।

एतत्ते कथितं पुत्र यथावदनुपृच्छतः ।

सांख्यज्ञाने तथा योग यथावदनुवर्णितम् ।। इति ।। २२ ।।

सांख्ययोगशास्त्रप्रकारेण रुद्रं प्रति ब्रह्मणा कथितमिति । सांख्येन विधिना चैव योगेन च यथाक्रमम्' 'चिन्तयामि गतिं चास्य' इति सांख्ययोगयोर्ब्रह्मकर्तृकचिन्तनसाधनत्वं,

तथा-

तत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैः (श्वे.६.१३) इति ।

सांख्ययोगाभ्यां अभिपन्नं प्राप्तं देवं ज्ञात्वा मुच्यते इति सांख्ययोगयोः मोक्षकारणत्वं चोक्तं स्वीकृतं शङ्कराचार्यैः तत्कारणं सांख्ययोगाभिपन्नमिति वैदिकमेव । तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलष्यते (ब्र.सू.शां.२.१.४) इति भाष्ये सांख्ययोगयोः मोक्षसाधनत्वमेतत् श्रुतौ कथ्यते इति ।

गीतायामपि 'एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां श्रुणु' इत्यादि ग्रन्थेषु सांख्ययोगशब्दौ अनेकवारं श्रुतौ इति सांख्ययोगशब्दयोः श्रवणमात्रेण तयोः परपक्षत्वकथनमनुपपन्नम् । यद्यपि प्रधानकारणवादिनां सांख्यशास्त्रं निरीश्वरप्रतिपादकं योगशास्त्रं चास्ति, ते वेदविरुद्धार्थविषये अप्रमाणे भवितुमर्हतः । न हि बहवः पुरुषा लोके सांख्ययोगविचाणिमिति भारतोक्तसांख्ययोगविचारवत्पुरुषोक्तवहुपुरुषत्वं वेदविरुद्धं प्रत्युतअजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः' ‘तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति' इत्याद्यनेकश्रुत्यादिसिद्धम् । चतुर्मुखोऽपि (ब्रह्मापि ) 'सांख्येन विधिना चैव योगेन च यथाक्रमम् । चिन्तयामि गतिं चास्य' (८) इत्यादिश्लोकैः सांख्ययोगोक्तप्रकारेण परमात्मानं ध्यायतीति चतुर्मुखा (ब्रह्मा) द्यनुमतत्वं चोक्तं तत्रैव भारते इति न पुरुषबहुत्वप्रतिपादकभारतोक्तसांख्ययोगशास्त्रयोः परपक्षत्वमुक्तं न वा निराकृतं भारते इति ।

न च श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ' ( वे. ३.८) इति । द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः (ब्र.सू.शां.२.१.३) इति शाङ्करभाष्योक्तरीत्या सांख्ययोगप्रतिपाद्यात्मबहुत्वं तमेव विदित्वा इति श्रुतिविरुद्धमिति तस्य तस्मिन् विषये त्याज्यत्वं सिध्यतीति वाच्यम् ।तमेव विदित्वा' इति श्रुत्या आत्मैकत्वज्ञानस्य मोक्षसाधनतायाः तदन्यस्मिन् मोक्षसाधनत्वनिराकरणस्य चासिद्धेः प्रत्युत जीवब्रह्मणोर्भेद- ज्ञानस्यैव मोक्षहेतुत्वसिद्धेः । तथा हि-

वेदाहमेतं पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् ।

तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ।। (श्वे. ३.८)

इति श्रुतिः, एतं = प्रमाणसिद्धं महान्तं = श्रेष्ठं, आदित्यवर्णं = आदित्यवद्वर्णवन्तं (प्रकाशमानं) तमसः सत्वरजस्तमोरूपगुणत्रयात्मकप्रकृतेः परस्तात् विद्यमानं सत्वरजस्तमोगुणरहितं (निर्गुणम्) पुरुषं = पूर्णषड्गुणं परमात्मानं अहं वेद, जनः तं पूर्वोक्तं परमात्मानं विदित्वैव अतिमृत्युं=मोक्षं, एति । अयनाय=मोक्षाय, अन्यः पन्थाः न विद्यते इति स्पष्टं महत्वादिगुणविशिष्टपरमात्मज्ञानेन मोक्षमभिदधती, ज्ञातृज्ञेयभावेन अहं वेद अन्योऽपि जनः तं परमात्मानं विदित्वा मोक्षं प्राप्नोति इति भेदबोधकधर्मज्ञानस्यैव मोक्षहेतुत्वं बोधयति, नत्वात्मैकत्वज्ञानस्य । तद्बोधकपदाभावात् । जीवपरमात्मनोर्भेदबोधिकानां भेदज्ञानस्यैव मोक्ष- साधकत्वप्रतिपादिकानांपृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्व- मेति’ (श्वे.१.६)अनन्यप्रोक्ते गतिरत्र नास्ति' (का.१.२.८) 'प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ' (का.१.२.९) इत्यादिबहुश्रुतीनां सत्वेन तद्विरोधाच्च ।

यदप्युक्तम्श्रुतिश्च सर्वात्मतायां भवति' ‘यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कश्शोक एकत्वमनुपश्यतः' 'इत्येवं विधा' इति । तदप्ययुक्तम् । यस्मिन् सर्वाणि भूतानीति वाक्यस्य सर्वात्मत्वबोधकत्वाभावात् । अस्याः श्रुतेः यथा सर्वात्मत्व (जीव- ब्रह्मणोरभेद) बोधकत्वाभावस्तथा वर्णितं वाक्यान्वयाधिकरणे, (बृ. १.४.२) तत्रैव द्रष्टव्यम् ।

इतरेषां चानुपलब्धेरिति सूत्रे 'प्रधानादितराणि यानि प्रधानपरिणामत्वेन स्मृतौ कल्पितानि महदादीनि न तानि वेदे लोके वोपलभ्यन्ते भूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम् अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृतिरवकल्प्यते । यदपि क्वचित्तत्परमित्र श्रवणमवभासते तदप्यतत्परं व्याख्यातम् ।आनुमानिकमप्येकेषामित्यत्र कार्यस्मृतेरप्रामाण्यात् कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायात्तस्मादपि न स्मृत्यनवकाशप्रसङ्गो दोषः इति शङ्कराचार्यव्याख्यानं न जगतो मिथ्यात्वबोधकं न वा जीवब्रह्मणोरभेदबोधकम् - प्रत्युत सर्वज्ञः सर्वेश्वरः जगत उत्पत्तिकारणं, न प्रधानं; इति असर्वज्ञात् असर्वेश्वरात् जीवजडात्मकप्रपश्चात् ब्रह्मणः अस्मदिष्टभेदज्ञापकमेवेति न निराकार्यम् । परन्तु सांख्योक्तानां महदादीनां यत् लोकवेदयोरनुपलभ्यत्वमुक्तं तदयुक्तम् । श्रुतौ गीतायां च महदादीनामुक्तेः । श्रुतौ तावत्-

'इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।

मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ।।' का.

गीतायामपि

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।

अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ।। ' ( गी. ७.४)

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ।

इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ।। ' ( गी. १३.५ )

इति । न हि तत्र सांख्योक्ता महदादय उक्ताः किं त्वन्या इत्युक्तं आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च' इत्यत्रेति वाच्यम् । नाममात्रे विवादात् तेषामेवाहङ्कारादीनां कथनात् । तस्मात् इतरेषां महदादीनामनुपलब्धेः श्रुतिषु लोकेषु च उपलब्ध्य- भावादित्युक्तिरसङ्गतैवेति ।। २ ।।

ॐ एतेन योगः प्रत्युक्तः ॐ (२.१.३)

इति सूत्रमपि, ‘एतेन=सांख्यस्मृतिप्रत्याख्यानेन, सांख्यस्मृतिवत् प्रधानं स्वतन्त्रं कारणं तस्य च महदादीनि च कार्याणि इति प्रतिपादयन्ती योगस्मृतिरपि प्रत्याख्याता वेदितव्या । अतः ब्रह्मकारणतावोधकवेदान्तस्य न योगस्मृतिविरोध' इति शाङ्करव्याख्यानानुसारेण अकारणात् जीवजडत्मकात्प्रपञ्चात्कारणस्य ब्रह्मणः भेदबोधकमेव । यत्तु 'श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय (वे.) इति द्वैतिनो हि सांख्या योगाश्च नात्मैकत्वदर्शिनः' इति तन्न ।

'वेदाहमेतं पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् ।

तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽप्यनाय '

इति (श्वे.) श्रुतिः सर्वापेक्षया महत्त्वादित्यवर्णत्वसत्वरजस्तमोगुण राहित्यादिजीवविरुद्धधर्मवोधनेन ज्ञातृज्ञेयभाववोधनादिना जीवब्रह्मणोर्भेद ज्ञानस्यैव मोक्षसाधनत्वं बोधयति न त्वात्मैकत्वज्ञानस्य । 'पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति' इति सैव श्वेताश्वतरश्रुतिः स्पष्टं भेदज्ञानमेव मोक्षसाधनमिति बोधयन्ती द्वैतिनामेव मोक्षः न त्वद्वैतिनां इति वक्ति । तथाअनन्यप्रोक्ते गतिरत्र नास्ति... प्रोक्तान्येनैव सुज्ञानाय प्रेष्ट' इति, अनन्यप्रोक्ते = जीवेश्वराभेदज्ञानिना अद्वैतिना प्रोक्ते गतिर्नास्ति, अन्येन=जीवेश्वरभेदज्ञानिना द्वैतिना प्रोक्ते, सुज्ञानाय = समीचीनज्ञानाय, मोक्षजनकज्ञानाय भवति इति द्वैतज्ञानिन एव मोक्षं वक्ति । विस्तरस्तु पूर्वाधिकरण एव कृतः, तत्रैव द्रष्टव्यः । २.१.३ ।।

ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ (२.१.४ )

इति सूत्रस्य यदुक्तं चेतनं ब्रह्म जगतः उपादानकारणमिति तन्नोपपद्यते । अस्य विकारस्य जगतः विलक्षणत्वात् ब्रह्मविलक्षणत्वात् तथात्वं च ब्रह्मविलक्षणत्वं च जगतः शब्दात् । यतः शब्द एव 'विज्ञानं चाविज्ञानं च (ते. २.६) इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्रह्मणः विलक्षणं अचेतनं जगच्छ्रावयति इति निर्विकारस्य चेतनस्य ब्रह्मणः अचेतनजगत् प्रति विकारवत्त्वरूपोपादानत्वासम्भवरूपोर्थः उक्तः शङ्कराचार्येण। स च युक्त एव । प्रमेयस्य अबाधितत्वात् । परन्तु तस्य अर्थस्य पूर्वपक्षत्वं यद्वक्ष्यते तन्न युक्तं बाधकाभावात् । अयं सूत्रार्थो वा न वा इति विचारः प्रकृतानुपयुक्तत्वात् न क्रियत इति ।। २.१.४ ।।

मृदब्रवीत्, ‘आपोऽब्रुवन्’ 'तत्तेज ऐक्षत' ता आप ऐक्षन्त' 'ते हेमे प्राणा अहं श्रेयसे विवदमाना ब्रह्म जग्मुः' (वृ. ६.१.७) ते ह वाचमूचुस्त्वं न उद्गायेति' (बृ.१.३.२) इत्यादिश्रुतयः मृदादिकार्याणामपि चेतनत्वं बोधयन्तीति न मृदादिकार्यस्य ब्रह्मविलक्षणत्वमित्याशङ्कायां प्रवृत्तस्य-

ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ (२.१.६)

इति सूत्रस्यापि, ‘मृदाद्यभिमानिन्यो वागाद्यभिमानिन्यश्च चेतना देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यंते न भूतेन्द्रियमात्रम् । कुत: विशेषानुगतिभ्यां विशेषो हि भोक्तृणां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षण: प्रागभिहितः । सर्वचेतनतायां चासौ नोपपद्यते । अपि च कौषीतकिनः प्राणसंवादे करणमात्राशङ्काविनिवृत्तये अधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिषन्ति 'एता ह वै देवता अहं श्रेयसे विवदमाना इति' ' ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा' (२.१४) इति च । अनुगताश्च सर्वत्राभिमानिन्यश्चेतना देवता मन्त्रार्थवादेतिहासपुराणादिभ्योऽवगम्यन्तेअग्निर्वाग्भूत्वा मुखं प्राविशत्' (ऐ.आ. २.४.२४ ) इत्येवमादिका च श्रुतिः करणेष्वनुग्राहिका देवतामनुगतां दर्शयति । प्राणसंवादवाक्यशेषे च 'ते ह प्राणाः प्रजापतिः पितरमेत्योचुः' (छां.५.१.७) इति श्रेष्ठत्वनिर्धारणाय प्रजापतिगमनं तद्वचनाच्चैकैकोत्क्रमणेनान्वयव्यतिरेकाभ्यां प्राण श्रेष्ठयप्रतिपत्तिः, 'तस्मै बलिहरणम्' (बृ. ६.१.१३) इति चैवं जातीयकोऽस्मदादिष्विव व्यवहारोऽनुगम्यमानोऽभिमानिव्यपदेशं द्रढयति । 'तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत्, विलक्षणत्वाच्च न ब्रह्मोपादानकं जगदिति पूर्वपक्षे प्राप्ते प्रतिविधत्ते- दृश्यते तु' इति यद्व्याख्यानं कृतं तदपि युक्तमेव ।मृदब्रवीत् आपोऽब्रुवन्इत्यादि वदनसंवदनादि चेतनोचितव्यापारबोधकेषु वेदवाक्येषु चेतनानामेव विवक्षितत्वात् । परन्तु एतत्सूत्रस्य पूर्वपक्षसूत्रत्वं यदुक्तं तन्न युक्तम् । मृदब्रवीत् आपोऽब्रुवन् इत्यादिवाक्यानां सिद्धान्ते चेतनपरत्वात् ब्रह्मण उपादानत्वासम्भवाच्चेति ।। २.१.५ ।।

ॐ दृश्यते तु ॐ (२.१.७)

विलक्षणयोरपि पुरुष (चेतन) केशयोः, पुरुषनखयोः गोमय (अचेतन) वृश्चिक (चेतन) योः, उपादानोपादेयभावो दृश्यते' इति जगद्विलक्षणमपि ब्रह्म जगदुपादानं भवितुमर्हति इति शङ्कराचार्याणां यद्व्याख्यानं तदयुक्तम् । तेनैव 'नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि अचेतनान्येव च वृश्चिकशरीराणि अचेतनादीनां गोमयानां कार्याणीति' उत्तरवाक्येन निराकृतत्वात् ।

महदादिकं जगत् न चेतनविकारः अचेतनत्वात् घटवदिति अनुमानविरुद्धत्वाच्च जगति ब्रह्मोपादानतायाः । न च यच्चैतन्येनानन्वितं ( अचेतनं) तत् चेतन (ब्रह्म) प्रकृतिकं न इति व्याप्तौ दृष्टान्ताभावः । अस्माभिः (अद्वैतिभिः) समस्तवस्तुजातस्य ब्रह्मप्रकृतिकत्वाभ्युपगमात् । चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वेन आगमविरोधश्च ब्रह्मणः जगदुपादानत्वानङ्गीकारे इति शङ्कराचार्यैस्तत्रैव दोषोऽभिहित इति वाच्यम् । तद्दोषाणामयुक्तत्वात् । तथाहि- घटादीनां मृदादिविकारत्वस्य प्रमितत्वात् घट एव दृष्टान्तो भवितुमर्हति । न हि घटस्य मृद्विकारत्वाभावे घटाद्यर्थं मृदादिग्रहणं कुर्यात् । घटस्य साक्षान्मृद्विकारत्वेऽपि परम्परया ब्रह्मैव (चेतनमेव) उपादानकारणमिति चेत् तर्हि न स्वयं घटश्चेतनविकारः किन्तु घटकारणं मृत् चेतनविकार इत्युक्तं स्यात् । तथा च कथं न दृष्टान्तता घटस्य ? तथा च घटस्य दृष्टान्तत्वसम्भवात् अनुमानविरुद्धं जगतः चेतनो (ब्रह्मो) पादानत्वम् ।

चेतनं ब्रह्म जगतः कारणं प्रकृतिश्च (उपादानकारणं च) इति आगमतात्पर्यस्य साधितत्वात् तद्विरोध इति यत् तदप्ययुक्तम् । ब्रह्मणः उपादानवोधकस्यैकस्याप्यागमस्याभावात् । प्रत्युतनिर्विकारोऽक्षरः शुद्धः ' इत्यादीनां उपादानत्वनिषेधकानां आगमानां सत्वाच्चेति प्रकृत्यधिकरणे उपपादितत्वात् इति ।। २.१.६. ।।

ॐ असदितिचेन्न प्रतिषेधमात्रत्वात् ॐ (२.१.८)

यदि चेतनं शुद्धं शब्दादिहीनं च ब्रह्म तद्विपरीतस्याचेतनस्याशुद्धस्य शव्दादिमतश्च कार्यस्य कारणमिष्येतासत्तर्हि कार्यं प्रागुत्पत्तेरिति प्रसज्येत । अनिष्टं चैतत्सत्कार्यवादिनस्तवेति चेत् नैष दोषः । प्रतिषेधमात्रत्वात् । प्रतिषेधमात्रं हीदं नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति । निषेध्यं हि कार्यस्य कारणात्मना सत्त्वं उत कारणसत्त्वातिरिक्तसत्त्वं वा । नाद्यः । यथेदानीं कार्यं कारणात्मना सत् तथा प्रागपीति न कारणात्मना सत्त्वं निषेध्यम् । कार्यस्य कारणसत्त्वातिरिक्तसत्त्वं त्विदानीमपि स्वातन्त्र्येण नास्त्येव ।सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद' (बृ. २.४.६ ) इत्यादिश्रवणादिति न निषेध्यम् । इष्टत्वात् । अतः प्रतिषेधमात्रमेवेदं न तु प्रतिषेध्यमस्तीति यद्व्याख्यानं शङ्कराचार्याणां तदयुक्तम् । असदिति चेदिति शङ्काया एवायुक्तत्वात् शब्दादिमदशुद्धं जगत्प्रति शुद्धस्य निर्विकारस्य ब्रह्मणः केवलस्य निमित्तकारणत्वेन ( उपादानकारणत्वाभावेन) शब्दादिमज्जगतः प्रागुत्पत्तेरसत्वप्रसक्तिरेव नास्ति । उपादानकारणीभूताशुद्धप्रकृत्यात्मना सत्वात् । न हि निर्विकारं ब्रह्म जगत उपादानकारणम् । जगत्प्रति ब्रह्मणो विवर्तोपादानत्वरूपकारणत्वाङ्गीकारेऽपि जगतः उत्पत्तेः प्रागित्युक्तिरयुक्तैव शुक्तावारोपितरजतस्येव सर्वदाप्यसत्वात् । एवमेवोक्तं शङ्कराचार्यैः ।ननु शब्दादिहीनं ब्रह्म जगतः कारणम् । बाढम् । न तु शब्दादिमत् कार्यं कारणात्मना हीनं प्रागुत्पत्तेरिदानीं वाऽस्ति तेन न शक्यते वक्तुं प्रागुत्पत्तेरसत्कार्यमिति । विस्तरेण चैतत् मिथ्यात्वम् । (नास्ति नासीन्नभविष्यतीति त्रैकालिकनिषेधप्रतियोगित्वं कालत्रयेऽप्य- सत्वम्) कार्यकारणानन्यत्ववादे वक्ष्यामः' इति वाक्येन कार्यस्य जगतः कालत्रयेऽप्यसत्वं इति । तस्मात् असदिति चेत् इति सूत्रीयशङ्काभागस्य व्याख्यानमयुक्तम् ।

एवं 'न प्रतिषेधमात्रत्वात्' इति समाधानग्रन्थस्यापि यद्व्याख्यानंचेतनस्य शुद्धस्य शब्दादिहीनस्य ब्रह्मणः तद्विपरीताशुद्ध-शब्दादिमज्जगद्रूपकार्यं प्रति कारणत्वमिष्येत तर्हि कार्यं प्रागुत्पत्तेः असत्प्रसज्येतेति इति निषेधोक्तिरयुक्तैव । प्रतिषेधमात्रत्वात् = कार्यं प्रागुत्पत्तेः असत् प्रसज्येतेति यः प्रतिषेधः कृतस्तस्य न प्रतिषेध्यमस्ति । तथाहि- उत्पत्तेः प्राक्कार्यस्य कारणात्मना सत्त्वं निषिध्यते उत कारणात्मानमन्तरेण स्वातन्त्र्येण सत्त्वं निषिध्यते । नाद्यः । यथैव हीदानीमपीदं कार्यं कारणात्मना सत् एवं प्रागुत्पत्तेरपीति गम्यमानत्वेन उत्पत्तेः प्राक् कारणात्मना सत्त्वं निषिध्यते इत्युक्तेरसङ्गतत्वात् । न द्वितीयः । न हीदानीमपीदं कारणात्मानमन्तरेण स्वतन्त्रमेवास्ति । 'सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद' (बृ.२.४.६ ) इति श्रवणादिति ' तदप्ययुक्तम् । कार्यस्य उपादानकारणात्मना इदानीं पूर्वमपि सत्त्वेऽपि निमित्तकारणात्मना कदाप्यभावात् । ब्रह्मणो जगत्प्रति उपादान - कारणत्वाभावेन तद्रूपतया जगतः इदानीं पूर्वमपि सत्त्वोक्तेरयुक्तत्वात् नाद्य इति आद्यपक्षनिराकरणमयुक्तम् । न द्वितीय इति द्वितीयपक्ष- निराकरणमप्ययुक्तम् । ब्रह्मणो निमित्तकारणत्वेन निमित्तकारणीभूत- परमात्मानमन्तरा इदानीं स्थितिसम्भवात् ।

यच्च परमात्मानं (ब्रह्म) अन्तरा जगन्नास्ति इत्यस्मिन् विषये 'सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद' इति श्रुत्युदाहरणं तत् श्रुत्यर्थापरिज्ञानमूलम् । यः पुरुषः आत्मनोऽन्यत्र - अन्याश्रयतया सर्वं पदार्थजातं वेद, तं पुरुषं सर्वं सर्वपदार्थजातम् । (तदभिमानिदेवाः) परादात्' इति श्रुतौ स्पष्टं सर्वपदार्थस्य परमात्मना आधाराधेयभावेन भेद एव बोध्यते । अभेदाभिप्राये 'सर्वं तं परादात् योऽन्यत् आत्मनः सर्वं वेद' इति श्रुतिपाठः स्यात् । तथात्वे च यः आत्मनः अन्यत्=भिन्नं सर्वं वेदेति अद्वैत्यभिमतार्थः स्यात् । न चैवमस्ति । तस्मात् सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद इति श्रुतिः जगतो ब्रह्मव्यतिरेकेण (ब्रह्मभिन्नतया) सत्त्वमवगमयति । विशेषविचारस्तु पूर्वमेव कृतस्तत्रैव

द्रष्टव्यः ।। २.१.७ ।।

ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ (२.१.९)

अत्राह -यदि स्थौल्यसावयवत्वाचेतनत्वपरिच्छिन्नत्वाशुध्यादिधर्मकं कार्यं ब्रह्मकारणकमभ्युपगम्येत तदपीतौ प्रलये प्रतिसंसृज्यमानं कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेत् इत्यपीतौ कारणस्यापि ब्रह्मणः कार्यस्येवाशुध्यादिरूपप्रसङ्गात्सर्वज्ञं ब्रह्म जगत्कारणमित्य- समञ्जसमिदमौपनिषदं दर्शनं इत्यादिशङ्कायाम् अत्रोच्यते' - इति यद्व्याख्यानं तदप्ययुक्तमेव ।

ब्रह्मणो जगत्प्रत्युपादानकारणत्वे कार्यस्य प्रलये उपादानकारण- रूपत्वप्राप्त्या उपादेयगताः केचन अशुध्यादिधर्माः उपादानकारणे प्राप्नुयुः । न हि ब्रह्म अद्वैतिमते जगत्प्रत्युपादानकारणं किन्तु रजतस्य शुक्तिव विवर्तोपादानं (जगत्प्रकारकभ्रमविशेष्यमेव) । यथा रजतस्य शुक्तिज्ञानेन नाशे (प्रलये) न शुक्तिरूपताप्राप्तिः तथा ब्रह्माज्ञानेन ब्रह्मण्यारोपितस्य जगतः ब्रह्मज्ञानेन नाश एव न तु ब्रह्मरूपताप्राप्तिरिति अज्ञानेन भासमानं जगत् ब्रह्मरूपं न भवति । प्रलये स्वधर्मेण ब्रह्म अशुद्धमपि न करोति इति विवर्तवादिरीत्या ब्रह्मणः अशुद्धत्वशचैव न पदं दधाति । वस्तुतस्तु ब्रह्मणो जगत्प्रति निमित्तकारणत्वात् प्रकृते ब्रह्मणः उपादेयगत- धर्मसम्बन्धप्रसक्तिरेव नास्तीत्येतत्सूत्रस्योपनिषददर्शना सामञ्जस्यशङ्कापरतया अर्थवर्णनमयुक्तमेवेति ।

ॐ न तु दृष्टान्तभावात् ॐ (२.१.१०)

इति सूत्रस्य-अपीतौ कारणं कार्यधर्मेण सम्बध्येत' इति शङ्कायाः, ‘लोके कारणस्य कार्यधर्मेणासम्बन्धे शरावमृत्तिकादिदृष्टान्ताः सन्तीति न ब्रह्म कार्यधर्मेण अपीतौ संबध्यते' इति यद्व्याख्यानं तदयुक्तम् । ब्रह्मणो निमित्तकारणत्वेन परिणाम्युपादानकारणत्वाभागेन उपादेयगतधर्म-संबन्धाप्रसक्तेः । अद्वैतमतरीत्या ब्रह्मणो विवर्तोपादानत्वेऽपि अध्यस्त - सम्बन्धाप्रसक्तेरुक्तत्वाच्च । यदुक्तं शङ्कराचार्यै: ' अत्यल्पं चेदमुच्यते कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति स्थितावपि समानोऽयं प्रसङ्गः' । कार्यकारणयोरनन्यत्वाभ्युपगमात् । इदं सर्वं यदयमात्मा (बृ.२.४.६) आत्मैवेदं सर्वं (छां.७.२५.२) ब्रह्मैवेदममृतं पुरस्तात् (मु.२.२.११) सर्वं खल्विदं ब्रह्म (छां. ३.१४.१) इत्येवमाद्यादिभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणानन्यत्वं श्राव्यते । तत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्यारोपितत्वात् न तैः कारणं संसृज्यते इति अपीतावपि स समानः' इति तदयुक्तम् ।

इदं सर्वं यदयमात्माइत्यादिश्रुतीनां कार्य (जगत् ) ब्रह्मणोरभेद- बोधकत्वाभावः बहुवारं तत्र तत्र प्रदर्शितः तत्रैवानुसन्धेयः ।

किं च 'कार्यस्य तद्धर्माणां च अविद्याध्यारोपितत्वान्न तैः कारणं संसृज्यते' इति यदुक्तं तदप्यसङ्गतम् । यथा शुक्तिकाज्ञानवता पुरुषेण शुक्तिकायां कल्पितं रजतं न शुक्तिकारणकम् न वा कार्यं किन्तु मिथ्यैव=नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधप्रतियोगि तथा ब्रह्माज्ञानवता पुरुषेण ब्रह्मणि कल्पितं जगत् न ब्रह्मकारणकं न वा कार्यं किन्तु मिथ्यैवेति जगतः कार्यत्वोक्तेः ब्रह्मणः कारणत्वोक्तेरयुक्तत्वात् । कार्यत्वं हि कारणानन्तरकालवृत्तित्वम् । न हि त्रैकालिकनिषेधप्रति- योगित्वेनाद्वैत्यङ्गीकृतस्य जगतः कारणानन्तरकालवृत्तित्वरूपकार्यत्वं सम्भवति । सर्वदा असत्त्वात् । उक्तं हि अद्वैतसम्प्रदायविद्भिर्गौडपादाचार्यैःन निरोधो न चोत्पत्तिर्न बन्धो न च साधकः । न मुमुक्षुर्न वै मुक्तः' (गौ.का.२.३२) इत्यादि वाक्येन सर्वजगतः असत्वम् । तद्व्याख्याने शङ्कराचार्यैरपि - 'द्वैतस्य (जगत) असत्त्वं सिद्धं.... सतो ह्युत्पत्तिः प्रलयो वा स्यान्नासतः शशविषाणादेः ... तस्मात्सूक्तं द्वैतस्य असत्वात् निरोधाद्यभाव इति' (गो. शां. भा. २.३२) इत्यादिवाक्येन द्वैतस्य जगतः शशविषाणादिवदसत्वं तथा-'यदेतदृद्वैतस्यासत्वं उक्तं युक्तितः तदेतद्वेदान्तप्रमाणावगतमित्याह .... विश्वमिदं द्वैतं समस्तमसत् दृष्टं, केत्याह वेदान्तेषु इति' (गौ. शा. भा. २.३१ ) इत्यादिवाक्यैश्च जगतः असत्वमुक्तम् ।

एवं ब्राह्मणादिवर्णब्रह्मचर्याद्याश्रमस्नानसंध्यायज्ञवेददेवतीर्थ पुण्यपापस्वर्गवैकुण्ठैतल्लोकादि निर्गुणब्रह्मातिरिक्तसमस्तजगतः शशविषाणवदसत्वं वदतामद्वैतिनां क ब्राह्मण्यं क वा ब्रह्मचर्याद्याश्रमः क च संध्या व यज्ञः क वेदाध्ययनं क्व वा द्रव्यत्यागरूपयज्ञोद्देश्यभूता देवताः क्व वा पार्वतीपतिः काशीश्वरः सगुणः क्व वा गङ्गा क्व वा पुण्यपापे क्व वा तत्प्राप्याः स्वर्गनरकवैकुण्ठादिलोका इति । एवं ब्राह्मणादिवर्णानां असत्वेऽङ्गीकृतेऽपिआस्तिकाः जनाः, नो अद्वैतिना महानास्तिकाः अद्वैतमतं नास्तिकमतमिति मत्वा अद्वैतमतं न गृह्णीयुः इत्यास्तिक-जनमोहनार्थं न वयं नास्तिका इव ब्राह्मणादिवर्णानां शशविषाणवदसत्वं ब्रूमः किं तु व्यावहारिकसत्यतां अङ्गीकुर्मः अतो न वयं नास्तिका इति ते वदन्ति । नास्तिका हि सर्वस्य नास्तित्वं वदन्तस्तथैवाचरन्ति । न ह्यास्तिकाभिमतानि कर्माणि कुर्वन्ति । अद्वैतिनस्तुवचस्येकं मनस्येकं कर्मण्येकं' इत्युक्तरीत्या मनसि सर्वस्यासत्वं जानन्तोऽपि आस्तिका इव वेदोदितब्राह्मणवर्णब्रह्मचर्याद्याश्रमत्तानि कर्माणि कुर्वन्त इव प्रदर्शयन्तः प्रलोभयन्ति । तदुक्तमभियुक्तैः-

'सौगता वेदबाह्या हि वेदाप्रामाण्यवादिनः ।

अवैदिका इति ज्ञात्वा वैदिकैः परिवर्जिताः ||

वेदान् प्रविश्य वेदानां योऽप्रामाण्यं प्रसाधयेत् ।

मायी तु यत्नतस्त्याज्यः वैदिकैर्हितशत्रुवत् ॥ इति ।

कुमारिलभट्टाचार्यैरपि

सत्यं चेत् संवृतिः केयं मृषा चेत् सत्यता कथम् ।

सत्यत्वं न च सामान्यं मृषार्थपरमार्थयोः ||

तुल्यार्थत्वेऽपि तेनैषां मिथ्यासंवृतिशब्दयोः ।

वञ्चनार्थमुपन्यासः लालावक्रासवादिवत् ।।

नास्तिक्यपरिहारार्थं संवृतिः कल्पनेति च ।

तस्माद्यन्नास्ति नास्त्येव यद्यस्ति परमार्थतः ॥

तत्सत्यमन्यन्मिथ्येति न सत्यद्वयकल्पना ।

न हि स्वप्नसुखाद्यर्थं धर्मे कश्चित्प्रवर्तते ॥

इत्यादिग्रन्थैः व्यावहारिक (सांवृतिक) सत्यं पारमार्थिकसत्यमिति सत्यद्वयखण्डनं कृतम् । न केवलं कुमारिलभट्टाचार्यैः कृतम् । शङ्कर-भाष्यभामत्यादिष्वपि । भामती-' यद्युच्येत तात्त्विकं प्रामाण्यं प्रमाणानां अनेन विचारेण व्युदस्यते न सांव्यवहारिकम् । तथा च भिन्नविषयत्वात् न सर्वप्रमाणप्रतिषेध इति (बौद्धेन जगतो व्यावहारिकत्वेऽभिहिते तन्निषेधार्थं) अत आह-( शाङ्करभाष्यम्) 'न ह्ययं सर्वप्रमाणसिद्धो लोकव्यवहारोऽन्यत्तत्त्वमनधिगम्य शक्यते अपह्नोतुम्' । (ब्र.सू. शां. भा. २.२.३१) 'भामती-प्रमाणानि स्वगोचरे प्रवर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते । अतात्विकत्वं तु तद्गोचरस्यान्यतो बाधकादवगन्तव्यम् । न पुनः सांव्यवहारिकं नः प्रामाण्यं न तु तात्विकमित्येव प्रवर्तन्ते' इत्यादिग्रन्थेन प्रमाणानां व्यावहारिकवस्तुविषयत्वं खण्डितम् (प्रमाणगृहीताः पदार्थाः न व्यावहारिका इत्युक्तम्) तथा च द्वैतस्य जगतः शशविषाणवत् नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधप्रतियोगित्वरूपमसत्वमेव मनसि निधाय लोकवञ्चनार्थं ब्राह्मणवर्णब्रह्मचर्याद्याश्रमयज्ञदेवतावेदतीर्थानां त्रैकालिकनिषेध प्रतियोगित्वापरपर्यायव्यावहारिकसत्वाङ्गीकारः । एते ब्राह्मणाः एते ब्रह्मचर्याद्याश्रमवन्तः एते वेदाध्ययनकर्तारः एते वैदिकाः एते सोमयाजिनः इति आस्तिकानिव स्वान् जनाः व्यवहरेयुः । तथा स्वयमपि अद्वैतमतावलम्बनेन नष्टा भवन्तु इति वञ्चनार्थंअसत्यमप्रतिष्ठं ते; एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवत्युग्रकर्माणः क्षयाय जगतोऽहिताः । । ' ( गी. १६.८.९) इति गीतोक्तरीत्या स्वयं नष्टाः सन्तः जगतो नाशनार्थं केचन आसुरस्वभावाः प्रवृत्ताः । केचन असुरलोकमोहनार्थं भगवान् बुद्ध इव प्रवृत्ताः; इति, 'भोः सात्विकस्वभावाः ! यूयं मा मोहं प्राप्नुत' 'द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।।' इत्युक्त्वा, आसुरस्वभावाः 'असत्यमप्रतिष्टं ते जगदाहुरनीश्वरम्' 'ईश्वरोऽहं' इति ज्ञानमवष्टभ्य 'आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यांत्यधमां गतिम्इत्युक्तरीत्या अधोगतिं मा प्राप्स्यथ । ' उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः' (१५.१७) 'ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ' ( गी. १८.६१ ) इत्यादि गीतोक्तरीत्यापृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति' इति, ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यं उपैति ।।' इत्यादिश्रुत्युक्तरीत्या परमात्मा(परब्रह्म) सर्वोत्तमः सर्वजगत्कर्ता चतुर्मुखादि- जनकः जीवजडात्मकप्रपञ्चाद्भिन्नः सर्वस्य प्रेरक इति परं ब्रह्म ज्ञात्वा परमात्मप्रसादेन मुक्ता भवत, न तु अद्वैत्युपदेशजन्येन 'ईश्वरोऽहं, जगन्मिथ्या, ईश्वरः (परंब्रह्म) निर्गुणः एवेति मत्वा अधोगतिं मा प्राप्नुत इति । तस्मात् असमञ्जसमिदमद्वैतदर्शनम् ।। २.१.९ ॥

ॐ स्वपक्षदोषाच्च ॐ (२.१.११)

इति सूत्रस्यस्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुष्युः । कथमिति उच्यते । यत्तावदभिहितं विलक्षणत्वान्नेदं जगत् ब्रह्मप्रकृतिकमिति । प्रधानप्रकृतिकतायामपि समानमेतत् । शब्दादिहीनात् प्रधानात् शब्ददिमतो जगत उत्पत्त्यभ्युपगमात् । अत एव च विलक्षणकार्योत्पत्त्यभ्युपगमात्समानः प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गः इत्यादि । तस्मात् कार्यासत्वप्रसङ्गादीनां न दोषत्वम् इति यद्व्याख्यानम्; तत्र विलक्षणत्वात् नेदं जगत् ब्रह्मप्रकृतिकं (ब्रह्मपरिणामकं) इति यदुक्तं तद्युक्तमेव । अविकारस्य चेतनस्य ब्रह्मणः जगत्प्रति परिणाम्युपादानत्वासम्भवात् । ब्रह्मप्रकृतिकत्वस्य (ब्रह्म- परिणाम्युपादानकत्वस्य) अद्वैतिभिरनङ्गीकृतत्वेन तत्समर्थनायोगाच्च ।प्रधानप्रकृतिकतायामपि समानमेतत्' इति जगत्प्रधानयोरपि विलक्षणत्वात् (शब्दादिमत्त्वशब्दादिराहित्यरूपवैलक्षण्यवत्वात् ) न जगतः प्रधान-प्रकृतित्वसम्भव इति यत् सांख्यमतोपरि दोषसाम्यकथनं तदयुक्तम् । ब्रह्मगताव्यभिचारिचैतन्यरूपस्वभावस्य जगति अभावात्, जगतस्तदुपादान- त्वासम्भवेऽपि प्रधानगताचैतन्यादिस्वभावस्य जगति सत्वेन जगतः तदुपादानत्वे बाधकाभावात् । न च प्रधाने जगद्गतशब्दादिमत्वरूपधर्माभावात् न प्रधानं जगदुपादानमिति वाच्यम् । कार्यगतसर्वधर्माणां कारणे स्थितेरनावश्यकत्वात् । तथात्वे च समस्त प्रकृतिविकारोच्छेदप्रसङ्गः । न ह्यसति प्रकृत्यपेक्षया अतिशये प्रकृतिविकार इति सम्भवति । तथा च स्वपक्षदोषाच्च इति सूत्रस्य एवं व्याख्यानमयुक्तम् ।। २.१.१० ।।

ॐ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॐ (२.१.१२)

यस्मादागमरहिताः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्काः अप्रतिष्ठिता भवन्ति । तस्मादपि नागमगम्येऽर्थे केवलेन तर्केण प्रत्यवस्थातव्यम् । उत्प्रेक्षाया निरंकुशत्वात् । अन्यथा = यथा तर्कः अप्रतिष्ठितः दोषयुक्तो न भवेत् तथा अनुमीयत इति चेत् क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वेऽपि प्रकृततर्कस्य अविमोक्षप्रसङ्गः अप्रतिष्ठितत्वादोषान्मोक्षाभावप्रसङ्गः । न हीदमतिगम्भीरं भावयाथात्म्यं (भावस्य जगत्कारणस्य याथात्म्यं अद्वितीयत्वं) युक्तिनिबन्धनं आगममन्तरेणोत्प्रेक्षितुमपि शक्यम् । रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षगोचर: लिङ्गाद्यभावान्नानुमानादीनामिति चावोचाम ... अत आगमवशेनागमानुसारितर्कवशेन च चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेति स्थितम्' इति यद्व्याख्यानं शङ्कराचार्याणां; तत्र ब्रह्मविषये केवलागमवेद्यत्वं यदुक्तं तद्युक्तम् । नैषा तर्केण मतिरापनेयेति श्रुतेः । परन्तु अद्वैत्यभिमताद्वितीयनिर्गुणब्रह्मणः यत् आगमवेद्यत्वमुक्तं तन्न युक्तम् । आगमवेद्यत्वा ( आगमजन्यज्ञानविषयत्वा) योगात् । तथा हि- यथा ऐन्द्रियकताप्रयोजकरूपाद्यभावात् प्रत्यक्षागोचरः यथा च लिङ्गाद्यभावाच्च अनुमानाविषयः तथा अद्वैत्यभिमते निर्गुणे (निर्धर्मके) ब्रह्मणि शब्द (आगम) प्रवृत्तिप्रयोजक धर्माभावात् नागमस्यापि विषयः । उक्तं हि ३.२.१७ ब्रह्मसूत्रीयशाङ्करभाष्ये 'बाष्कलिना बाध्यः पृष्टः सन् अवचनेनैव ब्रह्म प्रोवाचेति श्रूयते । सहोवाच अधीहि भो इति । स तूष्णीं बभूव । तं हि द्वितीये वा तृतीये वा वचन उवाच । ब्रूमः खलु त्वं तु न विजानासि उपशान्तोऽयमात्मा' इति । तद्व्याख्याने च पुनः पुनरधीहि भो इति निर्वन्धकारिणं तं द्वितीये तृतीये च प्रश्ने तूष्णीं भावं त्यक्त्वोवाच । उपशान्तो निरस्तद्वैतः अतस्तस्य तूष्णीं भाव एव उत्तरमिति शब्दाविषयत्वं (आगमाविषयत्वं) इत्यद्वैत्यभिमतं ब्रह्म केनापि प्रमाणेनागम्यत्वात् शशविषाणवत् असिद्धमेव (असदेव) ।

न चाद्वैत्यभिमतस्य ब्रह्मणः प्रमाणागम्यत्वेऽपि स्वप्रकाशत्वात् सिद्धिः (सत्वं) शशविषाणस्य प्रमाणागम्यत्वात् अस्वप्रकाशत्वाच्च न सिद्धिः । (न सत्वं), उक्तं ह्यद्वैतसिद्धौ ' शुद्धं न हि दृश्यं .... किं तूपहितमेव यच्च मिथ्यैव । न हि वृत्तिदशायामनुपहितं भवति.... न चैवं शुद्धसिद्धिर्न स्यादिति वाच्यम् । स्वत एव तस्य प्रकाशत्वेन सिद्धत्वात् इति' इति वाच्यम् । ब्रह्म स्वप्रकाशमित्यस्मिन् विषये प्रमाणाभावात् । प्रमाणाङ्गीकारे च प्रमाणजन्यज्ञानविषयस्य ब्रह्मणः उपहितत्वप्राप्त्या तस्य शुद्धत्वायोगात् ।

ब्रह्म स्वप्रकाशमित्यस्मिन् विषये प्रमाणाभावेऽपि ब्रह्मणः स्वप्रकाशत्वमङ्गीकृत्य सिध्यङ्गीकारे च शशविषाणस्यापि प्रमाणमन्तरा स्वप्रकाशत्वाङ्गीकारप्राप्त्या शशविषाणमपि अद्वैत्यभिमतब्रह्मवत् सिध्येत्। न च शशविषाणं प्रमाणमन्तरा स्वप्रकाशमित्यङ्गीकारार्हमिति चेत् तर्हि ब्रह्मापि प्रमाणमन्तरा स्वप्रकाशमित्यङ्गीकारानर्हमिति स्वप्रकाशत्वासिद्ध्या नाद्वैत्यभिमतब्रह्मणः सिद्धिरिति ।

अस्तु वा स्वप्रकाशत्वं ब्रह्मणः । तच्च स्वप्रकाशत्वमितरावेद्यत्वरूपं खलु अद्वैतिभिरङ्गीक्रियते । तच्चेतरावेद्यत्वरूपं स्वप्रकाशत्वमितरावेद्यस्य शशविषाणस्यापि सममिति इतरावेद्यत्वरूपस्वप्रकाशत्वेन ब्रह्मणस्सिद्धिः, शशविषाणस्यासिद्धिरित्युक्तिर्वालानामपि न मनोरमं किमु पण्डितानाम् । तस्मात् अद्वैत्यभिमतस्य ब्रह्मणः आगमगम्यत्वासम्भवात् आगमवशेन आगमानुसारितर्कवशेन च चेतनं ब्रह्म कारणं प्रकृतिश्चेति स्थितमित्युक्तिः शङ्कराचार्याणामयुक्तैव ।

किं च चेतनब्रह्मणः कारणत्वं (निमित्तकारणत्वं ) प्रकृतित्वं (उपादानकारणत्वं) स्थितमिति प्रकृत्यधिकरणोक्तनिमित्तकारणत्वो- पादानकारणत्वयोः असंभवशङ्कापरिहारेण स्थितत्वोक्तिरप्ययुक्ता । प्रकृत्यधिकरणे ब्रह्मणः निमित्तकारणत्वोपादानकारणत्वयोरनुक्तत्वात् अद्वैतमतरीत्या अद्वैत्यभिमतब्रह्मणः निमित्तकारणत्वोपादानकारणत्वयोर- सम्भवस्य प्रकृत्यधिकरण एवोक्तत्वात् । असम्भवप्रकारस्तु शाङ्करीयप्रकृत्यधिकरणव्याख्यानखण्डनावसरे द्रष्टव्यः।तथा च नेदमधिकरणं ब्रह्मण उपादानत्वस्थापकम् ।।२.१.११ ।।

ॐ एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः ॐ (२.१.१३)

इति सूत्रं, ‘एतेन-प्रधानकारणतावादनिराकरणेन, शिष्टा अपरिग्रहाः=शिष्टैर्मनुव्यासप्रभृतिभिः केनचिदंशेनापरिगृहीताः ये अण्वादिकारणवादाः तेऽपि प्रतिषिद्धतया, व्याख्याताः=निराकृताः द्रष्टव्याः' इत्यण्वादिकारणवादान् निराकृत्य, सर्वज्ञस्य ब्रह्मण एव कारणत्वव्यवस्थापकमिति शङ्कराचार्य-व्याख्यानोक्तरीत्या जगत्कारणत्वादिरहितात् चेतनाचेतनात्मकजगतः भेदमेव ज्ञापयति ।। २.१.१२ ।।

ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ (२.१.१४)

इति सूत्रस्य-ब्रह्मणो जगत्प्रति परिणाम्युपादानत्वं न युक्तम् । तथात्वे उपादानस्योपादेयेनाभेदात् भोक्तुर्ब्रह्मोपादानत्वेन ब्रह्मणा अभेदस्य, भोगस्यापि ब्रह्मोपादानत्वेन ब्रह्मणा अभेदस्य च प्राप्त्या यत् यदभिन्नाभिन्नं तत्तेनाभिन्नमिति न्यायेन भोक्रभिन्नब्रह्माभिने भोग्ये भोक्रापत्तेः भोक्तुर्भीग्यत्वप्राप्तेः अविभागः = अयं भोक्ता इदं भोग्यं इति प्रसिद्धस्य विभागस्याभावप्राप्तेरिति चेत्, स्यात् लोकवत्=यथा लोके समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनवाचीतरङ्गबुद्बुदादीनां इतरेतरविभागः इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते । न च समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनतरङ्गादीनामितरेतर- भावापत्तिर्भवति । न च तेषामितरेतरभावानापत्तावपि समुद्रात्मनोऽन्यत्वं भवति । एवमिहापि न भोक्तृभोग्ययोरितरेतरभावापत्तिः। न वा परस्माद्ब्रह्मणोऽन्यत्वं भविष्यति । अतः परमकारणाद्ब्रह्मणोऽन्यत्वेऽपि उपपद्यते भोक्तृभोग्यलक्षणो विभाग इति अर्थं वर्णयित्वा तस्यायुक्तत्वंअभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागं स्याल्लोकवदिति परिहारोऽभिहितः न त्वयं विभागः परमार्थतोऽस्ति' इति भाष्यवाक्येन, तथा 'आपाततोऽविचारितलोकसिद्धदृष्टान्तोपदर्शनमात्रेण निराकरोति सूत्रकारः स्याल्लोकवदिति' भामतीवाक्येन, तथा 'प्रत्यक्षादीनामौत्सर्गिकप्रामाण्य- मङ्गीकृत्य स्थूलबुद्धिसमाधानार्थं परिणामदृष्टान्तेन भेदाभेदावुक्तौ' इति भाष्यरत्नप्रभाग्रन्थेन, ‘परिणामबुद्धिमुपमृद्य पुमान्विनिवर्तयत्यथ विवर्तमतिः' (सं.शा.२.८४) 'परिणामधियो विवर्तधीरपवादात्मतया व्यवस्थितिः, (८७) 'कृपणधी: परिणाममुदीक्षते' (८९) इत्यादिसंक्षेपशारीरिकग्रन्थेन शङ्कराचार्याद्यद्वैतिभिः स्वीकृतमिति नात्रास्माभिर्विचारितव्यमस्ति यद्यपि तथापि भगवता नारायणस्वरूपिणा बादरायणेन सिद्धान्तसूत्रेणायमर्थः कथित इति स्वीकृत्य तस्यार्थस्यस्थूलवुद्धिसमाधानार्थमिति' आपाततोऽविचारितलो कसिद्धदृष्टान्तोपदर्शनमात्रेणेति 'कृपणधीः परिणाममुदीक्षते' इति स्थूलबुद्धिभिरविचारितलोक सिद्धदृष्टान्तैरिति अयुक्ततावर्णनं, सूत्रप्रामाण्यमङ्गीकृत्य तेषां भाष्यकर्तृत्वाभिमानवतां वैदिकानां न युक्तं,; किन्तु वेदान्तसूत्राप्रामाण्यमङ्गीकुर्वता बौद्धादीनामेव युक्तम् । वेदसूत्रनिर्णीतार्थस्य साधुताया एव वैदिकैर्वक्तव्यत्वात् इति ।। २.१.१३ ।।