ॐ सन्ध्ये सृष्टिराह हि ॐ
भेदपराण्येव खलु ब्रह्मसूत्राणि
ब्रह्मसूत्रीय तृतीयाध्यायद्वितीयपादशङ्करभाष्यस्यखण्डनम्
(अयुक्तत्वप्रदर्शनम्)
(अधिकरणम् १)
ॐ सन्ध्ये सृष्टिराह हि ॐ (३.२.१)
“न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते” (बृ.४.३.१०) इत्यादि. तत्र संशयः-किं प्रबोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिराहोस्विन् मायामयीति तत्र तावत्प्रतिपद्यते सन्ध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति कुतः ? यतः प्रमाणभूता श्रुतिरेवमाह -‘‘अथ रथान् रथयोगान् पथः सृजते " (बृ. ४.३.१०) इत्यादि, स हि कर्तेति चोपसंहारादेवमेवावगम्यते ।
ॐ निर्मातारं चैके पुत्रादयश्च ॐ (३.२.२)
अपि चैके शाखिनोऽस्मिन्नेव सन्ध्ये स्थाने कामानां निर्माता- रमात्मानमामनन्ति– ‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ' (क.५.८) इति । पुत्रादयश्चात्र कामा अभिप्रेयन्ते.... प्राज्ञं चैव निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः । प्राज्ञस्य हीदं प्रकरणं - 'अन्यत्र धर्मादन्यत्राधर्मात्' (क.२.१४ ) इत्यादि । तद्विषय एव च वाक्यशेषोऽपि - ‘तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिलोकाः श्रितास्सर्वे तदु नात्येति कश्चन' (क.५.८) इति प्राज्ञकर्तृका च सृष्टिस्तथ्यरूपा समधिगता जागरिताश्रया, तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति........ तस्मात्तथ्य- रूपैव संध्ये सृष्टिरिति । एवं सूत्राभ्यां श्रुत्यादि प्रमाणानुसारेण साधितं स्वाप्नपदार्थानां ।सत्यत्वं पूर्वपक्षत्वेन मत्वा-
ॐ मायामात्रन्तु कात्स्नर्येनानभिव्यक्तस्वरूपत्वात् ॐ (३.२.३)
इति सूत्रं सिद्धान्तसूत्रमिति भ्रान्तः सन् स्वाप्नपदार्थानां मिथ्यात्वप्रति- पादकतया व्याख्यातवान् शङ्कराचार्यः - तद्व्याख्यानं 'तदनन्यत्वमारम्भण- शब्दादिभ्यः' (२.१.१४) इति सूत्रस्य शङ्कराभिमतार्थनिराकरणप्रसङ्गे निराकृतं तत्रैव द्रष्टव्यम् -
स्वेनैव ‘अत्रैष देवः स्वप्ने... सच्चासच्च पश्यति' (षट्.४.५) इति षट्प्रश्नव्याख्यावसरे 'सच्च परमार्थोदकादि असच्च मरीच्युदकादि' इत्यादिना स्वाप्नोदकादेः परमार्थत्वस्य कथितत्वेन सर्वस्वाप्नपदार्थानां मिथ्यात्ववर्णनं स्वव्याहतमिति ।
ॐ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॐ (३.२.४)
इति सूत्रस्य "स्वप्नस्य मायामात्रत्वे परमार्थगन्धो नास्ति किमित्याशङ्कय, नेत्युच्यते (परमार्थगन्धो वर्तत इत्युच्यते) सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः तथा हि श्रूयते -‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने ।।' (छां.५.२.९) तथा पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति' इत्येवमादिभिः स्वप्नैरचिरंजीवित्वमावेद्यते इति श्रावयति, आचक्षते स्वाप्नाध्यायविदः - 'कुञ्जरारोहणादीनि स्वप्ने धन्यानि खरयानादीन्यधन्यानि' इति । मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते । तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वं, सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यं बाध्यमानत्वादित्यभिप्रायः । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम्” इति यदुव्याख्यानं तदयुक्तम् ।
तथा हि—लोके परमार्थः (सन्) अपरमार्थः—(असन्) इति द्विविधः पदार्थः । न तु तृतीयः कश्चन पदार्थः । शङ्कराचार्याद्यद्वैतिभिरपि परमार्थ एकः अपरमार्थस्तु द्वितीयः । न तृतीयः पदार्थ इति । “शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते । न ह्ययं सर्वप्रमाणसिद्धो लोकव्यवहारोऽन्यत्तत्त्वमनधिगम्य शक्यतेऽपह्नोतुमपवादाभाव उत्सर्गप्रसिद्धेः” इति (ब्र.सू.शां.भा.२.२.३१) शून्यवादिपक्षस्तु सर्वप्रमाण विप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते । लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि । तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । सदसतोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति । तथा च सर्वप्रमाणविप्रतिषेधान्नेयं व्यवस्थोपपद्यते । यद्युच्येत तात्त्विकं प्रामाण्यं प्रमाणानामनेन विचारेण व्युदस्यते, न सांव्यवहारिकम् तथा च भिन्नविषयत्वान्न सर्वप्रमाणविप्रतिषेध इत्यत आह-न ह्ययं सर्वप्रामाण- सिद्धो लोकव्यवहारोऽन्यत्तत्वमनधिगम्य शक्यतेऽपोतुम् । प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते । अतात्विकत्वन्तु तद्गोचरस्यान्यतो बाधकादवगन्तव्यम् । न पुनः सांव्यवहारिकं नः प्रामाण्यं न तु तात्विकमित्येव प्रवर्तन्ते । बाधकं चातात्विकत्वमेषां तद्गोचरविपरीततत्वोपदर्शनेन दर्शयेत् । यथा शक्तिकेयं न रजतं, मरीचयो न तोयमेकश्चन्द्रो न चन्द्रद्वयमित्यादि, तद्वदिहापि समस्तप्रमाणगोचर-विपरीततत्वान्तरव्यवस्थापनेनातात्विकत्वमेषां प्रमाणानां बाधकेन दर्शनीयं नत्वव्यवस्थापिततत्वान्तरेण प्रमाणानि शक्यानि बाधितुं" (भामती) इत्यादि भाष्यभामतीवाक्यैः स्वीकृतत्वेन परमार्थगन्ध इत्यनेन किं विवक्षितं स्वप्नपदार्थानां सत्त्वं वा असत्त्वं वा । सत्त्वं विवक्षितमिति चेत् स्वप्नस्य सत्यत्वसिध्या मायामात्रत्वोक्तिरयुक्ता भवति । असत्त्वोक्तौ तस्य भविष्यत्साध्यसाधुफलविषयज्ञानजनकत्वरूपसूचकत्वाद्युक्तिरयुक्ता । नह्यसतः ज्ञानाव्यवहितप्राक्क्षणवृत्तित्वरूपं वा शक्तिविशेषवत्त्वरूपं वा ज्ञानजनकत्वं सम्भवति । उक्तं च श्रुतौ सूत्रे च स्पष्टं सूचकत्वं, स्वप्नाध्यायविभिश्च तदन्यथानुपपत्त्या सत्त्वमङ्गीकरणीयं स्वप्नार्थानामिति ।
प्राज्ञकर्तृकत्वस्य श्रुतत्वाच्च स्वाप्नपदार्थ जाग्रत्पदार्थवत् सत्यो भवितुमर्हति । न हि प्राज्ञकर्तृकत्वस्य बाधकमस्ति ।
न च ‘य एष सुप्तेषु जागर्ति' (कठ.) इति प्रसिद्धानुवादात् जीव एवायं कामानां निर्माता सङ्कीर्त्यते इति वाच्यम् । य एष सुप्तेष्विति जीवानां सुप्तिं (इन्द्रियव्यापारोपरमम् ) उक्त्वा स्वाप्नपदार्थसृष्टिकर्तुः ब्रह्मत्वोक्तेः ‘स्वप्नेन शारीरमभिप्रहत्य असुप्तः सुप्तानभिचाकशीति' (बृ. ३.३.११ ) इति श्रुतावपि शारीरस्य ( जीवस्य ) स्वप्नसम्वन्धं कारयित्वा परमात्मा असुप्तस्सन् सुप्तान् पश्यतीति परमात्मन एव स्वप्नपदार्थ-स्रष्टृत्वोक्तेः । ‘तदेव शुक्रं तद्ब्रह्मेति स्वप्नस्रष्टुर्ब्रह्मत्वोक्तेश्च ।
न च तत्त्वमसीत्यत्र यथा जीवस्य ब्रह्मत्वमुच्यते तथा स्वप्न- स्नष्टुर्जीवस्य ब्रह्मत्वं तद्वाक्येन उच्यत इति वाच्यम् । तत्त्वमसीति वाक्यं जीवस्य ब्रह्मत्वं न बोधयतीति अद्वैतिभिरेव बहुधा उक्तत्वात् वस्तुतो जीवब्रह्मैक्यबोधकत्वासम्भवेन तद्बोधकत्वाभावस्य अस्माभिर्बहुवारमुपपादितत्वाच्च ।
यच्चोक्तं ‘अस्माभिः स्वप्नेऽपि प्राज्ञव्यवहारः न प्रतिषिध्यते तस्य सर्वेश्वरत्वात् सर्वास्ववस्थासु अधिष्ठातृत्वोपपत्तेरि 'ति तद्युक्तमेव (प्रामाणिकमेव) । परन्त्वद्वैतिनां मते तस्य 'प्राज्ञेनात्मना सम्परिष्वक्त’इत्यादिवाक्येन निर्गुणब्रह्मत्वेन उक्तेः निर्गुणस्य तस्य सर्वेश्वरत्व-सर्वावस्थाधिष्ठातृत्वादेरसम्भवात् ।
वियदादिसर्गवत् संध्याश्रयः सर्गो न पारमार्थिकः इत्येतत्प्रति- पाद्यते इति यदुक्तं तदयुक्तम् । अद्वैति वियदादिसर्गस्यापि पारमार्थिकत्वास्वीकारात् ।
न च वियदादिसर्गस्यापि आत्यन्तिकं सत्यत्वं न मयाऽङ्गीकृतमिति ‘तदनन्यत्वमारम्भणशब्दादिभ्यः' (ब्र.सू.२.१.१४) इत्यत्रोक्तमिति वाच्यम् । तत्सूत्रशाङ्करभाष्यनिराकरणावसरे वियदादिसर्गस्य आत्यन्तिकसत्त्वाभावस्य अप्रामाणिकत्वेन प्रमाणविरुद्धत्वेन च निराकृतत्वात् ।
यदुक्तं ‘स्वप्नप्रपञ्चयोरुभयोरपि पारमार्थिकत्वाभावे को विशेष इत्याशङ्कय, वियदादिप्रपञ्चो ब्रह्मात्मत्वदर्शनाद्वाध्यते इति व्यावहारिकः, संध्याश्रयस्तु प्रपञ्चः प्रतिदिनं ब्रह्मज्ञानेतरेण बाध्यते इति प्रातिभासिक इति विशेष: ' इति तन्न । बौद्धेन जगतः व्यावहारिकसत्त्वं प्रमाणेन गृह्यते इत्युक्तौ प्रमाणं सदिति वा असदिति वा गृह्णाति । न तु व्यावहारिकसत्त्वमिति । जगतो व्यावहारिकसत्त्वं नाङ्गीकरणीयमिति “क्षणिकत्वाच्च (ब्र.सू.२.२.३१ ) इति सूत्रव्याख्यानावसरे शङ्करभाष्यभामती ग्रन्थैरुपपादितत्वेन जगतः व्यावहारिकसत्त्वं प्रमाणेन गृह्यते इति स्वीकारे अपसिद्धान्तापत्तेः ।
किं च तद्विषयकं ज्ञानं तद्विषयकाज्ञानं प्रति विरोधि (निवर्तकं बाधकं ) दृष्टं । यथा शुक्तिज्ञानं शुक्त्यज्ञानविरोधि । प्रकृते न ब्रह्मविषयकं ज्ञानं जगतः विरोधि इति ब्रह्मज्ञानस्य जगद्बाधकत्वानुपपत्तेः ।
न च जगतो ब्रह्माज्ञानकल्पितत्वेन ब्रह्मज्ञानेन ब्रह्माज्ञाननिवृतौ ब्रह्माज्ञानकल्पितजगतोऽपि निवृत्तिः (बाध) इति वाच्यम् । जगतो ब्रह्माज्ञानकल्पितत्वे प्रमाणाभावात् । इदमिति सामान्यरूपेण रजतसदृशतया च ज्ञाते शुक्तित्वरूपविशेषरूपेण अज्ञाते शुक्तिकाशकले रजतभ्रमः शुक्तितत्वेन रूपेण शुक्तौ ज्ञातायां रजतभ्रमनिवृत्तिर्दृष्टा । प्रकृते सामान्यरूपेण जगत्सदृशतया च ब्रह्माणि ज्ञाते ब्रह्मत्वादिविशेषरूपेण अज्ञाते ब्रह्मणि जगद्भ्रमो वक्तव्यः । विशेषरूपेण ज्ञाते ब्रह्मणि विशेषरूपेण ब्रह्माज्ञाननिवृत्त्या जगद्भ्रमो निवर्तते इति च वक्तव्यम् । तथा च अद्वैतमते ब्रह्मणः सामान्यविशेषधर्मरहित्वेन अज्ञेयत्वेन च भ्रमकारणस्य सामान्यरूपेण जगत्सदृशतया च ब्रह्मज्ञानस्य विशेषरूपेण ब्रह्माज्ञानस्य च असम्भवेन भ्रमासम्भवः । विशेषरूपेण ब्रह्मज्ञानस्य च अबोधकतया अखण्डार्थबोधकतया वा अद्वैतिभिः स्वीकृतैस्तत्त्वमस्यादिवाक्यैः असम्भव इति भ्रमाभावेन भ्रमनिवर्तकाभावेन च ब्रह्मात्मत्वदर्शनेन जगद्बाध्यते इत्युक्तेरयोगात् ।
तथा च व्यावहारिकप्रातिभासिक विभागोऽयुक्त एवेति । स्वप्नोऽपि जगदिव पारमार्थिक (सत्य) एवेति ।
ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ (३.२.५)
इति सूत्रस्य " अथाऽपि स्यात् परस्यैव तावदात्मनोऽशो जीवः अग्नेरिव विस्फुलिङ्गः । तत्रैवं सति यथा अग्निविस्फुलिङ्गयोः समाने दहनप्रकाशनशक्ती भवतः एवं जीवेश्वरयोरपि ज्ञानैश्वर्यशक्ती ततश्च जीवस्य ऐश्वर्यवशात् स्वप्ने रथादिसृष्टिः भविष्यतीति । अत्रोच्यते । सत्यपि जीवेश्वरयोः अंशांशिभावे प्रत्यक्षमेव जीवस्य ईश्वरविपरीतधर्मत्त्वम् । किं पुनः जीवस्य ईश्वरसमानधर्मत्वं नास्त्येव । न नास्त्येव । विद्यमानमपि तत्तिरोहितं अविद्यादिव्यवधानात् । तत्पुनः तिरोहितं सत् परमेश्वरम् अभिध्यायतः यतमानस्य जन्तोः विधूतध्वान्तस्य तिमिरतिरस्कृता इव दृक्शक्तिः औषधवीर्याद् ईश्वरप्रसादात् संसिद्धस्य कस्यचिदाविर्भवति, न स्वभावतः सर्वेषां जन्तूनाम् । कुतः । ततो ईश्वरात् हेतोः अस्य जीवस्य बन्धमोक्षौ भवतः । ईश्वरस्वरूपापरिज्ञानाद् बन्धः तत्स्वरूपपरिज्ञानात्तु मोक्षः “इति श्रीशङ्कराचार्याणां यद्व्याख्यानं तद्युक्तम् । तथा हि । यद् अग्निविस्फुलिङ्गयोरिव जीवेश्वरयोः अंशांशिभावः, उक्तः तद् “निर्विकारोऽक्षरः” इत्यादि प्रमाणविरुद्धम् । व्याहतं च । ‘ममैवांशो’ जीवलोके जीवभूतः सनातनः" इत्यस्य व्याख्याने 'अंश इव अंश ः ' इति शङ्कराचार्यैरेव जीवस्य ईश्वरांशत्वनिषेधात् । यत्पुनः ईश्वरस्यैव जीवगतबन्धमोक्षयोः हेतुत्वमुक्तं तत् अनुमतमेव । भेदसापेक्षत्वात् । अद्वैतिनां तु प्रतिकूलमेव ।
ॐ देहयोगाद् वा सोऽपि ॐ (३.२.६)
कस्मात् पुनः जीवः परमात्मांशः एव सन् तिरस्कृतज्ञानैश्वर्यः भवति । युक्तं च ज्ञानैश्वर्ययोरतिरस्कृतत्वं विस्फुलिङ्गस्येव दहनप्रकाशनयोरिति । उच्यते । सत्यमेवैतत् । सोऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभावः देहयोगाद् देहेन्द्रियमनोबुद्धिविषयवेदनादियोगाद् भवति । अस्ति च अत्र उपमा । यथा अग्नेः दहनप्रकाशनसम्पन्नस्यापि अरणिगतस्य दहनप्रकाशने तिरोहिते भवतः यथा वा भस्मछन्नस्य” इति यद्व्याख्यानं, तदसत् । पूर्वमेव जीवस्य ईश्वरांशत्वं निराकृतमिति तदवष्टम्भेन अत्र पुनः आक्षेपसमाधाने उभे अपि अनुपपन्ने एव ।
यत्पुनः “वाशब्दः जीवेश्वरान्यत्वशङ्काव्यावृत्यर्थः । ... न ह्यन्यत्वं जीवस्य ईश्वरादुपपद्यते । ‘सोऽयं देवता ऐक्षत' इत्युपक्रम्य ‘अनेन जीवेन आत्मना अनुप्रविश्य इत्यात्मशब्देन जीवस्य परामर्शात् ।" इत्युक्तं तत्तुच्छम् । सूत्रगतवासशब्दं भित्वा वा इति भिन्नं पदं परिकल्प्य पूर्वसूत्रे नपुंसकेन प्रकृतं तिरोहितपदं 'सोऽपि तिरोभाव:' इति पुल्लिङ्गेन सूत्रे परामर्शः असङ्गतः । “वाशब्दः जीवेश्वरान्यत्वशङ्का व्यावृत्त्यर्थः, " इति व्याख्यानं सूत्राक्षरबाह्यं केवलं काल्पनिकमेव ' न ह्यक्षरबाह्यः वाक्यार्थः भवति' इति स्वयमेवोक्तत्वात् । उदाहृतश्रुतिरपि न जीवेश्वराभेदवोधिका । ‘हन्त इमास्तिस्रः देवता अनेन जीवेन आत्मना अनुप्रविश्य' इत्यत्र देवताशब्दः जीवपरः 'जीवेनात्मना ' इत्यस्यापि जीवपरत्वे जीवरूपेण जीवं प्रविशति इत्यर्थः स्यात् । तदयुक्तम् । कर्तृकर्मणोः भेदव्याप्तत्वात् । अयमपि अर्थः अद्वैतिनां प्रतिकूलमेव । ' जीव इति भगवत अनिरुद्धस्य आख्या' इति श्रुतेः अत्र जीवशब्दः चेष्टकभगवद्रूपपर एव ।
ॐ तदभावो नाडीषु तच्छ्रुतेरात्मनि ह ॐ (३.२.७)
अस्य सूत्रस्य ‘तदभावः स्वप्नदर्शनाभावः' सुषुप्तं नाडीषु पुरीतति ब्रह्मणि च । तत्रापि द्वारमात्रं नाड्यः पुरीतच्च, ब्रह्मैव त्वेके सुषुप्तिस्थानम् । 'सता सोम्य तदा सम्पन्नो भवति' इति श्रुतेरिति यद्व्याख्यानं तत् नाडिमन्योन्यं पुरीतता परिवेष्टनेन, एवं आश्रितस्य जीवस्याधारभूतेन सच्छव्दवाच्यब्रह्मणा च भेदस्यैव प्रतिपादनात् अद्वैतिनां प्रतिकूलमेव ।
यत्पुनरत्रोक्तं, ब्रह्माधारत्वं श्रुत्युक्तं नैवाधाराधेयभावेन किं तर्हि तादात्म्याभिप्रायेणेति तत्तुच्छम् । तादात्म्यार्थस्य श्रुत्यक्षरबाह्यत्वेन अतदर्थत्वात् । ‘न हि अक्षरबाह्यः वाक्यार्थः' इति न्यायस्य स्वेनैवात्रोपपादितत्वात् । स्वव्याहतं च ।' यः पृथिव्यां तिष्ठन् ' इत्याद्येकविंशतिवाक्यानाम् आधाराधेयभाववर्णनद्वारा पृथिव्यादिदेवतात्मनां ब्रह्मणा भेदप्रतिपादकत्वमेवेति स्वेनैवमन्तर्यामिनये भाषितत्वात् । एवं 'भेदनिर्देशात्, सता सोम्य तदा सम्पन्नो भवति इत्येवंजातीयकः कर्तृ- कर्मादिभेदनिर्देशः जीवादधिकं (अन्यत्) ब्रह्म दर्शयति ( ब्र.सू.२.१.२२) इति अस्यैव सुप्तिप्रकारप्रतिपादकवाक्यस्य भेदपरत्वेन व्याख्यानाच्च ।
यच्च ‘स्वं ह्यपीतो भवति' इति वाक्यशेष : अभेदाभिप्रायक इति तदपि हेयम् । अपीतशब्दस्य अभेदः अर्थः न तावदवयववृत्त्या । अपिर्ह्यपिधाने वर्तते । इण् गतौ निष्ठाप्रत्ययश्चाकर्तरि । तथा च अपिहितस्य गतिः प्राप्तिः प्रवेशे सति सम्भवतीति अपीत इति प्रविष्टः इत्येवार्थः । अखण्डवृतौ अपीतशब्दः ऐक्यपर्यायः अङ्गीकार्यः । तस्य च अक्रियार्थत्वात् भवतेश्चाकर्मकत्वात् कर्मानपेक्षायां स्वमिति कर्मार्थद्वितीया नोपपद्यते । सहयोगे तृतीया विधानात् एकीभावविवक्षायां स्वेनेति निर्देशः स्यात् । तथा च श्रुतद्वितीयाहानिरश्रुततृतीया कल्पना चापद्येते ।
ॐ अतः प्रबोधोऽस्मात् ॐ (३.२.८)
एतस्य सूत्रस्य ‘यस्मादात्मैव सुप्तिस्थानम् अतः सुप्तस्य प्रबोधः आत्मन एव न तु पुनर्नाडीभ्यः नापि पुरीततः” इति व्याख्यानं पूर्ववद् भेदपरमेव । विष्लेषावधिभूताद् ब्रह्मणः विष्लिष्टस्य जीवस्य भिन्नत्वावश्यंभावात् ।
(अधिकरणम् ३)
ॐ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॐ (३.२.९)
इत्यस्य सूत्रस्य “स एव तु जीवः सुप्तः स्वास्थ्यं गतः पुनरुत्तिष्ठति नान्यः कर्मशेषानुष्ठानदर्शनात् सोऽहमस्मीत्यनुस्मरणात् स्वापप्रवोधाधिकार- पठितश्रुतिभ्यः कर्मविद्याविधिभ्यश्चे" ति यद् व्याख्यानं तदपि पूर्वं सुप्तः एवोत्तिष्ठति नैवान्यः इति वर्णनेन जीवानां परस्परं भेदपरमेव । यत् पुनः उक्तं “सुप्तः परेण एकत्वमापन्नः” इति तदत्यन्तम् अयुक्तमेव । तथा हि ।
‘एतस्मादात्मनः सर्वे प्राणा' इति श्रुत्या कथ्यते-इति व्याख्यानेन जीवपरमात्मनोर्भेदसिद्धेः' - स्वीकृतं च स्वेनैव (शङ्कराचार्येणैव) 'सत्ता सोम्य तदा सम्पन्नो भवती' त्यादि श्रुतेर्जीवपरमात्मनोर्भेदज्ञापकत्वम् अधिकं त्विति २.१.२२ सूत्र भाष्ये ।
न च सता सच्छब्दवाच्यया प्रकृतया देवतया सम्पन्नो भवति सङ्गतः एकीभूतो भवति इत्यपि उपनिषद्भाष्ये शङ्कराचार्यैरुक्तमिति वाच्यम् । स्वव्याहतत्वात् । सम्पन्न इति शब्दस्य सम्पूर्वकात् गत्यर्थकात् पदधातोर्निष्पन्नत्वेन प्राप्त्यर्थकतया तस्य एकत्वाबोधकत्वात् प्राज्ञेनात्मना सम्परिष्वक्त' इति श्रुत्या स्पष्टं सुषुप्तिकाले परमात्मना भेदस्योक्तेः स्वेनैव (शङ्कराचार्येणैव) (ब्र.सू.१.३.४२ ) सूत्रभाष्ये “सुषुप्तौ उत्क्रान्तौ च शारीराद्भेदेन परमेश्वरस्य व्यपदेशात्, सुषुप्तौ तावत् अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तः । (बृ.४.३.२१ ) इति शारीराद्भेदेन परमेश्वरं व्यपदिशति” इति वाक्येन प्राज्ञेनात्मना सम्परिष्वक्त इति श्रुतेः जीवपरमात्मनोर्भेद- बोधकतया व्याख्यातत्वाच्च ।
न च प्राज्ञेनात्मना सम्परिष्वक्त इति वाक्यव्याख्यानपरे उपनिषद्भाष्ये 'यथा प्रियया स्त्रिया सम्परिष्वक्त' इति दृष्टान्तकथनपूर्वकं प्राज्ञेन परेण ज्योतिषा सम्परिष्वक्तः सम्यक् परिष्वक्तः एकीभूत इति । एकत्वं यथा स्त्रीपुंसयोः सम्परिष्वक्तयोः इत्यादि वाक्येन अभेदोऽप्युक्त - इशङ्कराचार्यैरिति वाच्यम् । स्वयमेव एकत्र भेदपरतया व्याख्याय अन्यत्र अभेदपरतया कृतस्य व्याख्यानस्य स्वव्याहतत्वेनानादरणीयत्वात् । यथा प्रियया स्त्रिया सम्परिष्वक्त इत्यस्य प्रियया स्त्रिया एकीभूत इति व्याख्यानस्य स्त्रीपुरुषपश्वादीनामपि रतिकाले स्त्रिया एकीभावस्य अननुभवेन प्रत्युत भेदस्यैवानुभवेन सर्वानुभवविरुद्धत्वाच्च ।
सुषुप्त्युत्क्रान्त्योर्भेदेनेति सूत्रकारेण 'प्राज्ञेनात्मना सम्परिष्वक्त इति श्रुतिः जीवपरमात्मनोर्भेदं बोधयति इति कथितत्वेन स्वयं शङ्कराचार्येणापि सूत्रकारः प्राज्ञेनात्मना सम्परिष्वक्त इति श्रुतिं जीवपरमात्मनोर्भेदविषये उदाहरत् इति कथितत्वेन अभेदबोधकतया व्याख्यानस्य तद्विरुद्धत्वाच्च ।
'स्वमपीतो भवति' (छां. ६.८.१) इति वाक्यस्य स्वशब्देनात्माऽभिलप्यते स्वरूपमापन्नः सुप्तो भवतीत्यर्थः इत्युक्तम् । तत्र स्वरूपमापन्न इत्यस्य परमात्मस्वरूपं प्राप्तं इत्यर्थकत्वे प्राप्यप्राप्तभावेन भेदसिद्धेः युक्तश्चायमर्थः । अपिपूर्वकस्य इण् धातोर्निष्पन्नस्य अपीतशब्दस्य अपि=इतराज्ञेयः सन्, इतः=प्राप्तो भवतीत्यर्थकत्वात्, स्वरूपमापन्न इत्यस्य परमात्मैव सम्पन्नः (परमात्मत्वं प्राप्तः) इत्यर्थस्तु न युक्तः - अपीतशब्देन तथा अर्थाप्रतीतेः इत्यादि किञ्चित् किंचिदसम्बद्धम् अयुक्तम् च उक्तम् तस्य पूर्वं खण्डितत्वात्प्रकृतविचारासम्बद्धत्वाच्च न दूष्यते इति ।
जीवस्य सुषुप्तौ सद्रूपब्रह्मरूपताया: प्राप्तेः प्रमाणाभावात्, प्रत्युत प्रमाणविरुद्धत्वात् - ‘सुषुप्त्युत्क्रान्त्योर्भेदेन' (ब्र.सू.१.३.४२ ) इति सूत्रे अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न वाह्यं किञ्चन वेद नान्तरम् इति श्रुतिः । सुषुप्तौ शारीरात् (जीवात् ) परमेश्वरस्य भेदवोधिका इति शङ्कराचार्यैरेव व्यवस्थापितत्वाच्च ।
तथा ‘अधिकं तु भेदनिर्देशात् ' (ब्र.सू.२.१.२२) इति सूत्रव्याख्याने 'सता सोम्य तदा सम्पन्नो भवति' (छां. ६.८.१) इत्येवं जातीयकः कर्तृकर्मादिभेदनिर्देशः जीवादधिकं (भिन्नं) ब्रह्म दर्शयतीति श्रुतिसूत्रयोः सुषुप्तिकाले जीवपरमात्मनोर्भेदबोधकताया शङ्कराचार्यैः कथितत्वात् । तथा अविद्याविशिष्टचिद्रूपजीवस्य शुद्धेन ब्रह्मणा ऐक्यासम्भवाच्च । तथा च सुषुप्तिकाले जीवस्य परमात्मना ऐक्याभावात् स एवोत्तिष्ठति अन्यो वेति शङ्काया एवाप्रसरात् ।
जलराशौ प्रक्षिप्तस्य जलबिन्दोः जलराशिना ऐक्यप्राप्ती पुनरुद्धरणे च स एव जलविन्दुर्भवतीति दुःसम्पादमिति दृष्टान्तकथनमप्ययुक्तम् । ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति' इति श्रुत्या एवकारेण ऐक्यं निषिध्य सादृश्यस्यैव कथनेन जलराशौ प्रक्षिप्तस्य जलबिन्दोः पूर्वजलेन सादृश्यस्यैव सद्भावेन ऐक्याभावात् । ' अवस्थितेरिति काशकृत्स्नः ' ( ब्र.सू.१.४.२२ ) इति सूत्रभाष्यव्याख्याने भामतीकल्पतर्वादिग्रन्थेषु नदीजलस्य समुद्रजलेन ऐक्यनिषेधाच्च ।
यथा ग्रामं प्राप्तः (ग्रामसम्बद्धः) पुरुषः कश्चित् कालं स्थित्वा पुनर्ग्रामाद्बहिरायाति तथा जीव: सुषुप्तिकाले नाडीस्थपरमात्मनः रूपविशेषं प्राप्तः जाग्रत्कालप्राप्तौ नाडीस्थपरमात्मनः रूपविशेषं त्यक्त्वा बहिरायाति, यः पूर्वं सुषुप्तः स एव जाग्रत्कालीन इत्येतत्समीचीनमेव । सुषुप्त- जाग्रत्कालीनयोरैक्यविषये उक्ताः कर्मानुस्मृतिशब्दविधिरूपाः हेतवः समीचीना एव । परन्तु अद्वैतिनां प्रतिकूलाः । कर्मणां स्मरणस्य शब्दस्य विधेः सत्यत्वसिद्धेः ।
“अपि च न जीवो नाम कश्चित् परस्मादन्यो विद्यते यो जलविन्दुरिव जलराशेः सतो विविच्येत । सदेव (ब्रह्मैव) तूपाधिसम्पर्काज्जीव इत्युपचर्यत इत्यसकृत्प्रपञ्चितम्” इति तदयुक्तम् । जीवः परमात्मनो भिन्नः न परमात्मरूपः इति, अद्वैतमते उपाधिः उपाधिसम्पर्कश्च न सम्भवति इति चासकृत्साधितम् ।
(अधिकरणम् ४)
अवस्थाश्चतस्रः जाग्रत्, स्वप्न, सुषुप्तिः, मरणमिति । न तु पश्चमी काचनावस्था श्रुती स्मृती वा प्रसिद्धेति । मोहावस्था (मूर्च्छा ) चतसृणामेवावस्थानामन्यतमेति प्राप्ते प्रवृतम् ।
ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ (३.२.१०)
इति सूत्रम् । तस्य च ‘परिशेषान्मूर्छावस्थायाः जाग्रदवस्थात्वस्वप्नावस्थात्वसुषुप्त्यवस्थात्वमरणावस्थात्वानामसम्भवात् मूर्च्छावस्था अर्धसम्पत्तिरूपा पञ्चमावस्थेति' इति यद्व्याख्यानं तत्र विशेषविचारणीयभागो नास्ति । परन्तु पूर्ववदेव अवस्थानां तत्तदवस्थाकालीनकार्यस्य च सत्त्वसिध्या अद्वैतिनां प्रतिकूलमेवेदमधिकरणम् द्वैतिनामनुकूलमेवेति ।
(अधिकरणम् ५)
ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ (३.२.११)
इति सूत्रस्य ‘“अत्र ब्रह्मस्वरूपं विचार्यते । संत्युभयलिङ्गा श्रुतयो ब्रह्मविषयाः 'सर्वकर्मा सर्वकामस्सर्वगन्धः सर्वरस:' (छां. ३.१४.२) इत्येवमाद्याः सविशेषलिङ्गाः । 'अस्थूलमनण्वह्रस्वमदीर्घम् ' (बृ.३.८.८) इत्येवमाद्याश्च निर्विशेषलिङ्गाः । अत उभयलिङ्गं सविशेषं निर्विशेषं च ब्रह्म किं वा अन्यतरलिङ्गं । अन्यतरलिङ्गत्वेऽपि सविशेषं निर्विशेषं वा इति संशये, उभयलिङ्गश्रुत्यनुग्रहात् उभयलिङ्गं ब्रह्मेति पूर्वपक्षे, न तावत्स्वत एव परस्य ब्रह्मण उभयलिङ्गम् । एकस्य वस्तुनः सविशेषत्वनिर्विशेषत्वयोः विरुद्धधर्मयोः सत्त्वासम्भवात् । नापि पृथिव्यादिस्थान (उपाधि) योगात् उभयरूपत्वम् । न ह्युपाधियोगादपि अन्यादृशस्य वस्तुनोऽन्यादृशः स्वभावस्सम्भवति । न हि स्वच्छ ः सन् स्फटिक : अलक्तकाद्युपाधियोगात् अस्वच्छो भवति । भ्रममात्रत्वात् अस्वच्छताभिनिवेशस्य उपाधीनां चाविद्याप्रत्युपस्थापितत्वात् । अतश्चान्यतरलिङ्गपरिग्रहेऽपि समस्तविशेषरहितं निर्विकल्पकमेव ब्रह्म प्रतिपत्तव्यम् । न तद्विपरीतम् । सर्वत्र हि ब्रह्मस्वरूपप्रतिपादनपरेषु 'अशब्दमस्पर्शमरूपमव्ययम्' (कठ. ३.१५) इत्येवमादिषु अपास्तसमस्तविशेषमेव ब्रह्मोपदिश्यते.” इति यद्व्याख्यानं, तत्र सविशेषलिङ्गाः श्रुतयः ब्रह्मविषयाः 'सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः' (छां.३.१४.२) इत्येवमाद्याः सन्तीति यदुक्तं तत्सम्यक् । न केवलं काश्चन ब्रह्मविषयक श्रुतयः सविशेषलिङ्गाः । किन्तु यावत्यो ब्रह्मविषयाः श्रुतयः तास्सर्वा अपि सविशेषलिङ्गा एव । निर्विशेष- प्रतिपदिकाया एकस्या अपि श्रुतेरभावात् वाक्यस्य शक्यतावच्छेदकादिकं कञ्चिद्धर्मं निमित्तीकृत्यैव वस्तुवोधकत्वेन 'श्रुतिवोध्यं निर्विशेष' मित्यस्य ‘मम माता वन्ध्ये’ति वाक्यवद् व्याहतत्वात् । ‘यः सर्वज्ञः सर्ववित्’ 'पृथगात्मानं प्रेरितारं च मत्वा यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ ‘सकारणं कारणाधिपाधिपः ' 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' इत्येवमाद्या ब्रह्मविषयका:सर्वाः श्रुतयः ब्रह्मणः सर्वज्ञत्वसर्ववित्त्वपृथक्त्वप्रेरकत्त्व रुक्मवर्णत्वकर्त्तृत्वेशितृत्व- पूर्णषड्गुणत्व (पुरुषत्व) चतुर्मुखकारणत्वकारणाधि पाधिपत्वशासकत्व- सर्वेशत्वस्वतन्त्रत्व सर्वोत्तमत्वसत्यसंकल्पत्व सत्यकामत्वादीन् उत्कृष्टत्व- प्रयोजकान् सकलधर्मान् कथयन्तीति ब्रह्म सविशेषमेव न तु निर्विशेषमिति ।
तत्र ‘अस्थूलमनण्वहृस्वमदीर्घम्' (बृ.३.८.८) 'अशब्दमस्पर्शम- रूपमव्ययम्' (कठ.३.१५ ) इत्याद्या निर्विशेषप्रतिपादिकाः श्रुतयः सन्तीति यदुक्तं तन्न युक्तम् । अस्थूलमनण्विति श्रुतेः अस्थूलत्वादियत्किञ्चिद्गुण- निषेधकत्वेऽपि श्रुतिसिद्धसर्वज्ञत्वादिगुणनिषेधकत्वाभावेन तया श्रुत्या निर्विशेषत्वासिद्धेः । वस्तुतः 'अणोरणीयान् महतो महीयान्’ ‘एष म आत्मान्तर्हृदये अणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मा अन्तर्हृदये ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षाज्ज्यायान् दिवो ज्यायान् एभ्यो लोकेभ्यः' (छां. ३.१४.३) इत्यादिश्रुतिभिः अणुत्वमहत्त्वयोर्बेधनेन तद्विरोधात् अणुत्वमहत्त्व- निषेधकं ‘अस्थूलमनणु’ इति वाक्यं अणुत्वस्थूलत्वनिषेधकमपि न भवति । अणुत्वानणुत्वादिविरुद्धधर्मसमावेश: अयुक्त इति चेत् न 'अस्थूलमनणु' इत्यादिभिः सत्त्वरजस्तमोगुणात्मक प्रकृतिकार्यस्थूलत्वादिगुणनिषेधात् 'अणोरणीयान्' इत्यादिना अप्राकृताणुत्वादीनां स्वीकारात् श्रुत्युक्ताणुत्वानणुत्वयोर्विरोधाभावात् ।
अणुत्वानणुत्वयोः प्राकृताप्राकृतभेदेन वैलक्षण्यं कथयित्वा विरोधपरिहारः अपूर्वो दृष्ट इति चेत् । नायमपूर्वः । शङ्कराचार्यादिभिः “पश्य मे पार्थ रूपाणि शतशोऽथ महस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ।।" (गी. ११.५ ) इत्यादिश्लोकव्याख्याने दिव्यानि=अप्राकृतानि इति रूपादीनामप्राकृतत्वोक्तेः ।
न च रूपादीनामप्राकृतत्वमुक्तं न तु सत्वरजस्तमोगुणकार्यत्वाभाव इति वाच्यम् । 'मयाऽध्यक्षेण प्रकृति : ' ( गी. ११.१०) इति गीताश्लोक-व्याख्यानकाले ‘त्रिगुणात्मिका अविद्यालक्षणा प्रकृति:' इति प्रकृतेः सत्त्वरजस्तमोगुणरूपत्वोक्ते: । एतेन (प्रकृतेस्सत्त्वरजस्तमोरूपा- विद्यात्वोक्त्या ब्रह्मसम्बन्धिरूपादीनाम् अप्राकृतत्वोक्त्या) ब्रह्मगुणानाम् अविद्याकल्पितत्वरूपमिथ्यात्वाभावश्चोक्तो भवति ।
यत्तूक्तम्, ‘अशब्दमस्पर्शमरूपमव्ययं' (कठ.१.३.१५) इत्येवमादिषु अपास्तसमस्तविशेषमेव ब्रह्मोपदिश्यत इति तदतीव मन्दम् । अस्यां श्रुतौ केषाञ्चित् शब्दस्पर्शगन्धदिगुणानां निषेधेऽपि सर्वज्ञत्वादिगुणानाम् अनिषेधात् । प्रत्युत ‘महतः परं ध्रुवं' (कठ.१.३.१५) 'अणोरणीयान् महतो महीयान्' (कठ.१.२.२०) 'ईशानो भूतभव्यस्य' (कठ.२.१.१२) 'यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति । तं देवास्सर्वेऽर्पितास्तदु नात्येति कश्चन’ (कठ.२.१.९) ‘एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति' (कठ. २.२.१२) 'नित्यो नित्यानां चेतनश्चेतनानां' (कठ. २.२.१३) 'अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदि संनिविष्टः ' (कठ.२.३.१७) इत्यादि काठकवाक्यैरेव बहुगुणानामुक्तेः नैतद्वाक्यं (अशब्दमस्पर्शमरूपमव्ययमिति वाक्यं) ब्रह्मणस्सर्वधर्मनिषेधकमिति ।
'न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि' इति सूत्रे ब्रह्मणो निर्विशेषत्वबोधकपदाभावाच्च वाक्यस्य निर्विशेषवस्तुप्रतिपादकत्वाभावेन सविशेषवस्तु प्रतिपादकत्वनियमेन च 'सर्वत्र हि' इति वाक्यस्य सर्वत्र निर्विशेषमेव ब्रह्म प्रतिपाद्यते इत्यस्य ‘मम माता बंध्या' इति वाक्यवत्स्वव्याहतत्वेन सर्वत्र सविशेषमेव ब्रह्म प्रतिपाद्यते इत्यर्थकरणस्यैव युक्तत्वाच्च ।
ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ (३.२.१२)
इति सूत्रस्य “न=यदुक्तं निर्विकल्पकमेकलिङ्गमेव नास्य स्वतः स्थानतो वा उभयलिङ्गत्वमिति तन्नोपपद्यते । भेदात् = भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उपदिश्यन्ते । ‘चतुष्पाद् ब्रह्म' ‘षोडशकलं ब्रह्म' ‘वामनीत्वादिलक्षणं ब्रह्म' इत्येवं जातीयकाः । तस्मात्सविशेषत्वमपि ब्रह्मणोऽभ्युपगन्तव्यमिति चेत् । न, प्रत्येकमतद्वचनात् = प्रत्युपाधिभेदं ह्यभेदमेव ब्रह्मणः श्रावयति शास्त्रम् । ‘यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा' (बृ.२.५.१) इत्यादि । अतश्च न भिन्नाकारयोगो ब्रह्मणश्शास्त्रीय इति शक्यते वक्तुम् । भेदस्योपासनार्थत्वा दभेदे तात्पर्यात्” इति यद् व्याख्यानं तत्र प्रत्युपाधिभेदम् अभेदवचनादिति यदुक्तं, तद्युक्तमेव । ' एको देवस्सर्वभूतेषु गूढस्सर्वव्यापी सर्वभूतान्तरात्मा’ ‘यः पृथिव्यां तिष्ठन् ' ' योऽप्सुतिष्ठन्, ‘यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव सोऽयमात्मा' स यश्चायं पुरुषे यश्चासावादित्ये स एकः ' इत्यादि श्रुतिभिः सर्वत्र नियामकतया विद्यमानस्य एकत्वावधारणात् पृथिव्यन्तर्यामिणः अबाद्यन्तर्यामिणः अभेद एव न तु स्वगतभेदः । स्वगतभेदाभ्युपगमे (परमात्मस्वरूपाणां भेदाभ्युपगमे) ‘एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति' इति परमात्मरूपाणां भेदज्ञानिनः (स्वगतभेदज्ञानिनः) नरकाद्यनर्थरूपभयश्रवणात् ।
परमात्मरूपाणां श्रुतिषु परस्परभेदाश्रवणेऽपि भेदः कथ्यते इति भ्रान्त्या श्रुत्यादिना श्रूयमाणो भेदः उपासनार्थ:' इति गतिकथनं चायुक्तम् । “अचेतनासत्यायोग्यान्यनुपास्यान्य फलत्वविपर्ययाभ्यां” इत्यसदुपासनायाः निषिद्धत्वात् न ह्यत्र सूत्रे जीवेशाभेदः कथ्यते किन्तु परमात्मरूपाणामभेदः इति 'न भेदादिति चेन्न' इति सूत्रं द्वैतिनामनुकूलमेव ॥
ॐ अपि चैवमेके ॐ (३.२.१३)
इति सूत्रस्य “अपि चैवं भेददर्शननिन्दापूर्वकमभेददर्शनमेवैके शाखिनस्समामनन्ति । ‘मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।।' (कठ. ४.११) इति तथान्येऽपि “भोक्ताभोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ” (श्वे.१.१२) इति यद्व्याख्यानं, तत्र भेददर्शननिन्दापूर्वकम् अभेददर्शनमेवैके शाखिनः समामनन्ति । ‘मनसैवेदमाप्तव्यं" इत्यादि यदुक्तम्, तत्र भेददर्शननिन्दापूर्वकमित्यनेन अद्वैतिनाम् किं विवक्षितं परमात्मरूपाणां परस्परभेदनिन्दापूर्वकमिति (स्वगतभेदनिन्दा पूर्वकमिति) विवक्षायां द्वैतिनामिष्टमेव । परमात्मरूपाणां परस्परभेदानङ्गीकारात् । जीव- ब्रह्मणोर्भेदनिन्दापूर्वकमिति विवक्षायां तत्साधनार्थं 'मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।।' इति 'भोक्ता भोग्यं प्रेरितारं च मत्वा' इति च श्रुत्युदाहरणम- युक्तम् । एतस्यां श्रुत्यां जीवब्रह्मणोर्भेदस्य अनिन्दनात् । तथा हि ‘मनसैवेदमाप्तव्य’मिति श्रुत्युदाहरणं तावदयुक्तम् । “यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।' इति पूर्ववाक्येन ‘यत्=वस्तु, इह = अस्मिन् लोके, अस्ति, तत् एव वस्तु, अमुत्र=परलोके, यत् अमुत्र=परलोके, तत्=भेदं, इव=भेदाभेदं च, पश्यति, सः=पुरुषः, मृत्योः=यमात्, मृत्युं=मरणं, प्राप्नोति, इति एतल्लोकपरलोकस्थितपरमात्मरूपयोः अभेदमुक्त्वा भेदद्रष्टृणां निन्दायाः कृतत्वात् मनसैवेदमिति प्रकृतवाक्यपि 'इदं=परमात्मरूपं मनसैव आप्तव्यम्=ज्ञातव्यम् । इह=परमात्मरूपे, किश्चन=स्वगुणप्रतियोगिको वा स्वक्रियाप्रतियोगिको वा स्वावयवप्रतियोगिको वा, नाना=भेदः, नास्ति । यः भेदं जानाति स यमात् मरणं प्राप्नोति' इति परमात्मनः स्वगतगुणादिना भेदनिषेधात् । जीवादिना भेदानिषेधात् । अस्मिन् वाक्ये पूर्वोत्तरवाक्ययोश्च जीवब्रह्मणोर्भेदस्य कथितत्वाच्च । तथा हि- 'मनसैवेदमाप्तव्यं" इति वाक्येन ज्ञातृज्ञेयभावेन जीवब्रह्मणोर्भेदः कथितः । ' ईशानो भूतभव्यस्य' इति पूर्वतनीयपश्चममन्त्रे भूतस्य भव्यस्य उपलक्षणया वर्तमानस्य (सर्वस्य) ईशानः = स्वामी इति चेतनाचेतनात्मकजगतः परमात्मना ईशितृत्वे- शितव्यत्वाभ्यां भेद उक्तः । ' यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति । तं देवास्सर्वेऽर्पिताः तदु नात्येति कश्चन एतद्वैतत्।।"इति पूर्वत नवमे मन्त्रे सूर्योदयास्तमयकारणत्वसर्वदेवाश्रयत्वादिभिः सूर्यादिदेवानां ।
परमात्मना भेदः कथितः । एवमुत्तरवाक्ये 'अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य' इति द्वादशे मन्त्रे जीवान्तः- स्थितत्वोक्त्या भूतभव्यचेतनाचेतनात्मकजगत्स्वामित्वोक्त्या च भेदः कथ्यते । एवं पूर्वोत्तरवाक्यैः स्वेन च जीवेश्वरयोर्भेदस्य प्रतिपादनात् ‘मनसैवेदमाप्तव्य’मिति वाक्यं भेदनिन्दां करोतीत्युक्तिः पूर्वोत्तरवाक्यार्था- ज्ञानमूला मनसैवेदमाप्तव्यमिति श्रुत्यर्थाज्ञानमूलैवेति ।
एवं अभेदविषये ‘भोक्ता भोग्यं प्रेरितारं च मत्वा' इति श्रुत्युदाहरणमप्ययुक्तम् । तस्यामपि जीवपरमात्मनोर्भेदस्यैव बोधनात् । अभेदस्याबोधनाच्च । तथा हि पूर्ववाक्यसहिता श्रुतिः 'एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ।।' इति तस्यार्थस्तु- भोक्ता=भोक्तारं जीवं, भोग्यं = प्रपञ्चं, प्रेरितारं = उभयप्रेरकं परमात्मानं, एतत् सर्वं प्रोक्तं=त्रिविधं मत्वा=विचार्य, एतत् = पूर्वमुक्तं नित्यं सदा आत्मसंस्थं=आत्मनि= जीवे, संस्थं=विद्यमानं, ब्रह्म = परमात्मा एव ज्ञेयमिति । (ब्रह्ममेतु मां इति प्रयोगदर्शनात् ब्रह्मशब्दोऽकारान्तनपुंसकलिङ्गः) तथा च अनया श्रुत्या ब्रह्मणः जीवेन ज्ञेयत्वोक्त्या ज्ञातृज्ञेयभावेन जीवब्रह्मणोर्भेदः, तथा आत्मसंस्थमिति जीवस्थितत्वोक्त्या 'य आत्मनि तिष्ठन् ' (बृ.) इति श्रुतिवत् जीवपरमात्मनोर्भेदः प्रतिपाद्यते । नत्वैक्यम् । अभेदवोधकपदाभावात् । इति जीवपरमात्मनोर्भेदनिन्दापूर्वकाभेददर्शनं केऽपि शाखिनो न समामनन्ति इति ।
कथं पुनराकारवदुपदेशिनीष्वनाकारोपदेशिनीषु च ब्रह्मविषयासु श्रुतिषु सतीष्वनाकारमेव ब्रह्मावधार्यते न पुनर्विपरीतमिति' इत्यवतार्य –
ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ (३.२.१४)
रूपाद्याकाररहितमेव ब्रह्मावधारयितव्यं, न रूपादिमत् । कस्मात् ? तत्प्रधानत्वात् ‘अस्थूलमनण्वहस्वमदीर्घम् (बृ. ३.८.८) (अशव्दमस्पर्शम- रूपमव्ययम्' (कठ.३.१५. मुक्ति. २.७२) ' आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म' (छां.८.१४.१) 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः' (मुं.२.१.२) 'तदेतद्ब्रह्मापूर्वमन- परमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः' (बृ.२.५.१९) इत्येवमादीनि वाक्यानि निष्प्रपञ्चब्रह्मात्मतत्वप्रधानानि नार्थान्तरप्रधानानीत्येतत्प्रतिष्ठापितं ‘तत्तु समन्वयात्’ (ब्र.सू.१.१.४) इत्यत्र । तस्मादेवंजातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्मावधारयितव्यम् । इतराणित्वाकारवद् ब्रह्मविषयाणि वाक्यानि न तत्प्रधानानि उपासनाविधिप्रधानानि हि तानि तेष्वसति विरोधे यथा श्रुतमाश्रयितव्यम् । सति तु विरोधे तत्प्रधानान्यतत्प्रधानेभ्यो बलीयांसि भवन्तीति । एष विनिगमनायां हेतुः । येनोभयीष्वपि श्रुतिषु सतीष्वनाकारमेव ब्रह्मावधार्यते' न पुनर्विपरीतमिति' इतीदं सूत्रं यद् व्याचक्रुः । तत्र रूपाद्याकाररहितमित्यनेन यत्किञ्चिद्धर्मराहित्यविवक्षायां निर्विशेषत्वासिद्धेः । सकलधर्मराहित्यस्यैव विवक्षणीयताया तस्मिन्विषये उदाहृतश्रुतीनां प्रमाणत्वासम्भवात् । तथा हि - 'अस्थूलमनणु' इत्यादिश्रुतेः स्थूलत्वादियत्किश्चिद्धर्मनिषेधकत्वेऽपि 'यस्सर्वज्ञ' इत्यादिश्रुत्युक्तानां सर्वज्ञत्वादीनामनिषेधात् । प्रत्युत अस्थूलमित्युत्तरेषु एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ तिष्ठत' इत्यादिवाक्येषु सूर्यादिप्रशासकत्वनिर्मातृत्वद्रष्टृत्वाद्यनेकधर्माणामुक्तेः ।
‘अशब्दमस्पर्श’मिति कठवाक्यं शब्दादीनां केषाञ्चिद् गुणानां निषेधकमिव भासमानमपि तस्मिन्नेव वाक्ये पूर्वोत्तरवाक्ययोश्च महत्परत्वध्रुवत्वनित्यत्वात्यन्ताणुत्वात्यन्तमहत्त्वभूतभव्येशितृत्वसूर्योदयास्त मयादिकारणत्वसर्वदेवाधारत्वाद्यन्तगुणानां कथनात् न निर्विशेषबोधकम् ।
एवं ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तदुद्ब्रह्म' (छां.८.१४.१) इति वाक्यं न कस्यापि धर्मस्य निषेधकं प्रत्युत नामरूपनिर्वहणकर्तृत्वामृतत्वब्रह्मत्वादिधर्माणां बोधकमिति न ब्रह्मणः निर्विशेषत्वे प्रमाणं भवितुमर्हति ।
'दिव्योऽह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यज:' (मुण्ड. २.१.२) इति वाक्यमपि दिव्यत्वादिधर्मान् वक्तीति न निर्विशेषत्वे प्रमाणम् ।
‘तदेतद् ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः ' ( वृ. २.५.१९) इति वाक्यमपि सर्वज्ञत्वादिधर्मान् वक्ति । शङ्कराचार्यैरेव ‘यः प्रत्यगात्मा द्रष्टा श्रोता मन्ता बोद्धा विज्ञाता सर्वानुभूः सर्वात्मना सर्वमनुभवतीति सर्वानुभूः इति व्याख्यानात् इति नेदमपि वाक्यं ब्रह्मणो निर्विशेषत्वे प्रमाणं भवितुमर्हति ।
एवं नैतानि वाक्यानि ब्रह्मणो निर्विशेषत्वबोधकानि, प्रत्युत सविशेषत्वसाधकान्येवेति । एतेषां 'निष्प्रपञ्चब्रह्मात्मतत्वप्रधान कत्वमसिद्धमेवेति ।
यत्तूक्तं ‘निर्विशेषब्रह्मात्मतत्वप्रधानत्वं प्रतिष्ठापितं “तत्तु समन्वयात् इत्यत्र' इति, तदत्यन्तमयुक्तम् । तस्मिन्नधिकरणे निर्विशेषब्रह्मात्मतत्वप्रधानत्वस्य अप्रतिष्ठानात्, प्रत्युत 'तत् = ब्रह्म सर्वज्ञं सर्वशक्ति-जगदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादेवावगम्यते । कथम् ? समन्वयात् । सर्वेषु हि वेदान्तेषु वाक्यानि तात्पर्येण एतस्यार्थस्य (सर्वज्ञत्वसर्वशक्तित्व-जगदुत्पत्तिस्थितिलयकारणत्वविशिष्टस्य ब्रह्मणः ) प्रतिपादकत्वेन समनुगतानि । ‘सदेव सोम्येदमग्र आसीत्... अयमात्मा ब्रह्म सर्वानुभूः' इत्यादीनि । न च तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वये अवगम्यमाने अर्थान्तरकल्पना (कार्यपरत्वकल्पना ) युक्तेति' शाङ्करभाष्येण वेदान्तानां कार्यपरतां निराकृत्य सर्वज्ञत्वसर्वशक्तित्वजगदुत्पत्तिस्थिति- लयकारणत्वविशिष्टब्रह्मपरत्वस्य व्यवस्थापनात् । तथा च ‘तस्मादेवं- जातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्मावधारयितव्य' मित्युक्तिरत्यन्तमसङ्गता । इतराणि त्वाकारवद्ब्रह्मविषयकाणि वाक्यानि न तत्प्रधानानि उपासनाविधिप्रधानानि हि तानि । तेष्वसति विरोधे यथा श्रुतमाश्रयितव्यमिति यदुक्तं तत्समीचीनमेव । ‘मम माता वन्ध्या’ इति वाक्ये इव धर्मरहितवस्तुविषयकवोधजनकत्वस्य वाक्ये व्याहतत्वेन निराकार (निर्विशेष) ब्रह्मबोधस्यासम्भवेन सर्वज्ञत्वादिगुणविशिष्ट- ब्रह्मविषयकबोधस्य बाधकाभावेन यथाश्रुतस्य सर्वज्ञत्वादिगुणविशिष्ट- ब्रह्मबोधकत्वस्य स्वीकार्यत्वात् ।
'उभयीष्वपि श्रुतिषु सतीषु आनकारमेव ब्रह्म अवधार्यते न पुनर्विपरीतमिति यदुक्तं तत् हेयम् । अनाकारब्रह्मबोधकश्रुतेरेवाभावात् इति ।
का तर्ह्याकारवद्ब्रह्मविषयाणां श्रुतीनां गतिरित्याशङ्कानिवर्तकतया अवतारितस्य-
ॐ प्रकाशवच्चावैयर्थ्यात् ॐ (३.२.१५)
इति सूत्रस्य यथा प्रकाश : सौरश्चान्द्रमसो वा वियद्व्याप्यावतिष्ठ - मानोऽङ्गुल्याद्युपाधिसम्वन्धात्तेष्वृजुवक्रादिभावं प्रतिपद्यमानेषु तद्भावमिव प्रतिपद्यते, एवं ब्रह्मापि पृथिव्याद्युपाधिसम्बन्धात्तदाकारतामिव प्रतिपद्यते,तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते । एवमवैय्यर्थ्यमाकारवद् ब्रह्मविषयाणामपि वाक्यानां भविष्यति । न हि वेदवाक्यानां कस्यचिदर्थवत्त्वं कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम्; प्रमाणत्वाविशेषात् । नन्वेवमपि यत्पुरस्तात्प्रतिज्ञातं नोपाधियोगादप्यु- भयलिङ्गत्वं ब्रह्मणोऽस्तीति, तद्विरुध्यते । नेति ब्रूमः । उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः, उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् । सत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्र अवोचाम " इति श्रुतिप्रतिपाद्यानां ब्रह्मणः आकाराणाम् असत्त्वपरतया यद् व्याख्यानं तत् वेदाप्रामाण्यवादित्व मेवावगमयति । न हि वेदस्याप्रामाण्यं नाम प्रतिपाद्यार्थस्य असत्त्वातिरिक्तं किञ्चिदस्ति ।
न च न वयं वेदप्रतिपाद्यानां सर्वज्ञत्वाद्याकाराणाम् असत्त्वं ब्रूमः । किं तु मिथ्यात्वमिति न वेदाप्रामाण्यानीकर्तारो वयमिति वाच्यम् । गौडपादकारिकायाइशङ्करभाष्ये-
१. ‘यदेतत् द्वैतस्यासत्त्वमुक्तं युक्तितः तदेतत् वेदान्त- प्रमाणावगतमित्याहेति । '
२.‘यथा च स्वप्नमाये दृष्टे असद्रूपे तथा विश्वमिदं द्वैतं समस्तम् असदृष्टम्' (गौ.का.शां.२.३१ )
श्रुतिभ्यः द्वैतस्यासत्वं सिद्धम् । सतो ह्युत्पत्तिः प्रलयो वा स्यान्नासतः शशविषाणादेः (गौ.का.शां)
तस्मात् सूक्तं द्वैतस्यासत्त्वात् निरोधाद्यभावपरमार्थतेति ( गौ.शां.)
३.बाह्यं पृथिव्यादितत्त्वम् आध्यात्मिकं च देहादिलक्षणं रज्जुसर्पादिवत् स्वप्नमायादिवच्च असत् (गौ. शां. भा. )
४. बाधितस्य कालत्रयेऽपि सत्त्वाभावात् (गौ.१.४७.शां.आनन्द- गिरीयम्)
५. नास्तित्वापरपर्यायत्वात् मिथ्यात्वस्य (ब्रह्मविद्याभरण) (ब्र.सू.शां) इत्यादिभिरनेकैर्वाक्यैरद्वैतिभिरेव मिथ्यात्वस्यासत्वरूपत्त्वोक्तेः । वेदोक्तस्यार्थस्य मिथ्यात्वोक्तौ पर्यायेण असत्त्वस्यैवोक्त्या वेदस्य असदर्थप्रतिपादकत्वप्राप्त्या वेदाप्रामाण्यस्य दुर्वारत्वात् ।
किं च ब्रह्मणि पृथिव्याद्युपाधिसम्बन्धात् तदाकारतामिव प्रतिपद्यते, इति यदुक्तं तदप्ययुक्तम् । पृथिव्याद्युपाधेः अद्वैतमले असत्त्वेन ‘असङ्गोह्ययं पुरुष:' इति श्रुत्या ब्रह्मणोऽपि असङ्गत्वेन अद्वैत्यङ्गीकृतस्य ब्रह्मणः पृथिव्याद्युपाधिसम्बन्धायोगात् ।
अपि च 'एवमवैय्यर्थ्यम् आकारवद् ब्रह्मविषयाणामपि वाक्यानां भविष्यति । न हि वेदवाक्यानां कस्यचिदर्थवत्त्वं कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम् । प्रमाणत्वाविशेषात्' इति यदुक्तं तत् अज्ञानां ‘अद्वैतिनो वेदप्रामाण्यवादिनः आस्तिकाः, न हि बौद्धा इव वेदाप्रामाण्यवादिनो नास्तिकाः' इति भ्रमं जनयितुं वञ्चनाव्यापार एव । न हि वेदप्रतिपाद्यसर्वज्ञत्वादिधर्माणाम् असत्त्वापरपर्यायमिथ्यात्वोक्तौ वेदस्य प्रामाण्यं स्वीकृतं भवति । अस्ति परलोकः अस्ति च स्वर्गादि- फलदातृत्वाद्याकार (धर्म) युक्तः ईश्वर इति वदतां आस्तिकत्ववत् ‘न वर्णा न वर्णाश्रमाचरधर्माः ' 'न पुण्यं न पापं न वेदा न लोका: 'न देवाः' इत्यादि कथयतामद्वैतिनाम् आस्तिकत्वं न सम्भवति । किं तु नास्ति परलोकः नास्ति फलदाता ( फलदातृत्वाद्याकारविशिष्टं ब्रह्म ) इत्यादि वदतामिव नास्तिकत्वमेव सिध्यतीति ।
किं च ‘सत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्रावोचाम' इति यदुक्तं, तदयुक्तम् सर्वस्यासत्त्वाङ्गीकारात्, तदन्तर्गतायाः अविद्यायाः सत्तैव नास्तीति 'सत्यामविद्याया' मित्युक्तेरयोगात् । अद्वैतमते लोकवेदव्यवहारो न संजाघटीति इति तत्र तत्र निराकृतम् ।
ॐ आह च तन्मात्रम् ॐ (३.२.१६)
इति सूत्रस्य “आह च श्रुतिश्चैतन्यमात्रं विलक्षणरूपान्तररहितं निर्विशेषं ब्रह्म । ‘स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽवाह्यः कृत्स्नः प्रज्ञानघन एव' (बृ. ४. ६. १३) इति । एतदुक्तं भवति - नास्यात्मनोंऽतर्वहिर्वा चैतन्यादन्यद्रूपमस्ति, चैतन्यमेव तु निरन्तरमस्य स्वरूपम् । यथा सैन्धवघनस्यान्तर्बहिश्च लवणरस एव निरन्तरो भवति न रसान्तरं तथैवेति ।। इति यद् व्याख्यानं शाङ्करीयं तदयुक्तम् । शब्दस्य यत्किञ्चिद्धर्मवत्येव प्रवृत्तेः सकलधर्मरहितं (निर्विशेषं) ब्रह्म’ ‘स यथा सैन्धवघन, इति श्रुतिः (शब्दः) आहेत्युक्तेरयोगात् । शब्दः निर्विशेषं ब्रह्म बोधयितुं प्रवर्तते इत्यस्यासम्भवः पूर्वमेव बहुवारं प्रदर्शित इति पुनर्न कथ्यते । तत एवावगन्तव्यम् ।
ॐ दर्शयति चाथो अपि स्मर्यते ॐ (३.२.१७)
इति सूत्रस्य ‘“दर्शयति च श्रुतिः पररूपप्रतिषेधेनैव ब्रह्म, निर्विशेषत्वात् - 'अथात आदेशो नेति नेति' (बृ. २.३. ५ ) इति । ‘अन्यदेव तद्विदितादथो अविदितादधि' (के.१.३) 'यतो वाचो निवर्तन्ते अप्राप्तय मनसा सह’ (तै. २.४.१) इत्येवमाद्याः । बाष्कलिना च बाध्वः पृष्टः सन्नवचनेनैव ब्रह्म प्रोवाचेति श्रूयते - 'सहो वाचाधीहि भो इति स तूष्णीं बभूव, तं ह द्वितीये वा तृतीये वा वचन उवाच ब्रूमः खलु त्वन्तु न विजानासि उपशान्तोऽयमात्मा' इति । तथा स्मृतिष्वपि परप्रतिषेधेनैवोपदिश्यते- 'ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ' ( गी.१३.१२) इत्येवमाद्यासु । तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते-'माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं नैवं मां ज्ञातुमर्हसि' इति ।” इति यद् व्याख्यानं, तत्सर्वमयुक्तम् । तथा हि-
तत्र ‘दर्शयति च श्रुतिः पररूपप्रतिषेधेनैव ब्रह्मनिर्विशेषत्वात्' इति तत्तावदयुक्तम्- निर्विशेषस्य शब्दवोध्यत्वासम्भवात् । निर्विशेषस्य शब्दवोध्यत्वासम्भवः, पूर्वं बहुवारमुक्तस्तत्रैवानुसन्धेयः ।
पररूपप्रतिषेधेन ब्रह्म दर्शयतीत्यस्य कोऽर्थः ? पररूपस्य=ब्रह्मातिरिक्तस्य वस्तुनः प्रतिषेधेन = अभावकथनपूर्वकं ब्रह्म दर्शयतीति वा, पररूपात् प्रपश्चात् निषेधेन भिन्नतया ब्रह्म दर्शयतीति वा १ नाद्यः उत्तरत्र शङ्करोदाहृतासु श्रुतिषु ब्रह्मातिरिक्तवस्तुनः अभाव ( नास्तीति ) बोधकपदाभावात् । द्वितीयपक्षस्तु युक्त एव । 'अथात आदेशो नेति नेति' इति, ‘अन्यदेव तद्विदितादथो अविदितादधि' इत्यादिश्रुतौ ब्रह्मणः मूर्तभेदस्यामूर्तभेदस्य कार्यकारणाभ्यां भेदस्य च कथ्यमानत्वात् । ब्रह्मणश्च मूर्तभिन्नत्वात् अमूर्तभिन्नत्वात् कार्यकारणात्मकजगद्भिन्नत्वाच्च । परं तु पररूपप्रतिषेधेनैव ब्रह्म प्रतिपादयति इत्यस्मिन् विषये निर्विशेषत्वादिति हेतूकरणमयुक्तं ब्रह्मणः सर्वप्रपञ्चरूपत्वं तत्र तत्र वदतश्शङ्कराचार्यस्य मूर्तीमूर्तात्मकप्रपञ्चभेदकथनं स्वव्याहतं च । मूर्तामूर्तादिसकलप्रपञ्चभेदस्य भेदकधर्ममन्तरा अयोगेन प्रपञ्चभिन्नतया ब्रह्मणः प्रतिपादने व्यावर्तकधर्मवत्त्वस्यैव (सविशेषवत्त्वस्यैव) हेतुत्वेन निर्विशेषत्वहेतोः विरुद्धत्वाच्च ।
'अथात आदेशो नेति नेति' इति श्रुतिस्तु अथ मूर्तामूर्त - जगन्निरूपणानन्तरं, अतः=ब्रह्मज्ञानसाधनत्वात्, आदेशः = शास्त्राचार्योपदेश- गम्यं ब्रह्म, इति=पूर्वप्रसक्तं मूर्तं न मूर्तभिन्नं, इति=पूर्वप्रसक्तम् अमूर्तं न अमूर्तभिन्नमिति मूर्तीमूर्तात्मकजगद्भिन्नं ब्रह्मेति प्रपञ्चवैलक्षण्यं कथयति । विशेषविचारः ‘प्रकृतैतावत्त्वं हि प्रतिषेधति' (ब्र.सू. ३.२.२२) इत्युत्तर- सूत्रशाङ्करभाष्यविचारे करिष्यते ।
'अन्यदेव तद्विदितादथो अविदितादधि' (के.१.३) इति वाक्यमपि तत्=ब्रह्म, विदितात्=व्यक्तात् (कार्यात्) अन्यत् =भिन्नं, अविदितात्= अव्यक्तात् (कारणात्) अधि = भिन्नमिति भिन्नत्वमेव ब्रह्मणः प्रतिपादयति- इति ।
‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचनेति' इति श्रुतिः वाचः, यतः =ब्रह्मणस्सकाशात्, मनसा सह अप्राप्य=साकल्येन ब्रह्म (परमात्मानं) अविषयीकृत्य, निवर्तन्ते, ब्रह्मणः आनन्दं विद्वान्, कदाचन=कदापि न विभेति=भयं न प्राप्नोति, इति ब्रह्मणः आनन्दवत्त्वरूपविशेषमेव गमयति न तु ब्रह्मातिरिक्तपदार्थाभावं न वा ब्रह्मणो निर्विशेषत्वम् ।
न च 'यतो वाचो निवर्तन्ते' इति श्रुत्या ब्रह्मणः शब्दवाच्यत्व- रूपधर्मनिषेधः कृत इति वाच्यम् । यत इति पदेन ब्रह्मण इति पदेन च ब्रह्मणः अवोधने इदं वाक्यं ब्रह्मणशब्दवाच्यत्वनिषेधकमिति कथनायोगात् ।यच्छब्दादिना ब्रह्मणः अबोधने घटपटादि यत्किञ्चिद्वस्तुनोऽवाच्यत्व सिध्द्यापत्तेः ।
न च लक्षणया यत्ब्रह्मशब्दाभ्यां ब्रह्म बोधयित्वा तस्य ब्रह्मणः अवाच्यत्वं श्रुतिर्वक्तीति वाच्यम् । शक्यसम्बन्धवन्तमेवार्थं लक्षणया शब्दो बोधयति इति असङ्गे पुरुषे शक्यसम्बन्धस्याभावात् लक्षणयाऽपि ब्रह्मबोधानुपपत्तेः, पूर्वं ज्ञातस्यैव लक्ष्यत्वेन ब्रह्मण: प्रत्यक्षानुमानावेद्यत्वेन शब्दैनैव पूर्वं ज्ञातव्यत्वात् तदर्थं पुनः पूर्वं ज्ञानस्य आवश्यकत्वात् अनवस्थया लक्षणया ब्रह्मबोधानुपपत्तेश्चेति ।
यत्तूक्तम्- “बाष्कलिना च बाध्यः पृष्टः सन्नवचनेनैव ब्रह्म प्रोवाचेति श्रूयते - ' स होवाच अधीहि भो इति स तूष्णीं बभूव । तं ह द्वितीये वा तृतीये वा वचन उवाच । ब्रूमः खलु त्वं तु न विजानासि उपशान्तोऽयमात्मा” इति तत्र 'अवचनेनैव ब्रह्म प्रोवाचे'ति यदुक्तं तस्य कोऽर्थः ? अवचनेनैव = शब्दमन्तरा, ब्रह्म प्रोवाच ब्रह्मविषयकवोध- जनकशब्दमकरोदिति, अवचनेनैव = वचनवृत्तिमन्तरा लक्षणयैव ब्रह्मविषयक - बोधजनकशब्दमकरोदिति वा ? नाद्यः शब्दमन्तरा ब्रह्मविषयकबोध- जनकशब्दमकरोदित्यस्य व्याहतत्वात् । न द्वितीयः-अज्ञाते असङ्गे ब्रह्मणि लक्षणावृत्तेरप्रसारात् । पुनः पुनरधीहि भो इति निर्वन्धकारिणं तं द्वितीये तृतीये वचने=(तूष्णीं भावं त्यक्त्वा) उवाच । ब्रूमः खलु त्वं तु न विजानासि उपशान्तोऽयमात्मा - इतिवाक्येन तूष्णीं भाव एव उत्तरं इत्यर्थस्य भासमानत्वेन ब्रह्म प्रोवाचेति श्रूयते इत्युक्त्वा तस्मिन् विषये एतादृशश्रुत्युदाहरणायोगाच्च ।
" तथा स्मृतिष्वपि परप्रतिषेधेनैवोपदिश्यते । ' ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते' ।। (गी.१३.१२) इत्येवमाद्यासु " इति कथनमप्ययुक्तम्—
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नादुच्यते ॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चेषु निर्गुणं गुणभोक्तृ च ॥
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्त्तृ च तज्ज्ञेयं च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥
इत्यादि (गी. १३.१२, १३, १४, १५, १६, १७) इलोकैः (स्मृतिभिः) ज्ञेयत्वमोक्षजनकज्ञानविषयत्वब्रह्मत्वसर्वव्याप्तपाणिपादत्व-सर्वव्याप्तशिरोऽक्षिमुखत्वसर्वव्याप्यवृत्तित्वसर्वेन्द्रियगुणप्रकाशकत्व सर्वधारकत्वगुणभोक्तृत्वभूतान्तर्वहिःस्थितत्वभूतरक्षकत्वसर्वसंहारकत्व सर्वोत्पादकत्वज्ञानगम्यत्वसर्वहृदिस्थत्वादीनामनेकेषां धर्माणां ब्रह्मणः कथनात् ।
न च एतच्छलोकेष्वेव अनादिमत् न सत् नासत् सर्वेन्द्रियविवर्जितमित्यादिपदैः पररूपप्रतिषेधेनैव ब्रह्म उपदिष्टमिति वाच्यम् । पूर्वोक्तानां बहूनां गुणानामुक्तत्वेन पररूपप्रतिषेधेनैवेति एवकारेण ज्ञेयत्वादिगुणनिषेधकरणायोगात् । एवकारपरित्यागेन पररूपप्रतिषेधेनेति उक्तौ तस्य सदसदादि (मूर्तीमूर्तादि) भिन्नत्वेनेत्यर्थकत्वेन इष्टापत्तेः । पररूपाणां सदसदादीनां प्रतिषेधेन (असत्त्वेन ) इति स्वीकारे न सत् नासत् इत्यनेन पररूपस्यासत्त्वावोधनात् प्रथमान्तप्रतियोग्यनुयोगिवाचकपदसमवधाने नञां अन्योन्याभावबोधनात् । यथा घटः । पटो न इत्युक्ते घटपटभेद एव प्रतीयते न तु पटस्यात्यन्ताभावः । सप्तम्यन्तानुयोगिवाचक- पदसमवधाने नञां अत्यन्ताभावबोधनात् । यथा भूतले न घटः इत्युक्तौ भूतले घटाभावः । प्रकृते ब्रह्म न सत् नासत् इत्यत्र उभयोः प्रतियोग्यनुयोगिबाचकयोः पदयोः प्रथमान्तत्वेन नञः अत्यन्ताभावबोधकत्वासिद्धेः इति ।
किं च “तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं नैवं मां ज्ञातुमर्हसि ।। इति-" वाक्येन गुणयुक्त (सविशेष) ब्रह्मणः मायाकल्पितत्वं (मिथ्यात्वं) सिध्यतीति यदुक्तं तदपि 'माया ह्येषा मया सृष्टा' इत्येतन्महा- भारतपूर्वोत्तरवाक्यवाक्यार्थाज्ञानस्वमताग्रहान्यतममूलकम् ।
तथा हि-नमस्ते देवदेवेश... ब्राह्मणप्रिय विश्वमूर्ते महामूर्ते बान्धव, भक्तवत्सल, ब्रह्मण्यदेव, भक्तोऽहं त्वां दिदृक्षुः एकान्तदर्शनाय नमो नमः' इति (महाभा.शान्तिप.अध्या. ३४६) महाभारते देवदेवेशत्वब्राह्मणप्रियत्व- विश्वमूर्तित्वाद्यनेकधर्मविशिष्टब्रह्मबोधकै शब्दैर्नारदेन प्रार्थनायां कृतायां प्रवृत्तानां ‘एष स्तुतः स भगवान् गुह्यैस्तथ्यैश्च नामभिः | भगवान् विश्वदृसिंहः सर्वमूर्तिमयः प्रभुः ।। दर्शयामास मुनये रूपं तत्परमं हरिः । सहस्र........... आदिव्ययः ।।' (महाभा.शां.अ.३४७) इत्यादि श्लोकानां नारदेन गुह्यैः (गोपनीयैः) तथ्यैर्विद्यमानगुणप्रतिपादकैः स्तुतः नारायणः मुनये नारदाय उत्तमरूपं प्रदर्शितवान् । प्रसन्नात्मा नारदः प्रसन्नं परमैश्वर्योपेतं नारायणं ववन्दे । मूर्ध्ना नतं नारदं प्रति देवानामादिकारणभूतः अव्ययः नाशरहितः नारायणः इत्याद्यर्थकत्वेन तथ्यैर्विद्यमानार्थ- प्रतिपादकैर्नामभि रित्युक्त्या तत्तत्पदप्रतिपाद्यानां देवदेवेशत्वब्राह्मण- प्रियत्वविश्वमूर्तित्व भक्तवत्सलत्वादीनां सत्यत्वसिध्द्या सविशेषत्वमेव ब्रह्मणस्सिध्यति । तथा विश्वरूपस्य अव्ययत्वदेवकारणत्वाद्युक्त्या तादृशरूपस्य सत्यत्वं सिध्यति । न हि कल्पितं (मिथ्या) रूपं नाशरहितं (अव्ययं) भवति । न वा देवकारणं भवति । तस्माद्भारतवाक्यैः सगुण (देवदेवेशत्वादिधर्मयुक्त) रूपस्य तद्गतगुणानां च सत्यत्वं सिध्यति ।
ननु ‘माया ह्येषा मया सृष्टा' (महाभा. शां. अध्या. ३४७) इति इलोकेन विश्वरूपस्य सगुणस्य मायिकत्वोक्तेः का गतिरिति चेत्, शृणु सावधानं-
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ।
इमं देशमनुप्राप्ता मम दर्शनलालसाः ।।
न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन ।
ऋते त्वेकान्तिकश्रेष्ठात्त्वं चैवैकान्तिकोत्तमः ॥
(महाभा.शां.अ.३४७-१२, १३) इत्यादिश्लोकैः भगवान् नारायणः नारदाय स्वस्य रूपं दर्शयित्वा एकतादयो ऋषयः मम दर्शनार्थमागताः मां ते न दृष्टवन्तः एकान्तभक्तातिरिक्तः कोऽपि मां न पश्यति । हे नारद! त्वमेकान्तभक्तोत्तमोऽसि । अतोऽहं त्वया दृष्टः' इति भगवता कथिते रूपवन्तः पदार्थाः अस्मत्प्रयत्नेनैव उपलभ्यन्ते । न तत्र भक्तिरावश्यकी यथा घटपटादयः । न हि रूपवद्घटादिपदार्थदर्शने घटे भक्तिर्वा भक्तिसाध्यघटप्रसादो वा यथा आवश्यकः तथा त्वमपि रूपवानसि । न हि त्वद्दर्शने त्वयि भक्तिर्वा भक्तिसाध्यप्रसादो वा (इच्छा वा) कारणम् इति हार्दं नारदशङ्कां निरस्यति भगवान् ।
एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते ।
इच्छन् मुहूर्तान्नश्येयमीशोऽहं जगतां गुरुः ॥ ४४ ॥
इति श्लोकेन । हे नारद! यथा घटपटादयः रूपवत्त्वात् तत्र भक्तिं तत्साध्येच्छां विना दृश्यन्ते एव परमात्मा रूपवान् तत्र भक्तिं तत्साध्येच्छां वा विना दृश्यते इति न ज्ञेयम् । इच्छन्=अहमस्य दर्शनविषयो न भवामि इति ममेच्छामां एकास्मन् मुहूर्ते नश्येयं=दर्शनविषयो न भवानि । अहं ईशः तादृशशक्तिमान् जगतां गुरुरिति । कथं तर्हि मया दृष्ट इत्याशङ्कायां ।
'माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।
सर्वभूतगुणैर्युक्तं नैवं मां ज्ञातुमर्हसि ।। ४६ ।।
इति श्लोकेन नारद! त्वं मां पश्यसि इति यत् एषा दृशि : (दर्शनं) मया माया=मायया इच्छया सृष्टा मदिच्छाधीना न तु मत्प्रसादनिर- पेक्षत्वप्रयत्नाधीना । तस्मात् सर्वभूतेषु विद्यमानदृश्यत्वादि गुर्णैर्युक्तं मम् एवं मदिच्छामन्तरा ( परमात्मप्रसादमन्तरा ) मनुष्यप्रयत्नेनैव घटपटादिवद्दृश्यते इति त्वं न जानीथाः इति गुणयुक्तविश्वरूपस्य दर्शनं परमात्माधीनमित्येवोच्यते, न तु गुणयुक्तपरमात्मरूपस्य मायिकत्वम् ।
एवमेव गीतोक्तविश्वरूपस्यापि "अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेक दिव्याभरणं दिव्याने कोद्यतायुधम् । दिव्यमाल्यांबरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ।।” (गी.११-१०, ११) इत्यादिश्लोकैः विश्वरूपस्य अभरणानाम् आयुधानां माल्याम्बराणां गन्धानां दिव्यत्वोक्त्या (अप्राकृतत्वोक्त्या=सत्त्वरजस्तमो- गुणात्मकाविद्याकार्यत्वाभावोक्त्या) पारमार्थिकत्वमेव सिध्यति । विश्वरूपस्यानन्तत्वोक्त्या (अपरिच्छिन्नत्वनाशाभावोक्त्या च ) सविशेष- रूपस्य सत्यत्वमेव सिध्यति' इति सविशेषरूपं मायिकमित्युक्तिरयुक्ता । एतद्विषये 'माया ह्येषा' इति श्लोकोदाहरणमप्युक्तम् ।
ॐ अत एव चोपमा सूर्यकादिवत् ॐ (३.२.१८)
इति सूत्रस्य "यत एव चायमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्योऽत एव चास्योपाधिनिमित्ताम् अपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमा उपादीयते मोक्षशास्त्रेषु- ‘यथा ह्ययं ज्योतिरात्मा विवस्वानपोभिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा' ।। इति 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकदा बहुधा चैव दृश्यते जलचन्द्रवत्' (ब्र.विं.१२ ) इत्येवमादिषु" इति यदूव्याख्यानं तत् परस्परविरुद्धार्थकपदघटितं (स्वव्याहतं ) अप्रामाणिकं प्रामाणाविरुद्धं च । तथा हि-
अयमात्मा चैतन्यरूपः निर्विशेषः वाङ्मनसातीतः परप्रतिषेधोपदेश्यः इति विशेषणानि परस्परविरुद्धार्थकानि ।
‘अयं’ इति पदं प्रमाणसिद्धत्वं बोधयति । ‘आत्मा' इति पदं ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते ।।' इति भारतवचनानुसारेण आप्तिमत्त्वादान कर्तृत्व विषयभोगकर्तृत्वव्याप्तिमत्वरूपगुणान् वदत् सत् ब्रह्मणोऽनेकविशेषवत्त्वं ब्रवीति । 'चैतन्यरूप' इति पदं चेतनपदस्य ज्ञानार्थकत्वेन तदुत्तरष्ययः धर्मार्थकत्वेन ज्ञानवत्त्वं (ज्ञानाधिकरणत्वं ) बोधयति । 'निर्विशेष' इति पदं सकलधर्माभावं वक्ति । ‘वाङ्मनसातीतः' इति पदं वाग्जन्यज्ञानाविषयत्वं मनोजन्यज्ञानातीतत्वं) च वक्ति । 'परप्रतिषेधोपदेश्यः' इति पदं परप्रतिषेधेन परविलक्षणत्वेन उपदेश्य इति व्युत्पत्त्या परविलक्षणत्वप्रकारक - शब्दजन्यज्ञानविषयत्वं वक्तीति परस्परविरुद्धार्थकानीमनि पदानिति कथमेकस्य विशेषणानि भवेयुः ? 'वन्ध्या पुत्रवती' इति पदयोरिव अयं आत्मा चैतन्यरूपः इति विशेषणानि सकलधर्माभावबोधकेन निर्विशेषपदेन वाग्जन्यज्ञानाविषयत्वमनोजन्यज्ञानाविषयत्वबोधकेन वाङ्मनसातीत इति पदेन पर (पदार्थ) विलक्षणत्वेनैव शब्दजन्यज्ञानविषयत्वबोधकेन परप्रतिषेधोपदेश्यपदेन च विरुद्धार्थकानि ।
किं च निर्विशेषत्वबोधकप्रमाणाभावात् प्रमाणेन निर्विशेषत्वबोधा- सम्भावाच्च सविशेषत्वबोधकप्रमाणसद्भावाच्च निर्विशेष इति विशेषण दानम् अप्रामाणिकं प्रामाणविरुद्धं च । तस्मात् (निर्विशेषस्याप्रामाणकित्वेन मिथ्यात्वात्=असत्त्वात्) विशेषवत्तायाः प्रामाणिकत्वेन सत्यत्वात्) ब्रह्मणः बाह्योपाधिनिमित्ताम् अत एव अपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवत् इत्युपमा उपादीयते मोक्षशास्त्रेषु इत्युक्तिरयुक्तैव । अद्वैतमते पृथिव्याद्युपाधेरसत्त्वेन तत्सम्बन्धस्यासत्त्ववेन असङ्गस्य ब्रह्मणः तत्सम्बन्धायोगेन भ्रमस्यासम्भवेन च विशेषवत्तायाः अपारमार्थिकत्व (कल्पितत्व) कथनायोगाच्च ।
‘यथा ह्ययं ज्योतिरात्मा' इति वाक्यस्य कस्मिन्नपि वेदादिग्रन्थे अनुपलम्भात् कल्पितत्वमेव ।। न च इदं वाक्यं युष्मदृष्टवेदादौ अनुपलब्धमपि युष्मददृष्टमोक्षशास्त्रे उपलभ्यते इति वाच्यम् तस्य उपलम्भासंमतेः । तुष्यत्विति न्यायेन सत्त्वाङ्गीकारेऽपि तद्वाक्येन त्वदभिलषितार्थासिद्धेः । तथा हि-
‘यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा ।।' इत्यस्य आपाततश्शब्दात्प्रतीयमानार्थस्तु - "यथा अयं ज्योतिरात्मा=ज्योतिः-स्वरूपः, विवस्वान्=सूर्यः, एकोऽपि भिन्ना अपः अनुगच्छन् प्राप्तः सन् बहुधा क्रियते एवं अजः अयमात्मा देवः उपाधिना=मायया, क्षेत्रेषु अनुगच्छन् भेदरूपः क्रियते” इति ।
अत्रापाततः (आप्रतियमानेऽर्थे) बहवो दोषाः प्रतीयन्ते । गगनस्थ- सूर्यस्य भूमिस्थजलं प्रति आगमनं, गगनं परित्यज्य वा अपरित्यज्य वा? नान्त्यः गमनस्य पूर्वदेशविभागावच्छिन्नोत्तरदेशसंयोगानुकूलव्यापार- रूपत्वेन पूर्वदेशपरित्यागं (विभागं ) विना उत्तर देशसंयोगरूपगमनासम्भवात् । गगनरूपं पूर्वदेशं परित्यज्य गमनमित्याद्यपक्षोऽपि न युक्तः । पूर्वदेशे गगने प्रतिबिम्बकालेऽपि सूर्यस्य दृष्टेः । बहुधा क्रियते इत्युक्तिरप्यसङ्गता । अद्वैतमते विम्बप्रतिबिम्बयोरैक्याङ्गीकारेण बहुभावस्य ( बहुत्वस्य ) अनङ्गीकारात् ।
अत्र प्रत्यवस्थीयते-
ॐ अम्बुवदग्रहणात्तु न तथात्वम् ॐ (३.२.१९)
इति सूत्रस्य ‘“न जलसूर्यकादितुल्यत्वमिहोपपद्यते, तद्वदग्रहणात् । सूर्यादिभ्यो हि मूर्तेभ्यः पृथग्भूतं विप्रकृष्टदेशं मूर्तं जलं गृह्यते, तत्र युक्तः सूर्यादिप्रतिविम्बोदयः, न त्वात्मा । मूर्तो न चास्मात्पृथग्भूताः विप्रकृष्टदेशाश्चोपाधयः, सर्वगतत्वात्सर्वानन्यत्वाच्च । तस्मादयुक्तोऽयं दृष्टान्तः" इति पूर्वं स्वेन सूत्रार्थतयोक्तविम्बप्रतिबिम्बभावविषये य आक्षेपः शङ्कराचार्यैः : कृतः, स च युक्त एव । अद्वैतमतरीत्या ब्रह्मान्य- पदार्थस्यैवाभावात्, ब्रह्मणो मूर्तत्वाभावाच्च । परन्तु मूर्तत्वाभावे सर्वगतत्वादिति यो हेतुरुक्तः, स चायुक्तः । अद्वैतमते ब्रह्मणः निर्धर्मकत्वेन निस्सङ्गत्वेन च सर्वदेशसम्वन्धित्वरूपसर्वगतत्वायोगात् ।
आस्तां स विचारः– तस्याक्षेपस्य समाधायकतया अवतारितस्य ।
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ (३.२.२०)
इति सूत्रस्य “युक्त एव त्वयं दृष्टान्तो विविक्षितांशसम्भवात् । न हि दृष्टान्तदाष्टन्तिकयो : क्वचित् कश्चिद्विवक्षितांशमुक्त्वा सर्वसारूप्यं केनचिद्दर्शयितुं शक्यते । सर्वसारूप्ये हि दृष्टान्तदाष्टन्तिकभावोच्छेद एव स्यात् । न चेदं स्वमनीषया जलसूर्यकादिदृष्टान्तप्रणयनम्, शास्त्रप्रणीतस्य तु अस्य प्रयोजनमात्रमुपन्यस्यते । किं पुनरत्र विवक्षितं सारूप्यमिति? तदुच्यते— वृद्धिह्रासभाक्त्वमिति । जलगतं हि सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते, जलह्रासे ह्रसति, जलचलने चलति जलभेदे भिद्यते इत्येवं जलधर्मानुयायि भवति न तु परमार्थतः । सूर्यस्य तथात्वमस्ति । एवं परमार्थतोऽविकृतमेकरूपमपि सत् ब्रह्म देहाद्युपाध्यन्तर्भावाद्भजत इवोपाधिधर्मान् वृद्धिह्रासादीन् एवमुभयोर्दृष्टान्तदाष्टन्तिकयोः सामञ्जस्यादविरोधः” इति यत्समाधानपरतया व्याख्यानं तदयुक्तम् । प्रतिबिम्बनाशेऽपि बिम्बनाशाभावः । विम्बस्य यदा यदा सत्त्वं तदा प्रतिविम्वस्याभावः । प्रतिबिम्वेन विम्बस्य अनुमानमित्याद्यनेक- विरुद्धधर्मवत्त्वेन बिम्बप्रतिबिम्बोर्भेदात् प्रतिबिम्बे प्रतीयमानानां जलवृद्धौ वृध्यादीनां बिम्बे दर्शनाभावेन वृध्यादिरहिते सूर्ये वृध्यादिदर्शनं कथमित्याशङ्कायाः एवासम्भवेन जलरूपोपाधिगतधर्माः भासन्ते इति समाधानस्याप्ययोगेन दृष्टान्तासंमतेः । तद्दृष्टान्तेन परमार्थतो धर्मरहितमपि ब्रह्म (अविकृतमेकरूपमपि ब्रह्म) देहाद्युपाध्यन्तर्भावात् उपाधिधर्मान् वृद्धिहासादीन् भजत इवेति दृष्टान्तदाष्टन्तिकयोः सामञ्जस्यादविरोध इत्युक्तिरयुक्तैवेति ।
अद्वैतमतरीत्या अनन्तरो बाह्य इत्यादि श्रुत्या ब्रह्मणः बहिः कस्यापि वस्तुनः अभावोक्त्या 'देहाद्युपाध्यन्तर्भावात्' इति अन्त:- स्थित्युक्तिश्चायुक्तैवेति ।
ॐ दर्शनाच्च ॐ (३.२.२१)
इति सूत्रस्य ‘“दर्शयति च श्रुतिः परस्यैव ब्रह्मणो देहादिषूपाधिष्वन्तरनु- प्रवेशम्– ‘पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्' (बृ. २- ५ - १८) इति । अनेन जीवेनात्मनानुप्रविश्य' (छां. ६-३-२) इति च । तस्माद्युक्तमेतत् - " अत एव चोपमा सूर्यकादिवत्' (ब्र.सू.३.२.१८) इति - तस्मान्निर्विकल्पकैकलिङ्गमेव ब्रह्म, नोभयलिङ्गं विपरीतलिङ्गं चेति सिद्धम्' इति यद्व्याख्यानं, तत् स्वमत (अद्वैतमत) विरुद्धम् । स्वेनैव (शङ्कराचार्येणैव ) 'न तु सर्वगतस्य निरवयवस्य दिग्देशकालान्तरापक्रमणप्राप्तिलक्षणः प्रवेशः कदाचिदपि उपपद्यते इति' (बृ.शां.भा.१.४.७) इत्याद्यनेकोपनिषद्भाष्यवाक्यैः प्रवेशाभावकथनात् “दर्शयति श्रुतिः परस्यैव ब्रह्मणः देहादिषूपाधिष्वन्तरनुप्रवेशम्' इत्युक्तिः स्वोक्तिविरुद्धेति । ब्रह्म निर्विकल्पकै कलिङ्गमित्युक्तिरयुक्तैवेति सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वाद्यनन्तकल्याणगुणपूर्णं ब्रह्म सविशेषमेवेति ।
तथा च ‘पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति’ ‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' इत्यादि श्रुत्युक्तप्रकारेण सर्वकर्तृत्वप्रेरकत्वसर्वज्ञत्वाद्यनन्तकल्याणगुणयुक्तं (सविशेषं) ब्रह्म ज्ञात्वा ध्यानेन अपरोक्षीकृत्य तत्प्रसादेन अनन्तसुखं प्राप्नुत ।। ईश्वरोऽहमिति ज्ञात्वा ‘ईश्वरोऽहं’ ‘एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः' ‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्' 'आसुरी योनिमापन्ना मूढा जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ।।' इति गीतोक्तरीत्या 'सर्वे विशेषाः (जगत्) मिथ्या । निर्विशेषं ब्रह्म । तत्स्वरूपोऽहमिति ज्ञात्वा तमो न प्राप्नुत इति ।
अत्र केचिद्दै अधिकरणे कल्पयन्तीत्यादिना इतरमतानुवादं कृत्वा निराकरणं कृतम् । तत् प्रकृतानुपयुक्तत्वान्न विचार्यते ।
(अधिकरणम् ६)
ॐ प्रकृतैतावत्वं हि प्रतिपेधति ततो ब्रवीति च भूयः ॐ (३.२.२२)
'द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च' (बृ. २-३-१) इत्युपक्रम्य पञ्चमहाभूतानि द्वैराश्येन प्रविभज्य .....पुनः पठयते - अथात आदेशो नेति नेति न ह्येतस्मादितिनेत्यन्यत्परमस्ति' (बृ. २.३.६) इति । तत्र को स्य प्रतिषेधस्य विषय इति जिज्ञासामहे । न ह्यत्रेदं तदिति विशेषितं किञ्चित्प्रतिषेध्यमुपलभ्यते । इतिशब्देनत्वत्र प्रतिषेध्यं किमपि समर्प्यते नेति नेतीति परत्वान्न प्रयोगस्य । इतिशब्दश्चायं संनिहितालम्बन एवं नशब्दसमानवृत्तिः प्रयुज्यमानो दृश्यते - ' इति ह स्मोपाध्यायः कथयति’ इत्येवमादिषु । संनिहितं चात्र प्रकरणसामर्थ्याद्रूपद्वैयं सप्रपञ्चं ब्रह्मणस्तच्च ब्रह्म यस्यैते द्वे रूपे । तत्र नस्संशय उपजायते किमयं प्रतिषेधः रूपे रूपवच्चोभयमपि प्रतिषेधत्याहोस्वित् एकतरम् । यदाप्येकतरं तदापि किं ब्रह्म प्रतिषेधति रूपे परिशिष्ट्याहोस्विद्रूपे प्रतिषेधति, ब्रह्म परिशिनष्टीति ।
द्वौ चतौ प्रतिषेधौ द्विर्नेतिशब्दप्रयोगात् । तत्र प्रकृतत्वाविशेषात् तयोरेकेन ब्रह्मणः सप्रपञ्चं रूपं प्रतिषिध्यते । अपरेण रूपवद्ब्रह्मेति उभयमपि प्रतिषेधति इति पूर्वपक्षे ।
अथवा ब्रह्मैव रूपवत्प्रतिषिध्यते तद्धि वाङ्मनसातीतत्वात् असम्भाव्यमानसद्भावं प्रतिषेधार्हं न तु रूपप्रपञ्चः प्रत्यक्षादिगोचरत्वात् प्रतिषेधार्हः नेति नेति इति अभ्यासस्त्वादरार्थः, इति वा पूर्वपक्षे प्रवृत्तमित्यवतार्य, ‘प्रकृतैतावत्वं हि प्रतिषेधति' इति सूत्रभागं प्रकृतं प्रपश्चितं च यत् एतावदियत्तापरिच्छिन्नं मूर्तामूर्तलक्षणं ब्रह्मणो रूपं तदेषशब्दः (नेति नेतीतिशब्दः) प्रतिषेधति नतूभयं (ब्रह्म ब्रह्मणो रूपे च) नापि केवलं ब्रह्म प्रतिषेधति परिशिनष्टि रूपम् इति सिद्धान्तपरतया व्याख्याय तस्मिन् विषये केचन हेतवः सूत्राप्रतिपाद्या एव ( उत्सूत्रा एव) कथिताश्शङ्कराचार्यैः- तत्र संशयपूर्वपक्षसिद्धान्ता अयुक्ता इति प्रदर्श्य तदुक्तानुत्सूत्रितान् हेतून् अनूद्य तस्य दुष्टत्वमनन्तरं प्रदर्श्यते । तथा हि- 'तत्र कोऽस्य प्रतिषेधस्य विषय इति जिज्ञासामहे' इत्यत्रोक्त- प्रतिषेधशब्दार्थः कः ? किमत्यन्ताभावः - (त्रैकालिकनिषेधरूपः) तस्य विषयः (प्रतियोगी) ब्रह्म वा मूर्तमर्तं वा ब्रह्म मूर्तीमूर्तं सर्वं वा इति । किं वा प्रतिषेधशब्दार्थो भेदः (अन्योऽन्याभाव:) तस्य भेदस्य प्रतियोगी ब्रह्म वा मूर्तीमूर्तं वा– ब्रह्मादिसर्वं वा इति ।
नाद्यः–तथा हि ‘अथात आदेशो नेति नेति' इति श्रुतेः अथ = सत्य (मूर्तीमूर्त) स्वरूपनिरूपणानन्तरं, अतः = फलसद्भावात् आदेशः = ब्रह्मणः कथनं क्रियते (किं रूप इत्याकाङ्क्षायां ) नेतिनेति इति ब्रह्म इति = मूर्तं, न मूर्तभिन्नं, इति=अमूर्तं, न अमूर्तभिन्नं, अथवा इति= मूर्तीमूर्तात्मकपञ्चभूतं न पञ्चभूतभिन्नम् । इति = वासनारूपं न वासनाभिन्नं इति त्रयाणामपि प्रकृतत्वात् इर्थकत्वेन तया ब्रह्म मूर्तभिन्नं अमूर्तभिन्नं वासनाभिन्नमिति मूर्तामूर्तादिभेदः ब्रह्मणि सिध्यति, न तु मूर्तामूर्तवासनानां नास्ति नासीन्न भविष्यति इति प्रतीयमानत्रैकालिकनिषेधप्रतियोगित्वरूपम् असत्त्वं (मिथ्यात्वं) सिध्यति । पूर्वं ब्रह्मणोऽपि प्रसक्ततया इति=ब्रह्म, नेत्युक्तावपि ब्रह्मभेदः कुत्रचित्प्रतीयतां, न तु ब्रह्मणोऽत्यन्ताभावः प्रतीयते । नञः अन्योन्याभावे तात्पर्यग्राहकप्रथमान्तानुयोगिवाचकपदसमभिव्याहारात् अत्यन्ताभावे तात्पर्यग्राहकसप्तम्यन्तानुयोगि-वाचकपदसमभिव्याहाराभावात् । किं च “अथवा नेति नेति वीप्सेयमितीति यावत् किञ्चिदुत्प्रेक्षते तत्सर्वं न भवतीत्यर्थः । परिगणितप्रतिषेधे हि क्रियमाणे यदि न एतद्ब्रह्म किमन्यद्ब्रह्म भवेदिति जिज्ञासा स्यात्, वीप्सायां तु सत्यां समस्तस्य विषयजातस्य प्रतिषेधात्, अविषयः (विषयभिन्नः) प्रत्यगात्मा ब्रह्मेति जिज्ञासा निवर्तते" इत्यादि शाङ्करभाष्यवाक्यैः नेति नेतीति वाक्येन ब्रह्मणि मूर्तामूर्तादिसकलवस्तुप्रतियोगिकभेदरूपनिषेध एव बोध्यते नत्वत्यन्ताभाव इति सिद्धेश्च नेति नेतीति वाक्यं न मूर्तीमूर्तादिपदार्थानाम् अत्यन्ताभावप्रतियोगित्वरूपासत्त्वबोधकमिति ब्रह्म मूर्तीमूर्तपदार्थरूपं नेति मूर्तामूर्तपदार्थस्य सत्त्वमङ्गीकृत्य ब्रह्मणि मूर्तामूर्तभेदमेव वक्तीति प्रतिषेधस्य अन्योन्याभावबोधकत्वरूपद्वितीयपक्ष एव युक्तः । ब्रह्मणः मूर्तामूर्तादि जगद्विलक्षणत्वात् । परन्तु अद्वैतिनां प्रतिकूलम् । ब्रह्मणः मूर्तामूर्तादिजगद्भिन्नत्वं (विलक्षणत्वं) वाक्येन बोध्यते इत्यङ्गीकारे वक्ष्यमाणसंशयानां पूर्वपक्षयोश्चायोगः । स चेतरत्र प्रदर्शयिष्याम इति । किञ्च इति न इति न इति वाक्यघटकाभ्यां इतिशब्दाभ्यां पूर्वप्रसक्ते मूर्तामूर्ते गृह्येते इति युक्तमेव । परन्तु ब्रह्मणोऽपि ग्रहणप्रसक्तिरित्या- शङ्केवायुक्ता । इति न इति न इत्यस्य ब्रह्मादेशरूपत्वेन ब्रह्म, इति=ब्रह्म नेति निषेधस्य (ब्रह्मणि ब्रह्माभेदस्य ) वाधितत्वेन इतिशब्देन ब्रह्मणः प्रसक्तेरेवासम्भवेन ‘किमयं प्रतिषेधः रूपे रूपवच्चोभयमपि प्रतिषेधत्याहोस्वित् एकतरमिति संशयस्यासम्भवेन तथा संशयप्रदर्शनमयुक्तम् ।
यदाप्येकतरं तदापि ब्रह्म प्रतिषेधति रूपे परिशिनष्टि आहोस्वित् रूपे प्रतिषेधति ब्रह्म परिशिनष्टि इति संशय प्रदर्शनमप्ययुक्तम् । ब्रह्म प्रतिषेधतीति पक्षे नेतिनेतीत्यादेशस्य ब्रह्मदेशरूपत्वेन ब्रह्म इति न इत्यस्य ब्रह्म ब्रह्म । न इति प्रतिषेधप्राप्त्या तस्य चायोगेन ब्रह्म इति=मूर्तीमूर्तरूपं न इति मूर्तामूर्तप्रतिषेधस्यैव अङ्गीकार्यत्वेन ब्रह्म प्रतिषेधतीति शङ्काया एवाप्रसक्तेः ।
( ।। इति संशयस्य अयुक्तत्वप्रदर्शनम् ।।)