यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः तमेवैकं जानथ..

अथ प्रथमाध्याये तृतीयः पादः

ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ (१.३.१)

यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः' (मु. २.२.५) इत्यस्मिन्वाक्ये श्रूयमाणं द्युभ्वाद्यायतनं किं परब्रह्म ? किं वा सांख्य- स्मृतिसिद्धं प्रधानं? किं वा श्रुतिप्रसिद्धो वायुः ? किं वा शारीरः (जीवः) ? किं हिरण्यगर्भो वा? इति संशय्य, 'प्रधानं स्यात्, अथवा वायुः स्यात्, जीवो वा स्यात्, हिरण्यगर्भो वा स्यात्, इति पूर्वपक्षयित्वा द्युभ्वाद्यायतनं परं ब्रह्मैव, न प्रधानाव्याकृतवायुशारीर (जीव) हिरण्यगर्भाः, स्वशब्दात्, ‘तमेवैकं जानथ आत्मानं इति आत्मशब्दात् । आत्मशब्दश्च परमात्मपरिग्रह एव सम्यगवकल्पते न जीवादिपरिग्रहे' इति व्याख्यातत्वेन, प्रधान- वायुजीवहिरण्यगर्भादिभ्यो ब्रह्मणः भेदबोधकमेवेदं सूत्रम् । १.३.१

द्युभ्वाद्यायतनं परमेव ब्रह्म । कुतः ?

ॐ मुक्तोपसृप्यव्यपदेशात् ॐ (१.३.२)

'भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ।।' (मु. २.२.८) इत्युक्त्वा 'तथानामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' (मु. ३.२.८) इति मुक्तैः प्राप्यत्वव्यपदेशात् । मुक्तोपसृप्यत्वं च ब्रह्मणः तदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथमर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते' (वृ. ४.४.७) इत्यादि शास्त्रे प्रसिद्धं, प्रधानवायुजीवहिरण्यगर्भाणां न मुक्तैः प्राप्यत्वं क्वचिदपि शास्त्रे प्रसिद्धं, इति व्याख्यातत्वेन जीवादिभ्यः परब्रह्मणो भेदबोधकमेवेदं सूत्रम् ।

तथा सूत्रगृहीतापरात्परं पुरुषमुपैति दिव्यम्' इति श्रुतिरपि भेदवोधिकैत्रप्राप्यप्राप्तृभावेनेति' ३. २.२७ सूत्रभाष्ये शङ्कराचार्यैरुक्तम् । १.३.२

ॐ नानुमानमतच्छब्दात् ॐ (१.३.३)

यथा परब्रह्मणो द्युभ्वाद्यायतनत्वप्रतिपादकः शब्दोऽस्ति तथा सांख्यानुमानपरिकल्पितप्रधानस्य वायोर्वा प्रतिपादकशब्दस्याभावान्न प्रधानवायू द्युभ्वाद्यायतने' इति व्याख्यातत्वेनेदमपि सूत्रं भेदप्रतिपादकमेव ।१.३.३

ॐ प्राणभृच्च ॐ (१.३.४)

यः सर्वज्ञः सर्ववित्इति भ्वाद्यायतने श्रुतसार्वज्ञादेर्जीवेऽसंभवान्न जीवो द्युभ्वाद्यायतनं किं तु ब्रह्मैवेति व्याख्यातत्वेन इदमपि सूत्रं जीवब्रह्मणोर्भेदबोधकमेव । १.३.४

ॐ भेदव्यपदेशात् ॐ (१.३.५)

तमेवैकं जानथात्मानं इति मुमुक्षोर्ज्ञातुर्जीवस्य द्युभ्वाद्यायतनेन आत्मशब्दवाच्येन ज्ञेयेन ब्रह्मणा ज्ञातृज्ञेयभावेन भेदव्यपदेशान्न द्यभ्वाद्यायतनं जीवः किं तु परब्रह्मैव इति व्याख्यातत्वेन जीवब्रह्मणोर्भेदः कथ्यतेऽनेन सूत्रेणापि । १.३.५

ॐ प्रकरणात् ॐ (१.३.६)

अस्य ब्रह्मप्रकरणत्वादेतत्प्रकरणोक्तं द्युभ्वाद्यायतनं ब्रह्मैव न तु प्राणभृत् (जीव ) इति व्याख्यातत्वेन' इदमपि सूत्रं जीवब्रह्मणोर्भेद- बोधकमेव । १.३.६

ॐ स्थित्यदनाभ्यां च ॐ (१.३.७)

द्युभ्वाद्यायतनं च प्रकृत्य, 'द्वासुपर्णा सयुजा सखाया' (मु. ३.१.१) इत्यत्र स्थित्यदने निर्दिश्येते । ' तयोरन्य: पिप्पलं स्वाद्वत्ति' इति कर्मफलाशनं, ‘अनश्नन्नन्योऽभिचाकशीति' इति औदासीन्येनावस्थानं च । ताभ्यां स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञौ तत्र गृह्येते । यदि चेश्वरो द्युभ्वाद्यायतनत्वेन विवक्षितस्ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात्पृथग्वचनमव- कल्पते । अन्यथा ह्यप्रकृतवचनमाकस्मिकमसंबद्धं स्यात् । ... तस्मात्परमेव ब्रह्म द्युभ्वाद्यायतनं' इति व्याख्यातमिति इदमपि सूत्रं जीवब्रह्मणोर्भेद-बोधकमेव । १.३.७

ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ (१.३.८)

'भूमा त्वेव विजिज्ञासितव्य:' (छां. ७.२.३.२४) इत्यादिवाक्योक्तो भूमा, प्राणो वा स्यादाहोस्वित् परमात्मेति संशये, प्राणो भूमेति पूर्वपक्षे, भूमा परमात्मैव न प्राणः, सम्प्रसादात् प्राणात् अधि ऊर्ध्वं भूम्नः उपदिश्यमानत्वात् । यदि प्राणः भूमा स्यात् तदा प्राणादूर्ध्वं भूम्नः उपदेशो न स्यात्तस्मादस्ति प्राणादधि भूम्न उपदेश इति प्राणादन्यः परमात्मा भूमा भवितुमर्हति" इति व्याख्यातत्वेन, प्राणपरमात्मनोर्भेदबोधकमेवेदं सूत्रम् । १.३.८

ॐ धर्मोपपत्तेश्च ॐ (१.३.९)

भ्रूम्नि श्रुतानां सत्यत्वस्वमहिमप्रतिष्ठितत्वसर्वगतत्वादिधर्माणां परमात्मन्युपपत्तेः अन्यत्र प्राणेऽनुपपत्तेः भ्रूमा परमात्मैव न प्राणः' इति व्याख्यातत्वेन प्राणब्रह्मणोर्भेदबोधकमेवेदं सूत्रम् । १.३.९

ॐ अक्षरमम्बरान्तघृतेः ॐ (१.३.१० )

कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति, स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवन्दत्यस्थूलमनणु' (वृ. ३.८.७.८) इत्यत्र श्रूयमाणः अक्षरः वर्णो वा परमेश्वरोवा इति संशय्य, वर्ण इति पूर्वपक्षे, 'अक्षरशब्दवाच्यः परमात्मैव, अंबरान्तधृतेः = पृथिव्याद्याकाशान्तस्य धारणात्' इति  व्याख्याततया वर्णात्मकादक्षरात्परब्रह्मणः भेदप्रतिपादकमिदं सूत्रम् । एतत्सूत्रगृहीतायां 'एतस्मिन् खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्च इति' श्रुतौ पृथिव्याद्याकाशान्तस्य धार्यत्वेन अक्षरनामकब्रह्मणः धारकत्वेन श्रवणात् धार्यस्य पृथिव्याद्याकाशान्तस्य धारकेण परमात्मना भेद उक्तो भवति । १.३.१०

ॐ सा च प्रशासनात् ॐ (१.३.११)

'सा च अम्बरान्तधृतिः परमेश्वरस्यैव कर्म, नान्यस्य । कुतःप्रशासनात्’ - ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' (बृ. ३.८.९) इति वाक्ये आज्ञया धारकत्वं श्रूयते ।यतः न चाचेतनस्य प्रशासनं श्रूयत इति व्याख्यातत्वेन वर्णब्रह्मणोर्भेदबोधकमेवेदं सूत्रम् । एतत्सूत्रगृहीतया एतस्य वा अक्षरस्येति श्रुत्या सूर्याचन्द्रमोभ्यां ब्रह्मणो (अक्षरस्य) भेद एवोक्तः । १.३.११

ॐ अन्यभावव्यावृत्तेश्च ॐ (१.३.१२)

ब्रह्मैवाक्षरशब्दवाच्यं अक्षरशब्दवाच्यतया शङ्कयमानवर्णादिभ्यो द्रष्टृत्वादिना अक्षरस्य व्यावर्तनात् इति व्याख्याततया इदमपि सूत्रं वर्णादिभ्यः परमात्मनो भेदबोधकमेव । तस्मात् वर्णप्रधानाव्याकृत जीवानाम संभवात्

सिद्धयति । १.३.१२

ॐ ईक्षतिकर्मव्यपदेशात्सः ॐ (१.३.१३)

'यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत' (प्र. ५.२५) इति वाक्ये अभिध्यायीत इति अभिध्यातव्यत्वेनोपदिश्यमानं किमपरं ब्रह्म? (कार्यं ब्रह्म=  चतुर्मुखः) किं वा परब्रह्मेति संशये, अपरं ब्रह्मेति पूर्वपक्षे, परं ब्रह्मैवाभिध्यातव्यत्वेनोच्यते, ईक्षतिकर्मत्वव्यपदेशात्, इति व्याख्याततया परापरब्रह्मणोर्भेदबोधकमेवेदं सूत्रम् । १.३.१३

ॐ दहर उत्तरेभ्यः ॐ (१.३.१४)

अथ यदिदमस्मिन् ब्रह्मपरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’ ( ८.१.१) इति वाक्ये पुण्डरीके श्रुत आकाशः, किं भूताकाश: ? किंवा विज्ञानात्मा ? (जीवः) अथवा परमात्मा ? इति संशये, दहराकाशः भूताकाशः स्यात् अथवा जीवः स्यात् इति पूर्वपक्षे प्राप्ते दहराकाशः परमेश्वर एव न जीवः नापि भूताकाशः । कुतः ? उत्तरेभ्यः 'एष आत्माऽपहतपात्मा विरजो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः' (छां. ६.८.१) इति उत्तरेभ्यः, आत्मत्वापहत पाप्मत्वसत्यसङ्कल्पत्वादिगुणेभ्यः । न ह्येते गुणाः भूताकाशे जीवे वा संभवन्ति' इति व्याख्याततया, इदमपि सूत्रं जीवभूताकाशेभ्यो ब्रह्मणो भेदबोधकमेव । १.३.१४

ॐ गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ॐ (१.३.१५)

किं च दहराकाशः परमेश्वर एव, गते: सुप्तप्रजाप्राप्यत्वकथनात् । सुप्तप्रजाप्राप्यत्वं हिसता सोभ्य तदा संपन्नो भवति' (छां. ६.८.१) इत्येवमादौ परमात्मधर्मतयाऽवगतं तथा शब्दात् ' ब्रह्मलोकशब्दाच्च । ब्रह्मलोकशब्दो हि ब्रह्मैव लोक: ब्रह्मलोक इति व्युत्पत्या दहरस्य ब्रह्मत्वज्ञापकः । अहरहः ब्रह्मलोकगमनं ब्रह्मलोकशब्दस्य ब्रह्मैव लोक इति व्युत्पत्तिपरिग्रहे लिङ्गम् । न हि प्रजाः अहरहः कार्यब्रह्मणः लोकं सत्याख्यं गच्छन्ति, इति व्याख्याततया इदमपि सूत्रं भेदबोधकमेव । एतत्सूत्रगृहीता 'सत्ता सोम्य तदा सम्पन्नो भवति, इति श्रुतिरपि प्राप्यप्राप्तृभावेन जीवपरमात्मनोर्भेदं बोधयति । तथा व्याख्यातं शङ्कराचार्यैः (२.१.२२) सूत्रभाष्ये । १.३.१५

ॐ घृतेश्च महिनोऽस्यास्मिन्नुपलब्धेः ॐ (१.३.१६)

अयं दहरः परमेश्वर एव । धृतेः, 'अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय (छां. ८.४.१) इति वाक्ये - यथोदकसन्तानस्य विधारयिता लोके सेतुः, क्षेत्रसम्पदामसम्भेदाय एवमयमात्मैषामध्यात्मादिभेदभिन्नानां लोकानां वर्णाश्रमादीनां च विधारयिता सेतुरसम्भेदायासङ्करायेत्येवमिह प्रकृते दहरे विधारणलक्षणमहिम्नः श्रवणात् । अस्य महिम्नः धारणरूपमहिम्नः अस्मिन् परमात्मनिएतस्य अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' (बृ.) इति वाक्ये, तथा एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारणे एषां लोकानामसम्भेदाय' इति वाक्ये च परमात्मधर्मतया उपलब्धेः इति भाषितत्वेन जीवब्रह्मणोर्भेदबोधकमेवेदं सूत्रम् । १.३.१६

ॐ प्रसिद्धेश्व ॐ (१.३.१७)

आकाशशब्दस्यआकाशो ह वै नामरूपयोर्निर्वहिता (छां. ८.१४) सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते' (छां. १.९.१) इत्यादिषु परमात्मनि प्रयोगात् जीवे कुत्रापि आकाशशब्दस्य अप्रयोगात् दहराकाशः परमेश्वर एव न जीवः इति व्याख्याततया जीवब्रह्मणोर्भेद- बोधकमेवेदं सूत्रम् । १.३.१७

ॐ इतरपरामर्शादिति चेन्नासम्भवात् ॐ (१.३.१८)

यथा वाक्यशेषबलेन दहर इति परमेश्वरः गृह्यते तथाइतरपरामर्शात्इतरस्य जीवस्यअथ एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योति-रुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते एष आत्मेति होवाच' (छां. ८.३.४) इति सम्प्रसादशब्दवाच्यसुषुप्त्यवस्थावतः जीवस्य परामर्शात् दहराकाशः जीव एवेति चेन्न । असम्भवात् दहरे श्रुतधर्माणां जीवेऽसंभवात् परमात्मैव दहरः न जीवः' इति व्याख्याततया सूत्रमिदं जीवब्रह्मणोर्भेद- बोधकमेव । १.३.१८

ॐ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॐ (१.३.१९)

इतरपरामर्शात् दहरः जीव इति या शङ्का दहरोक्तगुणानां जीवेऽसम्भवान्निराकृता अथेदानीं मृतस्यैवामृतसेकात् पुनः समुत्थानं जीवाशङ्कायाः क्रियते । उत्तरस्मात् प्राजापत्यात् वाक्यात् । तत्र हिय एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मा' (छां. ८.७.४) इति ब्रुवन् अक्षिस्थद्रष्टारं जीवमात्मानं निर्दिशति, तथा 'एष स्वप्ने महीयमानश्चरत्येष आत्मा' (छां. ८.१०.१) इति वाक्यमपि जीवं निर्दिशति । अतः उत्तरवाक्ये जीवस्य कथनात् जीव एव दहराकाश इति चेन्न । आविर्भूतस्वरूपस्तु इत्यत्र तुशब्दः पूर्वपक्षव्यावृत्यर्थः । नोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का सम्भवतीत्यर्थः । कस्मात् ? यतः तत्रापि आविर्भूतस्वरूपो जीवो विवक्ष्यते इति व्याख्यातत्वेन दहरो न जीवः किं तु परमात्मैवेति जीवपरमात्मनोर्भेदे- बोधकमेवेदं सूत्रम् ।

यद्यपि शङ्कराचार्यैः श्रुतिस्मृतिसूत्रानारूढा विषयाः उक्ताः ते तत्र तत्र खण्डिता इति नेहात्र खण्ड्यन्ते ।स आत्मा तत्त्वमसि' 'परमं ब्रह्म वेद ब्रह्मैव भवति' इत्यादिवाक्यानां भेदपरत्वं अभेदपरत्वाभावश्च तत्र तत्र प्रदर्शितो द्रष्टव्यः ।

आनन्दगिरि -ननु जीवब्रह्मणोरैक्यं न क्वापि सूत्रकारो मुखतो वदति किं तु सर्वत्र भेदमेवातो नैक्यमिष्टं तत्राह ।

रत्नप्रभा- अथवा सूत्रेष्वभेदो नोक्त इति भ्रान्तिं निरस्यति प्रतिपाद्यं त्विति ।

भाष्यम् - प्रतिपाद्यं शास्त्रार्थमात्मैकत्वमेव दर्शयति 'शास्त्रदृष्ट्यातूपदेशो वामदेववत्' (ब्र.सू. १.१.३० ) इत्यादिना । वर्णितश्चास्माभिर्विद्वदविद्वद्भेदेन कर्मविधिविरोधपरिहारः ।

आनन्दगिरि - आदिपदं आत्मेति तृपगच्छन्ति इत्यादिसंग्राहकमिति (ब्र.सू. ४.१.३) आनन्दगिरिरत्नप्रभाव्याख्यानसहितेन भाष्येण शङ्कराचार्यैरपि द्वित्रसूत्राणि विहाय सर्वेषां सूत्राणां जीवेश्वरभेदपरत्वं वर्णितम् । तेषामपि सूत्राणां अभेदपरत्वं नास्तीति उक्तमेव प्राक् इति । भेदवाधकानाम- भेदवोधकानां श्रुतिसूत्रगीतावाक्यानामभावात् भेदबोधकोपनिषदां कर्मकाण्ड- वाक्यानां कल्पितभेदकर्म प्रतिपादकत्वरूपाप्रामाण्यकल्पनमवैदिकानां नास्तिकानामेव शोभावहं न तु वैदिकानामिति । १.३.१९

ॐ अन्यार्थश्च परामर्शः ॐ (१.३.२० )

'अथ यो दहरवाक्यशेषे जीवपरामर्शो दर्शित: - 'अथ य एष संप्रसादः ' (छां.८.३.४ ) इत्यादिः, स दहरे परमेश्वरे व्याख्यायमाने अनर्थकत्वं प्राप्नोति इति । अत आह अन्यार्थोऽयं जीवपरामर्शः न स्वरूपपर्यवसायी । किं तर्हि परमेश्वररूपपर्यवसायी । कथं ? संप्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेंद्रियपञ्जराध्यक्षो भूत्वा तद्वासनानिर्मितांचा स्वप्नान् नाडीचरोऽनुभूय श्रांतः शरणं प्रेप्सुरुभयरूपादपि शरीराभिमानात् समुत्थाय सुषुप्त्यवस्थायां परंज्योतिराकाशशब्दितं परं ब्रह्म उपसंपद्य ( प्राप्य ) विशेषविज्ञानवत्त्वं च परित्यज्य स्वेन रूपेणाभिनिष्पद्यते । यदस्य उपसंपत्तव्यं प्राप्यं (परंज्योति:) येन रूपेण अयं अभिनिष्पद्यते स एष आत्माऽपहतपाप्मत्वादिगुणः उपास्य इत्येवमर्थोऽयं जीवपरामर्शः परमेश्वरवादिनोऽप्युपपद्यते' इति व्याख्याततया शरणं प्रेप्सुरिति १ शरण्यशरण्ययितृभावेन २ परं ब्रह्म उपसम्पद्य इति यदस्य उपसम्पत्तव्यं (प्राप्यं) परं ज्योतिरिति च प्राप्यप्राप्तृभावेन ३ येन स्वरूपेण अभिनिष्पद्यते सः इति स्वरूपाभिव्यक्तिकारणत्वस्वरूपाभिव्यक्त्याश्रयत्वाभ्यां जीवब्रह्मणो र्भेद एवोक्तः । तथा परमेश्वर एवात्र दहराकाशो भवितुमर्हति न भूताकाशः जीवो वा इति सिद्धान्तस्यैव दृढीकरणात् भूताकाशजीवयोर्ब्रह्मणा भेदबोधकमेवेदं सूत्रमिति । १.३.२०

ॐ अल्पश्रुतेरिति चेत्तदुक्तम् ॐ (१.३.२१)

'दहर आकाश' इति आकाशस्योक्तं दहरत्वं परमात्मनि नोपपद्यते । जीवे तूपपद्यते । अतो जीव एव दहराकाश इति चेत् न । तदुक्तं अर्भकौकस्त्वाधिकरणे - आपेक्षिकाल्पत्वं परमात्मनि सम्भवतीत्युक्तम् । तस्मात् दहराकाशः परमात्मैव इति व्याख्याततया इदं सूत्रमपि जीवब्रह्मणोर्भेदबोधकम् । १.३.२१

ॐ अनुकृतेस्तस्य च ॐ (१.३.२२)

इति सूत्रेण, ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भांति कुतोऽयमग्निः । तमेव भांतं अनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' (मु. २.२.१०) इति वाक्ये सर्वभासकः इतराभास्यश्च किं तेजोधातुः ? उत प्राज्ञः आत्मा' (परमात्मा ) इति संशये तेजोधातुरिति पूर्वपक्षे सर्वभासक इतराभास्यश्रा प्राज्ञ एवात्मा भवति । कुतः : ? अनुकृते:- सूर्यादीनामनुभानश्रवणात् इति व्याख्याततया तेजोधातोः परमात्मना भेद एव कथ्यत इति । १.३.२२

ॐ अपि च स्मर्यते ॐ (१.३.२३)

'अपि च ईदृग्रूपत्वं =सर्वभासकत्वं इतराभास्यत्वं च परमात्मनः एव स्मर्यते भगवद्गीतासुन तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम' (गी.) इति इतराभास्यत्वं 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चंद्रमसि यच्चानौ तत्तेजो विद्धि मामकम् ' ( गी.) इति इतरभासकत्वं च प्रतिपादयति' इति व्याख्याततया पूर्वोक्तभेदबोधकमेवेदं सूत्रम् । १.३.२३

ॐ शब्दादेव प्रमितः ॐ (१.३.२४ )

'अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति' (का. २.४.१२) तथा अंगुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः एतद्वैतत्' (२.४.१३ ) इति श्रूयमाणः पुरुषः किं जीवात्मा ? उत परमात्मा ? इति संशये जीवात्मा इति पूर्वपक्षे अंगुष्ठमात्रः पुरुषः परमात्मैव, न तु जीवः । कुतः शब्दात् ईशानो भूतभव्यस्येति, भूतभव्येशितृत्वश्रुतेः । न हि परमेश्वरादन्यस्य भूतभव्यपदार्थेशितृत्वं घटत इति व्याख्याततया जीवपरमात्मनोर्भेदबोधकमेवेदं सूत्रम् । १.३.२४

ॐ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॐ (१.३.२५)

'सर्वगतस्यापि परमात्मनः हृदये अवस्थानमपेक्ष्य अंगुष्ठमात्रत्वमिद- मुच्यते । ननु प्रतिप्राणिभेदं हृदयानामनवस्थितत्वात्तदपेक्षमप्यंगुष्ठमात्रत्वं नोपपद्यते इति शङ्कायां मनुष्याधिकारत्वात्' इति व्याख्याततया पूर्वोक्तार्थस्यैव स्थापनात् पूर्वसूत्रवत् इदमपि सूत्रं जीवपरमात्मनोर्भेद- बोधकमेव । १.३.२५

ॐ तदुपर्यपि बादरायणः सम्भवात् ॐ (१.३.२६)

इत्याद्यष्टसूत्रात्मकमिदमधिकरणं देवादीनामपि वेदविद्यायामधिकारसत्त्वं ज्ञापयति ।

मनुष्यानधिकरोति शास्त्रं न तु मनुष्यानेवेतीह ब्रह्मज्ञाने नियमोऽस्ति । 'तदुपरि' - तेषां मनुष्याणामुपरिष्टात् ये देवादयस्तानप्यधिकरोति शास्त्रमिति बादरायणाचार्यो मन्यते । कस्मात् ? सम्भवात् - अधिकारकारणी- भूतार्थित्वस्य, विग्रहवत्त्वेन सामर्थ्यादीनां सम्भवात्' इत्यर्थकतया व्याख्यातं तदुपर्यपीति सूत्रम् । देवमनुष्यादिभेदबोधनद्वाराऽ- नेकजीवानामेकेन ब्रह्मणा भेदबोधकमेव । १.३.२६

ॐ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॐ (१.३.२७)

'यदि विग्रहवत्वेन इन्द्रादिदेवानां वेदविद्याधिकारो वर्णेत विग्रहवत्त्वात् ऋत्विगादिवत् देवादीनामपि स्वरूपसन्निधानेन कर्माङ्गभावोऽभ्युपगम्येत तदा कर्मणि विरोधः स्यात् । न हीन्द्रादीनां स्वरूपसन्निधानेन यागेऽङ्गभावो दृश्यते । न च सम्भवति । बहुषु यागेषु युगपदेकस्येन्द्रस्य स्वरूप- सन्निधानानुपपत्तेरिति चेत् नायमस्ति विरोधः । ' अनेकप्रतिपपत्तेः ' एकस्यापि देवतात्मनो युगपदने कस्वरूपप्रतिपत्तिः सम्भवति । देवतानामनेकस्वरूपप्रतिपत्तेर्दर्शनात् । 'महिमान एवैषामेते त्रयस्त्रिंशत्वेव देवताः' (बृ.३.९.२) इति ब्रुवन्ती श्रुतिः एकैकस्य देवतात्मनो युगपदनेकस्वरूपतां दर्शयति' इति व्याख्याततया इदमपि गुणसूत्रं पूर्वोक्तार्थस्यैव व्यवस्थापकमिति पूर्वसूत्रवदेव भेदबोधकम् । १.३.२७

ॐ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ( १.३.२८)

देवादीनां विग्रहवत्वेनास्मदादिवदनित्यत्वप्राप्त्या अनित्यानां देवादीनां वेदशब्दैः सह नित्यसम्बन्धासम्भवात् । शब्दार्थयोर्नित्यसम्बन्धमाश्रित्य वेदस्य यत्प्रामाण्यमुपपादितं तस्य विरोधः स्यात्तस्मान्न देवानामधिकारः स्यादिति चेत् न । 'अतः प्रभवात् ' वेदादेव देवादीनामुत्पत्तेः । वेदादेव देवादीनामुत्पत्तिस्तु प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामवगम्यते' इति व्याख्याततया पूर्वोक्तस्यैवार्थस्य प्रतिपादकत्वात्पूर्वसूत्रवदेव भेदवोधकमिदं सूत्रम् । १.३.२८

ॐ अत एव च नित्यत्वम् ॐ (१.३.२९)

'अत एव नियताकृतेर्देवादेर्जगतः वेदशब्दप्रभवत्वात् वेदशब्दे नित्यत्वमपि प्रत्येतव्यं इति व्याख्याततया पूर्वोक्तार्थव्यवस्थापकमेवेदं सूत्रम् । १.३.२९

ॐ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॐ (१.३.३०)

'यदि पश्वादिव्यक्तिवद्देवादिव्यक्तयोऽपि संतत्यैवोत्पद्येरन्निरुध्येरंश्च ततोऽभिधानाभिधेयाभिधातृव्यवहाराविच्छेदात्सम्बन्धनित्यत्वेन विरोधः शब्दे परिह्रियेत । यदा तु खलु सकलं त्रैलोक्यं परित्यक्तनामरूपं निर्लेपं प्रलीयते प्रभवति चाभिनवमिति श्रुतिस्मृतिवादा वदन्ति । तदा कथमविरोध इति प्राप्ते अभिधीयते - समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च इति । अत्र सूत्रे पूर्वकल्पे विद्यमानानामुत्तरकल्पे जायमानानां देवादीनां समाननामरूपत्वात्प्रलये अवृत्तावपि देवादीनां स्वापप्रबोधयोः प्रलयप्रभवश्रवणेऽपि पूर्वप्रबोधवत् उत्तरप्रबोधेऽपि व्यवहारवत् कल्पान्तरप्रभवप्रलययोरपि व्यवहारसम्भवात् शब्दस्याप्रामाण्याव्यविरोधो नास्ति । स्यादेतत् । स्वापे पुरुषाणां व्यवहाराविच्छेदात् स्वयं च सुप्तप्रबुद्धस्य पूर्वप्रबोधव्यवहारानुसन्धानसम्भवादविरुद्धम् । महाप्रलये तु सर्वव्यवहारोच्छेदात् जन्मान्तरव्यवहारवच्च कल्पान्तरव्यवहारस्यानु- सन्धातुमशक्यत्वात् वैषम्यमिति । नैष दोषः । सत्यपि सर्वव्यवहारोच्छोदिनि महाप्रळये परमेश्वरानुग्रहात् ईश्वराणां हिरण्यगर्भादीनां कल्पान्तर- व्यवहारानुसन्धानोपपत्तेः । ततश्चातीतकल्पानुष्ठितप्रकृष्टज्ञानकर्मणां ईश्वराणां हिरण्यगर्भादीनां वर्तमानकल्पादौ प्रादुर्भवतां परमेश्वरानुगृहीतानां सुप्तप्रबुद्धवत् कल्पान्तरव्यवहारोपपत्तिः । समाननामरूपत्वं च दर्शनात्सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्' (क्र.सं.१०.१९०.३) इत्यादिश्रुतेः । स्मृतेश्च =ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः' इतिस्मृतेश्च सिद्धम्' इति व्याख्याततया जनकदेवानां तेषु परमेश्वरानुग्रहस्य च कथनेन देवादिजीवानां परमेश्वरेण भेद एव कथित इति । १.३.३०

ॐ मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॐ (१.३.३१)

देवादीनां ब्रह्मविद्यायामनधिकारं जैमिनिर्मन्यते । कुतः ? मध्वादिष्वसम्भवात् । ब्रह्मविद्यायामधिकाराभ्युपगमे विद्यात्वाविशेषात् मध्वादिविद्यास्वपि अधिकाराभ्युपगमः प्रसज्येत । तच्च न सम्भवति । 'असौ वाव आदित्यो देवमधु' (छां. ३.१.१) इत्यत्रादित्योपासनं विधीयते । न हि आदित्याख्यो देव : आदित्यमुपास्ते इति युज्यत इत्यादि ।

ॐ ज्योतिषि भावाच्च ॐ (१.३.३२)

ज्योतिर्मण्डले आदित्यादिशब्दाः प्रयुज्यन्ते । तस्य च ज्योतिर्मण्डलस्याचेतनत्वात् ज्योतिर्मण्डलरूपाणां आदित्यादीनां न ब्रह्मविद्यायामधिकार' इति द्वाभ्यां ब्रह्मविद्यायामधिकाराभाव इति पूर्वपक्षे प्राप्ते आह-

ॐ भावं तु बादरायणोऽस्ति हि ॐ (१.३.३३)

बादरायणस्त्वाचार्यः देवादीनामप्यधिकारभावं मन्यते । मध्वादिविद्यासु अधिकारासम्भवेऽपि अस्ति हि ब्रह्मविद्यायामधिकारः अर्थित्वसामर्थ्यादीनां सत्वात्' इत्यमीभिः त्रिभिः सूत्रैरपि देवादीनां ब्रह्मविद्यायामधिकाराभावे पूर्वपक्षिते, देवादीनां ब्रह्मविद्यायामधिकार इति सिद्धान्त इति व्याख्यातत्वेन,देवादीनां परस्परं भेदः ज्ञातृज्ञेयभावादिना तैर्ब्रह्मणो भेदश्च उक्तो भवति । १.३.३१-३२-३३

ॐ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॐ ( १.३.३४)

इत्यादिपञ्चसूत्रात्मके अस्मिन्नधिकरणे शूद्रस्य वेदविद्याधिकारो निरस्यते । शूद्रोऽपि वेदविद्यायामधिकारी अर्थित्वसामर्थ्ययोः सत्वात् ।तस्माच्छूद्रो यज्ञेऽनवक्लृप्तः’ (तै.सं. ७.१.१) इतिवत् शूद्रो विद्यायामनवक्लृप्त इति निषेधाश्रवणात् ।अहहारेत्वाशूद्र तवैव सह गोभिरस्तु' (छां. ४.२.३) इति शूद्रेति सम्बोधितं पौत्रायणं प्रति रैक्वेण संवर्ग (प्राण) विद्याया उपदिष्टत्वादिति प्राप्ते न शूद्रस्याधिकारः । वेदाध्ययनाभावात् । वेदाध्ययनाभावश्च उपनयनाभावात् । उपनयनस्य च वर्णत्रयविषयत्वात् । पौत्रायणस्य शूद्रेति सम्बोधनं न शूद्रत्वजातिनिमित्तं किं तु शुचा=

शोकेन रैक्वं प्रति आद्रवणं = प्राप्तिः तन्निमित्तमित्याह सूत्रकारःशुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि' इति ।

कम्बर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ ' (छां.४.१.३) इत्यास्माद्धंसवाक्यादात्मनोऽनादरं श्रुतवतो जानश्रुतेः पौत्रायणस्य शुगुत्पेदे । तं शोकं ऋषी रैक्कः शूद्रशब्देन सूचयाम्बभूव आत्मनः परोक्षज्ञताख्यापनाय शुचा अभिदुद्रुवे इति शूद्रशब्देन शुचा द्रवणं सूच्यते इति ।

ॐ क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॐ (१.३.३५)

जानश्रुतिः पौत्रायणः न जात्या शूद्रशब्दवाच्यः किं तु शुचा द्रवणनिमित्तेन शूद्रशब्दवाच्यः चैत्ररथेन अभिप्रतारिणा क्षत्रियेण समभिव्याहाराल्लिङ्गात् क्षत्रियत्वमस्योत्तरवाक्येन गम्यते । अतः,तथा-

ॐ संस्कारपरामर्शात्तदभावाभिलापाच्च ॐ (१.३.३६)

उपनयनरूपसंस्कारवत एव विद्यायामधिकारकथनात् शूद्राणामुपनयन- निषेधात् न शूद्रस्य विद्यायामधिकार इति ।

ॐ तदभावनिर्धारणे च प्रवृत्तेः ॐ (१.३.३७)

जाबालस्य (सत्यकामस्य ) सत्यवचनेन शूद्रत्वाभावनिर्धारणे सति गौतमस्य जावालोपनयने प्रवृत्तेः शूद्राणामुपनयनसंस्काराभावः ।

ॐ श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॐ (१.३.३८)

स्मृतौ शूद्राणां वेदश्रवणनिषेधात् वेदाध्ययननिषेधात् वेदार्थज्ञानादीनां निषेधात् न शूद्राणां वेदविद्याधिकारः इति व्याख्याततया विधिनिषेधयोः ब्रह्मणः असंभवात्, निषेधान्यथानुपपत्या पञ्चसूत्रात्मकेनानेनाधिकरणेन ब्रह्मजीवयोर्भेदसिद्धिः । (१० अ) १.३.३४.३५.३६.३७.३८

ॐ कम्पनात् ॐ (१.३.३९)

'यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति' (का.२.६.२) इति वाक्ये सर्वजगतः स्पन्दकः प्राण श्रूयते स वायुरिति पूर्वपक्षे प्राप्ते ।

प्राणः परमात्मैव । जगतः कम्पनात् (जगत्कम्पकत्वात्) न वायुः । 'न प्राणेन न अपानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ' (२.५.५ ) इति वाक्यं प्राणस्य जगत्कम्पकत्वं (जगज्जीवनकारणत्वं) निषिध्य, परमात्मन एव दर्शयति । ' तदेव शुक्रं तद्ब्रह्मेतिपूर्ववाक्ये, ‘भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः' (का. २.६.३) इत्युत्तरवाक्येऽपि ब्रह्मण उक्तत्वात् मध्ये उक्तः प्राणोऽपि ब्रह्मैव ।

'तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' (वे. ६.१५) इति मोक्षजनकज्ञानविषयत्वस्य ब्रह्मलिङ्गत्वेन तस्य चय एतद्विदुरमृतास्ते भवन्ति' इति प्राणे श्रवणात् प्राणो ब्रह्मैवेति सिद्धान्तितत्वेन इदमपि सूत्रं ब्रह्मणः मोक्षजनकज्ञानविषयत्वेन जीवस्य ज्ञातृत्वेन जडप्राणस्योभयाभावेन जडजीवेभ्यो ब्रह्मणो भेदवोधकमेवेति । १.३.३९.

ॐ ज्योतिर्दर्शनात् ॐ (१.३.४०)

'एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' (छां.८.१२.३) इति वाक्ये श्रुतं ज्योतिः, किं तेजः ? किं वा परं ब्रह्मेति संशये, ज्योतिः प्रसिद्धतेज एवेति पूर्वपक्षे, परमेव ब्रह्म ज्योतिः शब्दबोध्यं, 'दर्शनात् । परब्रह्मण एवास्मिन् प्रकरणे वक्तव्यत्वेनानुवृत्तिदर्शनात्' इति व्याख्यातत्वेन सूत्रेणानेन जडतेजसः ब्रह्मणा भेदसिद्धिः । १.३.४०

ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ (१.३.४१)

'आकाशो ह वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा' (छां.८.१४.१) इति वाक्ये उक्तः आकाशः किं प्रसिद्धभूताकाशः ? किं वा परं ब्रह्मेति संशये, भूताकाश इति पूवपक्षे च, आकाशः परमेव ब्रह्म । अर्थान्तरत्वादिव्यपदेशात् - नामरूपविलक्षणत्वादिव्यपदेशात् । नामरूपान्तःपातिनो भूताकाशस्य तद्भिन्नत्वं तत्कर्तृत्वं च न युक्तम्' इति व्याख्याततया, अनेन सूत्रेण भूताकाशात् नामरूपात्मकात् प्रपश्चात् ब्रह्मणः भेदः कथ्यत इति । १.३.४१

ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ (१.३.४२)

कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः ' (बृ. ४.३.७ ) इत्युपक्रम्य भूयानात्मविषयः प्रपञ्चः कृतः । तद्वाक्यं किं संसारजीवप्रतिपादकम् ? उतासंसारिपरमात्मप्रतिपादकमिति संशये, संसारिजीवप्रतिपादकमिति पूर्वपक्षे, सिद्धान्तितम्-परमेश्वरोपदेशपरमेवेदं वाक्यं, सुषुप्तौ उत्क्रान्तौ च शारीराद्भेदेन (जीवाद्भेदेन) परमेश्वरस्योपदेशात् । सुषुप्तौ तावत्प्राज्ञेनात्मना सम्परिष्वक्तः न बाह्यं किंचन वेद नान्तरम्' (वृ. ४.३.२१) इति शारीराद्भेदेन परमेश्वरं व्यपदिशति तथोत्क्रान्तावपिअयं शारीर आत्मा प्राज्ञेनान्वारूढः उत्सर्जद्याति (बृ.४.३.३५) इति जीवाद्भेदेन परमेश्वरं व्यपदिशति तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षित इति गम्यते' इति व्याख्याततया, अनेन सूत्रेण जीवपरमात्मनोर्भेदः उच्यते । १.३.४२

ॐ पत्यादिशब्देभ्यः ॐ (१.३.४३)

इति सूत्रेऽपिसर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः' इत्यासंसारि- स्वरूपप्रतिपादनपराणां पत्यादिशब्दानां सत्वात्, तथा 'स न साधुना कर्मणा भूयानो एवासाधुना कनीयान् इति संसारिस्वभावप्रतिषेधकानां शब्दानां सत्वात् असंसारी परमेश्वर इहोक्तः' इति व्याख्याततया, सर्वाधिपतित्वादिना जीवपरमात्मनोर्भेद उक्तः । १.३.४३

इति प्रथमाध्याये तृतीयः पादः