ॐ यावद्विकारन्तु विभागो लोकवत्' ॐ
श्रीः भेदपराण्येव खलु ब्रह्मसूत्राणि
अथ द्वितीयाध्याय तृतीयपादशङ्करभाष्यविचारः
१. "न वियदश्रुतेः”
२. “अस्ति तु"
३. गौण्यसम्भवात्”
४. ‘“शब्दाच्च’’
५. ‘“स्याच्चैकस्य ब्रह्मशब्दवत्" इति सूत्रैः आकाशस्यानुत्पत्तिं पूर्वपक्षयित्वा,
६. “प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः”
७. “यावद्विकारं तु विभागो लोकवत्" इति सूत्राभ्यां आकाशस्याप्युत्पत्तिं सिद्धान्तयामासुः शङ्कराचार्याः । तत्र पूर्वपक्षकथनरीतिरयुक्ताऽपि न विचार्यते तस्य (पूर्वपक्षस्य) सिद्धान्तत्वाभावात् । तत्र यस्सिद्धान्तः कृतः स न युक्तः । तथा हि ... “येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् "
(छां.६. ३.१.१) इति 'आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्' (बृ.४.५.६) इति कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' (मुण्ड. १.१.३) इति 'न काचन मद्बहिर्धा विद्याऽस्ति' इति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते । तस्याः प्रतिज्ञाया एव- महानिरनुपरोधः स्यात् यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञेयाद्ब्रह्मणः स्यात् । व्यतिरेके हि सत्येकविज्ञानेन सर्वं विज्ञायत इति इयं प्रतिज्ञा हीयेत । स चाव्यतिरेके एवमुपपद्यते । यदि कृत्स्नं वस्तुजातं एकस्मात् ब्रह्मण उत्पद्येत-शब्देभ्यश्रा प्रकृतिविकाराव्यतिरे करूपन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते । तथाहि 'येनाश्रुतं श्रुतं भवति' इति प्रतिज्ञाय मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यतेतत्साधनायैव चोत्तरे शब्दाः 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' (छां. ६.२.१) ‘तदैक्षत,’ ‘तत्तेजोऽसृजत' (छां.६.२.३) इत्येवं कार्यजातं ब्रह्मणः प्रदर्याव्यतिरेकं प्रदर्शयन्ति 'ऐतदात्म्यमिदं सर्वम्' (छां. ६.८.७) इत्यारभ्याप्रपाठकपरिसमाप्तेः । तद्यद्याकाशं न ब्रह्मकार्यं स्यान्न ब्रह्मणि विज्ञाते आकाशं विज्ञायेत, ततश्च प्रतिज्ञाहानिः स्यात् । न च प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं वक्तुम् । तथाहि प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां स्थापयन्ति 'इदं सर्वं यदयमात्मा' (बृ.२.४.६) 'ब्रह्मैवेदममृतं पुरस्तात्' (बुण्ड. २.२.११ ) इत्येवमादयः । तस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते " इति वाक्यैः येनाश्रुतं श्रुतं भवतीति, ब्रह्मज्ञानेन जगज्ज्ञानप्रतिज्ञया जगत् ब्रह्मणोरभेदसिद्धिः जगद्ब्रह्मणोरभेदस्य च आकाशादिजगतः ब्रह्मकार्यत्वमन्तरा असिद्धेः । आकाशस्योत्पत्तिसिद्धिरित्येवं रीत्या आकाशस्योत्पत्तिसमर्थनं यत्कृतं तत्तावदयुक्तम् ।
'येनाश्रुतं श्रुतं भवति (६.१.१) इति वाक्यव्याख्यावसरे स्वयमेव (शङ्कराचार्यैरेव) “तमादेशं विशिनष्टि येनादेशेन श्रुतेनाश्रुतमप्यन्यच्छ्रुतं भवत्यमतं मतमतर्कितं तर्कितं भवत्यविज्ञातं विज्ञातमनिश्चितं निश्चितं भवतीति । सर्वानपि वेदानधीत्य सर्वं चान्यद्वेद्यमधिगम्याप्यकृतार्थं एव भवति यावदात्मतत्त्वं न जानातीत्याख्यायिकातोऽवगम्यते " इति येनाश्रुतं श्रुतं भवतीति वाक्यव्याख्यानेन वेदाध्ययने कृतेऽपि ब्रह्मान्यवेदार्थे सर्वस्मिन् ज्ञातेऽपि यावत्कालपर्यन्तं ब्रह्मज्ञानं न भवति तावत्पर्यन्तमकृतार्थ एव भवतीति जगद्ज्ञानस्य ब्रह्मज्ञानं फलं इत्येव प्रतिज्ञा कृता वेदेन इति ज्ञायते, न तु ब्रह्मज्ञानेन जगतः ज्ञानं भवतीति । तथा च 'येनाश्रुतं श्रुतं भवति' इति प्रतिज्ञया जगज्ज्ञानस्यैव ब्रह्मज्ञानं फलं (कार्य) मित्युक्त्या जीवब्रह्मणोर्भेद एव सिद्धति न त्वैक्यम् । इति ब्रह्मज्ञानेन जगज्ज्ञानं भवतीति प्रतिज्ञाया अभावेन तदन्यथानुपपत्त्या आकाशस्योत्पत्तिसमर्थनमयुक्तमेव ।
किंच ब्रह्मजगतो: परिणाम्युपादानोपादेयभावाङ्गीकर्तृमते परिणाम्युपादानोपादेययोरभेदात् परिणाम्युपादानभूतब्रह्मज्ञानेन उपादेयजगतः ज्ञानं भवतीति यथाकथञ्चित् वक्तुं शक्येत । विवर्तोपादानवादिनां (ब्रह्मणि जगत् कल्पितमिति वादिनां ) अद्वैतिनां मते न हि अधिष्ठानभूतब्रह्मज्ञानेन जगतः ज्ञानं सम्भवति । अध्यस्तं वस्तु, यावत्पर्यन्तं अधिष्ठानं न भासते तावत्पर्यन्तमेव भाति । यथा शुक्त्यज्ञानकाल एव रजतं भासते, शुक्तौ ज्ञातायां शुक्त्यज्ञानकल्पितस्य रजतस्य रजतज्ञानस्य च निवृत्तिरेव भवति (न भासते) तथा ब्रह्मणः जगत्प्रति अधिष्ठानत्वेन ब्रह्माज्ञान- स्थितिपर्यन्तमेव ब्रह्मज्ञानकल्पितं जगत् भासते । अधिष्ठाने ब्रह्मणि ज्ञाते ब्रह्माज्ञानकल्पितं जगत् जगज्ज्ञानं च नश्यतीति न जगद्भासते । उक्तं हि अधिष्ठाने ब्रह्मणि ज्ञाते अध्यस्तं न ज्ञायते इति शङ्कराचार्यायैः केनोपनिषद्भाष्ये “अथवा हेत्वर्थ इति लोके शुक्त्यादितत्त्वं विजानतां यतोऽध्यस्तं रूप्याद्यविज्ञातं भवति । अजानतामेव त्वध्यस्तं विज्ञातं भवतीति प्रसिद्धम् । तथा ब्रह्माणि ज्ञेयत्वस्वाध्यस्तत्वादेव तत्त्वविदो न ज्ञातं ब्रह्म पश्यन्तीत्यर्थः” इति । विशेषविचारास्तु प्रकृत्यधिकरणे कृतो द्रष्टव्यः ।
एतेनैव 'आत्मनिखल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं भवति' (बृ.४.५.६) ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' (मुं.१.१.३) इति प्रतिज्ञे अपि आकाशादिजगतः ब्रह्मणा अभेदबोधनद्वारा आकाशस्य ब्रह्मकार्यत्वं गमयत इति कथनं निरस्तम् । ब्रह्मण उपादानकारणत्वाभावेन, अद्वैतमतरीत्या विवर्तोपादानत्वाङ्गीकारेऽपि अधिष्ठानज्ञानेन अध्यस्तज्ञानस्य अदर्शनेन प्रत्युत तन्निवृत्तेरेव दर्शनेन च ब्रह्मज्ञानेन जगज्ज्ञानासम्भवात् तदन्यथानुपपत्त्या आकाशरूपजगतः कार्यत्वसिद्धेरसम्भवेन तेन आकाशस्य उत्पत्तिसाधनस्यायुक्तत्वात् ।
'न काचन मद्बहिर्धा विद्याऽस्ति' इति वाक्यरूपप्रतिज्ञाया अपि ‘सर्वे वेदा यत्पदमामनंति' 'वेदैश्च सर्वैरहमेव वेद्य : ' ( गी. १५) इति श्रुतिगीतादिवाक्यानुसारेण मत् बहिर्धा=मदविषयीकुर्वाणा (परमात्माविषयिका) विद्या शास्त्रं नास्ति इत्यर्थकत्वेन शाङ्करभाष्यव्याख्यानकर्त्रा ब्रह्मविद्याभरणे तथैव व्याख्यातत्वेन च ब्रह्मज्ञानेन जगज्ज्ञानं भवतीत्यप्रतिपादकत्वेन न तेनाकाशस्य कार्यत्वसिद्धिः । पूर्वोक्तरीत्या ब्रह्मज्ञानेन जगज्ज्ञानासम्भवश्चेति ।
किञ्च “येनाश्रुतं श्रुतं भवति" इति प्रतिज्ञाय मृदादिदृष्टान्तैः कार्यकारणभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते तत्साधनायैव चोत्तरे शब्दाः 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' । (छां. ६.२.१) 'तदैक्षत' ‘तत्तेजोऽसृजत’ (छां.६.२.३) इत्येवं कार्यजातं ब्रह्मणः प्रदर्याव्यतिरेकं प्रदर्शयति-'ऐतदात्म्यमिदं सर्वम्' (छां. ६.८.७ ) इत्यारभ्या- प्रपाठकपरिसमाप्तेः । तद्यद्याकाशं न ब्रह्मकार्यं स्यान्न ब्रह्मणि विज्ञात आकाश विज्ञायेत, ततश्च प्रतिज्ञाहानिः स्यात् । न च प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं वक्तुम्” इति वाक्येन मृदादिदृष्टान्तैः सर्वं कार्यजातं ब्रह्मणा भवतीति प्रदर्श्य 'ऐतदात्म्यमिदं सर्वं (छां. ६.२.३) इति वाक्येन कार्यजातस्य ब्रह्मणाऽव्यतिरेकः प्रदर्शितः । आकाशस्य ब्रह्मकार्यत्वाभावे च ब्रह्मज्ञानेन आकाशज्ञानं न स्यात् । तता ब्रह्मज्ञानेन सर्वज्ञानं भवतीति प्रतिज्ञायाः हानिः (अविद्यमानार्थप्रतिपादकत्वं) स्यात् तथाच वेदस्याप्रामाण्यं स्यात् । नाङ्गीकर्तव्यं च वेदस्याप्रामाण्यमिति ब्रह्मानेन सर्वज्ञानं भवतीति प्रतिज्ञावाक्यस्य प्रामाण्यसिद्ध्यर्थं आकाशादिरूपजगतः ब्रह्मानन्यत्वं वक्तव्यं-ब्रह्मानन्यत्वं चाकाशादेः ब्रह्मकार्यत्वमन्तरा न सम्भवतीत्याकाशस्य कार्यत्वं (जन्यत्वं) सिद्धमिति यदुक्तं तन्न युक्तं बहुदोषग्रस्तत्वात् । तथाहि वेदस्य प्रामाण्यं नाम विद्यमानवस्तुविषयकज्ञानजनकत्वम् । ब्रह्म, ब्रह्मातिरिक्तं जगत् इति वस्तुद्वयम् । तत्र अद्वैतमते सत्यभूतस्य ब्रह्मणः अज्ञेयत्वाङ्गीकारेण सकलधर्मरहितत्वेनाङ्गीकृते ब्रह्मणि धर्मनिमित्तकप्रवृत्तिमतां शब्दादिप्रमाणानां प्रवृत्त्यसम्भवेन च वेदस्य ब्रह्मविषयकप्रमितिजनकत्वरूपं प्रामाण्यं वक्तुं नैव शक्यते अद्वैतिभिः । ‘स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा । तथाविश्वमिदं दृष्टं न निरोधो न चोत्पत्तिः न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्तः (गौ.पा.का.) ‘द्वैतस्यासत्त्वं सिद्धं सतो ह्युत्पत्तिः प्रलयो वा स्यात् । नासतः शशविषाणादे: (गौ. का.शां.भा.) इत्यादि गौडपादकारिकायां तद्व्याख्यानशङ्करभाष्ये च जगतश्शशविषाणवदसत्त्वाङ्गीकारेण तद्विषय- प्रमितेरेवासम्भवेन वेदस्यासत्त्वेन च जगद्विषयकप्रमितिजनकत्वरूपप्रामाण्यस्य वेदे वक्तुमशक्यत्वेन वेदे प्रामाण्यस्यैवानङ्गीकारेण वेदप्रामाण्यान्यथानुपपत्त्या आकाशस्योत्पत्तिरङ्गीकार्या इत्युक्तेरद्वैतमते अयुक्तत्वात् ।
यत्तूक्तं मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते इति तदपि न युक्तम् । अद्वैतमते मृदि घटादीनां कल्पितत्वाङ्गीकारेण रजतस्य शुक्तिकार्यत्वाभाववत् घटादीनां मृत्कार्यत्वासम्भवात् ।
यच्च ‘तथाहि प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां स्थापयन्ति' इदं सर्वं यदयमात्मा' (बृ.२.४.६) ब्रह्मैवेदममृतं पुरस्तात्' (मुं.२.२.१) इत्येवमादयः' इति तदप्ययुक्तम् ।वाक्यान्वयाधिकरणे एतासां श्रुतीनां कार्यकारणयोरभेदप्रतिपादकत्वाभावस्य समर्थितत्वात् ।
यच्चोक्तं 'न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वं विज्ञानं नेतव्यम् । मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते' इति तदपि न युक्तम् । 'निर्विकारोऽक्षरः शुद्धः' इत्यादिश्रुतिभिः ब्रह्मणो निर्विकारत्वावगमेन अद्वैतिभिर्ब्रह्मणः विकारानङ्गीकारेण च प्रकृतिविकारन्यायेन ब्रह्मज्ञानेन जगज्ज्ञानस्य वक्तुमशक्यत्वात् ।
यच्चोक्तं न च वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थाव- धारणमुपपद्यते' इति तदद्वैतिमते न सम्भवति ; ब्रह्मण अद्वैतमते प्रमाणागम्यत्वेन वेदप्रतिपाद्यत्वं नास्ति । जगतस्तु मायिकत्वेन अज्ञानिनः प्रति मोहनार्थमेवोक्तत्वात् । उक्तं हि शङ्कराचार्यैस्तत्रतत्र
“वर्णितश्चास्माभिर्विद्वदविद्वद्भेदेन कर्मविधिविरोधपरिहारः " (बृ.शां. भा. १.३.१९) इत्याद्यनेकवाक्यैः कर्मविध्यादिवेदवाक्यानि अज्ञानिनः प्रत्येवोक्तानीति तथा च अद्वैतिमतरीत्या ब्रह्मणि अध्यस्ततया स्वीकृतस्य जगतः ब्रह्मज्ञानेन ज्ञानासम्भवात् ब्रह्मज्ञानेन जगज्ज्ञानान्यथानुपपत्त्या आकाशादिजगतः ब्रह्मकार्यत्वं न वक्तुं शक्यत इति ।
ॐ यावद्विकारन्तु विभागो लोकवत्' ॐ (२.३.७)
इति सूत्रं यद्यपि आकाशस्योत्पत्तिसाधकानुमानपरतया व्याचक्रुः शङ्कराचार्यादयः । सा उत्पत्तिरप्यस्माकं संमतैव । तथापि ‘आकाशदिक्कालमन:परमाणवः विकाराः विभक्तत्वात् (विभागवत्त्वात्) घटशरावोदंचनादिवत्' इत्यनुमानेन आकाशादीनां विकारत्वसिद्धिः । नन्वात्माऽपि आकाशादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत् प्राप्नोति अन्यथा व्यभिचारापत्तेरिति । तन्न । यदि ह्यात्माऽपि विकारः स्यात् परमन्यन्न श्रुतमिति आकाशादिसर्वं कार्यं निरात्मकं आत्मनः कार्यत्वे स्यात् । तथाच शून्यवादः प्रसज्येत । अत आत्मनो विकारो नाङ्गीकरणीयः । तथाच विभक्तत्वादित्यनुमानस्य व्यभिचारपरिहारार्थं आत्मान्यत्वस्य वा धर्मिसत्तासमानसत्ताकत्वस्य वा विशेषणदानेन व्यभिचारः परिहरणीय इति साधनरीतिरनुपपन्नैव । तथाहि एकस्यात्मनः ज्ञानेन जगतः ज्ञानं भवतीति प्रतिज्ञा आत्मजगतोरभेदमन्तरा न सम्भवतीति जगतः परमात्माभेदस्य पूर्वसूत्रे अद्वैतिभिरेवोक्तत्वेन आत्मान्यत्वे सति विभक्तत्वात् इति हेतूकरणे स्वरूपासिद्धेः । पक्षे आकाशादौ आत्मान्यत्वस्याभावात् ।
धर्मिसत्तासमानसत्ताकत्वविशेषणदानमप्ययुक्तम् । अद्वैतिभिः 'स्वप्नमाये यथा दृष्टे....न निरोधो न चोत्पत्तिः' (गौ.पा.का.) ‘द्वैतस्यासत्त्वात्’ (गौ.शां.भा.) इत्यादिवाक्यैः आकाशादिजगतः असत्त्वस्वीकारावगमेन धर्मिणः ( आकाशादेः) सत्ताया एवाभावात् धर्मिसत्तासमानसत्ताकत्वं विभागे नास्त्येवेति धर्मिसत्तासमानसत्ताकविभागवत्त्वस्य असिद्धत्व प्राप्तेः । विकारशब्दस्य पराधीनसत्ताक इत्यर्थस्य कल्पतरौ कृतत्वात् नानेनानुमानेन आकाशादीनामुत्पत्तिसिद्धिः । अनुत्पन्नस्यापि पराधीनसत्ताकत्वसिद्धेः ।
यच्चोक्तं ‘यदि ह्यात्मापि विकारः स्यात् । तस्मात्परमन्यन्न श्रुतमित्याकाशादिसर्वं निरात्मकं (निरुपादानकं) आत्मनः कार्यत्वे स्यात्, तथा च शून्यवादः प्रसज्येत' इति तदप्यसमंजसम् । तथाहि अद्वैतमते शुद्धात्मा विशिष्टात्मा चेति द्वौ आत्मानौ । तत्र विशिष्टात्मविकार: मिथ्या, तस्मात् अन्यत् परं अद्वैत्यभिमतं निर्विशेषं ब्रह्म शून्यवत् प्रमाणागम्यत्वात् न श्रुतमिति ब्रह्मवादः शून्यवाद एवेति शून्यवादः प्रसज्येत इत्यापादनस्य अयुक्तत्वात् ।
उक्तं हि ब्रह्मविद्याभरणे- 'शून्यं भावरूपं वा अभावरूपं वा ? नाद्यः । शून्यस्य भावरूपत्वे ब्रह्मवाद एवाश्रित इति शून्यस्य भावरूपत्वे शून्यवादस्य ब्रह्मवादत्वम् । शून्यस्य प्रपञ्चाभावरूपत्वेऽपि अद्वैतिभिरपि ब्रह्मणः प्रपञ्चाभावरूपत्वाङ्गीकारात् प्रपञ्चाभावरूपब्रह्मवादः प्रपञ्चाभावरूपशून्यवाद एवेति ।
किञ्च यच्चोक्तं अद्वैतिभिः 'न ह्यात्मा आत्मनः प्रमाणमपेक्ष्य सिध्यति’ तदुक्तं सुरेश्वराचार्यै:-'प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य प्रसादात् सिध्यन्ति तत्सिद्धौ किमपेक्ष्यते ।।' इति तथा श्रुतिराह
‘पुरुषः स्वयं ज्योतिः’ ‘तस्य भासा सर्वमिदं विभाति इति च' इति तन्न युक्तम् । ब्रह्मणः प्रमाणमनपेक्ष्य सिद्ध्यङ्गीकारे शशविषाणवंध्या- पुत्रादीनामपि प्रमाणमनपेक्ष्य सिद्धिः स्यात् । शशविषाणादिविषयेऽपि ‘प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य प्रसादात् सिध्यन्ति तत्सिद्धौ किमपेक्ष्यते' इति वक्तुं शक्यत्वात् ।
न च शशविषाणस्य असत: प्रसाद ( इच्छाविशेष: गुणान्तरं वा ) एव नास्ति । कथं शशविषाणस्य प्रसादात् सिध्यतीत्युक्तिः समञ्जसा स्यादिति वाच्यम् । निर्विशेषस्य ब्रह्मणोऽपि प्रसादो नास्त्येवेति ब्रह्मविषयेऽपि यस्य प्रसादात्' इत्युक्तिरयुक्तैव ।
अपि च-यत् स्वप्रकाशं (इतर प्रमाणागम्यं) शुद्धं ब्रह्म अद्वैतिभिरङ्गीक्रियते तस्मिन् विषये 'पुरुषः स्वयं ज्योतिः’ इति । ‘तस्य भासा सर्वमिदं विभाति' इति च श्रुत्युदाहरणं अयुक्तम् । अद्वैत्यभिमतनिर्धर्मकब्रह्मणः मुख्यवृत्त्या वा अमुख्यवृत्त्या वा एतच्छ्रुरुत्यप्रतिपाद्यत्वात् । यत्किञ्चिद्धर्मवत्येव श्रुत्यादिप्रमाणानां प्रवृत्तेः ।
अपि च आत्मा मानाधीनसिद्धिकः किं न स्यात् इति शङ्कापरिहारार्थं 'आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात् प्रागेव प्रमाणादिव्यवहारात् सिध्यतीति' यदुक्तं तदपि स्वव्याहतम् । अनेन वाक्येन आत्मा प्रमाणादिव्यवहारात् प्राक् सिध्यति प्रमाणादिव्यवहाराश्रयत्वात् इति अनुमानरूपप्रमाणेन आत्मसिद्धिमुक्त्वा प्रमाणानधीन सिद्ध्युक्तिः स्वव्याहता । न हीदं वाक्यं अनुमानरूपप्रमाणसूचकम् नेति वक्तुं शक्यं प्रमाणमन्तरापि सिद्धौ शशविषाणादिकं प्रमाणमन्तरा सिध्यतु इत्युक्तदोषानिवृत्तेः । ब्रह्मसिद्धौ प्रमाणानपेक्षायां यस्य कस्यापि वस्तुनः सिद्धौ प्रमाणापेक्षाया अभावेन प्रमाणानां वैयर्थ्यापत्तेः । तत्तद्वाद्यभिलषितपदार्थानां यथेच्छं सिद्ध्यापत्त्या परस्परविरुद्धानां सर्वमतानामपि अङ्गीकार्यत्वापत्तेश्च । अद्वैत्यभिमते निर्धर्मके ब्रह्मणि प्रमाणादिव्यवहाराश्रयत्वमसिद्धं चेत्याद्यनेकदोषयुक्तत्वात् एतत्प्रणाल्या आकाशस्य कार्यत्वसाधनमयुक्तम् ।
ॐ एतेन मातरिश्वा व्याख्यातः ॐ (२.३.८)
इत्यधिकरणीयशाङ्करव्याख्यानमपि वियदधिकरणभाष्यनिराकरण- न्यायेनैव निराकृतं भवति सिद्धान्तस्य समत्वात् ।
ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ (२.३.९)
इति सूत्रं ब्रह्मणोऽपि आकाशवायुवत् उत्पत्तिशङ्कायां ब्रह्मण उत्पत्त्यभावप्रतिपादकतया व्याख्यातम् । यद्यपि जगत्कारणस्य ब्रह्मण उत्पत्तिर्नास्ति तथापि अद्वैतमतरीत्या उत्पत्त्यनुपपत्तिप्रतिपादनं न युक्तमेवेति प्रदर्शयामः । यच्चोक्तं शाङ्करभाष्ये - 'स कारणं कारणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिप:' ( श्वे. ६.९) इति च ब्रह्मणो जनयितारं वारयति' इति तदद्वैतमतरीत्या अयुक्तम् । तथाहि सः=ब्रह्म, कारणम्=जगत उत्पादकं, कारणाधिपाधिपः=ये कारणाधिपाः जीवाः तेषामधिपः, अस्य ब्रह्मणः कश्चिज्जनयिता नास्ति अधिपश्च नास्ति इति खलु अद्वैतमतरीत्या श्रुत्यर्थः । तथा च अद्वैतमतरीत्या एतच्छ्रुरुतिप्रतिपादितं ब्रह्म निर्गुणं वा सगुणं वा । न तावन्निर्गुणं; तस्मिन् कारणत्वकारणाधिपजीवाधिपतित्वादीनामसम्भवात् । सगुणं चेत् तस्य निर्गुणे ब्रह्मणि कल्पितत्वेन निर्गुणे कल्पितस्य आकाशादेः उत्पत्तिकथनवत् सगुणब्रह्मणः उत्पत्तिकथनसम्भवात् । नैतस्याः श्रुतेः उत्पत्त्यभावे प्रमाणतया उदाहरणमद्वैतिनां युक्तम् ।
ॐ तेजोऽतस्तथा ह्याह ॐ ( २.३.१० )
इति सूत्रेण तेजसो मातरिश्वनः जनिरुक्ता सा समीचीनैव । उत्पत्तिप्रकारचिन्ता अयुक्ताऽपि प्रकृतानुपयुक्तत्वात् न निराक्रियते । तत्र " दर्शयति च ब्रह्मणो विकारात्मना अवस्थानं ' तदात्मानं स्वयमकुरुत' (तै.२.७.१) इति वाक्येन श्रुतिमुदाहृत्य ब्रह्मणो विकारात्मना या अवस्थितिः भाष्ये उक्ता सा निर्विकारश्रुतिविरुद्धा च । अद्वैतमते हि ब्रह्मणः जगद्भ्रमं प्रति अधिष्ठानत्वमुक्तं न तु विकारात्मनाऽवस्थानमिति ।
ॐ आपः ॐ (२.३.११)
ॐ पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॐ (२.३.१२)
इति सूत्रे अग्रप्सृष्टिं अद्भ्यः पृथिवीसृष्टिं प्रतिपादयतः इति शङ्कराचार्याणां यत्सृष्टिकथनं तद्युक्तमेव । परन्तु सा सृष्टिः कल्पितरूपेण यत् कथ्यते तदयुक्तमिति तत्र तत्र वर्णितं तदनुसन्धेयमत्रापि ।
ॐ तदभिध्यानादेव तु तल्लिङ्गात्सः ॐ (२.३.१३ )
इति सूत्रस्य ‘“किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान् सृजन्त्याहोस्वित् परमेश्वर एव तेन तेनात्मनाऽवतिष्ठमानोऽभिध्यायंस्तं तं विकारं सृजतीति सन्देहे सति प्राप्तं तावत् स्वयमेव सृजन्तीति । कुतः ? 'आकाशाद्वायुर्वायोरग्निः' इत्यादिस्वातन्त्र्यश्रवणात् । नन्वचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा, नैष दोषः, तत्तेज ऐक्षत ता आप ऐक्षन्त' (छां.६.२.४) इति च भूतानामपि चेतनत्वश्रवणादिति । एवं प्राप्तेऽभिधीयते-स एव परमेश्वरस्तेन तेनात्मनाऽवतिष्ठमानोऽभिध्यायंस्तन्तं विकारं सृजतीति । कुतः? तलिङ्गात् । तथाहि शास्त्रम् - ‘यः पृथिव्यां तिष्ठन् यः पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति' (बृ.३.७.३) इत्येवंजातीयकं साध्यक्षाणामेव भूतानां प्रत्तृत्तिं दर्शयति । तथा 'सोऽकामयत बहु स्यां प्रजायेय' इति प्रस्तुत्य ‘सच्चत्यच्चाभवत्’ ‘तदात्मानं स्वयमकुरुत' (तै.२.६.१) इति च तस्यैव च सर्वात्मभावं दर्शयति । यत्त्वीक्षणश्रवणमप्तेजसोस्तत्परमेश्वरावेशवशादेव द्रष्टव्यम् । 'नान्योऽतोऽस्ति द्रष्टा (बृ. ३.७.२३ ) इतीक्षित्रन्तरप्रतिषेधात् । प्रकृतत्वाच्च सत ईक्षितुः 'तदैक्षत बहु स्यां प्रजायेय' इत्यत्र " इति यद् व्याख्यानं शङ्कराचार्याणां तदयुक्तम् । तथाहि - वियदादिभूतानां चेतनत्वश्रवणात् स्वयमेव स्वविकारान् सृजंतीति पूर्वपक्षोऽसम्भावित एव । चेतनानां देवतानां स्वविकारसर्जनस्यासम्भावितत्वात् । परमेश्वरस्तेन तेनात्मनाऽवतिष्ठमनोऽभिध्यायंस्तं तं विकारं सृजतीति सिद्धान्तोऽप्ययुक्तः । परमेश्वरस्य तेन तेनात्मना (आकाशवाय्वादिस्वरूपेण) स्थितेरयोगात् । न हि परमेश्वरः आकाशवाय्वादिजडरूपेण आकाशवाय्वाद्याभिमानिविशिष्ट- देवतारूपेण वा अवतिष्ठते । न हि चेतनस्य परमात्मनः अचेतनरूपेण वा विशिष्टदेवतारूपेण भवनं वा सम्भावनार्हंह। अद्वैतिभिरनङ्गीकृतं च ।तल्लिङ्गात् । तथाहि शास्त्रं यः पृथिव्यां तिष्ठन्यः पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति (बृ.३.७.३) इत्येवंजातीयकं साध्यक्षाणमेव भूतानां प्रवृत्तिं दर्शयति इति परमेश्वरः तेन तेनात्मना अवतिष्ठमानः तं तं विकारं सृजतीति अस्मिन् विषये हेतुतया यदुक्तं तदप्यसमञ्जसम् । अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् (ब्र.सू.१.२.१८) इति सूत्रभाष्ये यं पृथिवी न वेद-इति च पृथिवीदेवतायाः अविज्ञेयमन्तर्यामिणं ब्रुवन् देवतात्मनोऽन्यं अन्तर्यामिणं दर्शयति इति वाक्येन तथा ‘तत्र य पृथिवी न वेद ' यं सर्वाणि भूतानि न विदुः ' इति चान्ये नियन्तव्याः विज्ञातारोऽन्यो नियन्ता सर्वान्तर्यामीति उपनिषद्भाष्यवाक्येन च पृथिव्याद्यभिमानिदेवताभ्यः अन्तर्यामी ईश्वरः अन्यः इति स्पष्टं परमेश्वरस्य पृथिव्याद्यभिमानिदेवताभ्यः भेदस्य उक्तत्वेन ‘यः पृथिव्यां तिष्ठन्' इति श्रुतेः परमेश्वरस्तेन तेनात्मनाऽवतिष्ठमानः इत्यस्मिन् विषये (अभेदविषये) उदाहरणस्यायुक्तत्वात् ।
किञ्च साध्यक्षाणामेव भूतानां प्रवृत्तिं दर्शयतीति वाक्येन स्वयमेव शङ्कराचार्यैः भूताभिमानिदेवतानां परमात्मना नियम्यनियामकभावेन भेदस्य कथितत्वेन तेन तेनात्मनाऽवतिष्ठमानः' इति भूतरूपेण (भूताभेदेन) स्थितिकथनं स्वव्याहतम् ।
किश्च तथा ‘सोऽकामयत बहुस्यां प्रजायेय' इति प्रस्तुत्य ‘सच्चत्यच्चाभवत्’ ‘तदात्मानं स्वयमकुरुत' (तै.२.७) इति च तस्यैव सर्वात्मभावं दर्शयति इति यदुक्तं भाष्ये तत् श्रुत्यर्थाज्ञानमोहनान्यतरमूलं श्रुतौ परमात्मनः सर्वात्मभावानुक्तेः । तथाहि -'सोऽकामयत बहु स्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वा इदं सर्वमसृजत यदिदं किञ्च तत् सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्याच्चाभवत्' इत्यादिश्रुतेः ।
१. सः = परमात्मा २. अहं=अहं ३. बहुस्यां= बहुरूपी स्यां (तदर्थ) ४. प्रजायेय= सर्जनं कुर्यां ५. इति= एवंप्रकारेण ६. अकामयत = इच्छां कृतवान् (अनन्तरं) ७. सः = परमात्मा ८. तपः= आलोचनं ९. अतप्यत = अकरोत् १०. सः = परमात्मा ११. तपः= आलोचनं १२. तप्त्वा = कृत्वा १३. यत् = प्रमाणसिद्धं यत्किञ्च १४. इदं किञ्च=जगदस्ति १५. इदं सर्वम् = तत् समस्तं जगत् १६. असृजत = सृष्टवान् १७. तत् =सर्वं जगत् १८. सृष्ट्वा =निर्माय १९. तदेव = सृष्टं जगत् २०. अनुप्राविशत् = नियामकरूपेण प्रविष्टवान् २१. तत् =जगत् २२. अनुप्रविश्य = प्रवेशं कृत्वा २३. सत् = सच्छब्दवाच्य गुणयोगेन सदिति शब्दवाच्यः २४. त्यत् च = त्यच्छब्दवाच्य गुणयोगेन त्यच्छब्दवाच्यश्च २५. अभवत् = अभूत् इति हि शब्दात्प्रतीयमानोऽर्थः एतच्छ्रुत्युक्तार्थे ।
‘तदप्येष श्लोको भवति असद्वा इदमग्र आसीत् ततो वै सदजायत तदात्मानं स्वयमकुरुत तस्मात्तत् सुकृतमुच्यत इति -' इति मन्त्रः प्रमाणतया उदाहृतः । श्रुत्या एतस्य मन्त्रस्य पूर्वमन्त्रार्थे प्रमाणतया उदाहृतत्वेन पूर्वमन्त्रस्य योऽर्थः स एवार्थो वक्तव्य इत्यविवादमिति पूर्वं पूर्वमन्त्रार्थं निर्धार्य ततः ‘आत्मानं स्वयमकुरुत' इति मन्त्रार्थो निर्धार्यते ।
‘सोऽकामयत बहु स्यां प्रजायेय' इति प्रस्तुत्य 'सच्च त्यच्चाभवत्’ इति वाक्यग्रहणं केवलं पूर्वोत्तरवाक्याज्ञानिनां मोहनार्थमेव कृतं शङ्कराचार्यैः । तथाहि सोऽकामयत बहु स्यां प्रजायेय इति 'सच्च त्यच्चाभवत्' इति वाक्यमध्यवर्तिनः ‘‘इति स तपोऽतप्यत स तपस्तप्त्वा इदं सर्वमसृजत यदिदं किञ्च तत्सृष्ट्वा तदेवानुप्रविशत् तदनुप्रविश्य” इति वाक्यस्य अग्रहणात् । शङ्करत्यक्तवाक्येन हि 'बहु स्यां प्रजायेय' इति कामनां कृत्वा स परमात्मा आलोचनं कृतवान्, आलोचनं कृत्वा यत् किञ्चित् जगदस्ति तत्सर्वं जगत् सृष्टवान् । तादृशं जगत् सृष्ट्वा तस्मिन् जगति परमात्मा ‘यः पृथिव्यां तिष्ठन् यः पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः’ (बृ. ३.७.३) योऽप्सु तिष्ठन् ' ४ 'योऽग्नौ तिष्ठन् ' ५ 'योऽन्तरिक्षे तिष्ठन्’ ६. ‘यो वायौ तिष्ठन् ' ७. 'यो दिवि तिष्ठन्' ८. ‘य आदित्ये तिष्ठन् ' ९. ' यो दिक्षु तिष्ठन्' १०. 'यश्चन्द्रतारके तिष्ठन्' ११. 'य आकाशे तिष्ठन्’ १२. ‘यस्तमसि तिष्ठन् ' १३. ‘यस्तेजसि तिष्ठन्' १४. 'यः सर्वेषु भूतेषु तिष्ठन् ' १५. 'यः प्राणे तिष्ठन् ' १६. 'यो वाचि तिष्ठन्' १७. 'यश्चक्षुषि तिष्ठन् ' १८. 'यः श्रोत्रे तिष्ठन्' १९. 'यो मनसि तिष्ठन्' २०. ‘यस्त्वचि तिष्ठन् ' २१. ' यो विज्ञाने तिष्ठन् ' य आत्मनि (जीवे) तिष्ठन्' २२. 'यो रेतसि तिष्ठन् ' इत्यादिवृहदारण्यकवाक्यानुसारेण नियामकरूपेण प्रवेशं कृतवान् इति नियम्यस्य प्रवेश्यस्य च पृथिव्यादिसर्वजगतः नियामकेन प्रवेष्ट्रा परमात्मना भेद एवोक्तो भवति न तु पृथिव्यादिसर्वजगद्रूपत्वमिति (सर्वात्मभावमिति) स्वेनोच्यमानसर्वात्मभावविरुद्धार्थः प्रतिपाद्यते इति तस्य भागस्य वचनार्थं त्यागः । सच्च त्यच्चाभवदिति वाक्येन ब्रह्मणः न सत्यदादिजगद्रूपत्वं कथ्यते । ब्रह्मणः सत्त्यदादिभवनात्प्रागेव 'इदं सर्वमसृजत यदिदं किञ्च’ इति मूर्तामूर्तादिशब्दवाच्यजगत्सृष्टेः कथितत्वात् । तथा ‘तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्' इति जगत्सृष्ट्यनन्तरं जगत्प्रवेशस्य जगत्प्रवेशानन्तरं सत्त्यदादिभवनस्य चोक्तेः । तथा च ‘सच्च त्यच्चाभवत्' इति वाक्योक्तं ब्रह्मणः सत्त्यदादिभवनं विश्वोपादनरूपं न विश्वोत्पत्त्युत्तरकालीनत्वात् । या क्रिया यत्क्रियोत्तरकालीना नासावसौ यथा भुक्त्वा चरतीत्युक्तं चरणं न पूर्वकालीनभोजनरूपमिति अनुमानविरुद्धत्वात् ब्रह्मणः सत्त्यदादिभवनस्य विश्वोपादानरूपतायाः । यथा न हि घटाद्यात्मना जायमानं मृत्सुवर्णादिकं घटरुचकादि सृष्ट्वा तदनुप्रविश्य तद्भवति । तथा न हि जगदात्मना जायमानं ब्रह्म जगत्सृष्ट्वा जगत्प्रविश्य सत्त्यदादिजगद्रूपं भवतीति । जगत्सृष्ट्यनन्तरकालीनसत्त्यदादि- भवनकथनं न ब्रह्मणः सर्वात्मभावं प्रतिपादयति प्रत्युत भेदमेवेति ।
‘सोऽकामयत बहु स्यां प्रजायेय' इति वाक्यस्य केवलजगदात्मना भवनेच्छाकथने तात्पर्ये सोऽकामयत बहु स्यां इत्यनेनैवालं प्रजायेय इति व्यर्थम् । प्रजायेय इत्यस्यापि उत्पन्नो भवेयं इत्यर्थकत्वात् । तस्मात् बहु स्यामित्यस्य तत्तत्पदार्थनियामकबहुरूपी स्यां इति सङ्कल्प्य तदर्थं नियम्यप्रजाः प्रजायेय इति सङ्कल्प्य नियम्यजगत् सृष्ट्वा पूर्वसङ्कल्पानुसारेण तत्तन्नियामकरूपेण तत्र तत्र प्रवेशं कृतवान् इत्यर्थस्यैव तद्वाक्यान्यथानुपपत्त्या प्रतीतेः न जगदभेदोऽनेन वाक्येनोच्यते । यदि ब्रह्मणः जगदात्मना भवनमेव इष्टं स्यात् तथा ब्रह्म यद्यकृतं तदा सोऽकामयत प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वा इत्यनन्तरं इदं सर्वमसृजत इति वा सच्च त्यच्चाभवदिति वा वक्तव्यं स्यात् । न तूभयं एकस्य वैयर्थ्यापत्तेः । तदात्मानं स्वयमकुरुत इति वाक्यन्तु तदप्येष श्लोको भवतीति पूर्वोक्तार्थे प्रमाणतया उदाहृतवाक्यान्तर्गतत्वेन पूर्ववाक्ये जगत् सृष्ट्वा नियामकरूपेण तत्र तत्र प्रवेशेन आत्मनः नियामकबहुभावस्योक्तत्वेन आत्मानं नियामकरूपेण स्वयं स्वेच्छया अकुरुत=कृतवान् इत्यर्थस्यैव कर्तव्यतया नेदमपि वाक्यं ब्रह्मणो जगदात्मभावं कथयति । निर्विकारस्य ब्रह्मणः जगदात्मना भवनस्यासम्भवात् । अद्वैतिभिरपि निर्विकारस्य ब्रह्मणः जगदात्मना विकारानङ्गीकाराच्च ।
किञ्च अद्वैतिभिः ब्रह्मणि जगतः अध्यस्तत्वाङ्गीकारात् ब्रह्मणः जगद्रूपेण भवनेच्छाया वक्तुमशक्यत्वेन बहु स्यामित्यस्य लक्षणया अहं (ब्रह्म) बहुरूपेण भ्रान्तः (भ्रान्त्याश्रयः) स्यामिति वा बहुरूपेण भ्रान्तिविषयः स्यामिति वा इच्छां कृतवान् । इच्छानन्तरं तपः आलोचनं कृतवान् । आलोचनं कृत्वा इदं सर्वमसृजत इत्यस्य इदं सर्वं जगत् असृजत तत्प्रकारकसविशेष्यकभ्रमाश्रयः अभूत् इति वा तत्प्रकारकभ्रमविशेष्यः अभूदित्यर्थो वा वक्तव्यः ।स चायुक्तः ।
(१) निर्धर्मके ब्रह्मणि अध्यासप्रयोजकानां सामान्यधर्म- विशेषधर्मसामान्यधर्मप्रकारकज्ञानविशेषधर्मप्रकारकज्ञानाभावारोप्यमाण जगत्सादृश्यादीनामभावेन अध्यासासम्भवात् ।
(२) अध्यासाङ्गीकारेऽपि अहं जगत्प्रकारकभ्रमवान् स्यामितीच्छाया वा जगत्प्रकारकभ्रमविशेष्यः स्यामितीच्छायाः कस्याप्यसम्भवात् ।
(३) ‘स तपोऽतप्यत स तपस्तप्त्वा' इति तपश्शब्दोक्तालोचनरूपज्ञानस्य भ्रमोत्पत्तिं प्रति उपयोगाभावात् प्रत्युत ज्ञानस्य भ्रमोत्पत्तिं प्रति प्रतिबन्धकत्वाच्च ।
(४) 'इदं सर्वमसृजत' इत्यस्य इदं सर्वं जगत् असृजत भ्रमविषयम- करोत् इत्यर्थासम्भवाच्च ।
तस्मात् ‘सोऽकामयत' इति वाक्यं सर्वात्मभावं न ब्रह्मणः प्रतिपादयति । किन्तु यः पृथिव्यां तिष्ठन्नित्यादिश्रुत्युक्तदिशा परमात्मा नियामक बहुरूपेण भवामि इतीच्छां कृत्वा नियामकाहरू पार्थं नियम्यपृथिव्यादिरूपं जगत् सृजामीतीच्छां कृत्वा नियम्यपृथिव्यादिभूतानि सृष्ट्वा तेषु नियामकरूपेण प्रविश्य 'सच्च त्यच्चाभवत् साधुगुणादियुक्तत्वेन सत्त्यदादिशब्दवाच्योऽ भूदित्येवार्थः इति नेदं वाक्यं ब्रह्मणः सर्वात्मभावे प्रमाणम् ।
अपि च ‘यत्त्वीक्षणश्रवणं अप्तेजसोस्तत् परमेश्वरवशादेव द्रष्टव्यं नान्योऽतोऽस्ति द्रष्टा' (बृ. ३.७.२३) इति ईक्षित्रन्तरस्य प्रतिषेधात् इति यदुक्तं तन्न । नान्योऽतोऽस्ति द्रष्टेति वाक्यं ईक्षित्रन्तरं न वारयति । 'अदृष्टो द्रष्टा' इति पूर्ववाक्येन परमात्मनः धर्मादिवत् दर्शनायोग्यत्वस्य कथित्वेन अतः=दर्शनायोग्यत्वात् अन्यः परमात्मद्रष्टा नास्ति इत्यर्थपरतया द्रष्ट्रन्तरनिषेधकत्वाभावस्य पूर्वं बहुवारं व्यवस्थापितत्वात् । ‘आत्मा वारे द्रष्टव्यः श्रोतव्यः' इत्यादौ परमात्मदर्शनस्य विधानाच्च । तदैक्षत बहु स्यां प्रजायेयेति सत ईक्षितृत्वमुक्त्वा तदुत्तरवाक्ये ' तत्तेज ऐक्षत ता आप ऐक्षन्त' इति तेजआदीनां ईक्षितृत्वनिषेधायोगाच्च । तथाच पूर्वपूर्वभूतानां जडानां उत्तरोत्तरभूतं प्रति उपादान (परिणाम) कारणत्वं पूर्वपूर्वभूताभिमानिदेवतानां उत्तरोत्तरभूतं प्रति परमात्माधीनतया कारणत्वं परमात्मनः स्वातन्त्र्येण कारणत्वमिति परमेश्वरः तत्तद्भूतभावेन (भूतरूपतया) तं तं विकारं सृजति, इति व्याख्या न युक्तेति ।
ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ (२.३.१४)
इति सूत्रं यत् विपर्ययेण तु प्रलयक्रमः इत्यर्थपरतया व्याख्यातं शङ्कराचार्यैः तद्युक्तमेव । परन्तु यदुक्तं “यत्पृथिव्यद्भ्यो जाता सती स्थिति कालव्यतिक्रान्तावपोऽपीयादापश्च तेजसो जाताः सत्यस्तेजोऽपीयुः, एवं क्रमेण सूक्ष्मं सूक्ष्मतरं चानन्तरमनन्तरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं च ब्रह्माप्येतीति वेदितव्यं " इति तन्न युक्तम् । तत्परिणतं वस्तु प्रलये तस्मिन् लीयते न तु तन्निमित्तकारणकं वस्तु तस्मिन् लीयते । मृत्परिणतो घटः मृदि लीयते न तु दण्डनिमित्तकारणको घटो दण्डे लीयते । पृथिव्यादीन् प्रति जलादीनां प्रकृत्यन्तानामुपादानकारणत्वात्तेषु तेषु तेषां लयक्रमेण अन्ततः प्रकृतौ प्रकृतिजातसर्वपदार्थानां लयेऽपि ब्रह्मणो निमित्तकारणत्वात् ब्रह्मनिमित्तकारणकपदार्थानां तद्रूपताभवनरूपलयो न सम्भवतीति सर्वं कार्यजातं परमकारणं परमसूक्ष्मं ब्रह्माप्येतीत्युक्तिरयुक्तैव । पृथिव्यादीनां जलादिषु उपादानकारणेषु लयोऽपि पृथिव्यादेर्जलादिकं परिणाम्युपादान- कारणमिति मते युक्तः । अद्वैतमते यथा एकस्यां शुक्तिकायां रजतसीसवंगादीनां अनेकेषां भ्रमः एवं पृथिव्यादीनां सर्वेषां ब्रह्मण्येव भ्रमः इत्यङ्गीकारेण पृथिव्यादीनामपि न जलादावप्ययसम्भव इति ।
ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ ( २.३.१५ )
इतीदं सूत्रं भूतकरणोत्पत्तिश्रुत्योरविरोधबोधकमित्युक्तं भाष्ये तदयुक्तं । अद्वैतमतरीत्या सर्वस्य कल्पितत्वात् । उत्पत्तिश्रुतेर्विरोधप्रसक्तेरभावात् । तत्परिहारकथनं तु दूर एवेति प्रकृतानुपयुक्तत्वाद्विशेषविचारो न क्रियते ।
ॐ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॐ (२.३.१६)
इति सूत्रस्य जीवस्य जन्ममरणव्यपदेशो भाक्तः । स्थावरजङ्गम- शरीरविषयकजन्ममरणशब्दः तत्स्थे जीवे उपचरितः । शरीरप्रादुर्भावतिरोभावयोः सतोः जन्ममरणशब्दौ जीवे भवतः नासतोः इति जीवस्य शरीरोत्पत्तिनाशप्रयुक्तोत्पत्तिनाशशब्दः नतु स्वत इत्येतत्परतया यच्छाङ्कर व्याख्यानं तद्युक्तमेव । परन्तु सर्वं कल्पितमिति वदतामद्वैतिनां मते न युक्तमिति तत्र तत्र वर्णितमिति पुनरत्र न विचार्यते ।
'जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते' इति श्रुतिगतजीवशब्दस्य जीवपरत्वे तया श्रुत्या जीवस्य नित्यत्वसिद्धावपि न बाधकमस्माकं किंचित् । वस्तुतः परमात्मपर एव अयं जीवशब्दः न अल्पज्ञत्वादिविशिष्टजीवपर इत्युत्तराधिकरणे वक्ष्यामः ।
ॐ नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॐ (२.३.१७)
एतत्सूत्रस्य कासुचिच्छ्रुतिषु अग्निविष्फुलिङ्गादिनिदर्शनैर्जीवात्मनः परस्माद्ब्रह्मण उत्पत्तिराम्नायते । कासुचित्त्वविकृतस्यैव परस्य ब्रह्मणः कार्यप्रवेशेन जीवभावो विज्ञायते । न चोत्पत्तिराम्नायते इति श्रुतिविप्रतिपत्तेः जीवाख्यः आत्मा ब्रह्मणः व्योमादिवदुत्पद्यते आहोस्वित् ब्रह्मवदेव नोत्पद्यते इति संशये जीवः उत्पद्यते इति पूर्वपक्षयित्वा नोत्पद्यते इति सिद्धान्तः इति शङ्कराचार्याणां यद्व्याख्यानं तद्युक्तमेव । परन्तु पूर्वपक्षावसरे उक्तौ प्रथमद्वितीयहेतू अयुक्तौ, सिद्धान्तकथनरीतिश्च अयुक्ता । पूर्वपक्षे जीवस्य उत्पत्तिविषये एकस्मिन्विदिते सर्वमिदं विदितं, इतीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रह्मप्रभवत्वे सति नोपरुध्येत । तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेयमुपरुध्येत इति प्रतिज्ञानुपरोधरूपः यः प्रथमहेतुरुक्तः सः नोत्पत्तिसाधक इति पूर्वमेव प्रतिपादितमिति ।
न चाविकृतः परमात्मैव जीव इति शक्यते विज्ञातुं, लक्षणभेदात् । अपहतपाप्मत्वादिधर्मको हि परमात्मा, तद्विपरीतो हि जीव: विभक्तत्वादाकाशादिवदस्य विकरित्वासिद्धिः । यावान्ह्याकाशादिः स सर्वो विकारः । तस्य चाकाशादेः उत्पत्तिः समधिगता । जीवात्माऽपि पुण्या- पुण्यकर्मा सुखदुःखयुक्प्रतिशरीरं प्रविभक्त इति तस्यापि प्रपञ्चोत्पत्त्यवसर उत्पत्तिर्भवितुमर्हति इति द्वितीयो हेतुरप्रयोजकः । जीवपरमात्मनोर्लक्षणभेदेन भेदे सिद्धेऽपि न हि परमात्मभेदः उत्पत्तिसाधकः । “प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि " इति गीतया अनादिनित्यतया प्रमितायामपि प्रकृतौ परमात्म (ब्रह्म) भेदस्य सत्त्वात् । अन्यथा (ब्रह्मभेदमात्रस्य उत्पत्ति- साधकत्वे ) ब्रह्मभिन्नत्वेन शशविषाणवन्ध्यासुतादेरपि उत्पत्तिप्रसङ्गात् ।
(इति पूर्वपक्षहेतु निरासः )