ॐ तथा प्राणाः ॐ

भेदपराण्येव खलु ब्रह्मसूत्राणि

द्वितीयाध्यायचतुर्थपादशङ्करभाष्यपरीक्षा (विचार:)

तथा प्राणाः” (२.४.१)गौण्यसम्भवात् २” “तत्प्राक्श्रुतेश्च ३’” ‘“तत्पूर्वकत्वाद्वाचः ४इति चतुस्सूत्रात्मकमेकमधिकरणम् । तत्रतथा प्राणाइति प्रथमसूत्रस्य ' तत्तजोऽसृजत' इत्यादिषु उत्पत्तिप्रकरणेषु प्राणस्योत्पत्तेरकथितत्वात् 'असद्वा इदमग्र आसीत्' इत्यत्रासतः स्थितिमुक्त्वा असच्छब्दवाच्यस्य प्राणत्वकथनेन प्राणानां प्रलयकाले सत्त्वासिद्धी अनुत्पत्तेरप्याम्नानात् । यथाग्नेर्ज्वलन्तः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्ति एवमेवैतस्मादात्मनः सर्वे प्राणाः' इति 'एतस्माज्जायते प्राणः' (मुं.) इति सप्तप्राणाः प्रभवन्ति तस्मात् । (मुं.) इत्यादिश्रुतौ प्राणस्योत्पत्तेराम्नानात् प्राण उत्पद्यते न वेति संशये, अथवा प्रागुत्पत्तेः सद्वाव श्रवणात्प्राणाः नोत्पद्यन्ते उत्पत्तिश्रुतिर्गौणी' इति पूर्वपक्षे वा प्राप्ते,

ॐ तथा प्राणाः ॐ (२.४.१)

इति सूत्रं प्रवृत्तम् । तस्य च 'यथा आकाशादयः परस्य ब्रह्मणो विकाराः (ब्रह्मण उत्पद्यन्ते) तथा प्राणा अपि ब्रह्मणो विकारा (उत्पद्यन्ते)' इति यद्व्याख्यानं तत्र प्राणस्योत्पत्तिः या समर्थिता सा युक्तैव । यथा कुलालात् मृदा घटो जायते इति मृदो घटं प्रत्युपादानकारणत्वं, कुलालस्य निमित्तकारणत्वं तथा प्रकृते प्राणादिकं प्रति परम्परया ( महदादिद्वारा ) उपादानकारणत्वात् ब्रह्मणो निमित्तकारणत्वात् । परन्तु प्राणो ब्रह्मविकार इति ब्रह्मविकाररूपा उत्पत्तिर्या उक्ता सा अयुक्तैव ।निर्विकारोऽक्षरश्शुद्धःइत्यादिश्रुत्या निर्विकारत्वेनावगतस्य ब्रह्मणः परिणामरूपोपादान- कारणत्वायोगेन आकाशादिवत् प्राणा अपि ब्रह्मणो विकारा इत्युक्तेरयोगात् ।

न चयथा शुक्तिकोपादानकं, तथा ब्रह्मण्यारोपितं आकाशप्राणादिकं ब्रह्मोपादानकमित्यभिप्रायेणैव आकाशप्राणादयः ब्रह्मणो विकारा इत्युक्तमिति वाच्यम् । शुक्तिकायामारोपिते रजते शुक्तिविकारत्वव्यवहाराभाववत् ब्रह्मण्यरोपिततया अङ्गीक्रियमाणेषु आकाशादिषु ब्रह्मणो विकारा इति कथनायोगात् । वस्तुतो निर्धर्मके ब्रह्मणि आकाशप्राणाद्यारोपायोगाच्च । स्वीकृतश्चाद्वैतिभिर्भामतीकारादिभिःपरमार्थस्तु न भ्रमो नाम " इत्यादिग्रन्थेन निर्धर्मके ब्रह्मणि भ्रमासम्भवः । विशेषविचारस्तु 'न वियदश्रुतेः ( २.३.१) इत्यधिकरणे कृतो द्रष्टव्यः ।

ॐ गौण्यसम्भवात् ॐ (२.४.२)

इति द्वितीयसूत्रस्यएतस्माज्जायते प्राणः' इत्याद्युत्पत्तिश्रुतिर्गौणी न भवति । गौणत्वस्यासम्भवात् । उत्पत्तिश्रुतेर्गौणत्वाङ्गीकारे 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' 'येनाश्रुतं भवति' इत्याद्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः हानिप्रसङ्गात्' इति यद्व्याख्यानं कृतं तदप्ययुक्तम् । शुक्तावध्यस्तं रजतं शुक्त्यज्ञानदशायामेव भासते । शुक्तिज्ञाने सति रजतं निवर्तते । रजतज्ञानमपि निवर्तते । तथा ब्रह्मणः अज्ञानदशायामेव ब्रह्मणि कल्पितं ज्ञातत्वादिजगद्भासते ।

ब्रह्मणि ज्ञाते ब्रह्मण्यध्यस्तं निवर्तते इति 'विज्ञातमविजानतां ' (केन.) इत्यादिश्रुतिव्याख्याने शङ्काचार्यानन्दगिर्यादिभिरेवोक्तत्वेन वस्तुतस्तथैवानुभवेन च ब्रह्मणि ज्ञाते ब्रह्मण्यध्यस्तपदार्थज्ञानासम्भवात् । एक(ब्रह्म) विज्ञानेन सर्वस्य (ब्रह्मण्यध्यस्तजगतः ) ज्ञानप्रतिज्ञाया एव शशविषाणायितत्वेन शशविषाणायितप्रतिज्ञाघटनाय जगतो ब्रह्मविकारत्वस्वीकारस्यायोगात् । अत एव (एकब्रह्मविज्ञानेन सर्वविज्ञानप्रतिज्ञाया अयोगादेव)येनाश्रुतं श्रुतं भवति' । इति वाक्यव्याख्यावसरे 'तमादेशं विशिनष्टि, येन आदेशेन श्रुतेन अश्रुतमपि अन्यत् श्रुतं भवति, अमतं मतं अतर्कितं तर्कितं भवति अविज्ञातं विज्ञातं भवति तत् अनिश्चितं निश्चितं भवति इति । सर्वानपि वेदान् अधीत्य सर्वं च अन्यवेद्यमधिगम्यापि अकृतार्थ एव भवति यावदात्मतत्त्वं न विजानातीत्याख्यायिकातोऽवगम्यते' इति वाक्येन वेदाध्ययनस्य वेदार्थभूतजगज्ज्ञानस्य च ब्रह्मज्ञानमेव फलं ब्रह्मज्ञानाभावे वेदाध्ययनं व्यर्थम् । वेदार्थभूतब्रह्मान्यजगज्ज्ञानं च व्यर्थमेव (अकृतार्थ एव भवति) इति जगतः ज्ञानस्य ब्रह्मज्ञानं फलम् इत्युक्तम् । न तु ब्रह्मज्ञानेन जगज्ज्ञानं भवतीति उक्तं शङ्कराचार्यैः । विशेषविचारस्तु वियदधिकरण एव कृतो द्रष्टव्यः ।

ॐ तत्प्राक्श्रुतेश्च ॐ (२.४.३)

इति सूत्रस्यप्राणानामुत्पत्तिश्रुतिर्मुख्यैव । ' एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथ्वी विश्वस्य धारिणी ।।' इत्याद्युत्पत्तिवाक्येषु जायत इति शब्दः प्राणे प्राक् श्रुतः । स एव शब्द आकाशादिषु अनुवर्तते । तत्राकाशादिष्वनुवर्तमानः जायते इति शब्दः मुख्यार्थक एव । आकाशस्योत्पत्तेर्वियधिकरणे व्यवस्थापितत्वात् । तथाच एकत्र मुख्यार्थकः जायते इति शब्दः प्राणेष्वपि मुख्य एवेत्यङ्गीकृत्यन ह्येकस्मिन् प्रकरणे एकस्मिन् वाक्ये एक शब्दः सकृदुच्चरितः बहुभिः सम्बध्यमानः क्वचिन्मुख्यः क्वचिद्गौणः इत्यध्यवसातुं शक्यम्, वैरूप्यप्रसङ्गात्इति यदुक्तं तदप्यसमंजसम् । यथा एकस्मिन् ब्रह्मप्रकरणेअन्नं ब्रह्म’ ‘आनन्दो ब्रह्म' इति वाक्ययोः श्रुतस्य ब्रह्मशब्दस्यान्ने गौणत्वं आनन्दे मुख्यता । यथा च तपसि ब्रह्मविज्ञानसाधने ब्रह्मशब्दो गौण्या वृत्त्या प्रयुज्यते (गौणः ) विज्ञेये ब्रह्मणि मुख्यः इत्यद्वैतिभिरङ्गीकृतत्वेन तथा जायते इति शब्दस्यापि प्राणे गौणत्वस्य (अमुख्यत्वस्य) आकाशादिषु मुख्यत्वस्य सम्भवात् । न च अन्ने श्रूयमाणो ब्रह्मशब्दः भिन्नः, आनन्दे श्रूयमाणो ब्रह्मशब्दो भिन्न इति तत्र भिन्नभिन्नार्थताया युक्तत्वेऽपि अत्र जायते इत्येकस्यैव पदस्य आकाशादिषु मुख्यार्थकतायाः स्वीकारात् कथं प्राणे अमुख्यार्थस्वीकार इति वाच्यम् ।पदस्यानुषङ्गो न पदार्थस्य, तद्धि क्वचिन्मुख्यं क्वचिदौपचारिकं सम्भवासम्भवाभ्यां वक्तुं शक्यत्वात् " आस्तामयमयुक्तत्वविचारः । प्राणोत्पत्तिप्रतिपादनं युक्तमेवेति ।

प्राणस्य उत्पत्यश्रवणमिति यदुक्तम् तन्न युक्तम् । वाक्प्राणमनसां तेजोऽबन्नपूर्वकत्वोक्तेरित्याह-

ॐ तत्पूर्वकत्वाद्वाचः ॐ (२.४.४)

इति एतत्सूत्रस्यवाक्पदं वाक्प्राणमनसामुपलक्षणम् । तथा च वाचः=वाक्प्राणमनसां 'अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमयी वाक्इति ब्रह्मप्रकृतिकतेजोऽवन्नपूर्वकत्वाभिधानात्' इति यत् तेजोऽवन्नानां ब्रह्मप्रकृतिकत्वं (ब्रह्मविकारित्वं ) उक्तं तन्न युक्तम् ।

निर्विकारस्य ब्रह्मणस्तेजोऽवन्नोपादानत्वासम्भवस्य उक्तत्वादिति ।

ॐ सप्तगतेर्विशेषितत्वाच्च ॐ (२.४.५)

ॐ हस्तादयस्तु स्थितेऽतो नैवम् ॐ (२.४.६)

इति सूत्रद्वयात्मकेऽधिकरणे प्राणाः सप्त वाऽष्ट वा नव वा इत्यादि संख्याविषयकश्रुतिविरोधः परिह्रियते इति नात्र विवादविशेष इति न युक्तायुक्तत्वविचारः क्रियते ।

ॐ अणवश्च ॐ (२.४.७)

इति सूत्रेऽपि प्राणानामत्वस्थापनस्य क्रियमाणत्वात् तत्र विवाद विशेषाभावात् न युक्तायुक्तत्वविचारः क्रियते । परन्तु एताभ्यामधिकरणाभ्यां प्राणानां सप्तसंख्यावत्त्वसाधनात् असतः संख्यावत्त्वायोगात् सत्यत्वं सिध्यतीति एते अधिकरणे मिथ्यात्ववादिनां प्रतिकूले एव ।

ॐ श्रेष्ठश्च ॐ (२.४.८)

इति सूत्रस्यमुख्यश्च प्राणः इतरप्राणवद्ब्रह्मविकार एवएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च " (मुं) इति सेन्द्रियमनोव्यतिरेकेण प्राणस्योत्पत्तिश्रवणात्" इति व्याख्यानमप्ययुक्तम् । निर्विकारस्य ब्रह्मणः प्राणरूपेण विकारासम्भवस्य पूर्वमेव व्यवस्थापितत्वादिति ।

ॐ न वायुक्रिये पृथगुपदेशात् ॐ (२.४.९)

ॐ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॐ (२.४.१०)

ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ (२.४.११)

ॐ पञ्चवृत्तिर्मनोवव्यपदिश्यते ॐ (२.४.१२)

इति चतुस्सूत्रात्मकाधिकरणस्य प्रथमसूत्रे प्राणो वायुरूपो वा करणव्यापाररूपो वा इति संशये, न प्राणो वायुरूपः न वा करण व्यापाररूपः, वायोः करणव्यापाराच्च पृथक् ( भिन्नतया ) उपदेशादिति सिद्धान्तः कृत इति नात्र द्वैतिभिर्विवदितव्यमस्ति । प्रत्युत प्राणवाय्वादीनां भेदबोधनात् अधिकरणमिदं द्वैत्यनुकूलमेव सर्वाभेदवादिनामद्वैतिनां प्रतिकूलमेव चेति ।

चक्षुरादिवदिति द्वितीयसूत्रे च शरीरे जीवस्येव प्राणस्य स्वातन्त्र्यशङ्क्मयां चक्षुरादीनि यथा जीवस्य कर्तृत्वभोक्तृत्वे प्रति उपकरणानि न स्वतन्त्राणि, तथा प्राणोऽपि जीवस्य सर्वार्थकारित्वेन उपकरणभूतो न स्वतन्त्रः । तर्हि प्राणस्य श्रेष्ठत्ववाचः का गतिरिति चेत्, इतरकार्यकर्तृषु मन्त्री प्रधानोऽपि राजानमपेक्ष्य अस्वतन्त्रः तथा प्राणः इतरकरणापेक्षया श्रेष्ठोऽपि जीवे अस्वतन्त्र इति । कुतः, तत्सहशिष्ट्यादिभ्यः तैः चक्षुरादिभिः सह कथनात् । अस्वातन्त्र्येण समानधर्मवतां हि सहकथनमिति, प्राणस्य जीववदेहे स्वातन्त्र्यशङ्कानिवृत्तिः कृता । इदमपि सूत्रं पूर्वसूत्रवत् प्राणादीनां भेदबोधनात् सत्यत्वबोधनाच्च द्वैतिनामनुकूलमद्वैतिनां प्रतिकूलमेव ।

अकरणत्वाच्च न दोषस्तथाहि दर्शयति इति तृतीयसूत्रस्ययदि चक्षुरादिवत्प्राणस्य जीवं प्रति करणत्वं स्वीक्रियेत तदा यथा चक्षुरादीनां रूपादयः विषयाः सन्ति, तथा प्राणस्यापि विषयान्तरकल्पनाप्रसङ्गः । यथा रूपालोचनादीनि एकादश कार्याणि सन्ति इति तन्निर्वाहार्थं चक्षुराद्येकादशेन्द्रियाणि सङ्गृहीतानि तथा द्वादशमपरं कार्यं नास्ति इति प्राणाः द्वादश इत्यङ्गीकारो व्यर्थ इति पूर्वपक्षे, चक्षुरादीनां करणत्वात् विषयस्य सत्त्वमावश्यकम् । प्राणस्य अकरणत्वान्न विषयसत्त्वस्यावश्यकताख्यदोषोऽस्ति । न च प्राणस्य कार्याभावात् वैयर्थ्याख्यदोषः ।अथ ह प्राणा अहं श्रेयसे व्यूदिरे' इत्यादि श्रुतयः वागाद्युत्क्रमणे वागादिव्यापाररहितं जीवनं दर्शयित्वा प्राणोत्क्रमणे शरीरपातः वागादीन्द्रियशैथिल्यमित्यादिरूपं कार्यान्तरं दर्शयन्ति इति न कार्याभावदोषःइति व्याख्यानं पूर्ववत् अद्वैतमताननुकूलं द्वैतिनामनुकूलमेवेति ।

पञ्चवृत्तिर्मनोवद्व्यपदिश्यते’' इति चतुर्थसूत्रस्य प्राणस्य प्राणापान- व्यानोदानसमानरूपपश्चवृत्तित्वं मनोवद्व्यपदिश्यते । पञ्चवृत्तीनां च प्राणः प्राग्वृत्तिः उच्छ्वासादिकर्मा, अपानोऽर्वाग्वृत्तिः निश्श्वासादिकर्मा व्यानस्तयोः सन्धौ वर्तमानो वीर्यवत्कर्महेतु:, उदानः ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतुः समानः समं सर्वेष्वंगेषु योऽन्नरसान्नयतीति इति कार्यभेदश्च व्यपदिश्यते इति व्याख्यानमपि पूर्वसूत्रवदेवाद्वैतिनां प्रतिकूलं द्वैतिनामनुकूलमेव । अवान्तरयुक्तत्वायुक्तत्वविचारः प्रकृतानुपयुक्तत्वान्न क्रियते इति ।

ॐ अणुश्च ॐ (२.४.१३)

इति सूत्रस्यअणुश्चायं मुख्यः प्राणः' इति अणुत्वं च सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वमिति व्याख्यानमपि प्राणस्य अणुत्वकथनादिना सत्यत्वं महत्परिमाणवतः परमात्मनः भिन्नत्वं च कथयतीति अद्वैतिनां प्रतिकूलं द्वैतिनामनुकूलमिति ।

ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ (२.४.१४)

ॐ प्राणवता शब्दात् ॐ (२.४.१५)

ॐ तस्य च नित्यत्वात् ॐ (२.४.१६ )

इति सूत्रत्रयात्मकमधिकरणम् । तत्र प्रथमसूत्रे 'ते प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै स्वस्मै कार्याय प्रभवन्ति आहोस्वित् देवताधिष्ठिताः (स्वनियामकदेवताप्रेरिताः) सन्तः प्रभवन्ति इति संशये, ज्योतिराद्यधिष्ठानं ज्योतिरादिभिः =अग्न्याद्यभिमानिनीभिर्देवताभिः, अधिष्ठितं वागादिकरणजातं स्वकार्येषु प्रवर्तत इति, कुतः, तदामननात् श्रुतौ अभिमानिदेवतानां तत्तद्व्यापारप्रवर्तकतया प्रवेशकथनादिति ।

प्राणवता शब्दात्' इति द्वितीयसूत्रे देवतानां प्राणादिप्रेरकत्वे सुखदुःखभोक्तृत्वं तासामेव स्यात् नतु शारीरस्य (जीवस्य) इति शन्कां परिहरतिप्राणवता शब्दात्' इति । देवतानां प्राणाधिष्ठातृत्वेऽपि, प्राणवता=कार्यकारणसङ्घातस्वामिना शारीरेण जीवेनैव एषां प्राणानां सम्बन्धः, शब्दात्=शारीरेणैव सम्बन्धबोधकश्रुतेः ।

'तस्य च नित्यत्वात्' इति तृतीयसूत्रस्य "तस्य च जीवस्य शरीरे भोक्तृत्वेन नित्यत्वं पुण्यपापोपलेपसम्भवात् सुखदुःखोपभोगसम्भवाच्च, न देवतानाम् । ता च देवताः परस्मिन्नैश्वर्ये पदेऽवतिष्ठमाना न हीनेऽस्मिन् शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति । श्रुतिश्च भवतिपुण्यमेवानुं गच्छति न ह वै देवान् पापं गच्छति' (बृ.१.५.३ ) इति । तस्मात् सतीष्वपि करणानां नियन्त्रीषु देवतासु न शारीरस्य भोक्तृत्वमपगच्छति। इति व्याख्यानेन करणानि सन्ति, तेषां प्रेरकदेवताः सन्ति ताभिः प्रेरिताः प्राणाः स्वं स्वं कर्म कुर्वन्ति, तादृशकर्मजन्यं फलं जीव एव भुंक्ते नतु देवताः भुंजते, तासामुच्चपदे स्थितत्वात् । अधमजीवशरीरे स्थित्वा नीचफलं कथं भुञ्जीरन् । जीवशरीरे स्थित्वा तत्कृतनीचफलं न भुञ्जते, किन्तु पुण्यफलमुपभुंजते इत्याद्युक्त्या इदमधिकरणं शङ्कव्याख्यानं च अद्वैतिनां प्रतिकूलं द्वैतिनामनुकूलमेवेति ।

ॐ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ (२.४.१७ )

पूर्वाधिकरणेषु मुख्यः प्राण एकः इतरे चैकादश प्राणाः प्रसक्ताः । तत्र सन्देहः इतरे प्राणा: किं मुख्यस्यैव प्राणस्य स्वरूपाणि उत तत्त्वान्तराणि (भिन्नानि) इति । हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन्' (बृ.१.५.२१) इति सर्वेषां प्राणानां मुख्यप्राणात्मकत्वकथनात् । मुख्यप्राणस्येतरप्राणानां च प्राणशब्दवाच्यत्वात् वागाद्याः प्राणाः मुख्यप्राणस्वरूपाण्येवेति पूर्वपक्षे, वागादीन्द्रियाणि (एकादशप्राणाः) मुख्यप्राणात् भिन्ना एव । तद्व्यपदेशात् = भेदेन व्यपदेशात् । 'एतस्माज्जायते । प्राणो मनः सर्वेन्द्रियाणि च' (मुं.२.१.३) इत्येवञ्जातीयकासु श्रुतिषु पृथक् प्राणो व्यपदिश्यते पृथक्चेन्द्रियाणीति । तस्मात्तत्त्वान्तरभूता एव वागादयः मुख्यप्राणादिति ।

ॐ भेदश्रुतेः ॐ (२.४.१८)

भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते, 'ते ह वाचमूचुः ' । (बृ.१.३.२) इत्युपक्रम्य वागादीनसुरपापविध्वस्तानुपन्यस्योपसंहृत्य वागादिप्रकरणम्, 'अथ हेममासन्यं प्राणमूचुः' इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथुगुपक्रमणात् । तथा 'मनो वाचं प्राणं तान्यात्मनेऽकुरुत' इत्येवमाद्या अपि भेदश्रुतय उदाहर्तव्याः । तस्मादपि तत्त्वान्तरभूता मुख्यादितरे इति ।

ॐ वैलक्षण्याच्च ॐ (२.४.१९)

१. सुप्तेषु वागादिषु मुख्यः प्राणो जागर्ति इत्येवं सुप्तिमत्त्वजागरणवत्त्वरूपौ विरुद्धधर्मौ ।

२. प्राणस्य मृत्युना अनाप्तत्वम् । इतरेषां वागादीनां मृत्युना आप्तत्वम् ।

३. प्राणस्य देहादुत्क्रान्त्या देहस्य पतनं (प्राणस्य स्वोत्क्रन्त्या देहपतनहेतुत्वं) इतरेन्द्रियाणामुत्क्रान्त्याऽपि देहस्य अपतनम् (देहपतनाहेतुत्वम्)

४. इन्द्रियाणां विषयालोचनहेतुत्वं न मुख्यप्राणस्य इत्याद्या वहवो लक्षणभेदाः प्राणानामिन्द्रियाणां चेति, विरुद्धधर्मवत्त्वात् मुख्यप्राणस्य इतरवागादिभ्यो भेदः सिध्यति, इति त्रिसूत्र्या मुख्यप्राणस्य इतरेन्द्रियेभ्यो भेदं व्यवस्थाप्य 'त एतस्यैव सर्वे रूपमभवन्' इति प्राणरूपत्वाभिधायकश्रुतेः श्रेष्ठत्व, कनिष्ठत्व मृत्य्वनभिभूतत्वादिविरुद्धधर्मवत्त्वेन अभेदवोधकत्वा- सम्भवात् श्रुतावुक्तं प्राणरूपताभवनं वागादिषु परिस्पन्दलाभस्य मुख्यप्राणाधीनत्वेन योज्यं नतु तदेकतारूपम् (तादात्म्यं) इति व्यवस्थापयामासुइशङ्कराचार्याः ।

भामतीकारा अपि-" एवं (इन्द्रियाणां मुख्यप्राणरूपत्वमिति पूर्वपक्षे) प्राप्ते उच्यते-मुख्यात्प्राणात् तत्त्वान्तराणीन्द्रियाणि, तत्र तत्र भेदेन व्यपदेशात्, मृत्युप्राप्ताप्राप्तत्वलक्षणविरुद्धधर्मसंसर्गश्रुतेः, अर्थक्रियाभेदाच्च । याऽपि च प्राणरूपतामिन्द्रियाणामभिदधाति श्रुतिः, तत्रापि पौर्वापर्यालोचनायां भेद एव प्रतीयते इत्युक्तं भाष्यकृता । तस्माद्बहु- श्रुतिविरोधात्पूर्वापरविरोधाच्च प्राणरूपताभिधानमिन्द्रियाणां प्राणायत्ततया भाक्तं गमयितव्यम्इति वाक्यैः विरुद्धधर्मवत्त्वादिना वागादीन्द्रियाणां मुख्यप्राणाद्भेदं व्यवस्थाप्य अभेदबोधकानां वाक्यानां 'राजा राष्ट्रमिति वाक्यस्य राष्ट्रस्य राजाधीनत्वेन राष्ट्रस्य यथा राज्ञा सामानाधिकरण्यव्यपदेशः न त्वभेदेन, तथा इतरेन्द्रियाणां प्राणाधीनत्वेन प्राणभवनव्यपदेशो न तु प्राणरूपतये 'ति, कथयामसुः इत्येवमेतदधिकरणेन प्राणस्येतरेन्द्रियाणां च भेदकधर्मसत्त्वं तेन च तेषां भेदः साधितः । तद्विरुद्धत्वादभेद-बोधकतया भासमानानां श्रुतीनामभेदवोधकत्वासम्भवात् तदधीनत्वाद्यर्थकथनं इत्यादि यदुक्तं तद्द्द्वैतिनामनुकूलम् । सर्वमिथ्यात्ववादिनां सर्वाभेदवादिनामद्वैतिनां प्रतिकूलमेव ।

एतदधिकरणन्यायेनैव अहं ब्रह्मास्मीत्यादिवाक्यैः जीवब्रह्मणोरभेद इति पूर्वपक्षे प्राप्ते मुख्यात् ब्रह्मण: (परब्रह्मण:) जीवा भिन्नाः । तत्र तत्र भेदेन व्यपदेशत्, अपहतपाप्मत्वपापवत्त्वसर्वज्ञत्वाल्पज्ञत्वाद्यनेक विरुद्धधर्मोपदेशात् । अर्थक्रियाभेदाच्च । या अपि च ब्रह्मरूपतां जीवानामभिदधति श्रुतयः, तत्रापि पौर्वापर्यालोचनायां भेद एव प्रतीयते । तस्माद्बहुश्रुतिविरोधात् पूर्वापरविरोधाच्च ब्रह्मरूपताभिधानं जीवानां तदधीनतया गमयितव्यम् इति साधयितुं शक्यत्वात् अत्यन्तं प्रतिकूलमेवेदमधिकरणमद्वैतिनाम् इति सिध्यति । तत्त्वमस्यादिवाक्यानां ऐक्यप्रतिपादकत्वं भासते इत्यङ्गीकृत्य प्रसक्तिं कृत्वा निराकृतम् । वस्तुतोऽभेदप्रसक्तिरेवाद्वैतमतरीत्या नास्ति । तत्त्वमस्यादिवाक्यानां बोधकत्वस्यैवाद्वैतिभिरनङ्गीकारेण बोधकत्वेऽपि लक्षणया चित् इत्येव भेदविषयकबोधस्याङ्गीकारेण चिदिति बोधस्यापि लक्षणाया असम्भवादिना उत्पत्त्यसम्भवेन 'ईश्वरोऽह' मित्यादिगीतावाक्यैः अभेदज्ञानिनो निन्दनाच्च अभेदबोधकतया भासमानवाक्यान्येव न सन्तीति । प्रत्युत जीवब्रह्मणोर्भेद एवपृथगात्मानमित्यादिश्रुतिभिः, 'उत्तमः पुरुषस्त्वन्यः' इत्यादि-गीतावाक्यैः, ‘भेदव्यपदेशाच्च' 'भेदव्यपदेशाच्चान्य' इत्यादिब्रह्मसूत्रेश्च सिध्यति इति ।

एवंरीत्या जीवब्रह्मणोर्भेदरूपप्रमेयव्यवस्थायामपि एतदधिकरणोक्तन्यायः द्वैतिनामनुकूलः अद्वैतिनां प्रतिकूल एवेति ।

ॐ संज्ञानमूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॐ (२.४.२०)

'सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति । तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति' (छां.६.३.२) तत्र संशयः, किं जीवकर्तृकमिदं नामरूपव्याकरण-माहोस्वित्परमेश्वरकर्तृकमिति । तत्र प्राप्तं तावज्जीवकर्तृकमेवेदं नामरूपव्याकरणमिति । कुतः अनेन जीवेनात्मना इति विशेषणात् ।

यथा लोके चारेणाहं परसैन्यमनुप्रविश्य सङ्कलयानीत्येवंजातीयके प्रयोगे चारकर्तृकमेव सत् सैन्यसङ्कलनं हेतुकर्तृत्वाद्राजात्मन्यध्यायोपयति सङ्कलयानीत्युत्तमपुरुषप्रयोगेण, एवं जीवकर्तृकमेव सत् नामरूपव्याकरणं हेतुकर्तृत्वाद्देवतात्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण । अपि च डित्थडवित्थादिषु नामसु घटशरावादिषु च रूपेषु जीवस्यैव व्याकर्तृत्वं दृष्टम् । तस्माज्जीवकर्तृकमेवेदं नामरूपव्याकरणमित्येवं प्राप्ते अभिधत्ते- संज्ञामूर्तिक्लृप्तिः नामरूपव्याकरणं, त्रिवृत्कुर्वतः=तेजोऽबन्नानामेकैकं त्रिभिर्मिश्रं कुर्वतः परमात्मन एव, कुतः उपदेशात्=सेयं देवतैक्षतइत्युपक्रम्य व्याकरवाणीत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रह्मण एव नामरूप- व्याकरणो (निर्माणो) पदेशात्' इति । 'न च गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेष्वनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्ति । येष्वपि चास्ति सामर्थ्यं तेष्वपि परमेश्वरायत्तमेव तत्' इति यद्व्याख्यानं तद्युक्तमेव । परन्तु 'न च जीवो नाम परमेश्वरादत्यन्तभिन्नश्वार इव राज्ञः, आत्मनेति विशेषणात् उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य तेन तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति । परमेश्वर एव च नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्तः' इति वाक्येन जीवपरमात्मनोरभेदात् जीवकृतमपि व्याकरणं परमेश्वरकृतमिति यदुक्तं तदतितुच्छम् । जीवब्रह्मणोरैक्यबोधकप्रमाणाभावात् नामरूपव्याकरणविशिष्टस्य जीवस्य त्रिवृत्करणादिविशिष्टेन परमेश्वरेण ऐक्यायोगाच्च । विरुद्धधर्मविशिष्टयोरैक्यासम्भव इति स्वीकृतं च शङ्कराचार्यैः-सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वादिभिर्गुणैः । सर्वोत्तमस्सत्यकामः सत्यसङ्कल्प ईश्वरः ।। तत्पदार्थस्त्वमर्थस्तु किंचिज्ज्ञो दुःखजीवनः । संसार्ययं तद्गतिको जीवः प्राकृतलक्षणः ।। कथमेकत्वमनयोर्घटते विपरीतयोः । प्रत्यक्षेण विरोधोऽयं” (सर्वं वेदान्तसारसं ) इत्यादिना ।

तथा च नामरूपव्याकरणस्य जीवकर्तृकत्वं स्वीकृत्य जीवब्रह्मणोरभेदात् परमेश्वरकर्तृकमपि भवतीत्यङ्गीकरणं स्वव्याहतम् ।

ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ (२.४.२१)

'अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति, यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः (छां. ६.५.१) इति श्रुत्या मांसादि=मांसमन:पुरीषाणि, भौमं=भूमिविकृताद्यमानान्नकार्यम्, एवं इतरयोः=अप्तेजसोः यथाशब्दं कार्यमवगन्तव्यम् । मूत्रं लोहितं प्राणाश्चापां कार्यम्। अस्थि मज्जा वाक् तेजसः इति ।

एतदुपरि 'तासां त्रिवृतं त्रिवृत्तमेकैकामकरोत्' इति श्रुतेः सर्वमेव त्रिवृत्कृतं भूतभौतिकमिति किं कृतस्तर्ह्ययं विशेषव्यपदेशः इदं तेजः इमा आपः इदमन्नमिति तथा आत्मात्म्यमिदमन्नस्याशितस्य कार्यं मांसादि, इदमपां पीतानां कार्यं लोहितादि; इदं तेजसोऽशितस्य कार्यमस्थ्यादि इति शङ्कायां प्रवृत्तं सूत्रं-

ॐ वैशेष्यात्तु तद्वादस्तद्वादः ॐ (२.४.२२)

इति । "सत्यपि त्रिवृत्करणे क्वचित् कस्यचित् भूतधातोः भूयस्त्वमुपलभ्यते । अग्नेस्तेजोभूयस्त्वम् । उदकस्याब्भूयस्त्वं, पृथिव्या अन्नभूयस्त्वमिति भूयस्त्वरूपवैशेष्यनिमित्तकमेव । इदं तेजः इमा आपः इदमन्नमिति विशेषव्यपदेश इति" इति यद्व्याख्यानं तत्तु द्वैतिनामनुकूलम् । परन्तु सर्वं जगत् परब्रह्मणि शुक्तिकायां रजतमिव कल्पितमिति वदतामद्वैतिनां प्रतिकूलमेव । कल्पिते शशविषाणवन्मिथ्याभूते वस्तुनि नहि कश्चिद्विशेषस्तिष्टति इति । तस्मात् अद्वैतिनामेतत्पादीयसूत्राणां व्याख्यानमप्रामाणिकं प्रमाणविरुद्धं चेत्युपेक्षणीयमेव प्रेक्षावद्भिरिति दिक् ।

। इति द्वितियाध्यायचतुर्थपादशाङ्करभाष्यायुक्तत्वप्रदर्शनम् ।