ॐ भावे चोपलब्धेः ॐ

ॐ भावे चोपलब्धेः ॐ (२.१.१६ )

इदं सूत्रंइतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते । तद्यथा सत्यां हि मृदि घट उपलभ्यते' इति शङ्कराचार्य- व्याख्यानानुसारेण जगदुपादानकारणभूतायाः प्रकृतेः जगदभेदं बोधयति न तु निमित्तकारणस्य ब्रह्मणः इति जगतो ब्रह्मानन्यत्वे = ब्रह्मव्यतिरेकेणाभावे प्रमाणं भवितुं नार्हति ।। १५ ।।

ॐ सत्त्वाच्चावरस्य ॐ (२.१.१७)

इति सूत्रंइतश्च कारणात्कार्यस्यानन्यत्वं, यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते । सदेव सोम्येदमग्र आसीत् (छां. ६।२।१) 'आत्मा वा इदमेक एवाग्र आसीत् ' ( ऐ. आ. २।४।१) इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात् । यच्च यदात्मना यत्र न वर्तते न तत्तत उत्पद्यते, यथा सिकताभ्यस्तैलम् । तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते । यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरत्येवं कार्यमपि जगत् त्रिषु कालेषु सत्त्वं न व्यभिचरति । एकं च पुनः सत्त्वमतोऽप्यनन्यत्वं कारणात्कार्यस्य' इति व्याख्याय, कार्यस्य जगतः ब्रह्मानन्यत्वं (ब्रह्मव्यतिरेकेणाभावं ) यत्कथयामासुः तदयुक्तम् । तथा हियत्तु कारणादनन्यत्वं कार्यस्येति तत्तु उपादानकारणविषयं न तु निमित्तकारणविषयम् । घटस्य निमित्तकारणेन कुलालेनानन्यत्वादर्शनात् । निर्विकारं ब्रह्म जगत्प्रति निमित्तकारणमेव न तु परिणाम्युपादान कारणमिति प्रतिपदितं प्राक् । ब्रह्मणो जगत्प्रति विवर्तोपादानत्व (जगत्प्रकारक - भ्रमविशेष्यत्व) मपि न सम्भवति । ब्रह्मणि जगद्भ्रमविशेष्यत्व प्रयोजकानां सामान्यधर्मविशेषधर्मजगत्सादृश्यादीनां मध्ये एकस्याप्यभावात् । तुष्यत्विति न्यायेन विवर्तोपादानत्वाङ्गीकारेऽपि रजतविवर्तोपादान भूतशुत्त्यनन्यत्वस्य रजते असम्भववत् जगतः विवर्तोपादानभूत ब्रह्मानन्यत्वस्यापि असम्भवात्। न च रजते शुत्त्यभेदरूपशुत्तत्य नन्यत्वस्यासम्भवेऽपि शुक्तिव्यतिरेकेणाभावरूपं शुक्त्त्यनन्यत्वं सम्भवतीति तद्वदेव ब्रह्मव्यतिरेकेणाभावरूपं ब्रह्मानन्यत्वं ब्रह्मण्यारोपितस्य जगतः सम्भवतीति वाच्यम् । केनापि रूपेण कालत्रयेऽप्यसतः शुक्तौ प्रतीयमानस्य रजतस्य शुक्तिव्यतिरेकेणाभाव इति विशेषरूपेण निषेधायोगवत् त्रिकालेऽप्यसतः जगतः ब्रह्मव्यतिरेकेणाभाव इति विशेषरूपेण निषेधायोगात् । ब्रह्मव्यतिरेकेण नास्तीति विशेषरूपेण निषेधे ब्रह्मरूपेणास्तीति ब्रह्मव्यतिरेकेण नास्तीति विशेषररूपेण निषेधे ब्रह्मरूपेणास्तीति प्रतीतेः । तच्चायुक्तम् । मिथ्याभूतस्य जगतः सत्यभूतब्रह्मरूपत्वासम्भवात् ।

'सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयं.... तदैक्षत' (छां. ६।२।१) इति श्रुतिस्तु, इदं कार्यं जगत्, अग्रे सृष्टेः पूर्वं, सदेव ब्रह्मरूपमेवासीदिति कार्यस्य सृष्टेः पूर्वं सद्रूपत्वं (ब्रह्मरूपत्वं ) न वक्ति । मिथ्याभूतस्य (कल्पितस्य) सद्रूपत्वा (ब्रह्मरूपत्वा) नुपपत्तेः । इदंशब्दस्य विशेष्यत्वे 'तदैक्षत' 'तत्तेजोऽसृजत' इत्युत्तरवाक्येऽपि तच्छब्देन विशेष्यस्यैव ग्रहणीयत्वेन तत्=कार्यमैक्षत । तत् = कार्यं तेजः असृजत इति कार्यस्यैवेक्षितृत्व सर्जनकर्तृत्वापत्तेः । आपो वा इदमग्र आसुः इति श्रुतावपि इदंशब्दनिर्दिष्टस्यैव विशेष्यत्वापत्त्या इदंआसुः इति एकवचनान्तबहुवचनान्तयोर्विशेषणविशेष्यभावानुपपत्तेः ।यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरति, एवं कार्यमपि जगत् त्रिषु कालेषु सत्त्वं न व्यभिचरति' इत्युक्तिस्तु स्वमतविरुद्धा । तथा हि अद्वैतमते घटपटादिसर्वजगतः नास्ति नासीत् न भविष्यति इति बोध्यमानत्रैकालिक - निषेधप्रतियोगित्वरूपमिथ्यात्वाङ्गीकारेण एकस्मिन्नपि काले असत: त्रिकालेषु सत्त्वोक्तिः स्वमतविरुद्धा । न हि यथा शुक्तिकायामारोपितं रजतं शुक्तिकावत् यस्मिन् कस्मिंश्चित् कालेऽपि सत्, नापि शुत्तयभिन्नं, तथा ब्रह्मणि आरोपितं जगत् यस्मिन् कस्मिंश्चिदपि काले न सत् भवितुमर्हति नापि ब्रह्माभिन्नम्द्वैतस्यासत्वं सिद्धम् सतो ह्युत्पत्तिः प्रलयो वा स्यान्नासतः शशविषाणादेःइत्यादि गौडपादीयभाष्ये जगतः शशविषाणवत् असत्त्वोक्तेः असद्भूतस्य जगतः सत्यब्रह्मणा अभेदो न युक्तः ।। २।१।१६ ।।

ॐ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ (२.१.१८)

इति सूत्रस्य– ‘असदेवेदमग्र आसीत् ' (छां.३।१९।१) इति श्रुतिः ; असद्वा इदमग्र आसीत्' (तै. २||१) इति श्रुतिश्च अग्रे सृष्टेः प्राक् इदं जगत् असत् आसीदिति जगतः असत्वं बोधयतीति न कार्यस्य जगतः कारणीभूतब्रह्मानन्यत्वमित्याशङ्कच, जगतः असत्वकथनं न अत्यन्तासत्वाभिप्रायेण (स्वरूपाभावाभिप्रायेण ) किं तु अव्याकृत- नामरूपत्वाभावाभिप्रायेण, नामरूपव्याकृतवस्तुन एव सच्छव्दार्हत्वात् ।असदेवेदमग्र आसीत् इत्यादौ असत्त्वेन व्यपदिष्टस्यैवतत्सदासीत्इति वाक्यशेषे सत्त्वेन कथनात् । तथा 'आत्मानं स्वयमकुरुत’ (तै.२।७।७।१) इति वाक्यशेषे उक्तस्य अकुरुतेति क्रियमाणत्वविशेषणस्य असत्यसम्भवात् ।असदेवेदमग्र आसीत् असद्वा इदमग्र आसीत्' इत्यत्र श्रुतस्य असदासीदित्यस्य असदिव आसीदित्यर्थकत्वेन कार्यस्य पूर्व सत्त्वाभावानवगमेन कारणीभूताद्ब्रह्मणः कार्यस्य अनन्यत्वमेवेति यदर्थवर्णनं तदप्ययुक्तमेव ।

'असदेवेदमग्र आसीत् तत्सदासीत्' इति श्रुतिः अद्वैतमतरीत्या 'इदं जगत् अग्रे असत्=अव्याकृतनामरूपवद्ब्रह्मरूपमासीत्' इति व्याख्याने पूर्वं विशेष्यतया इदंपदबोध्यजगतः प्रसक्तत्वेन तदितिपदेन जगदेव परामृश्यते न तु असत् इति तत्पदबोध्यं जगत् । अनन्तरं सत् आसीत् इति जगत एव सत्त्वं बोधयति न तु असतः सत्त्वमितितत्सदासीत्इति वाक्यशेषेण असतः सत्त्वं कथ्यते इत्युक्तेरयोगात् । किं चइदं जगत् अग्रे असत्=अव्याकृतनाम रूपात्मकं ब्रह्मैवासीत् तत्=असत् अव्याकृतनामरूपात्मकं ब्रह्म, सत् = व्याकृतनामरूपात्मकमासीत्' इत्युक्तिरप्ययुक्तैव । ब्रह्मणो निर्विकारत्वेन सर्वदा अव्याकृतनामरूपत्वात् अग्रे अव्याकृतनामरूपत्वोक्तेः पश्चात् व्याकृतनामरूपत्वोक्तेश्चयोगात् । न चइदं जगत् असदासीदित्यस्य न अव्याकृतनाम- रूपवद्ब्रह्मात्मकमासीत् । तत् = अव्याकृतनामरूपवत्त्वनिमित्तेन असच्छब्दबोध्यं ब्रह्म सत् = व्याकृतनामरूपवद्ब्रह्मरूपमासीदिति अर्थं न वर्णयामः, येन ब्रह्मणो निर्विकारत्वेन सर्वदा अव्याकृतनामरूपत्वेन पूर्वं अव्याकृतनामरूपत्वोक्तिः पश्चात् व्याकृतनामरूपत्वोक्तिश्चायुक्तेति शङ्कायाः प्रसक्तिः । किंतु इदं जगत् असत्=अव्याकृतनामरूपवद विद्यात्मक (प्रकृत्यात्मक) मासीत् । अनन्तरं प्रकृतेः (अविद्याया:) जगदात्मना परिणामे, तत् जगत्, सत्= नामरूपात्मना परिणत (व्याकृत) प्रकृत्यात्मक (अविद्यात्मक) मासीदित्यर्थकरणात् । प्रकृतेः विकारित्वेन व्याकृतत्वाव्याकृतत्वसम्भवात्' इति वाच्यम् । एतेन कार्यजगतः अविद्यात्मकप्रकृत्यनन्यत्वसिद्धावपि कार्यभूतजगतः कारणब्रह्मानन्यत्वस्य अद्वैत्यभिमतस्यासिद्धेः ।

किञ्च ब्रह्मणः कदापि विकाराभावेन अव्याकृतनामरूपवत्त्वस्य सर्वदा सत्त्वेन जगतश्चाद्वैतमते सर्वदा ब्रह्मस्वरूपत्वाङ्गीकारेण च जगत् अग्रे अव्याकृतनामरूपात्मकब्रह्मरूपमासीदित्युक्तिरप्ययुक्तैव ।

अपि च मिथ्याभूमस्य जगतः सत्यब्रह्मस्वरूपत्वस्यायोगाच्चेत्यादीनां दोषाणां प्राप्तेः जगतः असद्रूपब्रह्मरूपत्वकथनमयुक्तमेव ।

असद्वा इदमग्र आसीत्’ (तै. २/७/१) इति श्रुतिः जगतः पूर्वमसत्त्वं वक्तीत्याशङ्कय, ‘तदात्मानं स्वयमकुरुत इति वाक्यशेषे असच्छब्दबोध्यस्य क्रियमाणत्वेन विशेषणात् क्रियमाणत्वस्य च असति = शून्ये असम्भवात् असद्वा इदमग्र आसीदित्यत्रत्यासच्छव्दः नात्यन्तासत्त्वाभिप्रायः किंतु अव्याकृतनामरूपवद्ब्रह्माभिप्रायः । तथा च जगत् अव्याकृतनाम- रूपवद्ब्रह्मरूपमासीदित्यर्थ' इति कथनमप्ययुक्तम् । तदात्मानं स्वयमकुरुत इति वाक्यशेषोक्तक्रियमाणत्वविशेषणस्य अत्यन्तासति शून्ये अयोगेन असद्वा इदमग्र आसीदित्यत्रत्यासच्छब्दस्य अत्यन्तासदर्थकत्वाभाववत् निर्विकारे ब्रह्मण्यपि तदात्मानं स्वयमकुरुतेति वाक्यशेषोक्तक्रियमाणत्वविशेषणस्य असम्भवेन असच्छन्दस्य ब्रह्मार्थकत्वस्याप्ययोगेन, इदं जगत् असत्= अव्याकृतनामरूपात्मक ब्रह्मरूपमासीदिति अर्थकथनस्याप्ययोगात् । 'असद्वा इदमग्र आसीत्’ ‘असदेवेदमग्र आसीत्' इति श्रुत्योः सूत्रकारेण एवमर्थो वर्णित इति शाङ्करव्याख्यानमयुक्तमेव । (२।१।१७)

ॐ युक्तेश्शब्दान्तराच्च ॐ (२.१.१९)

इति सूत्रस्य 'युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च । युक्तिस्तावद्वर्ण्यते - दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते । नहि दध्यर्थिभिर्मृत्तिकोपादीयते । न घटार्थिभिः क्षीरम् । तदसत्कार्यवादे नोपपद्येत । अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्त्वे कस्मात् क्षीरादेव दध्युत्पद्यते, न मृत्तिकायाः । मृत्तिकाया एव च घट उत्पद्यते न क्षीरात् । अथाविशिष्टेऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायाम् । मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीर इत्युच्येत,तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः सत्कार्यवादसिद्धि ' इत्यादिना यत् कार्यस्य कारणादनन्यत्वे उत्पत्तेः प्राक् सत्वे च युक्त्यभिधानं तत्सर्वं परिणाम्युपादानकारणविषय एव न तु निमित्तकारणविषये । घटस्य निमित्तकारणात् अन्यत्वादेर्दर्शनात् । प्रकृते च निर्विकारस्य ब्रह्मणः जगत्प्रति निमित्तकारणत्वेन कार्यस्य जगतः निमित्तकारणाद्भेदस्यैव सिद्धेः नेयं युक्तिर्जगतो निमित्तकारणीभूतब्रह्मानन्यत्वं बोधयति ।

'शब्दान्तराच्चैतदवगम्य... पूर्वसूत्रेऽसद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततोऽन्यः सव्यपदेशी शब्दः शब्दान्तरं 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं, इत्यादि । तद्वैक आहुरसदेवेदमग्र आसीदिति चासत्पक्षमुपक्षिप्य कथमसतः सज्जायेतेत्याक्षिप्य 'सदेव सोम्येदमग्र आसीत् (छां.६।२।१) इत्यवधारयति । तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छव्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात्सत्त्वानन्यत्वे प्रसिद्ध्यत' इति शब्दान्तराच्चेति सूत्रभागस्य यद्व्याख्यानं तदप्ययुक्तम् ।

'सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्.... तदैक्षत.... तत्तेजोऽसृजत' इति श्रुतिः 'हे सोम्य ! इदमग्रे = अस्य जगतोऽग्रे एकं = प्रधानं (मुख्यं) अद्वितीयं =स्वसजातीयद्वितीयवस्तुरहितं, अथवा असहायं, संदेव=सन्नामकपरमात्मैव आसीत् । तत् = सन्नामकं ब्रह्म बहु स्यां=नियामकरूपेण (अन्तर्यामिरूपेण) बहु स्यां, तदर्थं नियम्यप्रजाः प्रजायेय इति ऐक्षत् । तत् = ब्रह्म, तेजः तेजोऽभिमानिदेवतां, तेजोभूतं च, असृजत,' इति सन्नामकब्रह्मणः सृष्टेः पूर्वं सत्त्वं ततो जगत्सृष्टिं प्रतिपादयति, न तु इदंपदेन जगत्कथयित्वा तस्य सन्नामकब्रह्मणा अभेदं बोधयति । तथात्वे अद्वैतमतरीत्या शशविषाणवत् त्रिकालेऽप्यसतः अचेतनस्य जगतस्त्रिकालेऽपि सता चेतनेन ब्रह्मणा ऐक्यायोगेन इदं सदिति सामानाधिकरण्यानुपपत्तेः । न च बाधायां सामानाधिकरण्यं स्वीकृत्य इदन्त्वेन यत्प्रतीतं तत् सत् = ब्रह्म इति ब्रह्मणि जगतः कल्पितत्वमेवोच्यते, न तु इदंपदनिर्दिष्टस्य मिथ्याभूतस्याचेतनस्य जगतः सत्यभूतचेतनब्रह्मणा अभेद इति वाच्यम् । तथा सति मिथ्याभूतजगतः सत्येन ब्रह्मणा भेद एवोक्तो भवतीत्यनया श्रुत्या जगतो ब्रह्मानन्यत्वासिद्धेः । तस्मादियं श्रुतिर्जगतो ब्रह्मणा अभेदे नोदाहर्तव्या ।

यच्चाप्युक्तंयदि तु प्रागुत्पत्तेरसत्कार्यं स्यात्पश्चाच्चोत्पद्यमानं कारणे समवेयात्तदान्यत्कारणात्स्यात् । तत्र 'येनाश्रुतं श्रुतं भवति' (छां.६।१।३) इतीयं प्रतिज्ञा पीड्येत । सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते' इति तदप्ययुक्तम् । 'येनाश्रुतं श्रुतं भवतीति वाक्यस्य ' तमादेशं विशिनष्टि येनादेशेन श्रुतेनाश्रुतमपि अन्यत् श्रुतं भवत्यमतं मतमतर्कितं तर्कितं भवत्यविज्ञातं विज्ञातमनिश्चितं निश्चितं भवतीति सर्वानपि वेदानधीत्य सर्वं च अन्यत् वेद्यमधिगम्याप्यकृतार्थ एव भवति यावदात्मतत्त्वं न जानातीत्याख्यायिकातोऽवगम्यते' इति वाक्येन शङ्कराचार्यैरेव अन्यत् श्रुतं भवतीति सर्वं चान्यद्वेद्यमिति स्पष्टमन्यदितिपदाभ्यां ब्रह्मणश्चेतना- चेतनात्मकजगता भेदाभिधानात् । तथा 'अकृतार्थ एव भवति यावदात्मतत्त्वं न विजानाति' इति वाक्येन, जगज्ज्ञानस्य ब्रह्मज्ञानमेव फलं जगति ज्ञातेऽपि ब्रह्मण: ज्ञानाभावे व्यर्थमेव जगतो ज्ञानमिति जगज्ज्ञानं कारणं ब्रह्मज्ञानं फलं (कार्यं) इत्युक्तत्वेन च जगद्ब्रह्मणोर्भेदस्यैवाभिधानात् । ब्रह्मज्ञानेन जगतो ज्ञानं भवति इत्युक्तौ जगतो ब्रह्मणा ऐक्यं यथा- कथञ्चित्प्रतीयेत न ब्रह्मज्ञानेन जगज्ज्ञानं भवतीत्युक्तम् । अद्वैतमतरीत्या ब्रह्मज्ञानेन जगज्जानं न सम्भवति च । अधिष्ठानाज्ञानदशायामेव अध्यस्तं भाति । यथा शुक्तिकाज्ञानदशायां तत्राध्यस्तं रजतमधिष्ठाने शुक्तितत्त्वे ज्ञाते शुक्तिकाज्ञाननिवृत्या शुक्तिकाज्ञानकल्पितमध्यस्तं रजतं नश्यति न दृश्यते च; एवं ब्रह्माज्ञानकल्पितं जगत् ब्रह्मणि अधिष्ठाने ज्ञाते ब्रह्माज्ञाननिवृत्या अध्यस्तं जगत् नश्यति, न दृश्यते च इति येनाश्रुतं श्रुतं भवतीति श्रुतेः ब्रह्मज्ञाने जगद्भाति इत्यर्थः असम्भवी, शङ्कराचार्यैर्न कृतश्चेति नानया श्रुत्या जगतो ब्रह्मानन्यत्वमुच्यत इति । ( २।१।१८ )

ॐ पटवच्च ॐ (२.१.२०)

इति सूत्रस्यसंवेष्टितप्रसारितपटयोर्यथाऽभेदः तथा कारणाद्ब्रह्मणः कार्यस्याभेदः इति अर्थकथनमयुक्तम् । मिथ्याभूत (असद्भूत) जगतः सत्येन ब्रह्मणा ऐक्यायोगस्य पूर्वं बहुवारमुक्तत्वात् इति । (२।१।१९ )

ॐ यथा च प्राणादिः ॐ (२.१.२१)

कार्यं जगत् उपादानाद्ब्रह्मणः भिन्नं ब्रह्मकार्यभिन्नकार्यकरत्वात् । यत् यत्कार्यभिन्नकार्यकरं तत् तस्माद्भिन्नं यथा घटकार्यभिन्नकार्यकरः पटः घटाद्भिन्न इति ब्रह्मजगतो: विलक्षणकार्यकारिणोर्भेदमाशङ्कय 'यथा च प्राणादिः' इति (२०) सूत्रस्य ' यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निर्वर्त्यते नाकुञ्चनप्रसारणादिकं कार्यान्तरं तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रसारणादिकमपि कार्यान्तरं निर्वर्त्यते । न च प्राणभेदानां प्रभेदवतः प्राणादन्यत्वं समीरणस्वभावाविशेषात् । एवं कार्यस्य कारणादनन्यत्वमतश्च कृत्स्नस्य जगतो ब्रह्मकार्यत्वात्तदनन्यत्वाच्च सिद्धैषा श्रौती प्रतिज्ञा 'येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं ' (छां. ६ । १ । १ ) इति व्याख्याने 'यथा प्राणविलक्षणकार्यकारिणां प्राणापानादिविशेषाणां न प्राणात् प्रायः भेदः तथा विलक्षणकार्यकारिणोरपि ब्रह्मजगतोर्न भेद' इति यदुक्तं तन्न युक्तम् ।

चेतन सत्यभूतब्रह्मणः अचेतेनासत्यजगता अभेदासम्भवस्य पूर्वं व्यवस्थापि तत्वात् । येनाश्रुतं श्रुतं भवति इति प्रतिज्ञावाक्यस्य ब्रह्मज्ञानेन जगज्ज्ञानं भवतीत्येतत्परत्वाभावस्य प्रत्युत जगज्ज्ञानस्यैव ब्रह्मज्ञानं फलमित्येतत्परत्वस्य च व्यवस्थापितत्वाच्च । तस्मात् ज्ञानमात्रं पारमार्थिकं तत्रैव ज्ञातृज्ञेयादि कल्पितमित्यादि सौगत (बौद्ध) मतमेव वेदसूत्रगीतार्थतया प्रकल्प्य अद्वैतमतं वेदसूत्रगीतारूपप्रस्थानत्रयसिद्धमिति तामसजनमोहनार्थं दर्शयित्वा सात्विकानां मोहो माभूदिति अद्वैतमताभिन्नं बौद्धमतं नाभाव उपलब्धेरित्यादिसूत्रैः खण्डयित्वा नैतदद्वैतमतं सात्विकैर्ग्राह्यमिति प्रदर्शयामासुरिति । (२।१।२०)

ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ (२.१.२२)

अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते । चेतनाद्धि जगत्प्रक्रियायामा- श्रियमाणायां हिताकरणादयो दोषाः प्रसज्यन्ते । कुतः इतरव्यपदेशात् इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः ।स आत्मा तत्त्वमसि श्वेतकेतो (छां. ६।८।७) इति प्रतिबोधनात् । यद्वा इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति । ' तत्सृष्ट्वा तदेवानुप्राविशत् ' ( तै. २.६ ) इति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वप्रदर्शनात् ।अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि ( ६ | |२) इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती न ब्रह्मणो भिन्नः शारीर इति दर्शयति । तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छारीरस्यैवेति । अतः स स्वतन्त्रः कर्ता सन् हितमेवात्मना सौमनस्यकरं कुर्यान्नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम् । न हि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वाऽनुप्रविशति । न च स्वयमत्यन्तनिर्मलः सन् अत्यन्तमलिनं देहमात्मत्वेनोपेयात् । कृतमपि कथञ्चिद्यदुःखकरं तदिच्छया जह्यात् । सुखकरं चोपाददीत । स्मरेच्च मयेदं जगद्विम्बं गिचित्रं विरचितमिति । सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति मयेदं कृतमिति । यथा च मायावी स्वयं प्रसारितां मायामिच्छयाऽनायासेनैवोपसंहरति, एवं शारीरोऽपीमां सृष्टिमुपसंहरेत् । स्वमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम् । एवं हि तत्क्रियाद्यदर्शनादन्याय्या चेतनाज्जगत्प्रक्रियेति गम्यते । (२।१।२१)

ॐ अधिकं तु भेदनिर्देशात् ॐ (२.१.२३)

तुशब्दः पक्षं व्यावर्तयति । यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत् तद्वयं जगतः स्रष्टृ ब्रूमः । न तस्मिन् हिताकरणादयो दोषाः प्रसज्यन्ते । न च तस्य हितं किञ्चित्कर्तव्यमस्ति अहितं वा परिहर्तव्यम् । नित्यमुक्तस्वभावत्वात् । न च तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति सर्वज्ञत्वात्सर्वशक्तित्वाच्च । शारीरस्त्वनेवं विधस्तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः । न तु तं वयं जगतः स्रष्टारं ब्रूमः । कुत एतत् भेदनिर्देशात् ।आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्य: (बृ. २/४/५ ) सोऽन्वेष्टव्यः स विजिज्ञासितव्यः (छां.८।७।१) सता सोम्य तदा सम्पन्नो भवति ( छां. ६ | |१) शारीर आत्मा प्राज्ञेनात्मनाऽन्वारूढः (बृ.४ | | ३५ ) इत्येवं जातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयति इति सूत्रद्वयं शङ्कराचार्यैर्व्याख्यातम् । तत्र शारीर (जीव ) ब्रह्मणोरभेदे हिताकरणादिदोषान् प्रसञ्जयित्वा, 'अधिकं तु भेदनिर्देशात्' इति सूत्रेण 'आत्मा वाऽरे द्रष्टव्यः' ‘सोऽन्वेष्टव्यः सता सोम्य' 'शारीर आत्मा' इत्यादिश्रुतिभिर्जीव- ब्रह्मणोर्भेदावगमात् । ब्रह्मणः कारणत्वेन हिताकारणादिदोषाः । न हि तस्य हितं किश्चित्कर्तव्यमस्त्यहितं वा परिहर्तव्यं नित्यमुक्त- स्वभाववत्त्वात् इति यः परिहारोऽभिहितः सः समीचीन एव । परं 'नवभेदनिर्देशोऽपि दर्शितः तत्त्वमसि, इत्येवञ्जातीयकः । कथं भेदाभेदौ विरुद्धौ सम्भावेयाताम्, इत्याशङ्कय 'नैष दोष: आकाशघटाकाशन्यायेनोभय- सम्भवस्य तत्र तत्र प्रतिष्ठापितत्वात्' इति यत्समाधानमुक्तं तदयुक्तम् । स आत्मा तत्त्वमसि, इति श्रुतेः अद्वैतमतरीत्या बोधजनकत्वाभावेन, तस्य बोधजनकत्वाङ्गीकारेऽपि चिदित्यखण्डार्थबोधकत्वेन अभेद-बोधकत्वाभावेन निर्वाधभेदबोधक पूर्वोदाहृतश्रुतिभिर्भेदस्यैव सिद्ध्या विरुद्धयोर्भेदाभेदयोरेकत्र समावेशप्रसक्तेरेवाभावेन भेदस्योपाधिकत्वं (मिथ्यात्वं) अभेदस्य च पारमार्थिकत्वमिति समाधानस्यासङ्गतत्वात् ।

अद्वैतमतरीत्या तत्त्वमसि इति वाक्यस्य चिदिति बोधजनकत्वमपि न सम्भवति । तथा हिन तावद्रुढ्या योगेन वा चिद्रूपब्रह्मोपस्थितिः । ब्रह्मचिति गुणक्रियाजातिभेदादीनां शब्दप्रवृत्तीनां मध्ये एकस्याप्यभावात् । नापि लक्षणया गौण्या वा चितः (ब्रह्मणः) उपस्थितिः । असङ्गे निर्गुणे ब्रह्मणि शक्यसम्बन्धशक्यार्थगुणयोगादीनां तत्प्रयोजकानामभावात् । तथा च चितः केनापि पदेन कयाऽपि वृत्त्या उपस्थित्यसम्भवेन चिद्विषयक- वोधजनकत्वासम्भवात् । ‘'तत्त्वमसि' इति वाक्यस्य अभेदबोधकत्वाभावेन जीवस्य सांसारित्वं ब्रह्मणश्च स्रष्टृत्वं च नापगच्छति । अतो जीवब्रह्मणोर- भेदमाशङ्कय ब्रह्मणः स्रष्टृत्वाङ्गीकारे शङ्किता हिताकरणादिदोषाः, अभेदग्राहकप्रमाणानामभावेन भेदग्राहकाणां 'सता सोम्य तदा सम्पन्नो भवतीत्यादीनां प्रमाणानां सद्भावेन च जीवादन्यस्य ब्रह्मणः स्रष्टृत्वाङ्गीकारे न प्रसज्यन्ते इत्येव समाधानं युक्तम् । विशेषविचारस्तु तत्त्वमस्यादिवाक्यविचारे द्रष्टव्यः । (२।१।२२)

नन्वखण्डरूपे ब्रह्मणि जीवेश्वरवैचित्र्यं कथं, कथं च तत्कार्यवैचित्र्य- मित्यनुपपत्तौ प्राप्तायां प्रवृत्तस्य

ॐ अश्मादिवच्च तदनुपपत्तिः ॐ (२.१.२४)

इति सूत्रस्य - 'यथा च लोके पृथिवीत्वसामान्यान्वितानामपि अश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयोऽन्ये मध्यमवीर्याः सूर्यकान्तादयोऽन्ये प्रहीणाः श्ववायसप्रक्षेपणार्हाः पाषाणा इत्यनेकविधं वैचित्र्यं दृश्यते, यथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्यं चन्दनकिंपाकादिषु उपलक्ष्यते, यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति, एवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यतस्तदनुपपत्तिः परपरिकल्पित- दोषानुपपत्तिरित्यर्थः' इति यत् व्याख्यानं शङ्कराचार्याणां तदयुक्तम् । विकारिणां पदार्थानां अनादिशक्तिभेदात् विचित्रकार्यात्मतासम्भवेऽपि निर्विकारस्य ब्रह्मणः नानारूपात्मना वैचित्र्यं नोपपद्यते (निर्विकारत्वात्) इति प्रकृते अश्मादीनां दृष्टान्तत्वासम्भवात् ।

यच्चश्रुतेश्च प्रामाण्यात् विकारस्य च वाचारम्भणमात्रत्वात् स्वप्नदृश्यभाववैचित्र्यवच्चेत्यभ्युच्चयः इति अश्मादिवच्च इति सूत्रगत च शब्दस्यार्थवर्णनं तदप्ययुक्तम् । श्रुतौ ब्रह्मणो विचित्र (नाना ) रूपेण भवनानुत्तया तदनङ्कीकारे श्रुतिप्रामाण्यविधाताभावात् विकारस्य वाचारम्भणमात्रत्वाभावात् ( मिथ्यात्वाभावात् ) स्वप्नदृश्यभावानां वस्तूनां विलक्षणवासनोपादानकत्वेन तद्वैचित्र्ये अनुपपत्त्यभावेन तद्दृष्टान्तकथनायोगात् इति । तस्मादिदमधिकरणं जीवब्रह्मणोर्भेदबोधकमेव । ( २।१।२३)

ॐ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॐ (२.१.२५)

इति सूत्रस्यचेतनं ब्रह्मैकमद्वितीयं जगतः कारणमिति यदुक्तं तन्नोपद्यते । कस्मात्? उपसंहारदर्शनात् । इह हि लोके कुलालदयो घटपटादीनां कर्तारो मृद्दण्डचक्र सूत्राद्यनेकाकारकसाधनोपसंहारेण सङ्गृहीतसाधनाः सन्तः तत्तत्कार्यं कुर्वाणा दृश्यन्ते । ब्रह्म चासहायं तवाभिप्रेतं तस्य साधनान्तरानुपसङ्ग्रहे सति कथं स्रष्टृत्वमुपपद्येत ? तस्मान्न ब्रह्म जगत्कारणमिति चेत् नैष दोषः । यतः क्षीरवद्द्रव्य- स्वभावविशेषादुपपद्यते । यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमभावेन परिणमतेऽनपेक्ष्य बाह्यं साधनं तथेहापि भविष्यति । ननु क्षीराद्यपि दध्यादिभावेन परिणममानमपेक्षत एव बाह्यं साधनमौष्ण्यादिकं कथमुच्यते क्षीरवद्धि इति । नैष दोष:, स्वयमपि हि क्षीरं यां च यावतीं च परिणाममात्रामनुभवति तावत्येव त्वर्यते त्वौष्ण्यादिना दधिभावाय । यदि च स्वयं दधिभावशीलता न स्यान्नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत । न हि वायुराकाशो वौष्ण्यादिना बलाद्दधिभावमापद्यते । साधनसामग्य्रा च तस्य पूर्णता सम्पाद्यते । परिपूर्णशक्तिकं तु ब्रह्म । न तस्यान्येन केनचित्पूर्णता सम्पादयितव्या । श्रुतिश्च भवति न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' (श्वे. ६.८) इति । तस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात्क्षीरादिवद्विचित्रपरिणामः उपपद्यते ' इति ययाख्यानं शङ्कराचार्याणां तत्तु अद्वैतमतरीत्या अयुक्तमेव । तथा हि- अद्वैतमते ब्रह्मणि सर्वजगतः कल्पितत्वाङ्गीकारेण सर्वभ्रमाधिष्ठानत्वरूप विवर्तकारणतायाः ब्रह्मणोऽनेककारकानपेक्षत्वात् तदभावेन ब्रह्मणः विवर्तकारणत्वाभावशङ्काया एवानुदयात् । तत्परिहारार्थं क्षीरवदिति - यथा क्षीरं जलं वा स्वयमेव दधिहिमभावेन परिणमते तथा ब्रह्मापि विचित्रशक्तियोगात् बाह्यसाधनमनपेक्ष्य जगद्रूपेण परिणमते इत्युक्तेरसङ्गतत्वात् । तथा च अद्वैतमतं वा परित्यज्यताम् सूत्राणि वा परित्यज्यन्ताम् । न हि परस्परविरुद्धयोरद्वैतमतसूत्रयोः ऐककण्ठ्यार्थमित्थमयुक्तं वक्तव्यमिति । ( २।१।२४ )

ॐ देवादिवदपि लोके ॐ (२.१.२६)

इति सूत्रस्य 'स्यादेतत्-उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्यं साधनं दध्यादिभाव:, दृष्टत्वात् । चेतनाः पुनः कुलालादयः साधनसामग्रीमपेक्ष्यैव तस्मै तस्मै कार्याय प्रवर्तमाना दृश्यन्ते । कथं ब्रह्म चेतनं सदसहायं प्रवर्तेतेति । देवादिवदिति ब्रूमः । यथा लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तोऽनपेक्ष्यैव किञ्चिद्वाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि च रथादीनि च निर्मिमाणा उपलभ्यन्ते । मन्त्रार्थवादेतिहासपुराणाप्रामाण्यात् । तन्तुनाभश्च स्वत एव तन्तून् सृजति, बलाका चान्तरेणैव शुक्रं गर्भं धत्ते, पद्मिनी चानपेक्ष्य किञ्चित्प्रस्थानसाधनं सरोऽन्तरात्सरोऽन्तरं प्रतिष्ठते एवं चेतनमपि ब्रह्मानपेक्ष्य बाह्यं साधनं स्वत एव जगत् स्रक्ष्यति' इति यद्व्याख्यानं तदपि कल्पितत्वपक्षे अयुक्तमेव । (२।१।२५)

ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॐ (२.१.२७)

इति सूत्रं 'चेतनमेकमद्वितीयं ब्रह्म क्षीरादिवदेवादिवच्चानपेक्ष्य बाह्यसाधनं स्वयं परिणममानं जगतः कारणमिति स्थितम् । शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति । कृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति निरवयवत्वात् । यदि ब्रह्म पृथिव्यादिवत्सावयवमभविष्यत्ततोऽस्यैकदेशः पर्यणंस्यदेकदेशश्चावास्थास्यत । निरवयवं तु ब्रह्म श्रुतिभ्योऽवगम्यते-निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्' (श्वे. ६ १९) 'दिव्यो ह्यमूर्त: पुरुषः स बाह्याभ्यन्तरो ह्यजः' (मुं.२।१।२) 'इदं महद्भूतमनन्तपारं विज्ञानघन एव' (बृ.२।४।१२ ) ( स एष नेति नेत्यामा' (बृ.३।९।२६)अस्थूलमनणु’ (बृ.३।८।८) इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यः । ततश्चैकदेशपरिणामासम्भवात् कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येत । द्रष्टव्यतोपदेशानर्थक्यं चापन्नम् । अयत्नदृष्टत्वात्कार्यस्य, तद्व्यतिरिक्तस्य च ब्रह्मणोऽसम्भवात् । अजत्वादिशब्दकोपश्च । अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रह्माभ्युपगम्येत । तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाहृतास्ते प्रकुप्येयुः । सावयवत्वे चानित्यत्वप्रसङ्ग इति सर्वथाऽयं पक्षो न घटयितुं शक्यते इत्याक्षिपति । (२/१/२६)

ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ (२.१.२८)

तुशब्देनाक्षेपं परिहरति । न खल्वस्मत्पक्षे कश्चिदपि दोषोऽस्ति । न तावत्कृत्स्नप्रसक्तिरस्ति । कुतः । श्रुतेः । यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयते । एवं विकारव्यतिरेकेणापि ब्रह्मणोऽवस्थानं श्रूयते । प्रकृतिविकारयोर्भेदेन व्यपदेशात् । 'सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि' (छां. ६ | |२) इति, ‘तावानस्य महिमा ततो ज्यायांश्च पुरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ( छां. ३।१२।६ ) इति चैवंजातीयकात्, तथा हृदयायतनत्ववचनात्सत्सम्पत्तिवचनाच्च । यदि च कृत्स्नं ब्रह्मकार्यभावेनोपयुक्तं स्यात्, ‘सता सोम्य तदा सम्पन्नो भवति' (६।८।१) इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् । विकृतेन ब्रह्मणा नित्यसम्पन्नत्वादविकृतस्य च ब्रह्मणोऽभावात् । तथेन्द्रियगोचरत्वप्रतिषेधाद्ब्रह्मणो विकारस्य चेन्द्रियगोचरत्वोपपत्तेः । तस्मादस्त्यविकृतं ब्रह्म । न च निरवयवत्व- शब्दकोपोऽस्ति । श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् । शब्दमूलं च ब्रह्म शब्दप्रमाणकं नेन्द्रियादिप्रमाणकं तद्यथाशब्दमभ्युपगन्तव्यम् । शब्दचोभयमपि ब्रह्मणः प्रतिपादयत्यकृत्स्नप्रसक्तिं निरवयवत्वं च...तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः' इति यत् सूत्रव्याख्यानं तदपि पूर्ववदेवायुक्तम् | अद्वैतमते ब्रह्मणः परिणामकारणत्वानङ्गीकारात् निर्विकारस्योपादानकारणत्वासम्भवाच्च ।निष्कलं निष्क्रियं शान्तं' ‘अस्थूलमनणुइत्यादिश्रुतिभिर्ब्रह्मणः सर्वज्ञत्वादिधर्माणामनिषेधात् । प्रत्युत 'य सर्वज्ञः सर्ववित्' 'एतस्य वा अक्षरस्य प्रशासने गार्गि, सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' इत्यादिश्रुतिभिरनेकधर्माणां विधानाच्च ब्रह्म सर्वविशेषरहितं न भवति । सर्वविशेषराहित्ये प्रमाणाभावात् । तथा हि येन केनचित्पदेन ब्रह्म बोधयित्वैव खलु तस्मिन् धर्माः निषेध्याः । न तु ब्रह्म अबोधयित्वैव धर्मा निषेद्धुं शक्यन्ते । येन केनचित्पदेन ब्रह्मबोधस्तु न हि ब्रह्मणि शक्यतावच्छेदक शक्यसम्बन्धादिधर्ममन्तरा जायते इति शब्देन निर्विशेषब्रह्मबोधो न जायते । नापि प्रत्यक्षं ब्रह्मणि सन्निकर्षादिधर्माभावे सम्भवति । नाप्यनुमानं व्यापकत्वादिगुणाभावे सम्भवति । अङ्गीकृतं चाद्वैतिभिः 'निर्विशेषं ब्रह्म प्रमाणागम्यम्' (अप्रमेयमज्ञेयं च ) इति निर्विशेषं ब्रह्म शशविषाणवदसदेवेति ।

शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयत्यकृत्स्नप्रसक्तिं निरवयवत्वं च इति यदुक्तं तन्न युक्तम् । तत्र विवादाभावेन विरोधाप्रसक्तेः । ब्रह्मणः कात्स्नर्चेन वा एकदेशेन वा परिणाम इत्यस्मिन् विषये खलु विवादः । यदि शब्दः ब्रह्मणः परिणामं निरवयवत्वमपरिणतभागस्य सत्त्वं च कथयेत् तदा निरवयवस्य ब्रह्मणः परिणामित्वाङ्गीकारे निरवयवस्य ब्रह्मणः सर्वस्यापि जगद्रूपेण परिणतत्वेन ब्रह्मत्वाभावप्रसङ्गः । ब्रह्मणः अपरिणतभागस्य सत्त्वाङ्गीकारे सावयवत्वप्रसङ्गः इति शङ्का श्रुतिगम्यत्वेन निवर्तेत । न ह्युक्तं ब्रह्मणः परिणामित्वं कस्यामपि श्रुतौ । प्रत्युत परिणामित्वविरुद्धं निर्विकारत्वमेव 'निर्विकारोऽक्षरः शुद्ध' इत्यादिना । तथा च विरोधप्रसक्तेरेवाभावेन श्रुत्यैकगम्यत्वेन विरोधनिराकरणमयुक्तमेव ।

'ननु शब्देनापि न शक्यते विरुद्धोऽर्थः प्रत्याययितुम् । निरवयवं च ब्रह्म परिणमते न च कृत्स्नमिति । यदि निरवयवं ब्रह्म स्यात् नैव परिणमेत कृत्स्नमेव वा परिणमेत.... तस्माद्दुर्घटमेतदिति' इत्याशङ्कय, ‘नैष दोषः अविद्याकल्पितरूपभेदाभ्युपगमात् । न ह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु सम्पद्यते । न हि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानोऽनेक एव भवति । अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिवचनीयेन ब्रह्म परिणामादि- सर्वव्यवहारास्पदत्वं प्रतिपद्यते । पारमार्थिकेन च रूपेण सर्व- व्यवहारातीतमपरिणतमवतिष्ठते । वाचरम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्येति न निरवयवत्त्वं ब्रह्मणः कुप्यति । न चेयं परिणामश्रुतिः परिणामप्रतिपादनार्था । तत्प्रतिपत्तौ फलानवगमात् । सर्वव्यवहार- हीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा । तत्प्रतिपत्तौ फलावगमात् । स एष नेति नेत्यात्मा' इत्युपक्रम्याह 'अभयं वै जनक प्राप्तोऽसि ' (बृ.४/२/४) इति । तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गोऽस्ति' इति यत्समाधानमुक्तं, तत्तु अवैदिकानां वेदाप्रामाण्यवादिनां नास्तिकानामेव युक्तं न तु वैदिकानां वेदसूत्रगीतारूपप्रस्थानत्रयप्रामाण्यवादिनामास्तिकानाम् । तथा हि-'अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते । पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते वाचारम्भणमात्रत्वाच्च अविद्याकल्पितस्य नामरूपभेदस्येति न निरवयवत्वं ब्रह्मणः कुप्यति' इति वाक्येन 'ब्रह्म निर्विशेषं निरवयवमपरिणतं चेत्येव श्रुतेस्तात्पर्यं ब्रह्म परिणतं चेत्यत्र न श्रुतेस्तात्पर्यम् । किन्तु मिथ्याभूतं (कल्पितं ) परिणाममादाय ब्रह्म परिणामीत्यादिश्रुतिव्यवहारः । श्रुतेस्तस्मिन् विषये अप्रामाण्यमेवेति स्वीकृतम्। निर्गुणं निर्विशेषं ब्रह्म तु न श्रुतिप्रतिपाद्यमिति कृत्स्नस्य वेदस्याप्रामाण्यमेवाङ्गीकृतं भवति । उक्तं हि संक्षेपशारीरमधुसूदनकृततद्व्याख्यानयोश्च 'ननु शाक्यभिक्षुसमयेन समः प्रतिभात्ययं च भगवत्समयः' इति वाक्येन बौद्धाद्वैतमतयोरुक्तं साम्यम् । ननु विज्ञानवादिना वेदप्रामाण्याद्यनभ्युपगमात् कथं तदभ्युपगन्तृभगवत्समयस्य (शङ्करसमयस्य) तत्समयतुल्यतेति चेदिति वाक्येनाक्षिप्य, सत्यं तथापि विज्ञानातिरिक्त- विज्ञेयानभ्युपगमे कथं न तत्तौल्यम् ? तेनापि तथैवाङ्गीकारादित्याह यदीतियदि बाह्यवस्तु वितथं न कथं समयाविमौ न सदृशौ भवतः' इति वाक्येन विज्ञानरूपब्रह्मातिरिक्तवस्तुनः असत्त्वाङ्गीकारेण वेदाप्रामाण्यविषये उभयोः साम्यं स्पष्टं स्वीकृतम् ।

यच्चोक्तम्न चेयं परिणामश्रुतिः परिणामप्रतिपादनार्था । तत्प्रतिपत्तौ फलानवगमात् । सर्वव्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा । तत्प्रतिपत्तौ फलावगमात् । स एष नेति नेत्यात्मा' इत्युपक्रम्याह— ‘उभयं वै जनक प्राप्तोऽसि' (वृ.४।२।४) इति । तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गोऽस्ति' इति तदप्ययुक्तम् । प्रसक्तस्यैव निषेधः, न ह्यप्रसक्तस्य स्वयं प्रसक्तिं सम्पाद्य निषेधो दृष्टः । ' प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति न्यायेन निषेधार्थं स्वयं प्रसक्तिकरणस्यायोगात् । इदं रजतमिति रजतस्य प्रसक्तौ हि नेदं रजतमिति निषिध्यते, न तु स्वयमेव इदं रजतमिति प्रसज्य नेदं रजतमिति निषेद्धारो दृष्टाः । प्रकृते च ब्रह्मणः परिणामादिकं केन वा प्रसक्तं चेत् ब्रह्म परिणामादिविशेषरहितमिति बोधनीयम् । न ह्यतीन्द्रिये ब्रह्मणि परिणामादिविशेषः प्रसक्तः इति श्रुत्या तन्निराकरणस्यायोगात् । श्रुतिः स्वयमेव परिणामादिकं प्रसञ्जयित्वा निषेधतीति कथनं प्रक्षालनाद्धीति न्यायविरुद्धम् ।

किं च ब्रह्मणः परिणामस्तु श्रुतौ कुत्रापि नोक्त इति परिणामप्रतिपादकश्रुतेः परिणामबोधने तात्पर्यं नास्ति, परिणामज्ञाने फलाभावात् । किन्तु सफलनिर्विशेष ( परिणामादिविशेषरहित) ब्रह्मप्रतिपत्त्यर्थं निषेधप्रतियोगिपरिणामप्रसत्त्यर्थं परिणामकथनमित्येतत् शाङ्करव्याख्यानमयुक्तम् । स एष नेति नेति' इति वाक्यं न निर्विशेषब्रह्मवोधकमित्युक्तं प्राक् । (२।१।२७)

ॐ आत्मनि चैवं विचित्रा हि ॐ (२.१.२९)

'अपि च नैवात्र विवदितव्यं कथमेकस्मिन् ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति । यत आत्मन्यप्येकस्मिन् स्वप्नदृशि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ्यते-'न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते' (बृ.४।३।१०) इत्यादिना । लोकेऽपि देवादिषु मायाव्यादिषु स्वरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते । तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यति' इति यद्व्याख्यानं तदप्ययुक्तम् । कथमेकस्मिन् ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति विवादः विवर्तत्वपक्षे परिणामपक्षे वा । न तावद्विवर्तत्वपक्षे । तत्र स्वरूपोपमर्दप्रसक्तेरेवाभावात् । परिणामपक्षे स्वरूपानुपमर्देन कथं सृष्टिरित्यस्ति शङ्कायाः प्रसक्तिः । तस्य स्वप्नदृशि जीवे 'न तत्र रथा रथयोगा' इत्यादिना स्वरूपानुपमर्देनैव अनेकाकारा सृष्टिः पठ्यते इति समाधानकथनमयुक्तम् । तस्यां श्रुतौ परमात्मा स्वप्नकाले वासनापरिणतान् पदार्थान् सृजते इति स्वाप्नपदार्थानां वासनो (संस्कारो) पादानकत्वमीश्वरनिमित्तकत्वं च कथ्यते । न तु जीवसृष्टत्वम् । तुष्यत्विति न्यायेन रथादेर्जीवसृष्टत्वेऽपि न जीवोपादानत्वम् (जीवपरिणामित्वम्) शङ्करादिभिरेववासनामयान्, वासनामयी सृष्टिरित्यादिना वासनोपादानकत्वस्य कथितत्वेन जीवस्य स्वरूपोपमर्द प्रसक्तेरेवाभावेन जीवस्य स्वप्ने इव ब्रह्मणः स्वरूपोपमर्देन विना जगत्सृष्टिः (जगत्परिणाम- कारणत्वं) इति दृष्टान्तकथनायोगात् । 'लोकेऽपि देवादिषु मायाव्यादिषु च स्त्ररूपानुपमर्देनैव विचित्रा हस्त्यश्वादिस्सृष्टयो दृश्यन्ते । तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यति' इति यदुक्तं तत्तु शास्त्राज्ञानमेव न, किन्तु दृश्यमानलौकिकपदार्थाज्ञानं च बोधयति । न हि मायावी वृश्चिकसर्पहस्त्यश्वादिरूपेण स्वयं परिणमते, किन्तु मन्त्रसामर्थ्यात् स्वयमपरिणत एव गजतुरगादीन् दर्शयति इति स्वरूपानुपमर्देन ब्रह्मणः अनेकाकारभवने नास्य दृष्टान्तत्वं सम्भवति ।

यद्यपि भाष्ये ब्रह्मणः परिणामपक्षं स्वीकृत्यैव तत्पक्षे प्रसक्ता दोषाः परिणामस्याविद्याकल्पितत्वेन मिथ्यात्वपक्षं स्वीकृत्य परिहृताः, नतु विवर्तोपादानत्वपक्षं स्वीकृत्येति स्थितेऽपि टिप्पणीकाराःउक्तं विवर्तवादं सूत्रकाराभिप्रेतत्वेन स्पष्टयति आत्मनीति, (आनन्द) तत्र ब्रह्मणो विवर्तोपादानत्वं स्वप्नसाक्षिदृष्टान्तेन द्रढयन् मायावादं स्फुटयति सूत्रकारः आत्मनीति, (रत्नप्रभा) इत्यादिना विवर्तवादमतं स्वीकृत्यैतानि सूत्राणि प्रवृत्तानीति वदन्ति । भाष्ये तादृशवाक्यानामप्रतीतेः, प्रत्युत परिणामादि- सर्वव्यवहारास्पदत्वं प्रतीयते इति परिणामवादमेव स्वीकृत्य तस्याविद्या- कल्पितत्वं प्रतिपादितमिति । ( २।१।२८)

ॐ स्वपक्षदोषाच्च ॐ (२.१.३० )

इति सूत्रस्य प्रधानपरमाण्वादिवादेषु अपि कृत्स्नप्रसक्त्यादिदोषाणां सत्त्वाच्चेति व्याख्यानमयुक्तम् । त्वं चोर इत्युक्ते त्वमपि चोर इतिवत् दोषसाम्योक्तिमात्रेण स्वपक्षे प्राप्तदोषाणामपरिहारात् ।

न चपरिहृतश्च ब्रह्मवादिना स्वपक्षदोष इति उक्तमिति वाच्यम् । दोषपरिहारस्य ब्रह्मपरिणामत्वपक्षे असम्भवस्योक्तत्वादिति । ( २।१।२९)

ॐ सर्वोपेता च तद्दर्शनात् ॐ (२.१.३१)

एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम् । तत्पुनः कथमवगम्यते विचित्रशक्तियुक्तं परं ब्रह्मेति तदुच्यते । सर्वोपेता च तद्दर्शनात् सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम् । कुतः तद्दर्शनात् । तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाःसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः' (छां.३।१४।४)सत्यकामः सत्यसङ्कल्पः' (छां.८।७।१)यः सर्वज्ञः सर्ववित्’ (मु.१।१।९)एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' (बृ.३।८।९) इत्येवञ्जातीयका इति यद्व्याख्यानं तत्तु सर्वज्ञत्वाद्यं नत कल्याणगुणयुक्तं ब्रह्म सत्यं जगत्सृजति इति वादिनां द्वैतिनां मत एव युक्तम् । विचित्रजगत्सृष्टौ सर्वज्ञत्वादिधर्माणामावश्यकत्वात् ब्रह्मणि सर्वज्ञत्वादिगुणानां सत्त्वाच्च । न तु निर्गुणे ब्रह्मणि सव कल्पितमिति वदतामद्वैतिनां मते युक्तम् । शुक्तिकायामन्यस्य रजतभ्रमोत्पत्तौ अधिष्ठानभृतायाः शुक्तिकायाः सामर्थ्यस्य अनावश्यकत्ववत् ब्रह्मणि जगतो भ्रमस्य अन्येन जननीये विचित्रशक्तेरनुपयोगेनानावश्यकत्वात् न सम्भवति च निर्गुणे ब्रह्मणि विचित्रशक्तिरिति । ( २।१।३०)

ॐ विकरणत्वान्नेति चेत्तदुक्तम् ॐ (२.१.३२)

स्यादेतत्विकरणां परां देवतां शास्ति शास्त्रम्अचक्षुष्कम- श्रोत्रमवागमनाः' (वृ.३।८।८) इत्येवंजातीयकम् । कथं सा सर्वशक्तियुक्ताऽपि सती कार्याय प्रभवेत् । देवादयो हि चेतनाः सर्वशक्तियुता अपि सन्त आध्यात्मिककार्यकारणसम्पन्ना एव तस्मै तस्मै कार्याय प्रभवन्तो विज्ञायन्ते । कथं चनेति नेति' (बृ. ३/९/२६ ) इति प्रतिषिद्धसर्वविशेषाया देवतायास्सर्वशक्तियोगः सम्भवेदिति चेत् यदत्र वक्तव्यं तत्पूर्वमेवोक्तम् । श्रुत्यवगाह्यमेवेदमतिगम्भीरं ब्रह्म न तर्कावगाह्यम् । न च यथैकस्य सामर्थ्यं दृष्टं तथाऽन्यस्यापि सामर्थ्येन भवितव्यमिति नियमोऽस्तीति' इति यद्व्याख्यानं तदपि सर्वं ब्रह्मणि कल्पितमित्यद्वैतमते न युक्तम् । कस्यचित् पुरुषस्य जायमाने भ्रमे अधिष्ठानव्यापारस्यैवोपयोगाभावेन अधिष्ठान- भूतेश्वरव्यापारनिर्वाहकसर्वशक्तेः करणानां चाभावेऽपि बाधकाभावात् ।

अथादेशो नेति नेति नह्येतस्मादिति नेत्यन्यत्परमस्ति । अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं तेषामेव सत्यमिति वाक्यं ब्रह्मणो मूर्तामूर्तविलक्षणत्वं प्राणादीनां सत्यत्वप्रदत्वं च वक्तीति न सर्वधर्मनिषेधकमित्युक्तं प्राक् ।

परमात्मनः सर्वकामत्वादिसर्वशक्तिमत्त्वं सूत्रसिद्धान्ततया अभिधाय तद्विरुद्धतया (सूत्रसिद्धान्तविरुद्धतया ) पुनः प्रतिषिद्धसर्वविशेषस्य ब्रह्मणः सर्वशक्तियोगस्सम्भवतीत्येतदपि अविद्याकल्पितरूपभेदोपन्यासेनोक्तमिति वाक्येन परमात्मनि सर्वज्ञत्वादिशक्तियोगादि कल्पितं (मिथ्या = नास्ति नासीन्न भविष्यति ) इति कथनं सर्वज्ञत्वादिप्रतिपादकश्रुतिसूत्राणामप्रामाण्यकथकवौद्धवत् अद्वैतिनां शोभते इति । यच्चोक्तं वयं वैदिका: वेदोक्तार्थाङ्गीकर्तारः, वयं सूत्रभाष्यकर्तारः इति वदत्सु अद्वैतिषुस्वसूत्रजातस्य विरुद्धभाषी तद्भाष्यकारोऽहमिति ब्रुवन् यः ।। तं तत्क्षणाद्यो न दिधक्षति स्म स व्यासरूपो भगवान् क्षमाब्दिः ।।' इति प्राचीनैरभियुक्तैः क्षमाब्धित्वं बादरायणस्य यद्वर्णितं तन्नाहं साधु मन्ये । 'दैवी संपद्विमोक्षाय निबन्धायासुरी मता' ‘नष्टात्मानोऽल्पबुद्धयः' 'आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ।।' इत्युक्ततमःप्राप्तये तत्साधनसम्पूर्त्यर्थमेव तेषां दहनाभावः न तु क्षमयेति ।

परमात्मनः सर्वज्ञत्वादिगुणवत्त्वं पारमार्थिकमेव, न तु अविद्या- कल्पितमित्येतत्न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि' (ब्र.सू. ३।२।११) इति सूत्रव्याख्यावसरे स्पष्टयिष्यामः । (२।१।३१)

ॐ न प्रयोजनवत्त्वात् ॐ (२.१.३३)

अन्यथा पुनश्चेतनकर्तृत्वं जगत आक्षिपति । न खलु चेतनः परमात्मेदं जगद्विम्बं विरचयितुमर्हति । कुतः ? प्रयोजनवत्त्वात् प्रवृत्तीनाम् । चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मदोपक्रमामपि तावत् प्रवृत्तिमात्मप्रयोजनानुपयोगिनीमारभमाणो दृष्टः । किमुत गुरुतरसंरंभाम् । भवति च लोकप्रसिद्ध्यनुवादिनी श्रुतिः । 'न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति' (वृ. २।४।५) इति । गुरुतरसंरंभा चेयं प्रवृत्तिर्यदुच्चावचप्रपश्चं जगद्विम्बं विरचयितव्यम् । यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत परितृप्तत्वं परमात्मनः श्रूयमाणं बाध्येत । प्रयोजनाभावे वा प्रवृत्त्यभावोऽपि स्यात् । अथ चेतनोऽपि सन्नुन्मत्तो बुद्ध्यपराधादन्तरेणैवात्मप्रयोजनं प्रवर्तमानो दृष्टस्तथा परमात्मापि प्रवर्त्स्यते इत्युच्येत, तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत । तस्मादश्लिष्टा चेतनात् सृष्टिरिति । ( २/२/३२)

ॐ लोकवत्तु लीलाकैवल्यम् ॐ (२.१.३४)

तुशब्देनाक्षेपं परिहरति । यथा लोके कस्यचिदाप्तैषणस्य राज्ञो राजामात्यस्य वा व्यतिरिक्तं किञ्चित्प्रयोजनमनभिसन्धाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति, यथा चोच्छ्वासप्रश्वासादयोऽनभिसन्धाय बाह्यं किञ्चित्प्रयोजनं स्वभावादेव सम्भवन्ति, एवमीश्वरस्याप्यनपेक्ष्य किश्चित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति । न हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा सम्भवति । न च स्वभावः पर्यनुयोक्तुं शक्यते । यद्यप्यस्माकमियं जगद्विम्वविरचना गुरुतरसंरंभेवाभाति । तथापि परमेश्वरस्य लीलैग केवलेयम् । अपरिमितशक्तित्वात् । यदि नाम लोके लीलास्वपि किञ्चित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत । तथापि नैवात्र किञ्चित्प्रयोजनमुत्प्रेक्षितुं शक्यते आप्तकामश्रुतेः । नाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा, सृष्टिश्रुतेः सर्वज्ञश्रुतेश्व' इति यदुक्तं शङ्कराचार्यैः तदद्वैतमतरीत्या न युक्तम् । यथा केनचित्पुरुषेण पुरुषे स्थाणुत्वमारोपितं, शुक्तिकायां रजतत्वं कल्पितं, तथा ब्रह्मणि जगत् पुरुषेण कल्पितमिति हि अद्वैतमतमिति । यथा पुरुषे स्थाणुत्वाध्यासः अधिष्ठानपुरुषस्य प्रयोजनमपेक्ष्य न जातः किन्तु भ्रान्तपुरुषीयविशेषा- दर्शनादिमूलः तथा ब्रह्मणि जगदध्यासः पुरुषाज्ञानमूलक एव, न त्वधिष्ठानसम्वन्धिप्रयोजनमपेक्ष्य जायत इति प्रयोजनाभावेन ब्रह्मणो जगत्कारणत्वाक्षेपः, यथा राज्ञः राजामात्यस्य वा प्रयोजनमनभिसन्धाय प्रवृत्तिः, तथा ब्रह्मणोऽपि प्रयोजनमनभिसन्धायैव प्रवृत्तिरिति समाधानं चायुक्तमद्वैतवादे ।

ननु सूत्रकारो भगवान् वादरायण एव 'न प्रयोजनवत्त्वात्' इति सूत्रेण ईश्वरस्य प्रयोजनाभावेन सृष्टिकर्तृत्वमाक्षिप्य लोकवत्तु लीलाकैवल्यमिति सूत्रेण लोके राजादीनामिव प्रयोजनाभावेऽपि सृष्टि: सम्भवतीत्युक्तवानिति तद्व्याख्यानकर्तृभिस्तथैव व्याख्यातमिति सूत्रकारो भगवान् व्यास एव पर्यनुयोज्यः न हि शङ्कराचार्य इति चेत् न । यदि सूत्रकाराः जगतः ब्रह्मणि कल्पितत्वपक्षं स्वीकृत्य प्रयोजनाभावात् न ब्रह्मणि कारणत्व (जगद्भ्रमाधिष्ठानत्व) मुपपद्यते इत्याशङ्कय राजादिदृष्टान्तेन प्रयोजनमन्तरापि कारणत्वं सम्भवतीति असङ्गतं वदेयुः तदा ते सूत्रकारा अपि पर्यनुयोज्या एव । न हि ते जगतः मिथ्यात्व (कल्पितत्व) मवादिषुः । अतस्ते न पर्यनुयोज्याः । जगतः कल्पितत्वमुररीकृत्य ब्रह्मणः प्रयोजनमन्तरा कारणत्वं जगद्भ्रमाधिष्ठानत्वरूपं न सम्भवतीत्याक्षिप्य प्रयोजनमन्तरापि कारणत्वं सम्भवति इति वक्तारइशङ्कराचार्या एव पर्यनुयोज्या इति ।

(रत्नप्रभा) स्वप्नसृष्टिवदस्याः सृष्टेर्मायामात्रत्वान्न फलापेक्षेत्याह नचेति ।

(भामती) अपि च नेयं पारमार्थिकी सृष्टिः, येनानुयुज्येत प्रयोजनम्, अपि त्वनाद्यविद्यानिबन्धना । अविद्या च स्वभावत एव कार्योन्मुखी न प्रयोजनमपेक्षते । नहि..... इत्याह ।

(आनन्द.) किं च सृष्टेरविद्यानिबन्धनत्वेन अवस्तुत्वात् गन्धर्वनगरादि भ्रमेष्विव न फलापेक्षेत्याह न चेति ।

(शं.भा.) नचेयं परमार्थविषया सृष्टिश्रुतिः अविद्याकल्पितनामरूप- व्यवहारगोचरत्वात् ब्रह्मात्मभावप्रतिपादनपरत्वाच्च इत्येतन्नैव विस्मर्तव्यम् इति । रत्नप्रभा भामती न्यायनिर्णयव्याख्यासहितेन शाङ्करभाष्यवाक्येन यदि सृष्टिः सत्या स्यात् तदानीमेव प्रयोजनापेक्षा स्यात् । न सृष्टिः सत्यपदार्थविषया किंत्वविद्याकल्पितेति सृष्टौ प्रयोजनाभावेन अयुक्तत्वशङ्का न युक्ता प्रयोजनाभावेऽपि राजादीनां क्रीडादिवत् लीलारूपा सृष्टिरिति समाधानकथनं चायुक्तमिति तैरवगतमिति ज्ञायते चेत् किं तावता । एतत्सूत्रयोः अद्वैतमतविरुद्धत्वं नापगतमेव । एतावान् विशेष : पूर्वं शङ्कराचार्या भ्रान्ता इति पर्यनुयोज्यत्वमापन्नाः । इदानीमेतत्सूत्रयोर- द्वतमतविरुद्धत्वं ज्ञात्वापि बुद्ध इव वश्वका इति वा व्याहतभाषिण इति वा पर्यनुयोज्यत्वमापन्ना इति ।

तथा च एते सूत्रे अद्वैतमतविरुद्धे सूत्रानुसारिणी शङ्कराचार्यव्याख्यापि अद्वैतमतविरुद्धैवेति अद्वैतिभिः एते सूत्रशङ्करव्याख्ये त्याज्ये । अथवा सूत्रशङ्करव्याख्यानुसरणे च अद्वैतमतं वा त्याज्यम् । अद्वैतमतस्य सूत्रभाष्यविरुद्धत्वात् इति ।। ( २ | | ३३)

ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति ॐ (२.१.३५)

न ईश्वरः कारणमुपपद्यते.....नायमीश्वरस्यापराधः .... तथा हि दर्शयति श्रुतिः.............. इत्येवं जातीयका' इति यद्व्याख्यानं सूत्रस्य तत्तु आस्तिकानां युक्तं न तु नास्तिकानाम् । तथाहि शास्ता शास्त्रमित्याद्यस्तीति वदतामास्तिकानां लोकानां निष्कारणं सुखदुःखदातुः ईश्वरस्य वैषम्यनैर्घृण्यशङ्कायाः प्रसक्तिः । तस्य च ' पुण्यो वै पुण्येन कर्मणा भवति' ‘एष ह्येव साधु कर्म कारयति' इत्यादिश्रुत्युक्तदिशा तत्तत्कृतकर्मानुसारेण फलदातृत्वाद्वैषम्यनैर्घृण्ये न सम्भवतः इति समाधानं च कर्तुं शक्यते ।

शास्ता नास्ति शास्त्रं नास्ति अयं लोकोऽपि नास्ति इति वदतां नास्तिकनास्तिकानामद्वैतिनां मते क ईश्वरः ? के सुखदुःखे ? को दाता कः सुखदुःखभोक्ता? न निरोधः न चोत्पत्तिः इत्युक्तदिशा उत्पत्तिः क्क? संहारः क्व? क्व वा वैषम्यनैर्घृण्ये? कस्मात् । सर्वं कल्पितं कस्याप्यभावात् । न ईश्वरः कारणमित्येतस्य अद्वैतमतसिद्धान्तत्वात् तस्य पूर्वपक्षतया कथनं 'पुण्यं नास्ति, पापं नास्ति, तत्प्रयोजककर्मापि नास्ति, कर्मकर्तारो न सन्ति, ताभ्यां प्राप्या लोकाः न सन्ति, गन्तारो न सन्ति, ईश्वरो हि तत्तत्कर्मानुसारेण फलदाता इत्येतत्सर्वं मिथ्या = त्रैकालिकनिषेधप्रतियोगि शशविषाणवत् इति स्वमतेन निषेध्यस्वसिद्धान्तत्वकथनं वालानामुपहास- करम् । उन्मत्तोऽपि कथं स्वमतविरुद्धस्य सिद्धान्तत्वं स्वमतानुकूलस्य पूर्वपक्षत्वं ब्रूयात् । पश्यन्तु अद्वैतमतस्य सूत्रानुकूल्यम् ।

न च वैष्णवा एवंरीत्यैव दूषयन्ति अविचार्यैव इति वाच्यम् । भामतीकारैरेव 'अभ्युपेत्य च सृष्टेस्तात्त्विकत्वमिदमुक्तम् । अनिर्वाच्या तु सृष्टिरिति न प्रस्मर्तव्यमत्रापि' इति वाक्येन एतत्पूर्वपक्षस्य समाधानस्य च विस्मरणमूलकत्वोक्त्या अस्मदुक्तरीत्या सिद्धान्तपूर्वपक्षयोः व्यत्यस्तत्वस्य कथनात् । ननु कैः प्रस्मर्तव्यमित्युक्तमिति चेत् यैर्विस्मृत्यैवं व्याख्यानं कृतं तैरेव । शङ्कराचार्यैरेवंरीत्या व्याख्यातमिति चेत् शङ्कराचार्येरिदं व्याख्यानं विस्मरणेन कृतमिति सिद्ध्यति । ( २।१।३४)

ॐ न कर्माविभागादिति चेन्नानादित्वात् ॐ (२.१.३६)

'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' (छां. ६ | |१) इति प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म ' यदपेक्ष्य विषमा सृष्टिः स्यात् । सृष्टयुत्तरकालं हि शरीरादिविभागापेक्षं कर्म, कर्मापेक्षा शरीरादि- विभाग इतीतरेतराश्रयत्वं प्रसज्येत । अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नाम । प्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणोऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नोतीति चेत् । नैष दोषः । अनादित्वात्संसारस्य । भवेदेष दोषो यद्यादिमान् संसारः स्यात् । अनादौ तु संसारे बीजाङ्कुरवद्धेतुहेतुमद्भावेन कर्मणस्सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते' इति यद्व्याख्यानं तदयुक्तम् । सर्वजगतः कल्पितत्वेन वैषम्यनैर्घृण्यशङ्काया एव अप्रसत्तया तत्तत्कर्मानुसरणप्रयुक्तवैषम्यनैर्घृण्यपरिहारकथनस्यायोगात् ।विचित्रसृष्टेः पूर्वं कर्मणामभावात् कर्मापेक्षत्वं न सम्भवतीत्याशङ्कय संसारस्यानादित्वात् पूर्वपूर्वकर्मापेक्ष्य ईश्वर उत्तरोत्तरदेहं सृजतीति वैषम्यनैर्घृण्यशङ्कापरिहारकथनमयुक्तम् ।

सदेव सोम्य' इति श्रुतिः कर्मणां प्राक्सृष्टेः ईश्वरेण अविभागं न बोधयतीति पूर्वमेवोक्तम् । (२।१।३५)

ॐ उपपद्यते चाप्युपलभ्यते च ॐ (२.१.३७)

उपपद्यते च संसारस्यानादित्वम् उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः । श्रुतौ तावत् 'अनेन जीवेनात्मना' (छां.६।३।२) सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलषन्ननादिः संसार इति दर्शयति । इत्यादिवाक्येन यत्संसारस्यानादित्वं बोधितं तद्युक्तमेव । संसारस्यानादित्वात् । परन्तु संसारस्यानादित्वविषये 'अनेन जीवेनात्मना ' इति श्रुत्युदाहरणमयुक्तम् । श्रुतौ जीवशब्दस्य अन्तर्यामिनारायणपरत्वात् । श्रुत्यर्थस्तु पूर्वमेवोक्तो द्रष्टव्यः । (२।१।३६)

ॐ सर्वधर्मोपपत्तेश्च ॐ (२.१.३८)

इति सूत्रस्यचेतनं ब्रह्म जगतः कारणं प्रकृतिः..... उपसंहरति' । यस्मादस्मिन् ब्रह्मणि कारणे परिगृह्यमाणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्ते । सर्वज्ञं सर्वशक्ति महामायं च ब्रह्म इति । तस्मादनति- शङ्कनीयमिदमौपनिषदं दर्शनमिति यद्व्याख्यानं कृतं तदद्वैतमतरीत्या अयुक्तम् ।

अस्मिन् ब्रह्मणि कारणे गृह्यमाणे इत्युक्तं कारणत्वं किं रूपम् ? कर्तृत्वरूपं, निमित्तकारणत्वं किं वा परिणामकारणत्वं, किंवा विवर्तोपादानत्वम्? कस्य ब्रह्मणः - निर्गुणस्य वा सगुणस्य वा ?

१) न तावन्निर्गुणस्य विवर्तोपादानत्वरूपं कारणत्वं वक्तुं शक्यम् । 'न भ्रमो नाम कश्चित् न संसारो नाम कश्चित् वर्तते' सर्वमेतत् सर्वानुपपत्तिभाजनत्वेन अनिर्वचनीयमिति युक्तमुत्पश्यामः इति निर्गुणे ब्रह्मणि भ्रमकारणानां मध्ये कस्यापि कारणस्यासम्भवात् भ्रमासम्भवेन विवर्तोपादानत्वरूपकारणत्वासम्भवात् भ्रमासम्भवेन विवर्तोपादानत्वरूपकारणत्वासम्भवात् ।

) न वा निर्गुणस्य परिणाम्युपादानत्वरूपं कारणत्वम् । ब्रह्मणो निर्विकारत्वात् ।

३)न वा निर्गुणस्य कुलालवत् कर्तृत्वादिरूपनिमित्तकारणत्वम् । समस्तक्रियाशून्ये कर्तृत्वादिरूपकारणत्वस्यासम्भवात् ।

४)न सगुणं ब्रह्म विवर्तोपादानं (जगत्प्रकारकभ्रमविशेषम्) तस्यैव (सगुणस्य) कल्पितत्वेन (कल्पना (भ्रमा) नन्तरभावित्वेन) जगद्भ्रमकारणत्वासम्भवात् ।

५) न वा सगुणस्य परिणाम्युपादानत्वं नापि कर्तृत्वरूपनिमित्तकारणत्वम् । अद्वैतमतरीत्या मिथ्याभूतस्य ( कालत्रयेऽप्यसतः ) पूर्वकालवृत्तित्वरूपस्य वा जननानुकूलशक्तिमत्त्वरूपस्य वा कारणत्वस्यासम्भवात् । सगुणस्य वा निर्गुणस्य वा विवर्तोपादानत्वं वा परिणाम्युपादानत्वं वा कर्तृत्वं मिथ्यैवेति मायिकत्वात्तत्रोप- पत्तिचिन्ता न कार्येति चेत् साधु समर्थितो ब्रह्मकारणत्ववादः नास्तिकवत् । एवं केनापि रूपेण जगत्कारणत्वस्य अद्वैतमतरीत्या सगुणस्य निर्गुणस्य वा ब्रह्मणो असम्भवात् अद्वैतदर्शनं न वैदिकम् । (२/१/३६)

भेदपराण्येव खलु ब्रह्मसूत्राणि द्वितीयाध्याय प्रथम: पाद: