ॐ अर्चिरादिना तत्प्रथितेः ॐ
भेदपराण्येव खलु ब्रह्मसूत्राणि
ब्रह्मसूत्रशाङ्करभाष्यस्य चतुर्थाध्याय तृतीयपादपरामर्शः ।
(अधिकरणं १)
ॐ अर्चिरादिना तत्प्रथितेः ॐ (४.३.१)
इति सूत्रस्य, ब्रह्मप्राप्तिहेतुर्देवयानमार्गोऽर्चिरादिलक्षण एक एवेति यद्व्याख्यानं गम्यगन्तृगतिमार्गादिकथनद्वारा भेदप्रतिपादकमेवेति अद्वैतिनां प्रतिकूलमेव ।
(अधिकरणं २)
ॐ वायुशब्दादविशेषविशेषाभ्यां ॐ (४.३.२)
इति सूत्रस्य अर्चिरादौ वर्त्मनि वायुः संवत्सरादित्ययोरन्तराले निवेशयितव्य इति व्याख्यानं पूर्ववदेवाद्वैतिनां प्रतिकूलमेव ।
(अधिकरणं ३)
ॐ तडितोऽधि वरुणः सम्बन्धात् ॐ (४.३.३)
इति सूत्रस्य विद्युत्-उपरिष्टाद्वरुणलोक इति व्याख्यानं लोकयोरूर्ध्वाधरीभावव्यवस्थापनेन सत्यत्वं भिन्नत्वमेव च साधयतीति प्रतिकूलमेवाद्वैतिनाम् ।
(अधिकरणं ४)
ॐ आतिवाहिकस्तल्लिङ्गात् ॐ (४.३.४)
अत्र सूत्रव्याख्याने अर्चिरादयो न मार्गचिन्हानि न वा भोगभूमयः किं तु नेतारो गन्तृणामिति साधितम् ।
ॐ उभयव्यामोहात्तत्सिद्धेः ॐ (४.३.५)
इति सूत्रस्य व्याख्याने अर्चिरादिमार्गगानामस्त्रतन्त्रत्वादर्चिरादीनामप्यचेतनत्वेनास्वातन्त्र्यात्तदभिमानिनो देवताविशेषाश्चेतना एवातियात्रायां नियुक्ता इति साधितम् ।
ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ (४.३.६)
एतत्सूत्रव्याख्याने विद्युदनन्तरममानवपुरुषः आब्रह्मलोकं गमयिता, वरुणादयस्त्वनुग्राहका एवेति साधितम् ।
तथा च सूत्रत्रयात्मकमिदमधिकरणं मार्गगानां चेतनानां संपिण्डितकरण ग्रामत्वेनास्वातन्त्र्यं तत एव भोगाभाव इति, लोकनामचेतनत्वेनास्वातन्त्र्यमिति च प्रतिपादनद्वारा देवताविशेषा वाऽमानवपुरुषो वा एव आतिवाहिक इति समर्थयतीति व्याख्यातम् । तदेतच्चेतनाचेतनानाम् । चेतनानामपि चान्योन्यं भेदप्रतिपादकमेवेत्यद्वैतिनां प्रतिकूलमेव । अप्रस्तुता अप्रामाणिकाश्च विषयास्त्वत्रोक्ता उपेक्षणीयतामेवार्हंति । इदं पुनरवधेयम् । अद्वैतिनो हि ब्रह्माभिन्नो जीवो विभुः अणुभूतबुद्धिरूपपरिच्छिन्नोपाधिना परिच्छिन्न इव भूत्वा बुद्धिगमनागमनादिना स्वयङ्गत इवागत इव प्रतीयते । वस्तुतो बुद्धेरेवोपाधिभूताया गमनागमने न जीवस्येति कथयन्ति । अतस्तन्मते बुद्धिवदचेतनानां लोकानामेव गमयितृत्वं युक्तं न तु मार्गस्थानां वा लोकाभिमानिमानवामानवपुरुषाणां चेतनानाम् । अत एवं व्याख्यानमद्वैतिनां स्वव्याघातात् प्रतिकूलमेव । अत्र विस्तर उत्क्रान्तिगत्यधिकरणविचारे द्रष्टव्यः ।
(अधिकरण ५)
ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ (४.३.७)
एतस्मिन्नधिकरणे भागद्वयं परिकल्प्य आद्यानि पश्वसूत्राणि बादरिमतावष्टम्भेन, कार्यस्य ब्रह्मणो देवयानपथगम्यत्वं समर्थयन्ति । परं जैमिनिर्मुख्यत्वादित्यारभ्यावशिष्टानि जैमिनिमतानुसारेण परस्य ब्रह्मणो गन्तव्यतां गमयन्तीति । तत्र कार्यं ब्रह्म गम्यमिति प्रतिपादनपरः पूर्वभागोक्तः सिद्धान्तः, मुख्यं ब्रह्म गम्यमिति समर्थनपरः । उत्तरभागोक्तस्तु पूर्वपक्षः । सूत्रकारैः प्रज्ञाविकासनाय केवलमुपदर्शित इति व्याख्यातम् । तदत्यन्तमयुक्तम् । तथा हि । औपाधिकस्य कार्यब्रह्मणो गन्तव्यत्वमुपपद्यते प्रदेशवत्वात् । न तु परस्मिन्ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिर्वाऽवकल्पते सर्वगतत्वात् गन्तृणां प्रत्यगात्मत्वाच्चेति यदुक्तं तदनुपपन्नम् । तन्मते परब्रह्मणो निर्विशेषत्वेन सर्वगतत्व प्रत्यगात्मत्वयोरसम्भवात् । परमेव ब्रह्मोपाधिसम्बन्धेन कार्यब्रह्मतामापद्यत इति च हेयं । असङ्गस्य तस्योपाधिसम्बन्धायोगात् । अस्तु वा सम्बन्धः । स किमेकदेशस्य किं वा समस्तस्य । नाद्यः । तस्याखण्डस्यैकदेशाभावात् । न द्वितीयः । गन्तव्यतोपयुक्तप्रदेशवत्त्वानुपादकत्वात् । अत औपाधिकस्य कार्यब्रह्मण एवानुपपत्तौ कुत एव तस्य गन्तव्यत्वम् ।
ॐ विशेषितत्वाच्च ॐ (४.३.८)
अस्य सूत्रस्य ‘ब्रह्मलोकान्गमयति, ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति' इति श्रुत्यन्तरे बहुवचनेन विशेषणं न परस्मिन्ब्रह्मण्यवकल्पते । लोकश्रुतिरपि भोगभूमावाजसी । गौणी तु ब्रह्मणि । अधिकरणाधि- कर्तव्यनिर्देशोऽपि परस्मिन्ब्रह्मण्यनाञ्जसः स्यात् । तस्मात्कार्यविषयमेवेदं नयनं इति यद् व्याख्यानं तदयुक्तम् । परस्मिन् ब्रह्मणि न बहुवचनेन विशेषणं अवकल्पते इत्यस्य कोऽर्थः । अवाच्ये तस्मिन्वचनमेव नोपपद्यते इति । उत एकस्मिंस्तस्मिन्नेकवचनोपपत्तावपि बहुत्वाभावाद् बहुवचनं न युज्यत इति । नाद्यः । परस्मिन् ब्रह्मणीत्येवं वचनेन तत् स्वयं निर्दिश्य पुनस्तस्यावाच्यत्वकथने व्याघातात् । उक्तं च स्याद्वादिमत निरासावसरे शङ्कराचार्यैः न चैषां पदार्थानावक्तव्यत्वं सम्भवति । अवक्तव्याश्चेन्नोच्येरन् । उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धमिति । न द्वितीयः । निर्गुणे तस्मिन्नेकत्वसंख्याया अभावेन एकवचनस्याप्यनुपपत्तेः । अपि च श्रुतौ ‘ब्रह्मलोकान्' इति बहुवचनेन विशेषणान्नात्रोक्तं परं ब्रह्म इति वदतः कोऽभिप्रायः । विमतं श्रुत्युक्तं ब्रह्म न परं भवितुमर्हति बहुवचनेन विशेषणात् इति युक्तिसूचनमिति चेन्न । श्रुतौ लोकानामेव बहुत्वेन विशेषणेन ब्रह्मणस्तदभावेनासिद्धेः । नापि बहुलोकासम्बन्धित्वं हेतुः । परब्रह्मणः सर्वगतत्वाङ्गीकारेण तस्य बहुलोकसम्वन्धित्वावश्यम्भावेन अप्रयोजकत्वात् । ‘त्रिपादस्यामृतन्दिवि' इति परब्रह्मलोकानां बहुत्वस्य प्रमितत्वेन बाधापत्तेश्च ।
यच्चात्रोक्तं लोकश्रुतिर्भोगभूमावाअसी, गौणी तु ब्रह्मणीति तदप्यसमञ्जसम् । ब्रह्मशब्दस्यार्थः परं ब्रह्म वा कार्यं वेति विचारे क्रियमाणे लोकशब्दार्थविमर्शस्यासङ्गतत्वात् । नापि लोकशब्दो ब्रह्मणि गौण इति युक्तम् । आत्मानमेव लोकमुपासीतेत्यादौ लोकशब्दस्य ब्रह्मणि मुख्यवृत्तेरेवाङ्गीकारात् । निर्गुणे तस्मिन्गौण्यावृत्तेरपि असम्भवाच्च ।
अधिकरणाधिकर्तव्यनिर्देशोऽपि परस्मिन् ब्रह्मण्यनाञ्जसः स्यादिति च स्वव्याहतम् । स तत्र पर्येति इति श्रुतौ तत्रेत्यत्रयत्तच्छव्दस्य परब्रह्मार्थकत्वं स्वीकृत्य सप्तम्यर्थकत्रक्प्रत्ययेन अधिकरणत्वबोधनेन मुक्तजीवानां परब्रह्मणश्च भेद एतच्छ्रुतिबोध्य इति शङ्कराचार्यैर्व्याख्यातत्वात् । स च भेदोऽपारमार्थिक इति तेषामेव वचनं त्वप्रामाणिकत्वात् । श्रुतिपदालभ्यत्वान्मुक्तिकालीनस्यापारमार्थिकत्वासम्भवाच्चोपेक्षणीम् ।
ॐ सामीप्यात्तु तद्व्यपदेशः ॐ (४.३.९)
एतत्सूत्रस्य ‘परब्रह्मणः सामीप्यादपरस्य ब्रह्मणस्तस्मिन्नपिब्रह्मशब्दव्यपदेशो न विरुध्यते' इति यद् व्याख्यानं तदयुक्तम् । न तावदत्र सामीप्यं देशकालाभ्याम् । सर्वगतेन नित्येन च तादृशसामीप्यस्याचेतनेऽपि सत्वेन तत्रापि ब्रह्मशब्दव्यपदेशप्रसङ्गात् । न च तत्समीपवर्तिनि तच्छब्दव्यवहारो लौकिकः । गोसमीपे महिषे गोशब्दव्यवहारस्य, कृत्तिकासमीपकालवर्तिनि रोहिण्युदये कृत्तिकापदप्रयोगस्य वाऽदर्शनात् । नापि गुणतः निर्गुणेन सगुणस्य तथाविधसामीप्यानुपपत्तेः । प्रत्युत विरुद्धस्वभावयोरतिदूरस्थत्वस्यैवोपपत्तेः । किं च सति हि परब्रह्मणि ब्रह्मशब्दव्यपदेशे तत्सामीप्यादपरेऽपि सः कथंचित्सम्भाव्येतापि । अवाच्याभिमते तस्मिन् परेण शब्दव्यपदेशस्यैवानङ्गीकारात् ।
यच्चोक्तं परमेव हि ब्रह्म विशुद्धोपाधिसम्बन्धं उपासनायोपदिश्य- मानमपरमिति स्थितिरिति, तदप्ययुक्तम् । असङ्गस्योपाधिसम्बन्धानुप- पत्तेरुक्तत्वात् । अपरस्य मिथ्याभूतस्योपास्यत्वानुपपत्तेश्च ‘न च रमन्त्यहो असुदपासनयाऽऽत्महनः इति स्मृत्या मिथ्योपासनस्यानर्थहेतुत्वोक्तेः ।
ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॐ (४.३.१० )
अस्य सूत्रस्य ‘देवयानेन पथा प्रस्थिताः कार्यब्रह्मलोकप्रलयप्रत्युपस्थाने सति तत्रैवोत्पन्नसम्यग्दर्शनाः सन्तस्तदध्यक्षेण हिरण्यगर्भेण सहातः परं परिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्ते इति यद् व्याख्यानं तत्, सगुणविष्णुरेव परब्रह्म, तत्प्राप्तिरेव च परममुक्तिरनावृत्तिलक्षणेत्यभ्युपगमेन प्रवृत्तमिति न निराकरणार्हम् । परं यदत्रोक्तं 'तत्रैवोत्पन्नसम्यग्दर्शनाः सन्तः' इति तत्प्रमाणविरुद्धत्वादुपेक्षणीयम् । लोकत्रयादुपरितनस्य कार्यब्रह्मलोकस्य प्राप्तेरनुत्पन्नसम्यग्दर्शनानामसम्भवात् । ‘वेदान्तविज्ञानसुनिश्चितार्थाः' इति श्रुतेः । ईयुस्त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरानिति स्मृतेश्च ।
ॐ स्मृतेश्च ॐ (४.३.११)
इति सूत्रस्य ‘स्मृतिरप्येतमर्थमनुजानाति ।
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् इति व्याख्याने, कार्यरूपमपरं ब्रह्मप्राप्तवतां तदनन्तरं परब्रह्म प्राप्तिर्भवतीति । सा च प्राप्तिस्तत्पदप्रवेशरूपेति च कथितत्वेन न केवलमपरमुक्तौ, किन्तु तदनन्तरं क्रमप्राप्यायां परममुक्तावपि प्रवेष्ट- प्रवेश्यभावोक्त्या भेदः स च मुक्तिकालीनत्वात् पारमार्थिक एवेति च सिध्यतीति एतदप्यद्वैतिनां प्रतिकूलमेव ।
ॐ परं जैमिनिर्मुख्यत्वात् ॐ (४.३.१२)
इतः पराणि त्रीणि सूत्राणि पूर्वपक्षप्रापकाणि प्रज्ञाविकासनायेति यद् व्याख्यानं तदयुक्तमपहासास्पदं च । सूत्रेषु पूर्वपक्षपरत्वप्रापकलिङ्गाभावात् । किं च प्रज्ञाविकासनायाविद्यमानोऽप्यर्थश्चेत्सूत्रेषु वर्ण्यत । हा हन्त तर्हि वन्ध्यासुतादिकमपि कुतो वा न निरूप्येत । अतो नेमानि पूर्वपक्षसूत्राणि । प्रत्युत तदुदाहृतश्रुतिभिस्तदाख्यानरीत्यैव च सिद्धान्तप्रतिपादनपराण्येवेत्यवगम्यते । तथा हि 'स एनान् ब्रह्म गमयतीत्यत्र परब्रह्मण्येव मुख्यस्य ब्रह्मशब्दस्य प्रयोगः । तयोर्ध्वमायन्नमृतत्वमेत इति गति पूर्वकामृतत्वप्राप्तिः । अन्यत्र धर्मादन्यत्राधर्मात्' इति परब्रह्मण एव प्रक्रान्तत्वं, 'प्रजापतेः सम्भावेश्म प्रपद्ये' इति कार्यविषय प्रतिपत्त्याभिसन्ध्यभाव इत्येवं परनिरूपिताभिर्युक्तिभिः सिद्धान्तपरत्वमेवैषां सूत्राणां विज्ञायते । यदत्रोक्तगत्युपपत्त्यादयः प्रभवन्ति मुख्यत्वादिना भासयितुं न तु मुख्यत्वादयो गत्युपपत्त्यादीनीति आद्यपक्ष एव सिद्धान्तः द्वितीयो जैमिनिपक्षः, पूर्वपक्षो व्याख्यात इति तदयुक्तम् । स्यादेवं यदि गतिविषयताऽमुख्यस्यैव न तु मुख्यस्य ब्रह्मण इति भवेत् । नैतदस्ति 'ब्रह्मविदाप्नोति परं' ब्रह्मैव सन् ब्रह्माप्येति' इत्यादिश्रुतिषु मुख्यमेव ब्रह्म गतिविषयः इति शङ्कराचार्यैरङ्गीकारात्, अत्रैवाधिकरणे सिद्धान्तसूत्रत्वेनाभिमते कार्यात्यये तदध्यक्षेण सहातः परमभिधाना' दित्यत्र च विष्णुरेव परं ब्रह्म तत्प्राप्तिरेव च परममुक्तिरिति व्याख्यानाच्च जैमिनि- मतस्य प्राप्तिलक्षणगत्युपपत्तिविरोधाप्रसक्तेः तद्विरोधेन जैमिनि- मतस्याभासीकरणमिति वर्णनस्य व्याहतत्वात् ।
यच्चोक्तं ‘आकाशवत्सर्वगतश्च नित्यः' 'आत्मैवेदं सर्वं', ब्रह्मैवेदं विश्वमिदं वरिष्ठं इत्यादिश्रुतिनिर्धारितविशेषस्य ब्रह्मणो नगन्तव्यतोपपद्यते प्रतिविद्धसर्वविशेषत्वाद् ब्रह्मण इति, तदप्ययुक्तम् । एवं हि, पूर्वोक्तश्रुतिनिर्धारितविशेषं परं ब्रह्म, न गतिविषयो भवितुमर्हति । प्रतिषिद्ध- सर्वविशेषत्वादिति खल्वनुमानप्रयोगोऽभिप्रेतः । तत्र प्रतिज्ञाहेत्वोर्विरोधः सुस्फुटः । हेतोरसिद्धिश्च । न च वाच्यं 'निष्कलं निष्क्रियं शान्तं' 'स एव नेति नेत्यात्मा' इत्यादिभिः शङ्कराचार्यैरत्रैवोदाहृताभिः श्रुति- भिस्तत्सिद्धिरिति । तैरेव ' आकाशवत्सर्वगतश्च नित्यः' इत्याद्यनेकाः श्रुतीरुदाहृत्य ताभिर्ब्रह्मणि विशेषाणां निर्धारणस्योक्तत्वेन पुनः 'निष्कलं निष्क्रियं' इत्यादिभिरन्याभि: काभिश्चिद्वा श्रुतिभिर्विशेषप्रतिषेधस्यायोगात् । न हि श्रुतयोऽद्वैतिन इव व्याहतभाषिण्यः । येन प्रक्षालनाद्धि पङ्कस्येति न्यायमनादृत्य स्वनिर्धारितविशेषानेव स्वयं निराकुर्युः ।
यदत्रोक्तं गन्तव्यत्वे परब्रह्मणस्तस्य देशकालादिविशेषयोगोऽपेक्षितः । स चाभिः श्रुतिभिः प्रतिषिध्यते इति तदप्यसारम् । श्रुतिषु तादृश- प्रतिषेधबोधकपदाभावात् । श्रौतपदालभ्यस्य वाक्यार्थत्वं शङ्कराचार्यैः ‘नह्यक्षरबाह्यो वाक्यार्थः' इति व्यवस्थापयद्भिरपाकृतम् । देशकालसम्बन्धाभावे शशविषाणवद् ब्रह्मणोऽसत्त्वापत्तिश्च । न हीतोऽन्यच्छश- शृंगस्यासत्वे शृङ्गमस्ति । न च निर्विशेषत्वे ब्रह्मणः शून्यात्तस्य विशेषः शक्यनिरूपणः । समर्थितं च निर्विशेषस्य शून्यत्वसाधकत्वं शङ्कराचार्यैर्विष्णुसहस्रनामव्याख्यानावसरे 'निर्विशेषत्वाच्छून्यवच्छून्य' इति ।
यच्चात्र मृदादिदृष्टान्तैर्विकारस्यानृतत्वप्रतिपादनं तदारम्भणाधिकरणे पूर्वमेव निरस्तमनुसन्धेयम् ।
विशेषनिराकरणश्रुतीनां निराकांक्षार्थत्वात् शेषित्वं उत्पत्त्यादि श्रुत्यादीनां निराकांक्षार्थप्रतिपादनासामर्थ्यात्तच्छेषत्वं इति यद्वर्णितं तदप्यसाधु । वाक्यमात्रस्यान्वयरूपविशेषबोधकत्वनियमेन वाक्यं च विशेषमात्रनिराकरणार्थं चेति व्याहतेः । अन्ततो निर्विशेषत्वलक्षण- विशेषप्रतिपादस्यानवश्यकत्वात् । ' तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इति निर्विशेष बोधकतायामुदाहृतवाक्येऽपि, शोकमोहनिवर्तकत्वैकत्वानुदृश्यत्वादिविशेषाणां कथितत्वेन 'अभयं वै जनक प्राप्तोऽसि ' इत्यत्राभयत्वप्राप्यत्वादिविशेषाणां वर्णितत्वेन एवं सर्वत्रापीति न तेषां निर्विशेषबोधकत्वम् । निर्विशेषबोधकत्वादेव निराकांक्षत्वमित्युक्तिस्तु गर्भस्रावेणैव निरस्ता ।
किं च विशेषनिराकरणश्रुतीनां निराकांक्षार्थत्वात् शेषित्वमित्यस्य कोऽर्थः । आकांक्षाशून्यत्वादिति वा आकांक्षाऽजनकत्वादिति वा आकांक्षापूरकत्वादिति वा । नाद्यः वाक्यमात्रस्याकांक्षावत्त्वलक्षणनियमेन व्याघातात् । न द्वितीयः । शून्यप्रतिपादकवाक्यानामपि शेषित्वापत्त्या तदापत्तेरपि परममुक्तित्वापातात् । न तृतीयः । 'इष्टमाकांक्षते सर्वः’ इत्युक्तरीत्या सर्वेष्टपुरुषार्थरूपविशेषानिरूपणे आकांक्षापूरकत्वस्यायोगात् । प्रत्युत तादृशविशेषनिरूपण एवाकांक्षापूर्वकत्वस्य सर्वत्र दर्शनात् ।
गन्ता जीवो गन्तव्यस्य ब्रह्मणोऽवयवो विकारो वा न सम्भवतीति यत्कथितं शङ्कराचार्यैस्तदनुमन्यत एव । तत्रोक्ता नित्यप्राप्तत्वनिरवयत्वादयो युक्तयस्तु निर्मूलाः ।
एवं जीवस्य व्यापित्वमध्यमपरिमाणत्वप्रतिषेधोऽप्यङ्गीक्रियते । अणुत्वे कृत्स्नशरीरवेदनानुपपत्तिरिति कथितं तु नोपपन्नम् । अणोरपि जीवस्य ‘तद्यधाऽणुनश्चक्षुषः प्रकाशो व्याततः, एवमेवास्य पुरुषस्य प्रकाशो व्याततः अणुर्ह्येवैषः' इति श्रुतौ जीवः स्वरूपतोऽणुरेव प्रकाशरूपेण व्याप्त इति स्पष्टं कथनेन प्रकाशरूपेण व्याप्त्या स्वदेहसर्वावयवावच्छेदेन सुखदुःखानुभवोपपत्तेः । उत्क्रान्तिगत्यागतीनां इत्यादिसूत्रैः स्पष्टमणुत्वस्य समर्थितत्वेन, शङ्कराचार्यैरपि तेषां सूत्राणामणुत्वसमर्थनपरतया व्याख्यातत्वेनात्र पुनस्तन्निराकरणं उत्सूत्रं व्याहतं च । विस्तरस्तु तत्सूत्रविचार एवानुसन्धेयः ।
तत्स्मात्कर्तृत्वभोक्तृत्वस्वभावे सत्यात्मन्यसत्यां विद्यागम्यायां ब्रह्मात्मतायां न कथंचन मोक्षं प्रत्याशास्तीति यदुक्तं तदप्यसारम् । कर्तृत्वभोक्तृत्वस्वभावत्वे मोक्षः (कर्तृत्वनिवृत्तिः) न स्यादित्यापादनमयुक्तम् । कर्तृत्वादेर्मोक्षेऽपीष्टत्वेन (प्रमाणसिद्धत्वेन) तन्निवृत्त्यभावस्यापादयितुमशक्यत्वात् । अप्रामाणिकं ह्यापादनीयम् । सन्ति च मोक्षेऽपि कर्तृत्वादिप्रतिपादकानि ‘स तत्र पर्येति' इत्यादि श्रुतिवाक्यानि 'सङ्कल्पादेव तच्छ्रुतेः' इत्यादिसूत्राणि प्रमाणानि ।
यदपि परापरत्वेन ब्रह्मत्वविभागः जक्षणक्रीडनादीनां मुक्तिगोचरत्वाभावः इत्यादिकमप्रामाणिकमुत्सूत्रं व्याहतं च भाषितं तत्सर्वं आरम्भणाधिकरणे सविस्तरं निरस्तमनुसन्धेयम् ।
एवं स्थिते जैमिनिमतावष्टम्भेन प्रवृत्तं सूत्रत्रयं पक्षान्तरप्रतिभानमात्रप्रदर्शनं प्रज्ञाविकासनायेत्येतदधिकरणभाष्योपसंहारे यच्छङ्कराचार्यैरुक्तं तत्स्वकल्पितविषयवर्णनस्य सूत्रारूढतानाटनमात्रार्थम् ।
(अधिकरणं ६)
ॐ अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॐ (४.३.१५)
ॐ विशेषं च दर्शयति ॐ (४.३.१६ )
इति सूत्रद्वयस्य प्रतीकाप्रतीकालम्बनानां विभिन्नगतिरिति यद्व्याख्यानं तदुपासकानां प्राप्यफलानां च भेदप्रतिपादनपरमेव । यत्तु कार्यविषयैवैषा गतिर्न परविषयेति भाषितं तत् वाक्यान्वयाधिकरण आरम्भणाधिकरण एवं तत्र तत्र सविस्तरमेव दूषितमिति नात्र पुनर्निराक्रियते ।
। ब्रह्मसूत्रशाङ्करभाष्यस्य चतुर्थाध्याय तृतीयपादपरामर्शः ।