ॐ ज्ञोऽत एव ॐ

आत्मा जीवः नोत्पद्यते इत्यस्मिन् विषये नित्यत्वाच्च ताभ्यः । च शब्दादजत्वादिभ्यश्च नित्यत्वं ह्यस्य श्रुतिभ्योऽवगम्यते, तथाऽजत्वम- विकारित्वमविकृतस्यैव ब्रह्मणो जीवात्मनाऽवस्थानं ब्रह्मात्मना चेति । न चैवं रूपस्योत्पत्तिरुपपद्यते । ताः काः श्रुतयः । 'न जीवो म्रियते' (छां.६.११.३)स वा एष महानज आत्माऽजरोऽमृतोऽभयो ब्रह्म' (बृ. ४.४.२५) 'न जायते म्रियते वा विपश्चित्' (कठ. २.१८) 'अजो नित्यः शाश्वतोऽयं पुराणः' (कठ.२.१८) 'तत्सृष्ट्वा तदेवानुप्राविशत् ' (तै.२.६.१) 'अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि ' (छां. ६.३.२) स एष इह प्रविष्ट आनखाग्रेभ्यः (बृ.१.४.७) 'तत्त्वमसि' (छां.६.८.७)अहं ब्रह्मास्मि' (बृ.१.४.१०) 'अयमात्मा ब्रह्म सर्वानुभूः'(बृ. २.५.१९) इत्येवमाद्याः नित्यत्ववादिन्यः सत्यः जीवस्योत्पत्तिं प्रतिबध्नन्ति । इति यो उत्पत्त्यभावविषये हेतुः उक्तः सोऽप्ययुक्तः । ।

अयमात्मा ब्रह्म सर्वानुभूः (बृ.२.५.१९) इति वाक्यं, अयं प्रमाणसिद्धः आत्मा परमात्मा, ब्रह्म पूर्ण, सर्वानुभूः सर्वं अनुभवति (जानाति ) इति वा, सर्वं अनुभावयति ( उत्पादयति ) इति वा सर्वनुभूः सर्वज्ञः सर्वजगदुत्पादक इति परमात्मनः पूर्णत्वं सर्वज्ञत्वं सर्वोत्पादकत्वं प्रतिपादयति नतु जीवस्योत्पत्त्यभावम्, इति जीवस्य उत्पत्त्यभावे एतच्छ्रुत्युदाहरणमयुक्तम् ।

तत्त्वमसीति वाक्यमद्वैतमतरीत्या बोधकमेव न, बोधकत्वेऽपि चित् इत्यखण्डार्थबोधकं न तु जीवस्योत्पत्त्यभावबोधकमिति जीवस्योत्पत्त्यभावे तत्त्वमसीतिवाक्योदाहरणमप्ययुक्तम् ।

एवमेव अहं ब्रह्मास्मीति वाक्यमपि न जीवोत्पत्त्यभावबोधकमिति जीवोत्पत्त्यभावे एतच्छ्रुत्युदाहरणमयुक्तम् । स एष इह प्रविष्ट आनखाग्रेभ्यः' (बृ.१.४.७) इति वाक्यमपि-सः एषः परमात्मा इह स्वसृष्टे प्रविष्ट इति परमात्मनः जगति प्रवेशं बोधयति न तु जीवस्योत्पत्त्यभावम् ।सेयं दैवतैक्षत हन्ताऽहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति (छां.३.२) वाक्यमपि न जीवस्योत्पत्त्यभावं वक्ति । सा इयं देवता सदाव्या ऐक्षत आलोचनं कृतवती । अहं इमाः तिस्रो देवताः = तेजोभिमानिदेवतां अवभिमानिदेवतां अन्नाभिमानिदेवतां च अनेन जीवेन जीवनामकेन अनिरुद्धरूपेण प्रवेशं कृत्वा नामरूपे नामात्मक रूपात्मकप्रपञ्चं करवाणि इति परमात्मनः 'सुप्तं कर्म प्रबोधयन्निति प्रमाणानुसारेण तेजआदितत्वप्रवेशेन जगत्सृष्टिमेव प्रतिपादयति न तु जीवस्योत्पत्त्यभावमिति इदमपि जीवस्योत्पत्त्यभावे न प्रमाणम् । विशेषविचारस्तु तत्त्वमसिवाक्यार्थनिरूपणे द्रष्टव्यः ।

तत्सृष्ट्वा तदेवानुप्राविशत्' ( तै.२.६.१) इति वाक्यमपि परमात्मा जगत्सृष्ट्वा यः पृथिव्यां तिष्ठन् ' 'योऽप्सु तिष्ठन्' इत्यादिश्रुत्युक्तरीत्या नियामकरूपेण तत्र तत्र प्रवेशं कृतवानित्येव बोधयति न तु जीवस्योत्पत्त्यभावम् ।

‘“स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्मइति श्रुतिः परब्रह्मणः अजरत्वादिकं वक्ति न तु जीवस्योत्पत्त्यभावमिति नैतदपि वाक्यं जीवस्योत्पत्त्यभावे प्रमाणं भवितुमर्हति ।

जीवस्य ब्रह्मत्वात् (जीवब्रह्मणोरभेदात् ) ब्रह्मण उत्पत्त्यभावे तदभिन्नस्य जीवस्य उत्पत्त्याद्यभावः सिध्यतीति आशा, ईश्वरोऽहं (गी.१७.१४) इति गीतोक्तरीत्या तामसत्वात् त्याज्या । अत्यागेआसुरीं योनिमापन्ना मूढाः जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिं' (गी.१८) इति गीतोक्ता तामसी गतिर्वा प्राप्या । 'न जायते म्रियते वा विपश्चित् नायं...' 'अजो नित्यः शाश्वतोऽयं पुराण... ' (क. २.१८) इति वाक्यं 'न जीवो म्रियते' इति वाक्यं च जीवनित्यत्व ( उत्पत्त्यभाव ) प्रतिपादकं भवतु न नः काचित्क्षतिः । अस्माभिरपि जीवस्य नित्यत्वाङ्गीकारात् ।

परन्तु स एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति' इति पूर्ववाक्ये जीवेन युक्तस्य मोदमानत्वं ' स एष' इतिपदोक्तस्य वक्ति । मोदमानत्वं च न जीवमन्तरा सम्भवतीति मोदमानः जीव एवेति मोदमानत्वेन स एष इति पदोक्तस्य वृक्षस्य जीवत्वं सिध्यति । तथा च स एष वृक्षजीवः जीवेन जीवनामकेन आत्मना परमात्मना अनुप्रभूतः पेपीयमानः मोदमानः दृष्टः सन् तिष्ठति । वृक्षजीवतन्नियामक जीवाख्यपरमात्मनोः प्रसक्तत्वात् 'न जीवो म्रियते' इति वाक्यस्थजीवशब्दः न सुखदुःखादिभोक्तृजीवपरः, किन्तु 'जीव इति भगवतोऽनिरुद्धस्याख्याइति श्रुते: भगवत्पर एवेति 'न जीवो म्रियते' इति वाक्यं जीवस्य उत्पत्त्यभावं न प्रतिपादयत्यतो जीवोत्पत्त्यभावविषये ऽस्य वाक्यस्योदाहरणमयुक्तमेवेति ।

यच्चोक्तंननु प्रविभक्तत्वाद्विकारोविकारत्वाच्चोत्पद्यते इत्युक्तम् । अत्रोच्यते नास्य प्रविभागः स्वतोऽस्ति । एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा' (श्वे. ६.११) इति श्रुतेरिति । तदप्ययुक्तम् ।

'एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ॥

कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च' (श्वे. ६.११)

इति श्रुतिः, “एकः एके मुख्यान्यकेवलाइत्यादिप्रमाणानुसारेण प्रधानः असहायः जीवजडात्मकप्रपञ्चाद्भिन्नः (सजातीयविजातीयरहितः), देवः क्रीडादिगुणविशिष्टः, सर्वभूतेषु गूढः अज्ञेयः सन् अन्तस्स्थितः, सर्वव्यापी, सर्वभूतान्तरात्मा = सर्वभूतेषु अन्तः नियामकतया स्थितः, कर्माध्यक्षः = तत्तत्प्राणिकृतकर्मणां फलदाता, सर्वभूताधिवासः= सर्वभूताश्रयः, साक्षी = साक्षाद्द्द्रष्टा, चेता = चेतयिता, केवलः जडामिश्रः, निर्गुणः = सत्त्वादिगुणरहितः इति व्याप्यव्यापकभावादिना आधाराधेय- भावेन च कर्मफलदातृत्वकर्मफलग्रहीतृत्वादिना च जीवब्रह्मणोर्भेदं (विभागं) कथयतीति अस्याः श्रुतेर्जीवब्रह्माविभागे (अभेदे) प्रमाणतयोदाहरणस्यायुक्तत्वात् ।

बुद्ध्याद्युपाधिनिमित्तो भेदः न स्वभावतः इत्येतत्पूर्वमेव उपाधि- सम्बन्धायोगादिना निराकृतमिति नेह पुनर्विचार्यते । 'अत ऊर्ध्वं विमोक्षायैव ब्रूही'ति वाक्येन मोक्षसाधनकथनविषयकप्रार्थनैव बोध्यते न तु जीवस्य परमात्मभाव इति, ‘परमात्मभावप्रतिपादनात्' इत्युक्तिरज्ञजनप्रतारणायैवेति ।

ॐ ज्ञोऽत एव ॐ (२.३.१८)

इति सूत्रे आत्मा आगन्तुकचैतन्यः उत नित्यचैतन्यरूप इति शङ्कायां आगन्तुकचैतन्य आत्मा इति पूर्वपक्षे ज्ञः नित्यचैतन्योऽयमात्मा इति नित्यचैतन्यस्वरूपत्वं यत् सिद्धान्तितं तद्युक्तमेव । परन्तु अत एवेति हेतुवाक्यस्य परमेव ब्रह्म अविकृतं उपाधिसम्पर्कात् जीवभावेनावतिष्ठ- मानत्वादित्यर्थकरणमत्यन्तमसमञ्जसम् । ब्रह्मणो जीवभावप्रतिपादक प्रमाणाभावात् । प्रत्युत श्रुतिसूत्रगीताभिः जीवब्रह्मणोर्भेदस्यैव सिद्धत्वेन, नित्यचैतन्यस्वरूपब्रह्माभिन्नत्वहेतुना जीवस्य नित्यचैतन्य स्वरूपत्वसाधनस्यायुक्तत्वात् ।

किञ्च जीवस्य स्वप्रकाशता श्रुतितोऽपीत्युक्त्वाअसुप्तः सुप्तान् अभिचाकशीति' इति श्रुत्युदाहरणं यत्कृतं तदप्ययुक्तम् ।असुप्तः सुप्तानभिचाकशीतिइति वाक्यस्य 'स्वप्नेन शारीरमभिप्रहत्य' इति पूर्वभागः, 'हिरण्मयः पुरुष एकहंसः' इति उत्तरभागः । तथा च तस्यायमर्थः हिरण्मयः एकहंसः प्रधानहंसरूपः पुरुषः = पूर्णषड्गुणः परमात्मा, स्वप्नेन = सुषुप्त्या शारीरं=जीवं, अभिप्रहत्य = संयोज्य, स्वयं असुप्तः=सुप्तिशून्यः सुप्तान्=सुप्त्यवस्थागतान् जीवान् अभिचाकशीति = पश्यति इति । तथा च अनया श्रुत्या असुप्तः (अलुप्तदृगादिशक्तिमान् ) शारीरं (जीवं ) सुप्त्या संयोजयति इति परमात्मनः अलुप्तदृगादिशक्तिमत्त्वं, जीवस्य लुप्तदृगादिशक्तिमत्त्वमेव बोध्यते, न तु जीवस्य सुषुप्त्यवस्थायां ज्ञानवत्त्वं बोध्यते इति नेयं श्रुतिर्जीवस्य अलुप्तदृगादिशक्तिमत्त्वे प्रमाणं भवितुमर्हति ।

न च शारीरमित्यस्य शरीरमित्यर्थकत्वेन शरीरस्यैव स्वप्नेन सम्बन्धो बोध्यते न तु जीवस्येति वाच्यम् । तथा सति शारीरमिति अण्प्रत्ययस्य वैय्यर्थ्यापत्तेः । ' शारीरक्षोभयेऽपि हि भेदेनैनमधीयते' इत्याद्यनेकस्थलेषु जीवे शारीरशब्दप्रयोगाच्च इति ।

ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ( २.३.१९)

जीवः किमणुपरिमाण उत मध्यमपरिमाणः आहोस्वित् महापरिमाण इति संशये.... तत्र प्राप्तं तावत् उत्क्रान्तिगत्यागतीनां श्रवणात् परिच्छिन्नो अणुपरिमाणो जीव इति । उत्क्रान्तिस्तावत् स यदा अस्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामति' (कौषी. ३.३) इति, 'गतिरपि 'ये वै के चास्माल्लोकात्प्रयंति चन्द्रमसमेव ते सर्वे गच्छन्ति ' ( कौषी. १. २ ) इति । आगतिरपि 'तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे' (बृ. ४.४.६ ) इति । आसामुत्क्रान्तिगत्यागतीनां श्रवणात् परिच्छिन्नस्तावज्जीव इति प्राप्नोति नहि विभोश्चलनमवकल्प्यत इति । सति च परिच्छेदे शरीर- परिमाणत्वस्यार्हतपरीक्षायां निरस्तत्वात् अणुरात्मेति गम्यते (१९)

ॐ स्वात्मना चोत्तरयोः ॐ (२.३.२०)

उत्क्रान्तिः कदाचिदचलतोऽपि ग्रामस्वाम्यनिवृत्तिवद्देहस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेत । उत्तरे तु गत्यागती नाचलतः सम्भवतः । स्वात्मना हि तयोः सम्बन्धो भवति । गमेः कर्तृस्थक्रियात्वात् । अमध्यम- परिमाणस्य च गत्यागती अणुत्व एव सम्भवतः । सत्योश्च गत्या- गत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते । न ह्यनपसृप्तस्य देहाद्गत्यागती स्याताम् । देहप्रदेशानां चोत्क्रान्तावपादानत्ववचनात् ।

'चक्षुष्टो वा मूर्ध्ना वाऽन्येभ्यो वा शरीरदेशेभ्यः' (बृ. ४.४.२) इति 'स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति' (बृ.४.४.१)

'शुक्रमादाय पुनरेति स्थानं ' (बृ. ४.३.११ ) इति चान्तरेऽपि शरीरे शारीरस्य गत्यागती भवतः । तस्मादप्यस्याणुत्वसिद्धिः ।। २० ।।

ॐ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॐ (२.३.२१)

अथापि स्यान्नाणुरयमात्मा । कस्मात् । अतच्छ्रुतेः । अणुत्व- विपरीतपरिमाणश्रवणादित्यर्थःस वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु' (बृ. ४.४.२२) 'आकाशवत्सर्वगतश्च नित्यःसत्यं ज्ञानमनन्तं ब्रह्म’ (तै.२.१.१) इत्येवंजातीयका हि श्रुतिरात्मनोऽणुत्वे विप्रतिषिध्येतेति चेत् । नैष दोषः । कस्मात् । इतराधिकारात् । परस्य ह्यात्मनः प्रक्रियायामेषा परिमाणान्तरश्रुतिः । परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात् । विरजः पर आकाशादित्येवं- विधाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात्... तस्मात्प्राज्ञ- विषयत्वात्परिमाणान्तरश्रवणस्य न जीवस्याणुत्वं विरुध्यते ।। २१ ।।

ॐ स्वशब्दोन्मानाभ्यां च ॐ (२.३.२२)

इतश्चाणुरात्मा, यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयते-एषोऽणुरात्मा चेतसा वेदितव्यो तस्मिन् प्राणः पञ्चधा संविवेश' (मु. ३.१.९) इति प्राणसम्बन्धाच्च जीव एवायमणुरभिहित इति गम्यते । तथोन्मानमपि जीवस्याणिमानं गमयति- 'बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेय:' (वे. ५.८) इति । 'आराग्रमात्रो ह्यवरोऽपि दृष्टः' (श्वे.५.८) इति चोन्मानान्तरम् ।

नन्वणुत्वे सत्येकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुद्धते । दृश्यते च जाह्नवीह्रदनिमग्नानां सर्वाङ्गशैत्योपलब्धिर्निदाघसमये च सकलशरीरपरितापोप लब्धिरिति । अत उत्तरं पठति-

ॐ अविरोधश्चन्दनवत् ॐ (२.३.२३)

यथा हि हरिचन्दनबिन्दुः शरीरैकदेशसम्बद्धोऽपि सन्सकल- देहव्यापिनमाह्लादं करोत्येवमात्मापि देहैकदेशस्थः सकलदेहव्यापिनीमुपलब्धिं करिष्यति ।

ॐ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॐ (२.३.२)

अत्राह यदुक्तमविरोधश्चन्दनवदिति, तदयुक्तं दृष्टान्तदाष्र्ष्टान्तिकयोरतुल्यत्वात् । सिद्धे ह्यात्मनो देहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति । प्रत्यक्षं तु चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाह्लादनं च । आत्मनः पुनः सकलदेहोपलब्धिमात्रं प्रत्यक्षं नैकदेशवर्तित्वम् । ... अत्रोच्यते-नायं दोषः । कस्मात् अभ्युपगमात्, अभ्युपगम्यते ह्यात्मनोऽपि चन्दनस्येव देहैकदेशवृत्तित्वमवस्थितिंवैशेष्यम् । कथमित्युच्यते । हृदि ह्येष आत्मा पठ्यते वेदान्तेषुहृदि ह्येष आत्मा' (प्रश्न ३.६)स वा एष आत्मा हृदि’ (छां.८.३.३)’ 'कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योति: पुरुष:' (बृ. ४.३.७ ) इत्याद्युपदेशेभ्यः । तस्माद् दृष्टान्तदाष्टन्तिकयोरवैषम्याद्युक्तमेवैतदविरोधश्चन्दनवदिति ॥

ॐ गुणाद्वा लोकवत् ॐ (२.३.२५)

चैतन्यगुणव्याप्तेर्वाऽणोरपि सतो जीवस्य सकलदेहव्यापि कार्यं न विरुध्यते । यथा लोके मणिप्रदीप प्रभृतीनामपवरकैकदेशवर्तिनामपि प्रभापवरकव्यापिनी सती कृत्स्नेऽपवरके कार्यं करोति तद्वत् ।

कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत । तर्हि पटस्य शुक्लो गुणः पटव्यतिरेकेणान्यत्र वर्तमानो दृश्येत । अत उत्तरं पठति-

ॐ व्यतिरेको गन्धवत् ॐ (२.३.२६)

यथा गुणस्यापि सतो गन्धस्य गुणवद्द्द्रव्यव्यतिरेकेण वृत्तिर्भवति । अप्राप्तेष्वपि कुसुमादिषु गन्धवत्सु कुसुमगन्धोपलब्धेः । एवमणोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको भविष्यति । अतश्चानैकान्तिकमेततद्गुणत्वाद्रूपादि वदाश्रयविश्लेषानुपपत्तिरिति ।

ॐ तथा च दर्शयति ॐ (२.३.२७)

हृदयायतनत्वमणुपरिमाणत्वं चात्मनोऽभिधाय तस्यैव 'आलोमभ्य आनखाग्रेभ्यः' (छां.८.८.१) इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति ।

ॐ पृथगुपदेशात् ॐ (२.३.२८)

प्रज्ञया शरीरं समारुह्य’ (कौषी. ३.६ ) इति चात्मप्रज्ञयोः कर्तृ- करणभावेन पृथगुपदेशाच्चैतन्यगुणेनैवास्य शरीरव्यापिता गम्यते ।तदेषां प्राणानां विज्ञानेन विज्ञानमादाय' (बृ.२.१.१७) इति च कर्तुः शारीरात्पृथग्विज्ञानस्योपदेश एतमेवाभिप्रायमुपोद्बलयति । तस्मादणुरात्मेति ।

एवं दश सूत्राणि जीवस्याणुत्वप्रतिपादकानीति यदुक्तं शङ्कराचार्यैस्तत्तु समीचीनमेव । अणुत्वप्रतिपादनप्रक्रियायां उदाहृतप्रमाणविषये वैलक्षण्यस्याप्रयोजकत्वात् न विचार्यते । एवं प्रमाणैः सिद्धस्यापि जीवाणुत्वस्य खण्डनपरतया

'तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्' ॐ (२.३.२९)

यावदात्मभावित्वाच्च न दोस्तदर्शनात्' ॐ (२.३.३०)

'पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्' ॐ (२.३.३१)

ॐ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाsन्यथा' ॐ (२.३.३२)

इतीमानि सूत्राणि व्याचक्रुः शङ्कराचार्याः । तत्र हि तद्गुणसारत्वादिति सूत्रव्याख्याने 'तुशब्दः पक्षं व्यावर्तयति नैतदस्त्यणुरात्मेति-उत्पत्त्यश्रवणाद्धि परस्यैव तु ब्रह्मण: प्रवेशश्रवणात्तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तम् । परमेव चेद्ब्रह्म जीवस्तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति परस्य च ब्रह्मणो विभुत्वमाम्नातम् । तस्माद्विभुर्जीवःइति वाक्येन परस्य ब्रह्मणो विभुत्वाम्नानात् तदभिन्नजीवस्यापि विभुत्वं ( जीवो विभुः ब्रह्माभिन्नत्वात् ब्रह्मवत् ) इत्यनुमानसूचनद्वारा साधितं, तदयुक्तम् । जीवब्रह्मणोरैक्ये प्रमाणाभावेन जीवस्य ब्रह्माभिन्नत्वाभावात् जीवे ब्रह्माभिन्नत्वरूपहेतोरसिद्धेः । ब्रह्मणः अद्वैतमते निर्धर्मकत्वेन विभुत्वाभावेन दृष्टान्ते ब्रह्मणि साध्यवैकल्याच्च नानुमानं विभुत्वसाधनसमर्थमिति ।

परस्यैव तु ब्रह्मणः प्रवेशश्रवणात् परमेव ब्रह्म जीव इति यदुक्तं तदद्वैतमतरीत्या अत्यन्तमयुक्तम् ।कल्पितं प्रवेशं प्रतिपादितमुपसंहरति तस्मादिति । तस्मात् कार्यस्थस्यात्रोपलभ्यत्वमेव प्रवेश इत्युपचर्यते इत्यादि शाङ्कवृहद्भाष्यादिवाक्येन अद्वैतमते ब्रह्मणः प्रवेशासम्भवस्य कथितत्वात् ।

किञ्च तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इति यदुक्तं तदप्ययुक्तम् । जीवब्रह्मणोरभेदबोधकोपदेशरूपः तादात्म्योपदेशः खलु जीवस्य ब्रह्मत्वसाधकः । न हि जीवब्रह्माभेदवोधकोपदेशोऽस्ति । अद्वैति- भिस्तत्त्वमस्यादिवाक्यानां बोधकत्वानङ्गीकारेण बोधकत्वाङ्गीकारेऽपि अखण्डार्थबोधकत्वाङ्गीकारादिना अभेदबोधकोपदेशरूपतादात्म्योपदेश- रूपत्वानङ्गीकारात् । तथा च ब्रह्मणः विभुत्वेऽपि न तद्भिन्नजीवस्य विभुत्वसिद्धिरिति प्रागुक्तप्रमाणैरणुरेव जीव इति ।

किंचतथा च स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु" (बृ. ६.२.२२) इत्येवंजातीयका जीवविषया विभुत्ववादाः श्रौता: स्मार्ता समर्थिता भवन्ति" इति वाक्येन जीवस्य विभुत्वे तन्महत्त्ववादिश्रुतिस्मृतिवाक्यानि मुख्यार्थानि भवन्तीति यदाह तदप्ययुक्तम् । स वा एष इति श्रुतेः जीवपरत्वाभावेन जीवस्य महत्त्वा (विभुत्वा) प्रतिपादकत्वात् । तथाहिस वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिंच्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरणे' (बृ.६.४.२२) इति श्रुतिः-

महान् अजः योऽयमात्मा सः सर्वस्य ब्रह्मेन्द्रादेः वशी सर्वो हि अस्य वशे वर्तते । उक्तं चएतस्य वा अक्षरस्य प्रशासने' इति । न केवलं वशी सर्वस्येशानः ईक्षिता च, सर्वस्याधिपतिः सर्वभूताधिपतिः भूतपालः, नेति नेति इत्यादिविशेषणयुक्तपरमात्मन एव महच्छव्दोक्तविभुत्वं वक्ति न तु जीवस्य । तस्मिन्नुक्तविशेषणानामयोगात् । प्रत्युत नियम्य- नियामकभावेन ईशितृत्वेशितव्यभावेन च विभोः ब्रह्मणः सकाशात् जीवस्य भेदमेव वक्ति इति नेयं श्रुतिः जीवस्य महत्त्वोक्तौ समर्थिता भवति किन्तु कदर्थीकृता भवति ।नित्यः सर्वगतस्थाणुरि' ति स्मृतिरपिनित्ये सर्वगते विष्णावणुर्जीवो व्यवस्थितः' इति स्मृत्यन्तरानुसारेण सर्वगतस्थश्वासौ अणुश्चेति विग्रहेण जीवस्याणुत्वमेव वक्ति । यच्चोक्तं 'न चाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते तदन्यथानुपपत्त्या जीवस्य विभुत्वं (महा- परिमाणत्वं) अङ्गीकार्यं देहानुरूपमध्यमपरिमाणवत्त्वाङ्गीकारे कर्मानुसारेण सूक्ष्मसूक्ष्मतरमहन्महत्तरपिपीलिकादि गजादि नानादेहप्राप्त्या तत्तद्देहानुसारेण परिणामाङ्गीकारे विकारित्वप्राप्त्या नाशप्रसङ्गः इत्यादिदोषप्रसत्त्या देहानुरूपमध्यमपरिमाणवत्त्वस्य जैनमतनिराकरणावसरे निराकृतत्वात् सर्वदेहावच्छेदेन भोगार्थं विभुत्वमङ्गीकर्तव्यमिति' तदयुक्तम् । विभुत्वाङ्गीकारे स्वदेहव्याप्त्या सर्वदेहावच्छेदेन जायमानसुखदुःखादिभोगप्राप्तिवत् सर्वेषु व्याप्तिप्राप्त्या सर्वदेहावच्छेदेन जायमानसुखदुःखादिप्राप्तिरूपानिष्टस्यापत्तेः । तस्य चानुभवविरुद्धत्वात् । अणोरपि जीवस्य, 'तद्यथा अणुश्चक्षुषः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततः अणुर्ह्येवैष' इति श्रुतौ जीवः स्वरूपतः अणुरेव प्रकाशरूपेण व्याप्त इति स्पष्टं कथनेन प्रकाशरूपेण व्याप्त्या स्वदेहसर्वावयवावच्छेदेन सुखदुःखानुभवोपपत्तेः ।

यथाउत्क्रान्तिगत्यागतीनाम् ' 'नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात्इत्यादिसूत्रैः स्पष्टं अणुत्वं वर्णितम् । तथा अद्वैतिभिः सिद्धान्त- प्रतिपादकतयाऽङ्गीकृतेषुतद्गुणसारत्वात्तु तद्व्यपदेश' इत्यादिसूत्रेषु जीवस्य विभुत्वबोधकपदाभावेनावर्णनात् जीवानां विभुत्वसाधनपरतया एतत्सूत्राणामर्थकथनमयुक्तम् । जीवविभुत्ववादस्योत्सूत्रितत्वप्राप्तेः ।

यदुक्तं ‘“कथं तर्हि अणुत्वादिव्यपदेश इत्यत आह तद्गुणसारत्त्वात्तु तद्व्यपदेश इति । तस्या बुद्धेर्गुणास्तद्गुणा इच्छा द्वेषः सुखं दुःख- मित्येवमादयस्तद्गुणाः, सारः प्रधानं यस्यात्मनः संसारित्वे सम्भवति स तद्गुणसारस्तस्य भावस्तद्गुणसारत्वम् । न हि बुद्धेर्गुणैर्विना केवलस्यात्मनः संसारित्वमस्ति । बुध्द्युपाधिधर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वमकर्तुरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मनः । तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः तदुत्क्रान्त्यादि भिश्चास्योत्क्रान्त्यादिव्यपदेशो न स्वतः । तथा च 'बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते' ।। (श्वे.५.९) इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह । तच्चैवमेव समंजसं स्याद्यद्यौपचारिकमणुत्वं जीवस्य भवेत्पारमार्थिकं चानन्त्यम् । न ह्युभयं मुख्यमवकल्पेत । न चानन्त्यमौपचारिकमिति शक्यं विज्ञातुम् । सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वात्इति । तन्न युक्तम् । तद्गुणसारत्वादित्यस्य योऽर्थो वर्णितः स तावदयुक्तः । मृत्परिणामभूतस्य घटस्य यथा मृदो घट इति गुणगुणिभावव्यवहारो नास्ति, किन्तु मृद् घट इत्येव व्यवहारोऽस्ति, तथा बुद्धि (मनः) परिणतत्वात् इच्छाद्वेषादेः न हि बुद्धेर्गुण इति व्यवहारः किन्तु 'कामः सङ्कल्पो विचिकित्सा ह्रीर्धीर्भी: सर्वं मन एव' इति श्रुत्यनुसारेण बुद्धिरिच्छादिरित्येव व्यवहार इति इच्छादेर्बुद्धिगुणत्वकथनमयुक्तमेव । किंच बुद्धेः पूर्वमप्रसक्तत्वेन तद्गुण इत्यत्र तच्छब्देन बुद्धेः ग्रहणायोगः । अपि च तद्गुणा इच्छाद्वेषादयः सारः प्रधानं यस्यात्मनः संसारित्वे सम्भवति, इत्यर्थकथनमप्ययुक्तम् । तद्गुणसार इति पदेन एतादृशार्थस्याप्रतीतेः । अयुक्तश्चायमर्थः । इच्छादीनामेव संसाररूपत्वेन आत्मनः संसारित्वे इच्छादीनां प्राधान्याभावात् प्राधान्यमिच्छादीनामात्मनः संसारित्वे इच्छादीनां प्राधान्याभावात् प्राधान्यमिच्छादीनामात्मनः संसारित्वे वक्तुमशक्यमिति ।

तद्गुणसारत्वादित्यत्र तच्छब्देन बुद्धेर्गृहीतत्वेन तद्व्यपदेश इत्यत्रापि तच्छब्देन बुद्धेरेव ग्राह्यत्वात् तद्व्यपदेश इत्यस्य परिणामव्यपदेश इत्यर्थस्य तदुत्क्रान्त्यादिभिश्च स्वोत्क्रान्त्यादिव्यपदेशः, न स्वत इत्यर्थस्य च सूत्रपदावोध्यत्वात् तथाऽर्थकरणमत्यन्तमयुक्तम् ।

यच्चोक्तं-तदुत्क्रान्त्यादिभिश्च (बुध्द्युत्क्रान्त्यादिभिश्च) अस्य (जीवस्य ) उत्क्रान्त्यादिव्यपदेशः न स्वतः इति, तदयुक्तम् । 'तमुत्क्रान्तं प्राणोनूत्क्रामति' इति श्रुतौ अद्वैतिभिः उपाधितया कथ्यमानप्राणाख्य- बुध्द्युत्क्रान्तेः प्रागेव जीवे उत्क्रान्त्युक्तेः, तथा 'मन उदक्रामत् मीलित इवाश्नन् पिवन्नास्ते' इत्यादिश्रुतौ मनसः उत्क्रमणेऽपि आत्मनः उत्क्रमणा- श्रवणाच्च जीवोत्क्रान्त्यादिव्यपदेशस्य बुद्ध्युत्क्रान्त्यधीनत्वाभावात् ।

यदुक्तंवालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानंत्याय कल्पते' (श्वे. ५.९) इत्यणुत्वं जीवस्योक्त्वा पुनरानंत्यमाहेति तदप्ययुक्तम् ।

बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्य विज्ञेयः स चानन्त्याय कल्पते ।।' (वे. ५.९) इति श्रुत्या जीवः बालाग्रशतभागस्य न भागपरिमित इति बालाग्रस्य ( /१०००० एकदशसहस्रांश इति ) जीवस्य अणुत्वमुक्तं न तु तस्यैव महत्त्वं (विभुत्वं ) । न चस चान्त्याय कल्पते' इति अनन्तत्वमप्युक्तमिति वाच्यम् । सः=जीवः, आनन्त्याय=मोक्षाय, कल्पते=समर्थो भवति इति जीवस्य मोक्षयोग्यताकथनात् आनन्त्यपदेन विभुत्वानुक्तेः । यदीदं वाक्यं जीवस्य विभुत्वरूपानन्त्य- प्रतिपादने तात्पर्यवत्स्यात्तदा स चानन्त' इत्येव वक्तव्यं स्यात् न त्वानन्त्याय कल्पते इति चतुर्थीम् । विभुत्वरूपानन्त्यस्य अद्वैतमतरीत्या सार्वकालिकत्वेन कल्पते इत्युक्तिरसङ्गता च स्यात् । किञ्चा यद्यौपचारिकमणुत्वं जीवस्य भवेत् पारमार्थिकं चानन्त्यमिति सामञ्जस्यं भवतीत्युक्तिरपि अद्वैतमतरीत्या अयुक्ता । आनन्त्यस्यापि ब्रह्मातिरिक्ततया मिथ्यात्वेन पारमार्थिकत्वाभावात् । बालाग्रस्य //१००००..एकदशसहस्रांशपरिमाणत्वं जीवस्य उपाधिकल्पितं (मिथ्या) इति अकथनाच्च । अद्वैतिभिः उपाधितया कल्प्यमानायाः बुद्धेः तादृशपरिमाणाभावेन 'अणुष आत्मा यं वा एते सिनीतः पुण्यं च पापं च' इति श्रुतिः पुण्यपापसम्बन्धवतः जीवस्य अणुत्वं स्पष्टं वक्ति तस्याः बाधकं च नास्ति, इति 'अणुर्हेष' इत्यादिश्रुतेर्दुर्विज्ञेयत्वाद्यौपचारिकार्थवर्णनस्यायुक्तत्वात् ।

'तेन प्रद्योतेनैष आत्मा निष्क्रामति' इति निष्क्रमणस्य आत्मनिष्ठत्वोक्तेः ।

तदा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' इति श्रुतिरपि बुद्धिनिवृत्त्यनन्तरमपि ब्रह्मप्राप्त्युक्तेः न जीवस्य ब्रह्मप्राप्ति: बुध्द्युपाधिका ।

'स तत्र पर्येति' इति श्रुतेः बुध्यादिवन्धरहिते मोक्षेऽपि पर्येतीति सञ्चरणोक्तेः सञ्चरणं न बुध्द्युपाधिकमिति । तदुपाधिकजीवस्य तादृशपरिमाणकल्पनायाः अयोगाच्च ।

अपि च यच्चोक्तं न चानन्त्यमौपचारिकमिति शक्यं विज्ञातुम् । सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वादिति, तन्न युक्तम् । एकस्यामप्युपनिषदि एकेनापि वाक्येन जीवस्य ब्रह्मभावाप्रतिपादनात् सर्वोपनिषदीत्युक्तेरत्यन्तमसम्भावितत्वात् । तत्त्वमस्यादिवाक्यानां निर्विषयकब्रह्मरूपज्ञानावरकनिवर्तकताया एवोक्ते: बोधकतानङ्गीकारात् । बोधकताङ्गीकारेऽपि चिदित्यखण्डार्थबोधजनकत्वस्वीकारेण तादृशबोधस्य ब्रह्मात्मभावाविषयकत्वात् । चिति लक्षणाद्यसम्भवेन तादृश बोधस्याप्य- सम्भवाच्च । ब्रह्मणः निर्धर्मकत्वेन विभुत्वाभावाच्च । विस्तरस्तु तत्त्वमस्यादि-वाक्यार्थविचारे द्रष्टव्यः ।

यदप्युक्तंतथेतरस्मिन्नप्युन्माने 'बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः' (श्वे. ५.८) इति च बुद्धिगुणसम्वन्धेनैवाराग्रमात्रतां शास्ति न स्वेनैवात्मनः इतितदपि मन्दम् ।अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहारसमन्वितो यः । बद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्री ह्यव (प) रोऽपि दृष्ट:' (वे.५.८) 'बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानंत्याय कल्पते' (९) इति पूर्वोत्तर- वाक्यसहितेनबुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यव (प) रोऽपि दृष्ट' इति वाक्येन अङ्गुष्ठमात्रः=अङ्गुष्ठपरिमितः आत्मगुणेन=स्वरूपभूतगुणेन रवितुल्यरूपः=स्वप्रकाशः (प्रकाशरूपः) बुद्धेः=अन्तःकरणस्य गुणेन च सङ्कल्पाहङ्कारसमन्वितः ( गोष्ठनिष्ठगोस्वामिनि चैत्रे गोयुक्त इति व्यवहारवत् अन्तःकरणनिष्ठसङ्कल्पाहङ्कारस्वामिनि सङ्कल्पाहङ्कारसमन्वित इति व्यवहारः) आराग्रमात्रः = सूच्यग्रपरिमितः, हि अपि तस्मादपि (सूच्यग्रपरिमितत्वादपि) अपरः=परमात्मनः सकाशात् अपरः (भिन्नः) अथवा अवरः =अधमः, दृष्ट: ज्ञात इति अर्थस्य प्रतीत्या बुद्धिगुणेन आराग्रमात्रत्वा (अणुत्वा) नुक्तेः । बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानंत्याय कल्पते । इति उत्तरवाक्येन स्पष्टं बालाग्रस्य //१०००० एकदशसहस्रांशपरिमितत्त्वं (अणुत्वं) जीवस्य प्रतीतेः तद्विरोधाच्च ।

यच्चोक्तंतथोत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति स ईक्षाञ्चक्रे । कस्मिन्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि'(प्रश्न.६.३)स प्राणमसृजत' (प्र. ६.४) इति । उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते । न ह्यनपसृप्तस्य देहाद्गत्यागती स्याताम्इति । तदत्यन्तमयुक्तम् । तथा हि-षट्प्रभोपनिषच्छङ्करभाष्यं स ईक्षाचक्रे-ईक्षणं चक्रे सृष्टिफलक्रमादिविषये । कथमित्युच्यते । कस्मिन् कर्तृविशेषे देहादुत्क्रान्ते उत्क्रान्तो भविष्यामि । अहमेव, कस्मिन् वा शरीरे प्रतिष्ठितेऽहं प्रतिष्ठास्यामि प्रतिष्ठितः स्याम् (इत्यालोच्य ) " स प्राणमसृजत प्राणाच्छुद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनः अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोकाः लोकेषु नाम च। (प्रश्न.६.४) अस्याः श्रुतेः शङ्करभाष्यं स पुरुष: उक्तप्रकारेण ईक्षित्वा प्राणं हिरण्यगर्भाख्यं सर्वप्राणिकरणाधारं अन्तरात्मानमसृजत सृष्टवान् इत्यादि

(प्रश्नोपनिषद्दीपिका च) सोऽन्यक्रियया आत्मनि क्रियाकामी षोडशकलः पुरुषः प्राणं आधिदैविकं सर्वप्राणिसूत्रभूतमसृजत उत्पादितवान् ... प्राणात् उक्तात् हिरण्यगर्भात् भूतसूक्ष्मात् सर्वकारणाद्ब्रह्मणः प्रथमजात् श्रद्धामास्तिक्यबुद्धिमसृजतेति ।

शङ्करभाष्यप्रश्नोपनिषद्दीपिकाभ्यां पुरुष: (परमात्मा) प्राणं=हिरण्यगर्भं सृष्टवान् । हिरण्यगर्भात् श्रद्धां, खं वायुं ज्योतिः अपः पृथिवीं इन्द्रियं मनः अन्नं, अन्नात् वीर्यं तपः मन्त्राः=ऋग्वेदयजुर्वेदसामवेदाथर्ववेदान्, कर्म, लोकाः लोकान्, लोकेषु नाम देवदत्तः यज्ञदत्तः इत्यादि असृजत इति परमात्मना प्राणनामकहिरण्यगर्भादीनां सृष्टिः कथ्यते, न तूत्क्रान्त्यादीनां उपाध्यायत्तता । प्राणः (हिरण्यगर्भः) न परमात्मनः (पुरुषस्य) उत्क्रमणे उपाधिभूतः । अद्वैतिभिरुपाधितयांऽगीकृतस्य बुद्धिपदपर्यायस्य मनसः पृथक् सृष्ट्युक्त्या प्राणपदेन बुद्धिग्रहणानुपपत्तेः ।

अद्वैतिनो हि, विभुर्जीवः अणुभूतबुद्धिरूपोपाधिना परिच्छिन्न इव भूत्वा बुद्धिगमनागमनादिना स्वयं गत इव आगत इव च प्रतीयते । वस्तुतः उपाधिभूतायाः बुद्धरेव गमनागमने न जीवस्य इति कथयन्ति । अद्वैतमते गमनावभासकत्वेन उच्यमानायाः उपाधिभूताया बुद्धेरुत्पत्तिरनया श्रुत्या नोक्ता किन्तु हिरण्यगर्भादीनामिति नेयं श्रुतिः उत्क्रान्त्यादीनामुपाध्यायत्ततां दर्शयति ।कस्मिन्न्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि' (प्र.६.३ ) इति श्रुत्याऽपि (वत्से धावति गौर्धावति इति वाक्येन वत्सधावनाति- रिक्तगोधावनस्येव) बुध्द्युत्क्रान्त्यतिरिक्तजीवोत्क्रान्तेः प्रतीतेश्च ।

किं च बुद्धेरुत्क्रान्तिगत्यागतिप्रयोजकोपाधित्वमपि न सम्भवति अद्वैतमते । तथा हि-अखण्डं ब्रह्मैव बुध्द्याद्युपाधिसम्बन्धेन जीवभावं प्राप्य उपाधिगत्यागतिभ्यां गत्यागतिमान् भवतीति वक्तव्यम् । तच्च न युज्यते । अद्वैतिमते ब्रह्मण उपाधिसम्बन्ध एव न सम्भवति ।असङ्गो ह्ययं पुरुष:' इति श्रुत्या परमात्मनः असङ्गत्वाङ्गीकारात् । तुष्यत्विति न्यायेन उपाधिसम्बन्धस्वीकारेऽपि उपाधिसम्बन्ध एकदेशस्य किं वा समस्तस्य ? । न तावदाद्यः-ब्रह्मणोऽखण्डत्वेन एकदेशाभावात् । न द्वितीयः । अखण्डं ब्रह्म सर्वमपि उपाधिग्रस्तं चेत् पुनः विभुब्रह्मण उपाधिना परिच्छिन्नत्वेन ब्रह्म एक, उपाधिकृताः अनेके जीवाः इति अनेकत्वानुपपत्ति: (उपाधिकृतभेदानुपपत्तिः)

किं च उपाधेः एकदेशसम्बन्धमङ्गीकृत्य उपाधिसम्बन्धविशिष्टा अनेके जीवा भवन्ति । उपाधिगत्यागतिभ्यां जीवस्यापि गत्यागती औपाधिके इत्यङ्गीकारोऽपि न युक्तः । उपाधिः गच्छन् स्वसम्बन्धिचिद्भागं गृहीत्वा गच्छति उत सम्बद्धं चिद्भागं परित्यज्य ? स्वसम्बंद्धचिद्भागं गृहीत्वा गच्छतीत्याद्यपक्षे उपाधिसम्बद्धचिद्भागस्य तदेशात् एकपदगमने तत्र चितिछिद्रत्वापत्तिः । उपाधिगमनदेशे चितः द्विगुणीकृत्य स्थित्यापत्तिः । उपाधिः स्त्रसम्बद्धं चिद्भागं परित्यज्य गच्छतीति पक्षे एकपादद्विपादनिक्षेपे पूर्वं उपाधिसम्बद्धचिद्भागस्य उपाध्यपगमेन शुद्धब्रह्मभावरूपमोक्षापत्तिः । तथा च उपाध्यपगमेन ब्रह्मभावरूपमोक्षार्थं श्रवणमनननिदिध्यासनादि साधनानामकरणीयत्वापत्तिः । उपाधिसम्बन्धवियोगप्राप्त्या मोक्षप्राप्तेः । उपाधेः उत्तरदेशे गमनेन तत्रत्यचिद्भागस्य उपाधिसम्बन्धेन जीवस्य उत्पत्त्यापत्तेः । तदेतद्दोषजातमुक्तमभियुक्तैः 'पदे पदे जातकर्म प्रेतकर्म करोति यः' इति ।

एकैकपादविक्षेपेण पूर्वजीवस्य ब्रह्मत्वप्राप्त्या तत्तज्जीवैः कृतानां पूर्वकर्मणां नाशेन तत्कृतकर्मणां वैयर्थ्यापत्तेः (कृतप्रणाशापत्तेः) । उत्तरदेशसम्बन्धेन जातानां जीवानां पूर्वकृतकर्माभावेन तैरनुभूयमानानां फलानां निष्कारणकत्वापत्तिः (अकृताभ्यागमप्रसङ्गः) ।

किं च उपाधिः सत्यो मिथ्या वा ? सत्यश्चेत् अद्वैतमतरीत्या सत्यस्य निवृत्त्यभावात् उपाधिनिवृत्त्यभावेन मोक्षाभावापत्तेः । मिथ्या चेत् (कल्पितं चेत्) कल्पकः (भ्रान्तः) कः? ब्रह्म वा जीवो वा । कल्पनाधिष्ठानं (भ्रमविशेष्यं) किम् परब्रह्म वा जीवो वा । न तावद् भ्रमाश्रयः ब्रह्म, तस्मिन् भ्रमकारणानां अधिष्ठानसामान्यज्ञान-विशेषाज्ञान- आरोप्यजगत्सादृश्य ज्ञानानामभावात् । नापि जीवः, तस्य भ्रमानन्तर- भाविकल्पित बुध्द्युपाधिसम्बन्धाधीनसत्ताकत्वेन भ्रमात् पूर्वमसत्त्वात् ।

नापि भ्रमाधिष्ठानं (भ्रमविशेष्यं) ब्रह्म । भ्रमाधिष्ठानत्वप्रयोजकानां सामान्यधर्मवत्त्वारोप्यजगत्सादृश्यानां शुक्ताविवाभावात् ।

नापि भ्रमाधिष्ठानं जीवः । तस्य भ्रमानन्तरकालीनोपाधि सम्बन्धाधीन-सत्ताकत्वेन भ्रमपूर्वभाव्यधिष्ठानत्वासम्भवात् । भ्रमकारणानाम सम्भवात्। भ्रमाभावः उक्तो भामत्यामपिपरमार्थस्तु न भ्रमो नाम कश्चित् न संसारो नाम । किंतु सर्वमेतत् सर्वानुपपत्तिभाजनत्वात् अनिर्वचनीयमिति युक्तमुत्पश्यामः' इति वाक्येन ।

एवमुपाधेः सत्यत्वमिथ्यात्वादिविकल्पपूर्वकदूषणे कृते समाधानस्य वक्तुमशक्यत्वेन असम्भवात् उपाधिसम्बद्धो जीवः अणुरित्युक्तिरयुक्तैव ।

यत्तूक्तंजीवस्याणुत्वादिव्यपदेशः प्राज्ञवत् । यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषूपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशःअणीयान् व्रीहेर्वा यवाद्वा' (छां.३.१४.३) 'मनोमयः प्राणशरीरः सर्वगन्धः सर्वरसः सत्यकामः सत्यसङ्कल्पः' (छां.३.१४.२ ) इत्येवं प्रकारस्तद्वत्" इति तदप्ययुक्तम् ।

तथा हितत्र तावत् परमात्मनः सगुणेषूपासनेषु इत्युक्तिस्तावदयुक्ता । निर्गुणब्रह्मणोऽज्ञेयत्वात् (प्रत्यक्षानुमानागमाद्यवेद्यत्वात्) असत्त्वेन ब्रह्मणि सगुणनिर्गुणभेदाभावात् ।दिग्देशगुणगतिफलभेदशून्यं हि परमार्थसत् अद्वयं ब्रह्म मन्दबुद्धीनामसदिव भाति' इति वाक्येन निर्गुणब्रह्मणोऽसत्त्वं भातीति स्वीकृतं, परन्तु मन्दबुद्धीनामित्युक्तिस्तु निर्गुणब्रह्मणः प्रमाणाभावेन शशविषाणवदप्रामाणिकस्य असत्त्वावश्यकत्वेन विद्यमानासत्त्वभानवन्तो मन्दबुद्धयो वा शशविषाणवत् असतो निर्गुणब्रह्मणः असत्त्वभानवतां मन्दबुद्धित्ववादिनो मन्दबुद्धयो वेति प्रेक्षावन्त एव विचारयन्तु ।

श्रुत्युक्तानां सर्वगन्धसर्वरससत्यकामत्वाणुत्वसत्यसङ्कल्पत्वादीनाम् उपाधिकल्पितत्वोक्तिः न वेदप्रामाण्यमङ्गीकुर्वतां शोभते । 'अणीयान् व्रीहेर्वा ' इत्यादिश्रुतिषु बुद्धिकल्पितत्वानुक्तेश्च । बाधकाभावात् उक्तप्रमाणैः सिद्धं जीवस्याणुत्वं स्वाभाविकमेव, न तूपाधिकृतम् स्यादेतत्यदि बुद्धिगुणसारत्वादात्मनः संसारित्वं कल्प्येत, ततो बुध्द्यात्मनोर्भिन्नयोः संयोगावसानमवश्यंभावीत्यतो बुद्धिवियोगे सत्यात्मनो विभक्तस्यानालक्ष्यत्वादसत्त्वमसंसारित्वं वा प्रसज्येतेति अत उत्तरं पठतिइति वाक्येन ।

ॐ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॐ (२.३.३०)

इति सूत्रमवतार्य तस्य ‘“नेयमनन्तरनिर्दिष्टदोषप्राप्तिराशङ्कनीया । कस्मात् । यावदात्मभावित्वाद् बुद्धिसंयोगस्य । यावदयमात्मा संसारी भवति, यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते तावदस्य बुध्द्या संयोगो न शाम्यति । यावदेव चायं बुध्द्युपाधिसम्बन्धस्तावज्जीवस्य जीवत्वं संसारित्वं च । परमार्थतस्तु न जीवो नाम बुध्युपाधि सम्बन्ध- परिकल्पितस्वरूपव्यतिरेकेणास्ति । न हि नित्यमुक्तस्वरूपात्सर्व ज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते । 'नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता' (वृ. ३.७.२३) 'नान्यदतोऽस्ति द्रष्टृ श्रोतृ मंतृ विज्ञातृ' (छां.६.८.७) 'तत्त्वमसि' (छां.६.१.६)अहं ब्रह्मास्मि' (बृ.१.४.७ ) इत्यादिश्रुतिशतेभ्यः । कथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति १ तद्दर्शनादित्याह - तथाहि शास्त्रं दर्शयति

'योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव' (बृ.४.३.७ ) इत्यादि । तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति । प्रदेशान्तरे - 'विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयइश्रोत्रमयः' इति विज्ञानमयस्य मनआदिभिस्सह पाठात् । बुद्धिमयत्वं च तद्गुणसारत्वमेवाभिप्रेयते । यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानोऽभिधीयते तद्वत् ।स समानः सन्नुभौ लोकावनुसञ्चरति' इति च लोकान्तरगमनेऽप्यवियोगं बुद्ध्या दर्शयति ।

केन समानः? तयैव बुद्धयेति गम्यते, सन्निधानात् । तच्च दर्शयतिध्यायतीव लेलायतीव' (बृ. ४.३.७) इति । एतदुक्तं भवति । नायं स्वतो ध्यायति, नापि चलति, ध्यायन्त्यां बुद्धौ ध्यायतीव चलन्त्यां बुद्धौ चलतीवेति । अपि च मिथ्याज्ञानपुरस्सरोऽयमात्मनो बुध्द्युपाधि- सम्वन्धः । न च मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्तिरस्तीत्यतो यावद् ब्रह्मात्म तानवबोधस्तावदयं बुध्द्युपाधिसम्बन्धो न शाम्यति । दर्शयति चवेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इति" यद्व्याख्यानं कृतं शङ्कराचार्यैः तदयुक्तम् । तथा हि- बुद्धिसंयोगस्य यत् यावदात्म- भावित्वमुक्तं तत्तावदयुक्तम् । आत्मनो नित्यत्वेन बुद्धिसंयोगस्य (बाह्यान्तःकरणसम्बन्धस्य) मोक्षपर्यन्तं विद्यमानत्वेन बुद्धिसंयोगस्य यावदात्मभावित्वस्य वक्तुमशक्यत्वात् ।

यावदयमात्मा संसारी भवति, यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते, तावदवश्यं बुध्द्या संयोगो न शाम्यति' इत्युक्तिरप्ययुक्तैव । यावदात्मभावित्वात् इति सूत्रपदार्थत्वाभावात् । यावदात्मभावित्वादिति सूत्रपदस्य यावत् आत्मा तिष्ठति तावत्पर्यन्तं तिष्ठति इत्येतावन्मात्रार्थकतया यावदात्मा संसारी भवति ( यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते) तावदस्य बुद्धिसंयोगो न शाम्यतीत्यर्थकत्वाभावात् । एतदधिकरणी- यत्रयोदशसूत्रेषु बुद्धिशब्दस्यैवाभावेन बुद्धिरूपोपाधिसंयोगस्य यावदात्म- भावित्वार्थकत्वेन सूत्रव्याख्यानकरणमप्ययुक्तमिति ।

किञ्चपरमार्थतस्तु न जीवो नाम बुध्द्युपाधिसम्बन्धपरिकल्पित स्वरूपव्यतिरेकेणास्ति' इत्युक्तिरप्ययुक्तैव । जीवस्य कल्पितस्वरूप व्यतिरेकेणाभावाङ्गीकारे जीवस्य कल्पितत्त्व (असत्त्व) प्राप्तत्या कस्यापि मोक्षाभावेन मोक्षार्थं साधनविधायकानां शास्त्राणामप्रामाण्यप्राप्तेः ।

तस्मात् जीवः परमार्थतो नास्तीत्युक्तिरयुक्तैव ।

नहि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थ- निरूपणायामुपलभ्यते ।नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता' (वृ.३.७.२३)नान्यदतोऽस्ति द्रष्टृ श्रोतृ मंतृ विज्ञातृ' (छां.६.८.७)तत्त्वमसि' (६.१.६)अहं ब्रह्मास्मि' (बृ. ४.१.७) इत्यादिश्रुतिशतेभ्यः' इत्युक्तिरपि स्वमतविरुद्धा श्रुत्यादिप्रमाणविरुद्धा च ।

अद्वैतमतरीत्या नित्यमुक्तस्वरूपस्य अत एव निर्विशेषस्य ब्रह्मणः सर्वज्ञत्वं नियामकत्वरूपमीश्वरत्वं चानुपपन्नम् । न हि शुद्धे धर्माः सन्ति । न च शुद्धे पारमार्थिकधर्माभावेऽपि कल्पिताः ( आरोपिताः) धर्माः संतीति वाच्यम् । शुद्धे ब्रह्मणि धर्मारोपासम्भवस्य बहुवारमुक्तत्वात् । ईश्वरादन्यश्चेतनो वेदान्तार्थनिरूपणायां न ह्युपलभ्यते' इत्युक्तिः आग्रहमूलैव ।

१.पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति२. 'द्वा सुपुर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते' (श्वे.) ३. 'जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः' (मुं) ४. 'परात्परं पुरुषमुपैति दिव्यम्' (मुण्डक) इत्यादीनां जीवब्रह्मणोर्भेद-बोधिकानां शङ्कराचार्यैरपि भेदबोधकतया स्वीकृतानामनन्तश्रुतीनामुपलभ्य- मानत्वात् ।

नान्यदतोऽस्ति द्रष्टृ श्रोतृ मन्तृ विज्ञातृ ' (छां.६.८.७) इति वाक्यात् पूर्वतनैः 'एतस्य वा अक्षरस्य प्रशासने गार्गि' इत्यादिवाक्यैः चन्द्रसूर्यादिसर्वजीवानां प्रशास्तृत्वादिना चन्द्रसूर्यादिभिन्नं अक्षरनामकं परमात्मानं साधयित्वा अनेन वाक्येन प्रशासितृ सांख्याभिमतं प्रधानं किं न स्यादित्याशङ्क्य अक्षरस्य द्रष्टृत्व श्रोतृत्वकथनात् । अतः परमात्मनः अक्षरात् अन्यत् प्रधानं द्रष्टृ श्रोतृ मन्तृ न भवतीति प्रधानस्य प्रशास्तृत्व- निषेधकतया शङ्कराचार्यैरेव व्याख्यातत्वात् नेदं वाक्यं जीवपरमात्मानोर- भेदबोधकम् किन्तु भेदबोधकमेव । विशेषविचारस्तु पूर्वमवोक्तो द्रष्टव्यः ।

'नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता' इति वाक्यात् पूर्वतनैः 'यः पृथिव्यां तिष्ठन्’ ‘योऽप्सु तिष्ठन् ' ' यः सर्वेषु भूतेषु तिष्ठन्' ‘य आत्मनि तिष्ठन्' इत्याद्येकविंशतिवाक्यैः अन्तर्यामिणः परमात्मनः सकाशात् पृथिव्याद्यभिमानिदेवतानां जीवानां च भेदं, 'यं पृथिवी न वेद' 'यं सर्वाणि भूतानि न विदुरित्यादिना पृथिव्याद्यभिमानिदेवताऽज्ञेयत्वं च कथितम् । शङ्काचार्यैरपि तत्र 'यं पृथिवी न वेद' ‘यं सर्वाणि भूतानि न विदुरिति चान्ये नियन्तव्या विज्ञातारोऽन्यो नियन्ताऽन्तर्यामीति प्राप्तम्' इति स्वभाष्यवाक्येन यं पृथिवी न वेद' इत्याद्येकविंशतिवाक्यानि भेदं प्रतिपादयन्तीति स्वीकृतं च ।

'कस्मात्पुनः कारणात् पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादि- वदात्मनि तिष्ठन्तम् आत्मनो नियन्तारं अन्तर्यामिणं न विदुरित्यत आह । अदृष्टो न दृष्टो न विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित्, स्वयन्तु चक्षुषि सन्निहितत्वात् दृशिस्त्ररूप इति द्रष्टा' इति शाङ्करभाष्यवाक्येनअदृष्टो द्रष्टा अश्रुतः श्रोताऽमतो मन्ताऽविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाता' इत्युपनिषद्वाक्यस्य महाभागानां पृथिव्याद्यभिमानिदेवतानां स्वान्तर्गतस्वनियंतृपरमात्मज्ञानाभावः कथं इत्याशङ्कानिवर्तकतया प्रवृत्तत्वावगमेन तदन्तर्गतस्य 'नान्योऽतोऽस्ति द्रष्टा' इत्यादिवाक्यस्य अतः=परमात्मनो धर्मादिवददृष्टत्वात् (चक्षुरादिदर्शनाद्ययोग्यत्वात्) स्वयं द्रष्टृत्वात्, अतः परमात्मनोऽन्यः परमात्मद्रष्टा श्रोता मन्ता विज्ञाता नास्तीति अर्थ इति स्पष्टं प्रतीयमानत्वेन जीवपरमात्मनोर्भेदप्रतिपादकतयायः पृथिव्यां तिष्ठन्’ ‘य आत्मनि तिष्ठन्' इत्यादिस्वाङ्गीकृतानेकवाक्यविरुद्धं, 'नान्योऽतोऽस्ति द्रष्टा' इत्यादिवाक्यस्य अतः परब्रह्मणः अन्यः द्रष्टा, जीवः नास्तीति जीवब्रह्मभेदनिराकरणपरतया व्याख्यानं स्वमताग्रहमूलमेवेत्युपेक्षणीयम् । विशेषविचारः पूर्वमेव कृतस्तत्र द्रष्टव्यः।

तत्त्वमसि’ ‘अहं ब्रह्मास्मि' इत्यादिवाक्यानि बोधजनकान्येव नेति, बोधजनकत्वेऽपिचित्इत्यखण्डार्थबोधकत्वेन जीवब्रह्मणोरभेदबोधकान्येव नेति अद्वैतिभिरेवाङ्गीकृतत्वेन तेषामभेदविषये उदाहरणं न युक्तम् । विशेषविचारः पूर्वमेव कृतो द्रष्टव्यः ।

एवमेकस्याप्यभेदबोधक वाक्यस्याभावेन ' इत्यादि श्रुतिशतेभ्यः ' इत्युक्तिः अज्ञजनप्रतारणमूलैवेति उपेक्षणीयैव ।

'अपि च मिथ्याज्ञानपुरस्सरोऽयमात्मनो बुध्युपाधिसम्बन्धः' इति यदुक्तं तदप्यप्रामाणिकं प्रमाणविरुद्धं च । आत्मनो बुध्द्युपाधिसम्बन्धो मिथ्याज्ञानपुरस्सर इत्यस्मिन् विषये न किञ्चित्प्रमाणमस्ति, प्रत्युत बुद्धिसम्बन्धस्य श्रुत्यादिप्रमाणसिद्धत्वात् सत्यत्वं च सिध्यतीति मिथ्याज्ञानपुरस्सरत्वोक्तिः प्रमाणविरुद्धा चेति ।

तस्मान्नेदं सूत्रं विभोरपि जीवस्य बुद्धिरूपोपाधिप्रयुक्ताणुत्व व्यवहारज्ञापकमिति ।

पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्' (३१) इति सूत्रस्य "पुंस्त्ववत् बुद्धिसम्बन्धोऽपि शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोः आविर्भवति" इति यद्व्याख्यानं तेन जीवस्य इतरेन्द्रियसम्बन्धवत् बुद्धिसम्बन्ध एव सिध्यति । न तु बुद्धेरुपाधित्वम् । अन्यथा इन्द्रियादीनामपि उपाधित्वापत्तेः । इति नेदं सूत्रं बुद्धेरुपाधित्वे प्रमाणं भवितुमर्हति इति ।

'नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा' ॐ (२.३.३२)

इति सूत्रस्य ‘“तच्चात्मन उपाधिभूतमन्तःकरणं मनो बुद्धिर्विज्ञानं चित्तमिति चानेकधा तत्र तत्राभिलप्यते । क्वचिच्च वृत्तिविभागेन संशयादिवृत्तिकं मन इत्युच्यते निश्चयादिवृत्तिकं बुद्धिरिति । तच्चैवं भूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्तव्यम् । अन्यथा ह्यनभ्युपगम्य- माने तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्गः स्यात् । आत्मेन्द्रिय- विषयाणामुपलब्धिसाधनानां सन्निधाने सति नित्यमेवोपलब्धिः प्रसज्येत । अथ सत्यपि हेतुसमवधाने फलाभावस्ततो नित्यमेवानुपलब्धिः प्रसज्येत । न चैवं दृश्यते । अथवाऽन्यतरस्यात्मनः इन्द्रियस्य वा शक्तिप्रति- वन्धोऽभ्युपगन्तव्यः । न चात्मनः शक्ति प्रतिबन्धः सम्भवति, अविक्रियत्वात् । नापीन्द्रियस्य । न हि तस्य पूर्वोत्तरयोः क्षणयोर- प्रतिबद्धशक्तिकस्य सतोऽकस्माच्छक्तिः प्रतिबध्येत । तस्माद्यस्यावधानान- वधानाभ्यामुपलब्ध्यनुपलब्धी भवतस्तन्मनः । तथा च श्रुतिः -अन्यत्र मना अभूवं नादर्शमन्यत्र मना अभूवं नाश्रौषम् ' (बृ.१.५.३ ) इति ।मनसा ह्येव पश्यति मनसा शृणोति' (बृ.१.५.३) इति । कामादयश्चास्य वृत्तय इति दर्शयति 'काम: सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्धीर्भीरित्येतत्सर्वं मन एव' (बृ. १.५.३)इति यत् व्याख्यानं तत्तु इतरेन्द्रियाणामिव मनसस्सद्भावगमकं स्यात्, न तु मनसः उपाधित्वगमकम् । अन्यथा इन्द्रियाणामपि ज्ञानान्वयव्यतिरेकवत्त्वेन उपाधित्वं स्यात् । तस्मादिदं सूत्रं 'अन्यत्र मना अभूवं 'मनसा ह्येव पश्यति' ‘कामः सङ्कल्पःइत्यादिश्रुतयश्च बुद्धेर्जीवोपाधित्वे न प्रमाणं भवितुमर्हन्ति, इति नेदमधिकरणं अणुभूतबुध्युपाधिकत्वात् जीवस्याणुत्वव्यवहारः न तु स्वतः जीवस्य विभुत्वात् इत्यस्मिन् विषये प्रमाणं भवितुं अर्हति इति बाधकाभावात् उक्तोत्क्रान्त्यादिभ्यः जीवोऽणुरेवेति सिद्धम्