ॐ आवृत्तिरसकृदुपदेशात् ॐ

भेदपराण्येव खलु ब्रह्मसूत्राणि

अथ चतुर्थाध्याय शाङ्करभाष्यविचारः

ॐ आवृत्तिरसकृदुपदेशात् ॐ (४.१.१)

अस्य सूत्रस्यतृतीयेऽध्याये परापरासु विद्यासु साधनाश्रयो विचारः प्रायेणात्यगात् । अथेह चतुर्थे फलाश्रय आगमिष्यति प्रसङ्गागतं चान्यदपि किञ्चिच्चिन्तयिष्यते । प्रथमं तावत्कतिभिश्चिदधिकरणैः साधनाश्रय- विचारशेषमेवानुसरामः "आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' (बृ.४.५.६ ) ' तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ' (बृ. ४.४.२१) 'सोऽन्वेष्टव्यः स विजिज्ञासितव्य:' (छां.८.७.१) इति चैवमादिश्रवणेषु संशयः-किं सकृत्प्रत्ययः कर्तव्य आहोस्विदावृत्त्येति किं तावत्प्राप्तम्? सकृत्प्रत्ययः स्यात् प्रयाजादिवत् । तावता शास्त्रस्य कृतार्थत्वात् । अश्रूयमाणायां ह्यावृत्तौ क्रियमाणायामशास्त्रार्थः कृतो भवेत् । नन्वसकृदुपदेशा उदाहृताः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्येवमादयः । एवमपि यावच्छब्दमावर्तयेत्सकृच्छ्रवणं सकृन्मननं सकृन्निदिध्यासनं चेति नातिरिक्तम् । सकृदुपदेशेषु तु वेदोपासीतेत्येवमादिष्वनावृत्तिरिति । एवं प्राप्ते ब्रूमः - प्रत्ययावृत्तिः कर्तव्या । कुत: ? असकृदुपदेशात्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्येवंजातीयको ह्यसकृदुपदेशः प्रत्ययावृत्तिं सूचयति । ननूक्तं यावच्छब्दमेवावर्तयेनाधिकमिति, , दर्शनपर्यवसितत्वादेषाम् । दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि द्दष्टार्थानि भवन्ति । यथा अवघातादीनि तण्डुलादिनिष्पत्तिपर्यवसानानि तद्वत् । अपि चोपासनं निदिध्यासनं चेत्यन्तर्णीतावृत्तिगुणैव क्रियाऽभि- धीयते । तथा हि - लोके गुरुमुपास्ते राजानमुपास्त इति च यस्तात्पर्येण गुर्वादीननुवर्तते स एवमुच्यते । तथा ध्यायति प्रोषितनाथा पतिमिति या निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा सा एवमभिधीयते........ तस्मात् सकृदुपदेशेष्वपि आवृत्तिसिद्धिः । असकृदुपदेशस्त्वावृत्तेः सूचक इति यच्छाङ्करव्याख्यानं तदद्वैतमते न युक्तम् ।न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्तः (गौ० ) इत्याद्यनेकाद्वैतग्रन्थैः श्रवणाद्यावृत्तिरूपसाधनस्य साध्यस्य मोक्षादेश्च 'नास्ति नासीन्न भविष्यतीति' त्रैकालिकनिषेधप्रतियोगित्वरूपासत्त्वस्याङ्गीकारावगमेन साधनाद्यावृत्तिकरणस्यासम्भवात् ।

ॐ लिङ्गाच्च ॐ (४.१.२)

अस्य सूत्रस्य 'रश्मींस्त्वं पर्यावर्तयतात्' (छां. १.५.२ ) इति वाक्ये पर्यावर्तयतादिति पदेन रश्मिध्यानावृत्तेरुक्तत्वेन, ध्यानत्वसामान्यात् फलपर्यन्तत्वसामान्याद्वा लिङ्गात् श्रवणमननध्यानेष्वप्यावृत्तिः कर्तव्येति श्रवणाद्यावृत्तिसाधकलिङ्गपरतया यद्व्याख्यानं तत्पूर्वोक्तरीत्या अद्वैतमते न युक्तम् ब्रह्मातिरिक्तस्य ध्यानादेः सर्वस्यासत्त्वेन ध्यानादेः तदावृत्तेश्चासम्भवात् ।

यत्तुअत्राह-भवतु नामेत्यारभ्य तस्मात्परब्रह्मविषयेऽपि प्रत्यये तदुपायोपदेशेष्वावृत्ति सिद्धिरित्यन्तेन ये शङ्कासमाधाने कृते ऽप्ययुक्ते । १ निर्गुणस्य शशविषाणायितत्वेन ब्रह्म सगुणं निर्गुणमितिभेदकरणस्या- युक्तत्वात् । २ अद्वैत्यभिमतसकलधर्मरहितब्रह्मणोऽज्ञेयत्वेन तद्विषय- कसाक्षात्कारस्यासम्भवेन आवृत्त्या ब्रह्मसाक्षात्कारायोगात् । ३ वाक्येन शक्त्या वा लक्षणया वा बोधस्य जनने पूर्वं पदार्थज्ञानस्य कारणत्वेन ब्रह्मणश्च सर्वथाऽज्ञेयत्वेन 'तत्त्वमसि' इति वाक्येन ब्रह्मविषयकज्ञानस्य वा तत्साक्षात्कारस्य वाऽसम्भवात् ।। ६ ।।

ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ (४.१.३)

इतिसूत्रस्य शङ्कराचार्यकृतं व्याख्यानं अप्रामाणिकं प्रमाणविरुद्धं स्वव्याहतमिति आदावेवोक्तत्वेन नेह पुनर्विचार्यते ॥

ॐ न प्रतीके न हि सः ॐ (४.१.४)

अस्य सूत्रस्य मनआदित्यादिप्रतीकेषु, अहंग्रहः कर्तव्यो नवेति संशये, मन आदिप्रतीकेषु आत्मग्रह (मनोऽहं आदित्योऽहं इतिग्रहः) कर्तव्यः प्रतीकानां ब्रह्मत्वात् (ब्रह्माभेदात् ) आत्मनश्च ब्रह्मत्वात्, यत् यदभिन्नाभिन्नं तत्तेनाभिन्नमिति न्यायेन प्रतीकस्य आत्माभिन्नब्रह्माभिन्नत्वेन आत्माभिन्नत्वादिति पूर्वपक्षे 'न प्रतीके नहि सः' न प्रतीकेषु आत्ममतिं बध्नीयात् आत्माभेददृष्टिं न कुर्यात् हि यस्मात् कारणात् स आत्मा प्रतीकं न हि इति यद् व्याख्यानं तद्युक्तमेव । परन्तु यत्पुनर्ब्रह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततश्च आत्मत्वमिति तदसत् प्रतीकाभावप्रसङ्गात् । विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति । स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकत्वमात्मग्रहो वेत्यादि । तत्र (प्रतीकेषु आत्मग्रहस्य कर्तव्यत्वाभावे) या युक्तिरभिहिता सा अत्यन्तम- युक्ता । ब्रह्मणो निर्विकारत्वेन प्रतीकरूपेण विकाराभावात् जीवस्य च ब्रह्माभिन्नत्वाभावाच्च, प्रतीकात्मनोरभेदप्रसक्त्यभावेन प्रतीकानामात्मत्वो- पासनप्रसक्त्यभावेन शङ्काया एवानुदयात् । अद्वैतमते निष्क्रियब्रह्मरूपस्य जीवस्य निष्क्रियत्वेन, उपासनाकर्तृत्वादेरसम्भवाच्च इति ।

ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ (४.१.५)

इति सूत्रस्य किमादित्यादिदृष्टयो ब्रह्मण्यध्यसितव्याः, किं वा ब्रह्मदृष्टिरादित्यादिष्विति संशये आदित्यादिषु ब्रह्मदृष्टिर्वा कर्तव्या ब्रह्मणि आदित्यादिदृष्टिर्वा कर्तव्या, इत्यत्र नियामकाभावात् आदित्यब्रह्मशब्दयोः सामानाधिकरण्यस्य उभयथापि सम्भवात् अथवा ब्रह्मणि आदित्यादिदृष्टि: कर्तव्या न आदित्यादिषु ब्रह्मदृष्टिः कर्तव्येति पूर्वपक्षे प्राप्ते आदित्यादिषु ब्रह्मदृष्टिः कर्तव्या, कुतः उत्कर्षात् । आदित्यादिषु ब्रह्मदृष्टौ कृतायां आदित्यादयः उत्कृष्टत्वेन दृष्टाः फलदा भवन्ति । क्षत्तरि राजदृष्टौ कृतायां, उत्कृष्टत्वेन दृष्ट्या क्षत्ता प्रीतः सन् फलं ददाति । राज्ञि क्षत्तृदृष्टौ कृतायां राजा आत्मानं हीनक्षत्तृत्वेन जानते, इति क्रुद्धः सन् फलं न ददाति प्रत्युत बाधकं च करोतीति हि लौकिको न्यायः, इति शङ्कराचार्याणां व्याख्यानं अत्यन्तमयुक्तम् । अचेतनासत्यायोग्यान्यनुपास्यान्यफलत्वविपर्ययाभ्यां ' (सङ्कर्षणसूत्रं ) इत्यादिभिरसत्योपासनाया अनर्थहेतुत्वोक्तेः । यथा चण्डालो नृप इति नृपश्चण्डाल इत्यप्युक्तौ नीचचण्डालनृपयोस्तदीयाभेदज्ञानमनुमाय फलदानसमर्थस्य राज्ञः यथा कोप: तेनानिष्टप्राप्तिश्च तथा आदित्यादिः ब्रह्म इति 'ब्रह्म आदित्यादिरिति' उपासनायां कृतायां अधमादित्यब्रह्मणोस्तदीयाभेदज्ञानमनुमाय तेन कुपितं ब्रह्म अनिष्टं ददात्येवेति अद्वैतमते निष्क्रियस्यात्मन उपासना- कर्तृत्वाद्यसम्भवाच्च ।न प्रतीके न हि सः” (ब्र.सू. ४.१.४) इति पूर्वसूत्रे शङ्कराचार्यैरेव प्रतीकस्यात्मत्वाभावेन प्रतीके आत्मदृष्टिर्न कर्तव्येति निषिद्धतया तन्न्यायेनैव आदित्यादेर्ब्रह्मत्वाभावेन ब्रह्मत्वेनोपासनायाः अकर्तव्यत्वसिद्ध्या पुनरादित्यादिषु ब्रह्मदृष्टेः कर्तव्यत्वोक्तेः स्वसिद्धान्तविरुद्धत्वाच्च इति ।

ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ (४.१.६)

इति सूत्रस्य अङ्गेषु उद्गीथादिषु आदित्यादिमतयः कर्तव्या इति व्याख्यानं पूर्वोक्तहेतुभिरेवानुपपन्नम् ।

ॐ आसीनः सम्भवात् ॐ (४.१.७)

ॐ ध्यानाच्च ॐ (४.१.८)

ॐ अचलत्वं चापेक्ष्य ॐ (४.१.९)

ॐ स्मरन्ति च ॐ (४.१.१०)

इति चतुस्सूत्र्यात्मकस्याधिकरणस्य 'आसीन एवोपासीतेति व्याख्यानं उपासनादीनां सत्यत्ववादिनां द्वैतिनां मते उपासनं प्रत्यासनस्य कारणत्वादिसम्भवात् युक्तमेव । परं 'न निरोधो न चोत्पत्ति' रित्येवं रूपेण सर्वमिथ्यात्ववादिनां अद्वैतिनां मते कार्यकारणभावादीनाम् असत्त्वाङ्गीकारादयुक्तमिति ।

ॐ यत्रैकाग्रता तत्राविशेषात् ॐ (४.१.११)

इति सूत्रस्ययत्रैकाग्रता मनसः तत्रैव भावना प्रयोजयेत् । अविशेषात् न ह्यत्रास्ति वैश्वदेवादिवद्वचनं वैशेषिकं तस्मादिति व्याख्यानमपि पूर्ववदुपासनादीनां सत्यत्ववादिनां मते युक्तं न सर्वासत्त्ववादिनामद्वैतिनां मत इति ।

ॐ आप्रायणात्तत्रापि हि दृष्टम् ॐ (४.१.१२)

इति सूत्रस्य, ' आप्रायणादेवावर्तयेत्प्रत्ययं तत्रापि प्रयाणकालेऽपि प्रत्ययावृत्तिं दर्शयति श्रुतिरिति व्याख्यानं पूर्ववदेव सत्यत्ववादिनां द्वैतिनां मते युक्तं, न तु सर्वमिथ्यात्ववादिनामद्वैतिनां मत इति ।

ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ (४.१.१३)

इति सूत्रस्य तदधिगमे ब्रह्माधिगमे सत्युत्तरपूर्वयोरघयोरश्लेषविनाशौ भवतः । उत्तरस्याश्लेषः पूर्वस्य विनाशः । कस्मात् । तद् व्यपदेशात् ।तथा हिब्रह्मविद्याप्रक्रियायां सम्भाव्यमानसम्बन्धस्या गामिनो

दुरितस्यानभिसम्बन्धं विदुषो व्यपदिशति यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते' (छां. ४.१४-३) इति तथा विनाशमपि पूर्वोपचितस्य दुरितस्य व्यपदिशति-' तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते ( छां. ५. २४.३) इति । अयमपरः कर्मक्षयव्यपदेशो भवति - भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि, तस्मिन्दृष्टे परावरे' (मुं.१.२.८) इति यद् व्याख्यानं, तत् श्रुतिसूत्रानुसारित्वात् युक्तमेव । परन्तु अद्वैतमतविरुद्धत्वात् अद्वैतिनां प्रतिकूलमेव । तथा हि-तदधिगमे ब्रह्माधिगम इत्युक्तिरयुक्तैवाद्वैतमते । निर्धर्मकब्रह्मणः प्रमाण प्रवृत्तिप्रयोजकधर्माभावेन अत एवाज्ञेयत्वेन अधिगमासम्भवात् उत्तरपूर्वाघयोरइलेषविनाशौ भवत इति व्याख्यानमपि अयुक्तमेव अद्वैतिमते । 'न निरोधो न चोत्पत्ति ( गौ० का ० ३२ ) इलोके, तथा-'द्वैतस्यासत्त्वं सिद्धंसतो ह्युत्पत्तिः प्रलयो वा स्यात् न असतः शशविषाणादेः (गौ० का० शा ०३२ ) इत्यादि शाङ्करभाष्यवाक्येनबाधितस्य कालत्रयेऽपि सत्त्वाभावात्" (गौ० शां० आनं०) इत्याद्यानन्दगिरिवाक्येन, अघादीनां सर्वेषां असत्त्वां (मिथ्यात्वां ) गीकारावगमेन असतः कालत्रयासम्बन्धस्य अघस्य पूर्वमिति पूर्वकालसम्बन्धोक्तेः, उत्तरमित्युत्तरकालसम्बन्धोक्तेः तथा तस्य विनाशोक्तेश्चायोगात् । न च " तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत इति छान्दोग्यश्रुतिरेव अघानां ब्रह्मज्ञानेन नाशं बोधयतीति वाच्यं, पापानां) ब्रह्मणः तज्ज्ञानस्य च सत्त्वाङ्गीकारमते तदुपपत्तेः । पापानां अद्वैत्यभिमतनिर्गुण ब्रह्मज्ञानस्य च असत्त्ववादिनां अद्वैतिनां मते, तद्यथेषीकातूलमित्यघसम्बन्धविनाशादिबोधकश्रुतेरसम्भव एवेति ।

किं चअयमपरः कर्मक्षयव्यपदेशो भवति -'भिद्यते हृदय-ग्रन्थिच्छिद्यन्ते सर्वसंशयाःक्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे" (मु.२.२.८) इति परावरब्रह्मज्ञानेन कर्मक्षयकथनमयुक्तम् । परावरब्रह्मणोऽदृश्यत्वात्हृदयग्रन्थेरभावेन तस्य भेदनाभावात् संशयादीनां अभावेन तेषां छेदनाऽनुपपत्तेः । सतो हि छेदः नाऽसत इति ।

अस्मिन्नधिकरणेऽपि पुनः सगुणविद्या निर्गुणविद्येति विद्याभेदकथनं च अप्रामाणिकत्वात् अयुक्तमेव । किं चपूर्वसिद्धकर्तृत्वभोक्तृत्वविपरीतं हि त्रिष्वपि कालेष्वकर्तृत्वाभोक्तृत्वस्वरूपं, ब्रह्माहमस्मि, नेतः पूर्वमपि कर्ता, भोक्ता वाऽहमासं नेदानीं नापि भविष्यत्काल इति ब्रह्मविदवगच्छति " इत्युक्तिरप्यत्यन्तमयुक्ता । कर्ता शास्त्रार्थवत्त्वात् (ब्र.सू.२.३.३३) इत्यादिसूत्राणां 'अहरहः संध्यामुपासीत, 'ज्योतिष्टोमेन स्वर्गकामो यजेत' तमेवं विद्वानमृत इह भवति' इत्यादिश्रुतीनां च निर्विषयत्वेन अप्रामाण्यापत्तेरिति ।

ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ (४.१.१४)

अस्य सूत्रस्य पूर्वस्मिन्नधिकरणे बन्धहेतोरघस्य स्वाभाविकस्याश्लेष- विनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्निरूपितौ । धर्मस्य पुनः शास्त्रीयत्वाच्छास्त्रीयेण ज्ञानेनाविरोध इत्याशङ्कय तन्निराकरणाय पूर्वाधिकरण- न्यायातिदेशः क्रियते । इतरस्यापि पुण्यस्य कर्मण एवमघवदसंश्लेषो विनाशश्च ज्ञानवतो भवतः । कुतः, तस्यापि स्वफलहेतुत्वेन ज्ञानफलप्रतिवन्धित्वप्रसङ्गात् 'उभे उ हैवैष एते तरति' (बृ.४.४.२२) इत्यादिश्रुतिषु च दुष्कृतवत्सुकृतस्यापि प्रणाशव्यपदेशात् । अकर्त्रात्मत्व- बोधनिमित्तस्य च कर्मक्षयस्य सुकृतदुष्कृतयोस्तुल्यत्वात् ।क्षीयन्ते चास्य कर्माणि' (मु.२.२.८) इति चाविशेषश्रुतेः । यत्रापि केवल एव पाप्मशब्दो दृश्यते तत्रापि तेनैव पुण्यमप्याकलितमिति द्रष्टव्यम् । ज्ञानफलापेक्षया निकृष्टफलत्वात् । अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्दः 'नैनं सेतुमहोरात्रे तरत:' (छां.८.४.१) इत्यत्र सह दुष्कृतेन सुकृतमप्यनुक्रम्य सर्वे पाप्मानोऽतो निवर्तन्त इत्यविशेषेणैव प्रकृते पुण्ये पाप्मशब्दप्रयोगात् । पातेत्विति तुशब्दोऽवधारणार्थः । एवं धर्माऽधर्मयोर्बन्धहेत्वोर्विद्या- सामर्थ्यादश्लेषविनाशसिद्धेरवश्यंभाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति इति यद् व्याख्यानं तदद्वैतमतविरुद्धम् । तथा हि तत्र 'पूर्वस्मिन्नधिकरणे बन्धहेतोरघस्य स्वाभाविकस्याश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्नि- रूपितौ' इत्युक्तिरयुक्ता । अद्वैतमते 'न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः' इति बन्धस्य शशविषाणवदसत्त्वाङ्गीकारात् न पुण्यमित्यघस्याप्यसत्त्वाङ्गीकारात् असद्भूतबन्धस्य विनाशप्रसक्तेरेवाभावेन असद्भूतज्ञाननिमित्तं पापस्याश्लेषो विनाश इत्युक्तिरयुक्ता । अद्वैतमते ब्रह्मातिरिक्तस्य वेदादेः शास्त्रस्य मिथ्यात्वेन (असत्त्वेन) तत्त्वावेदकत्व ( विद्यामानार्थप्रतिपादकत्व) रूपप्रामाण्याभावात् अर्थप्रतिपत्तिजनकत्वस्याप्यभावात् ।

धर्मस्य पुनः शास्त्रीयत्वाच्छास्त्रीयेण ज्ञानेनाऽविरोध इत्याशङ्कय तन्निराकरणाय पूर्वाधिकरणन्यायातिदेशः क्रियते' इत्युक्तिरपि पूर्वोक्तरीत्या अयुक्तैव । पुण्यादीनां असत्त्वात्, शास्त्रीयत्वादित्यस्य शास्त्रजन्यज्ञान- विषयत्वादित्यर्थकत्वेन अद्वैतमते शास्त्रस्यासत्त्वेन तस्य धर्मविषयकज्ञान- जनकत्वस्याभावात् । तुष्यत्वितिन्यायेन ज्ञानजनकत्वाङ्गीकारेऽपि ब्रह्मातिरिक्तस्य पुण्यस्य वा ज्ञानस्य वा मिथ्यात्वेन (असत्त्वेन) असद्भूतपुण्यादिप्रतिपादकत्वे शास्त्रस्याप्रामाण्यापातात् । असद्भूतयोः पुण्यज्ञानयोरविरोधशङ्काया एवाभावेनाऽविरोधशङ्कानिराकरणार्थं पूर्वोक्तरीत्या पूर्वाधिकरणन्यायस्यायुक्तत्वेनपूर्वाधिकरणन्यायातिदेशायोगात् । एतेनइतरस्यापि पुण्यस्य कर्मण एवमघवदसंश्लेषो विनाशश्च ज्ञानवतो भवतः, कुतः, तस्यापि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात्' इति सूत्रार्थवर्णनमप्ययुक्तम् । पापस्याभावेन तस्य विनाशादेरभावात् तद्दृष्टान्तेनाऽसतः पुण्यस्य विनाशादिर्न भवति, इति असद्भूतज्ञानस्या- श्लेषविनाशकारणत्वोक्तिरप्ययुक्ता । पुण्यस्य तत्फलस्य चासत्त्वेन तस्य स्वफलहेतुत्वस्याप्यभावेन तस्य ज्ञानफलप्रतिबन्धकत्वाप्रसरात् ।

एतेनउभे उ हैवैष एते तरति' (बृ. ४.४.२२) इत्यादि श्रुतिषु च दुष्कृतवत्सुकृतस्यापि प्रणाशव्यपदेशात्' इति पापकर्मदृष्टान्तेन पुण्यस्य नाशवत्त्वोक्तिरपि निरस्ता पुण्यपापादीनां अद्वैतमतानुसारेण असत्त्वेन नाशाभावात् । ‘“अकर्त्रात्मत्वबोधनिमित्तस्य च कर्मक्षयस्य सुकृतदुष्कृत- योस्तुल्यत्वादिति वाक्येन, 'त्रिष्वपि कालेष्वकर्तृत्वाभोक्तृत्वस्वरूपं ब्रह्माऽहमस्मि नेतः पूर्वमपि कर्ता भोक्ता वाऽहमासं नेदानीं नापि भविष्यत्काल इति ब्रह्मविदवगच्छति' इति पूर्वाधिकरणवाक्येन च यः आत्मा अकर्ता, (पुण्यकर्ता न, पापकर्ता न, ज्ञानकर्ता न कस्यचिदपि कार्यस्याकर्ता) सोऽहमस्मि । नेतः पूर्वमपि कर्ता भोक्ता वा अहमासं नेदानीमपि न भविष्यत्काल इति ज्ञानेन पूर्वकृतकर्मणो नाशः, उत्तरत्र करिष्यमाणपापादीनां असम्बन्ध इत्युक्तिः, मे माता वन्ध्येति वाक्यवत् स्त्रव्याहता, क्रियासामान्यशून्यस्य ( अकर्तुः ) ब्रह्मविदवगच्छति इति ब्रह्मविषयकज्ञानकर्तृत्वस्य अवगच्छतीति कर्तृत्वाभावावगमकर्तृत्वस्य चोक्तिः व्याहतैवेति ।

क्षीयन्ते चास्य कर्माणि' (मुं.२.२.८) इति श्रुतिरपि, अद्वैत - मतानुसारेण अयुक्तैव । अकर्तुरात्मनः अस्य कर्माणि इति कर्म- सम्बन्धोक्तिः (कर्मकर्तृत्वोक्तिः ।) कर्तृरहितकर्मणः असत्त्वेन क्षीयन्ते इति नाशोक्तिरप्ययुक्ता ।

ॐ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॐ (४.१.१५)

इति सूत्रस्य, यदकर्तृब्रह्म तदेवाहमस्मि इति ज्ञानेन आरब्धानारब्धकार्ययोः पुण्यपापयोर्नाश उत अनारब्धकार्ययोः पुण्यपापयोरेव नाश इति संशये उभयोरपि कर्मणोर्नाश इति पूर्वपक्षे सति अनारब्धकार्ययोरेव नाशः न तु आरब्धकार्ययोः । साभिभुक्तफलयोः पुण्यपापयोः, ‘तदवधेः, 'तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये' इति (छां. ६.१४.२) श्रुतौ प्रारब्धकर्मक्षयावधेर्मोक्षस्य श्रवणात् इति यद् व्याख्यानं तत्पूर्वोक्तरीत्यैव निरस्तम् । अकर्तृब्रह्मस्वरूपस्य जीवस्य कर्मकर्तृत्वाभावात् कर्मफलभोक्तृत्वाभावात्, अकर्तृ ब्रह्माऽहमिति ज्ञानाभावाच्च, तस्य नाशकथनायोगात् ।

शङ्कराचार्यैरेव ‘“उत्पन्नेऽप्यात्मविज्ञाने प्रारब्धं नैव मुञ्जति । इति यच्छ्रुयते शास्त्रात्तन्निराक्रियतेऽधुना ।। तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते । देहादीनामसत्यत्वाद्यथा स्वप्नः प्रबोधतःइति (अपरोक्षानुभूतौ ) ज्ञानानन्तरं प्रारब्धकर्मणोऽभावस्योक्तेः तस्य प्रतिबन्धकत्वकल्पनाऽयोगाच्च इति ।

ॐ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॐ (४.१.१६)

इति सूत्रस्य, ब्रह्मज्ञाने पापवत् पुण्यस्य नाशोऽतिदिष्टः स किं सर्वपुण्यविषय इत्याशङ्कय न सर्वपुण्यनाशः वैदिकाग्निहोत्रादि तत्कार्यायैव ज्ञानस्य यत्कार्यं तदेव अग्निहोत्रादेः कार्यं, 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन' (बृ. ४.४.२२) इति श्रुतेरिति व्याख्यानं, पूर्वोक्तरीत्या जगत्सत्यत्वादिनां द्वैतिनां मते सम्भवदपि, ‘न निरोधो न चोत्पत्तिर्न बद्धो न च साधक' इति सर्वमिथ्यात्ववादिनां (असत्ववादिनां) अद्वैतिनां मते न सम्भवति । न ह्यसतः कार्यत्वं कारणत्वं सम्भवति । तस्मान्नायं सूत्रार्थोऽद्वैतम युक्त इति ।

ॐ अतोऽन्याऽपि ह्येकेषामुभयोः ॐ (४.१.१७)

अस्य सूत्रस्य अग्निहोत्रादेर्नित्यकर्मणोऽन्यापि या साधुकृत्याऽस्ति, सा सुहृदः फलं जनयति इति व्याख्यानं सर्वासत्त्ववादिनां (अद्वैतिनां ) प्रतिकूलमेव प्रतिकूलमेव ।

ॐ यदेव विद्ययेति हि ॐ (४.१.१८)

अस्य सूत्रस्य, मोक्षप्रयोजनोद्देशेन कृताग्निहोत्रादिकर्म दुरितक्षय- हेतुत्वद्वारेण सत्त्वशुद्धिं सम्पाद्य मोक्षहेतुब्रह्माधिगमकारणं सत् ब्रह्मविद्यया सह मोक्षरूपैककार्यकं भवति इत्युक्तौ, विद्यारहितं विद्यासहितं चेति द्विविधं अग्रिहोत्रादिकर्म, तत्र विद्यासहितस्यैव कर्मणो ज्ञानसाध्यमोक्षकार्यकारित्वं वा, केवलस्यापि वा इति संशये, विद्यासहितस्यैव कर्मणः ज्ञानेनैककार्यकारित्वं न तु केवलस्येति पूर्वपक्षे विद्यारहितस्याप्याग्निहोत्रादेः ज्ञानसाध्यमोक्षरूपकार्यकारित्वं विद्यासहितस्याग्निहोत्रादेस्तु विशेष: (अतिशयः) इति यद् व्याख्यानं तद् वन्ध्यापुत्रः शशविषाणादिसहकार्येण गन्धर्वनगरं निर्माय जनानां सुखं उत्पादयतीति उन्मत्तवाक्यतुल्य- मित्युपेक्षणीयमेवेति । अद्वैतमते अग्निहोत्रज्ञानादीनां सर्वेषां असत्त्वेन कार्यकारणभावादीनां अतिशयितकारणत्वस्य च असम्भवात् ।

ॐ भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॐ (४.१.१९)

इति सूत्रस्य अनारब्धकार्ययोः पुण्यपापयोर्विद्यासामर्थ्यात्क्षय उक्तःइतरे त्वारब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म सम्पद्यतेतस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये' (छान्दो . ६.११.२ ) इति 'ब्रह्मैव सन् ब्रह्माऽप्येति' इति चैवमादिश्रुतिभ्यःइति यद् व्याख्यानं तत्तु श्रुत्यनुकूलत्वात् सूत्रानुसारित्वात् युक्तमेव । परन्तु अद्वैतिनां विरुद्धमेव । 'न पुण्यं न पाप' मिति पुण्यादेरद्वैतिमते नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधप्रतियोगित्वापरपर्यायमिथ्यात्वोक्त्या शशविषाणवदसत्वात् २न निरोधो न चोत्पत्ति' रिति कारिकया, अद्वैतमते कार्यवस्तुन एवाभावावगमेन, कार्यारम्भयोग्यत्वाभावेन, ३ ब्रह्मणः अज्ञेयत्वेन प्रमाण-प्रवृत्तिप्रयोजकधर्माभावेन च ब्रह्मणो विद्याया एवासम्भवेन तस्यां विद्यायां नाशजनकत्वसामर्थ्यासम्भवेन 'न निरोध' इति कारिकया पुण्यपापादीनां नाशानङ्गीकारेण च अनारब्धकार्ययोः पुण्यपापयोः विद्यासामर्थ्यात्क्षय उक्त इत्युक्तिः अद्वैतमतविरुद्धैव ।

तथा इतरे त्वारब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वेत्युक्तिरपि अद्वैतमतविरुद्धैव । तथा हि-पूर्वोक्तरीत्या अद्वैतमते पुण्यपापयोरभावेन, तयोः कार्यारम्भसामर्थ्याभावेन, कार्यस्य चासत्त्वेन, उपभोक्तुरभावेन, उपभोगाभावेन तस्य क्षपणरूपनाशासम्भवात् ।ब्रह्म सम्पद्यतेइत्यस्य ब्रह्म प्राप्नोतीत्यर्थकत्वेन प्राप्यप्रापकभावेन ब्रह्मजीवयोर्भेदाङ्गीकारप्राप्त्या ब्रह्म सम्पद्यत इत्युक्तिरपि जीवब्रह्मणोरभेदाङ्गीकर्त्रद्वैतमतविरुद्वैव ।

प्रारब्धकार्यपुण्यपापाभ्यां यावत्कालपर्यन्तं मोचनाभावः तावत्काल एव ब्रह्मप्राप्तेरवकाशः । प्रारब्धकार्यपुण्यपापनाशानन्तरं ब्रह्म प्राप्नोतीत्यर्थिका 'तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये' (छां. ६.१४.२) इति श्रुतिरपि पूर्वोक्तरीत्या अद्वैतमतविरोधिनी, द्वैतिनां अनुकलैव । अस्यां श्रुतौ मोक्षे ब्रह्मप्राप्त्युक्त्या, जीवब्रह्मणोर्भेदसिद्धेः, पुण्यपापकर्मणोः जीवे तत्सम्बन्धस्य सम्बन्धनाशस्य मोक्षप्रतिबन्धकतायाश्च कथनेन सत्यत्वसिद्धेः ।

ब्रह्मैव सन्ब्रह्माप्येति इति श्रुतिरपि ब्रह्माप्येतीति परब्रह्मप्राप्त्युक्त्या जीवेश्वरभेदबोधकत्वेन अद्वैतिनां प्रतिकूला । द्वैतिनां अनुकूला च इति ।

।। शाङ्करभाष्यचतुर्थाध्यायस्य प्रथमपादविचारः ।।