द्विधं तच्च
गुणादीनां स्वाश्रयद्रव्येण भेदाभेदादिकम्
टीका
किं गुणादयो द्रव्येणात्यन्ताभिन्ना एव । अवान्तरभेदं च वक्ष्यामीति भावेनाह– द्विधमिति ।।
तत्वविवेकः
... ... द्विधं तच्च .... .... ।
तच्च गुणादिकं द्रव्यरूपं द्विधं द्विविधम् । तत्कथमिति । तत्राह– यावदिति ।।
... ... ... यावद्वस्तु च खण्डितम् ।
किञ्चिद्गुणादिकं यावद्वस्तु यावत्कालं द्रव्यं भवति तावत्तिष्ठति । किञ्चित्खण्डितं सत्यपि द्रव्ये स्वयं नश्यतीत्येवं द्विविधम् । किं ततः प्रकृते । तत्राह– खण्डित इति ।।
खण्डिते भेद ऐक्यं च यावद्वस्तु न भेदवत् ।। १० ।।
मन्दारमञ्जरी
द्विधं द्विविधमिति ।। अर्शआदिभ्योऽच् इति सूत्रे आकृतिगणश्चायमिति वार्तिककारेणार्शआदेराकृतिगणत्वोक्तेः द्विधाशब्दस्याप्यर्शआदिगणस्थत्वेन मत्वर्थीयाच्प्रत्यये कृते निष्पन्नस्य द्विधशब्दस्य द्विविधशब्दार्थवाचकत्वं युक्तमिति द्रष्टव्यम् ।
तत्वविवेकटीकाविवरणं
शङ्खते ।। किं गुणादय इति । अत्यन्ताभिन्ना एवेत्यनन्तरं किं नाम भिन्नाभिन्नाश्च सन्तीति वाक्यशेषः । द्रव्यस्वरूपं गुणादिकमित्यन्वयः। अर्शआदिभ्योऽजिति सूत्रे आकृतिगणश्चायमिति वृत्तिकारेणार्श आदेराकृतिगणत्वोक्तेर्द्विधाशब्दस्याप्यर्श आदिगणस्थत्वेन मत्वर्थीयेऽच्प्रत्यये सति निष्पन्नस्य द्विविधवाचित्वं युक्तमित्यभिप्रेत्य द्विधमित्यस्यार्थमाह ।। द्विविधमिति । प्रकारद्वयोपेतमित्यर्थः । भवति विद्यते ।।