पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते
अभावविभागः
टीका
तत्र भावनिरूपणस्य बहुत्वात्पश्चादुद्दिष्टस्याप्यभावस्य प्रभेदमादावाह– पूर्वापरसदात्वेनेति ।।
तत्वविवेकः
पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते ।। २ ।।
पूर्वत्वेनापरत्वेन सदात्वेन व्यावर्तकेन त्रिविध इत्यनेनैषां लक्षणान्यप्युक्तानि । योऽभावो वस्तूत्पत्तेः प्रागेवास्ति स पूर्वाभावः । यस्तु वस्तुप्रध्वंसात्परत एवास्ति सोऽपराभावः । यस्तु सदाऽस्ति स सदाभाव इति ।
मन्दारमञ्जरी
व्यावर्तकेनेत्यनेन मूलग्रन्थे पूर्वापरसदात्वेनेति तृतीया न हेतौ । किं तु इत्थंभूतलक्षण इति दर्शितम् ।। योऽभाव इत्यादि ।। घटसामग्रयादावतिव्याप्तिवारणायाभावपदम् । घटप्रागभावस्य मृदाद्युत्पत्त्यनन्तरमपि सत्त्वेनासम्भवो मा भूदिति प्रतियोगिवाचकवस्तुपदम् । उत्पत्तिपदं तु प्रागभावस्योत्पत्तिपर्यन्तमनुवृत्तिः न तु ततः प्राङ् निवृत्तिरिति दर्शयितुम् । न तु लक्षणान्तर्गतम् । न हि घटात्पूर्वभावी घटोत्पत्त्यनन्तरमभावी घटप्रागभावादन्यः कश्चिदभावोऽस्ति । यद्व्यावृत्त्यर्थं उत्पत्तिपदं लक्षणान्तर्गतं स्यात् । प्राक्पदाभावे तु उत्पत्तेरिति पञ्चमीबलात् परत इत्यापद्येत ततश्च ध्वंसेऽतिव्याप्तिः तन्निवृत्त्यर्थं प्रागिति । घटप्रतियोगिकान्योन्याभावरूपे घटध्वंसे घटोत्पत्तेः पूर्वमपि विद्यमानेऽतिव्याप्तिपरिहारार्थमेवेति । ध्वंसलक्षणेऽपि प्रागभावेऽतिव्याप्तिं परिहर्तुं परत इति पदम् । घटप्रतियोगिकान्योन्याभावात्मके पटप्रागभावे घटोत्पत्तेः परतोऽपि विद्यमानेऽतिव्याप्तिं परिहर्तुमेवेति । विनाशसामग्रयुत्तरकालादावतिव्याप्तिं परिहर्तुमभावपदमनुषञ्जनीयम् । पूर्ववदसम्भवपरिहाराय वस्तुपदम् । प्रध्वंसादित्यनेन तु विनाशसामग्री लक्ष्यते । तच्च विनाशसामग्रीसमवधानानन्तरमेव प्रध्वंस इति दर्शयितुम् । न तु लक्षणान्तर्गतम् ।
तत्वविवेकटीकाविवरणं
पूर्वोद्दिष्टभावप्रभेदमनिरूप्य पश्चादुद्दिष्टाभावभेदस्यादौ निरूपणे निमित्तमाह ।। तत्राभावनिरूपणस्येति । तत्र भावाभावयोर्मध्य इत्यर्थः ।। आदावाहेति । सूचीकटाहन्यायेनेति भावः । द्वन्द्वान्ते श्रूयमाणस्त्वप्रत्ययस्सर्वत्र सम्बध्यत इत्याशयेनाह ।। पूर्वत्वेनेति ।। व्यावर्तकेनेति । पूर्वत्वादिना व्यावर्तकेन धर्मेणोपलक्षितोऽभावस्त्रिविध इत्यर्थः । अनेन पूर्वापरसदात्वेनेति तृतीया न हेतौ । किं त्वित्थंभूतलक्षण इति दर्शितं भवतीति ज्ञातव्यम् ।। वस्तूत्पत्तेरिति । वस्तुशब्दः प्रतियोगिपरः । पूर्वाभावः प्रागभावः । अत्र यो वस्तूत्पत्तेः प्रागेवास्ति स प्रागभाव इत्युक्तेऽसम्भवः । घटप्रागभावस्य तंत्वाद्युत्पत्त्यनन्तरमपि सत्त्वात् । अतः प्रतियोगिवाचकवस्तुपदम् । तथा च नासम्भवः । योऽभावो वस्तूत्पत्तेरस्ति स प्रागभाव इत्युक्ते उत्पत्तेरिति पञ्चमीबलात्परत इत्याद्यापद्यते । तथाच घटध्वंसेऽतिव्याप्तिस्स्यात्तदर्थं प्रागित्युक्तम् । योऽभावो वस्तूत्पत्तेः प्रागस्ति स प्रागभाव इत्युक्ते घटप्रतियोगिकान्योन्याभावरूपे पटध्वंसे घटोत्पत्तेः प्रागपि विद्यमानेऽतिव्याप्तिस्स्यात्तदर्थमेवेत्युक्तम् । तस्य घटोत्पत्तेः पश्चादपि विद्यमानत्वान्नातिव्याप्तिरिति द्रष्टव्यम् ।
ननु प्राक्त्वं नाम प्रागभावावच्छिन्नसमयवृत्तित्वम् । तथा चात्माश्रय इति चेन्न । प्राक्त्वस्य स्वाभाविककालविशेषनिष्ठस्य तत्स्वभावतया घटत्वादिवदखण्डधर्मत्वाङ्गीकारात् । उक्तं च भगवत्पादैस्स्वत एव काले विशेषाङ्गीकृतेश्चेति । यस्त्वित्यनन्तरमभाव इति शेषः ।।
वस्तुप्रध्वंसात्परत एवेति । प्रतियोगिप्रध्वंसानन्तरमेवेत्यर्थः । अपराभावः प्रध्वंसः । अत्र प्रध्वंसादित्यनेन विनाशसामग्री लक्ष्यते । विनाशसामग्रीसमवधानानन्तरमेव विनाश इति दर्शयितुमेव तथोक्तम् । न लक्षणान्तर्गतम् । येनात्माश्रयः स्यात् । लक्षणं तु योऽभावः प्रतियोगिकालापेक्षयोत्तरकाल एवास्ति स प्रध्वंस इति । अत्र प्रतियोगिकालापेक्षयोत्तरकाल एव विद्यमाने उत्तरकालेऽतिव्याप्तिः स्यात् । तदर्थमभाव इत्युक्तम् । योऽभाव उत्तरकाल एवास्ति स प्रध्वंस इत्युक्तेऽसम्भवस्स्यात् । घटप्रध्वंसस्य तंत्वाद्युत्पत्तिकालात्प्रागपि सत्त्वात् अतः प्रतियोगिकालापेक्षयेत्युक्तम् । तथाच नासम्भवः । योऽभावः काल एवास्ति स प्रध्वंस इत्युक्ते प्रतियोगिकालापेक्षया प्राक्काले विद्यमाने प्रागभावेऽतिव्याप्तिस्स्यात्तदर्थमुत्तरेत्युक्तम् । योऽभावः प्रतियोगिकालापेक्षयोत्तरकालेऽस्ति स प्रध्वंस इत्युक्ते घटप्रतियोगिकान्योन्याभावात्मके पटप्रागभावे घटापेक्षया परतोऽपि विद्यमानेऽतिव्याप्तिस्स्यात्तदर्थमेवेत्युक्तम् । तस्य प्रागपि सत्त्वान्नातिव्याप्तिरिति ज्ञेयम् ।। यस्तु सदाऽस्तीति । योऽभावस्सदाऽस्ति । निरवधिक इत्यर्थः । प्रतियोगिकालावधिकपूर्वत्वापरत्वरहितोऽभाव इति यावत् । तथा च योऽभावः कालत्रयेऽस्ति सोऽत्यन्ताभाव इति निर्गलितोऽर्थः । नित्ये भावपदार्थे गगनादावतिव्याप्तिवारणायाभाव इत्युक्तम् । अभाव इत्येवोक्ते कादाचित्के प्रागभावे प्रध्वंसे चातिव्याप्तिस्स्यात्तदर्थं कालत्रयेऽस्तीत्युक्तमिति द्रष्टव्यम् ।।