श्रीर्नित्यमुक्ता

नित्यमुक्तपरतन्त्रचेतननिर्देशः

टीका

परतन्त्रोऽपि नित्यमुक्तः क इत्यत आह– श्रीर्नित्येति ।।

तत्वविवेकः

............... श्रीर्नित्यमुक्ता.... ।

अन्ये तु सृतियुज इति प्रसिद्धमेव ।

मन्दारमञ्जरी

।। कदापि संसारेति ।। यस्य न कदापि संसारसम्बन्धः असौ नित्यमुक्त उच्यत इत्यन्वयः ।। कदाचित्संसारेति ।। संसारसंसर्गात्यन्ताभावानधिकरणत्वं सृतियुग्लक्षणम् । तेन कदाचित्संसारी भूत्वा मुक्तोऽपि सृतियुगेवेति वक्ष्यमाणो मुक्तामुक्तत्वेन सृतियुग्भेद उपपन्न इति भावः ।

ननु नित्यमुक्त इत्यादिना पूर्वं पारतन्त्र्ये नित्यमुक्तत्वानुपपत्तिरिति चोद्योत्तरत्वेन परतन्त्रोऽपीति मूलग्रन्थो व्याख्यातः । इदानीं नित्यमुक्तत्वे पारतन्त्र्यानुपपत्तिरिति चोद्योत्तरत्वेन परतन्त्रोऽपीत्येतमेव मूलग्रन्थमन्यथा व्याचष्टे ।। अथ वेति ।।

तत्वविवेकटीकाविवरणं

यस्य न कदापि संसारसम्बन्धः असौ नित्यमुक्त इत्युच्यत इत्यन्वयः । मुक्तेष्वतिव्याप्तिपरिहाराय कदापीत्युक्तमिति ज्ञातव्यम् । उत्तरत्र सृतियुक्च द्विधा मतः । मुक्तोऽमुक्त इतीति मुक्तस्यापि सृतियुक्प्रभेदत्वमुच्यते । तत्र मुक्तस्य कथं सृतियुक्त्वमित्याशङ्कायां सृतियुक्शब्दार्थमाह ।। कदाचिदिति । तथा च संसारसंसर्गात्यन्ताभावानधिकरणत्वं सृतियुग्लक्षण मित्यर्थः । संसारो नाम लिङ्गशरीराख्यप्रकृतिबन्धः । एवं च मुक्तस्यापि पूर्वं संसारसंसर्गवत्त्वात्सृतियुक्प्रभेदत्वं युक्तमिति भावः ।। स्वातन्त्र्यादिति । तथा च स्वतन्त्रतत्वभूतो विष्णुरेव नित्यमुक्तो नान्य इत्यर्थः ।। तदन्तर्गतोऽपीति । परतन्त्रप्रभेदान्तर्गतोऽपि चेतनो नित्यमुक्तः कथं स्यात् । विष्णोः परतन्त्रभेदत्वाभावात् । तदतिरिक्तश्चान्यो नित्यमुक्तोनास्ति । यः परतन्त्रप्रभेदान्तर्गतःस्यादिति भावः । तथा च पारतन्त्र्ये नित्यमुक्तत्वानुपपत्तिरिति शङ्काभिप्रायः ।। तथा प्रमाणादिति । स्वतन्त्रोविष्णुरेव नित्यमुक्त इति । सत्यम् । परतन्त्रोऽपि चेतनो नित्यमुक्तोऽस्ति । तथा प्रमाणसद्भावादिति भावः । पूर्वं पारतन्त्र्ये नित्यमुक्तत्वानुपपत्तिरिति चोद्योत्तरत्वेन परतन्त्रोऽपि नित्यमुक्तोऽस्तीत्येवं व्याख्याय नित्यमुक्तत्वे पारतन्त्र्यानुपपत्तिरिति शङ्कोत्तरत्वेनापि तदेव वाक्यं व्याचष्टे ।। अथवेति ।। इदमुक्तमिति । तथा च नित्यमुक्तोऽपि परतन्त्र इत्यन्वयः । तथा प्रमाणसद्भावादित्यर्थ इति भावः ।। नित्यमुक्त एवेति । न तु सृतियुक्कश्चिदस्ति । अतो द्विधेत्युक्तमसदेवेति भावः ।। अपाकरोतीति । मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधत इत्यादिनाऽनुव्याख्याने संसाराख्यबन्धमिथ्यात्वस्य दूषितत्वान्नित्यमुक्त एव चेतन इति मतमसदेवेति भावः । श्रीर्नित्यमुक्तेति मूलम् । तथा चास्वतन्त्रचेतनप्रभेदभूते नित्यमुक्ते श्रीतत्वेऽवान्तरभेदाभावात्सृतियुगपेयोक्तो धाल्प्रत्ययो ज्ञातव्यः । अन्येतु । स्पृष्टदुःखास्समस्तश इति तत्वसङ्ख्यानानुसारेण न्यूनतां परिहर्तुमाह ।। अन्य इति । अन्ये श्रीव्यतिरिक्ताश्चेतना इत्यर्थः ।।