स्वतन्त्रो भगवान्विष्णुर्निर्दोषाखिलसद्गुणः

स्वतन्त्रतत्वनिरूपणम्

टीका

किं तत्स्वतन्त्रप्रमेयमित्यत आह– स्वतन्त्र इति ।।

तत्वविवेकः

स्वतन्त्रो भगवान्विष्णुर्निर्दोषाखिलसद्गुणः ।। १ ।।

भगवानिति पूजार्थम् । निर्दोषेति स्वातन्त्र्योपपादनाय । यस्य तु द्वयमप्यसिद्धं तं प्रत्यागमो दर्शनीयः । अनेन स्वतन्त्रपरतन्त्रभेदमङ्गीकृत्यापि स्वातन्त्र्यं शिवशक्तयादीनामङ्गीकुर्वाणा निरस्ता भवन्ति । विष्णोरन्यत्परतन्त्रमिति वाक्यशेषः । द्विविधमित्युक्त्या स्वतन्त्रपरतन्त्रप्रमेययोरवान्तरभेदोऽस्तीति सूचितम् । अन्यथा द्वे प्रमेये इत्येव ब्रूयात् ।। तत्र स्वतन्त्रप्रमेयमेकमेवेत्युक्तम् ।

मन्दारमञ्जरी

।। द्विविधमित्युक्तयेति ।। अयमर्थः । यद्यपि स्वतन्त्रमस्वतन्त्रञ्चेति तत्वं द्विविधमित्युक्तया तत्वस्य स्वातन्त्र्यादिना द्वैविध्यमेवोक्तम् । न तु स्वतन्त्रपरतन्त्रयोर्भावाभावत्वादिना अवान्तरभेदः । तथापि द्विविधमित्यनेन स्वातन्त्र्यपारतन्त्र्यरूपप्रकारद्वित्वं वदता प्रकारयोरेव द्वित्वं न तु व्यक्तीनाम् । तत्राप्यनयोरेव प्रकारयोर्द्वित्वम् । अन्येषामवान्तरप्रकाराणां बहुत्वमस्त्येवेति सूचितम् । अन्यथा स्वतन्त्रमस्वतन्त्रञ्चेति द्वे प्रमेये इत्युक्तेऽपि व्यावर्तकप्रकारद्वित्वाभावे व्यावर्त्यप्रकारिद्वित्वानुपपत्त्या प्रकारद्वित्वसिद्धेः ‘द्वे प्रमेये’ इत्येव ब्रूयात् । तत्र स्वतन्त्रमेकमित्युक्तया तत्रावान्तरभेदो नास्तीति सूचितम् । परतन्त्रस्यापि भेदाभावे तत्सूचनस्य निर्विषयत्वापत्तेः परतन्त्रस्य भेदमाहेति । यद्वा द्विविधमित्यनेन स्वतन्त्रत्वपरतन्त्रत्वयोः प्रकारत्वस्योक्तत्वात्स्वतन्त्रपरतन्त्रयोरवान्तरभेदोऽस्तीति सूचितम् । प्रकारभेदस्य स्वाश्रयव्यक्तयवान्तरभेदं विना अनुपपत्तेरित्यनेन प्रकारेण द्विविधमित्युक्तयेति ग्रन्थो व्याख्येयः ।

तत्वविवेकटीकाविवरणं

निर्दोषेत्यादिविशेषणेनैव विष्णोस्स्वातन्त्र्यस्योपपादितत्वाद्भगवानिति व्यर्थमत आह ।। भगवानितीति ।। स्वातन्त्र्येति । निर्दोषश्चासावखिलसद्गुणश्चेति विग्रहः । इदं च विशेषणद्वयं विष्णोस्स्वातन्त्र्योपपादनार्थमित्यर्थः । द्वयमपि विशेषणद्वयमपि ।। आगम इति । य आत्माऽपहतपाप्मा निरनिष्ठो निरवद्यः गुणाश्श्रुतास्सुविरुद्धाश्च देवे सन्तीत्यागमो निर्दोषत्वाखिलसद्गुणत्वोपपादनाय दर्शनीय इत्यर्थः ।। अनेनेति । विष्णोः स्वातन्त्र्यवचनेनेत्यर्थः । शक्तयादीनामित्यादिपदेन प्रधानस्कन्दसूर्यगणेशादिग्रहणम् । अङ्गीकुर्वाणाः पाशुपतशाक्तसाङ्ख्यादयः। उत्तरत्र परतन्त्रविभाग एवोच्यते न त्विदं परतन्त्रं प्रमेयमिति निर्दिश्यते । अत आह ।। विष्णोरन्यदिति ।। द्विविधमित्युक्तयेति । प्रमेयं द्विविधं मतमित्यत्र द्विविधमित्युक्तया स्वतन्त्रपरतन्त्रत्वयोः प्रमेयविभाजकोपाधित्वरूपप्रकारत्वस्योक्तत्वात् स्वतन्त्रपरतन्त्रयोरवान्तरभेदोऽस्तीति सूचितम् । प्रकारत्वस्य स्वाश्रयव्यक्तिभेदं विनाऽनुपपत्तेरित्यर्थः । यद्वा परीक्षकैस्तत्रैव हि प्रकारपुरस्कारेण विभागः क्रियते । यत्र प्रकारिणां बहुत्वेन विभागः कर्तुं न शक्यते । यथा तद्द्विविधं केवलं चतुर्विधमित्यदौ । प्रकृते प्रकारपुरस्कारेण द्वैविध्यकथनेन प्रकारिबहुत्वं प्राप्तमेवेति द्वैविध्यकथनेन प्रकारिबहुत्वं सूच्यत इत्यर्थः । एवमेव पूर्ववत् द्विधाग्रहणेनोत्तरवाक्यमपि व्याख्येयम् ।। अन्यथेति । एवं सूचनस्यानभिप्रेतत्व इत्यर्थः । तर्हि स्वतन्त्रप्रमेयस्यापि अवान्तरभेदवत्त्वस्य सूचितत्वात्सर्वं वक्तव्यमित्याशङ्कां परिहरति ।। तत्रेति । तयोर्मध्य इत्यर्थः ।। एकमेवेत्युक्तमिति । भगवान्विष्णुरित्येकवचनप्रयोगेणेत्यर्थः ।