तत्प्रमेयं द्विविधम् ।। स्वतन्त्रं परतन्त्रं चेतीतिशब्दोऽध्याहार्यः
तत्वविशेषविभागः
टीका
तत्प्रमेयं द्विविधम् ।। स्वतन्त्रं परतन्त्रं चेतीतिशब्दोऽध्याहार्यः ।
मन्दारमञ्जरी
।। इतिशब्दोऽध्याहार्य इति ।। अन्यथा स्वतन्त्रमस्वतन्त्रञ्च प्रत्येकं द्विविधमिति भ्रान्तिस्स्यादिति भावः ।
तत्वविवेकटीकाविवरणं
इतिशब्दोऽध्याहार्य इति । अन्यथा स्वतन्त्रं परतन्त्रं च प्रत्येकं द्विविधमिति भ्रान्तिस्स्यादतस्तत्परिहाराय प्रमेयं स्वतन्त्रं परतन्त्रं चेति द्विविधमिति । एवमितिशब्दाध्याहारेण योजना कार्येति भावः । उत्तरत्र स्वतन्त्रास्वतन्त्रयोर्लक्षणाकथनान्न्यूनतां परिहर्तुं ‘तदधीनाश्च सर्वदा । सत्ताप्रधानपुरुषशक्तीनां च प्रतीतयः । प्रवृत्तयश्च तास्सर्वा नित्यं नित्यात्मना यत इत्यनुव्याख्यानं’ मनसि निधाय स्वतन्त्रास्वतन्त्रतत्वे क्रमेण लक्षयति ।।