अमुक्तास्त्रिविधास्तत्र नीचमध्योच्चभेदतः
अमुक्तविभागः
टीका
अमुक्तानां विभागमाह– अमुक्ता इति ।।
तत्वविवेकः
अमुक्तास्त्रिविधास्तत्र नीचमध्योच्चभेदतः ।। ६ ।।
तत्र मुक्तामुक्तयोः । तान् विविच्य दर्शयति– मुक्तियोग्या इति ।।
तत्वविवेकः
मुक्तियोग्यास्तत्र चोच्चा नित्यावर्तास्तु मध्यमाः ।
नीचा नित्यतमोयोग्याः ... .... ... ।
मन्दारमञ्जरी
विविच्य दर्शयतीति ।। लक्षणकथनेनेतरेभ्यो व्यावृत्ततया बोधयतीत्यर्थः । न तु विभज्य इत्यर्थो ग्राह्यः । अमुक्तास्त्रिविधा इत्यनेनैव विभागस्य उक्तत्वात् ।।
तत्वविवेकटीकाविवरणं
तान्विविच्य दर्शयतीति । लक्षणकथनेन तान्नीचादीन्विविच्येतरेभ्यो व्यावृत्ततया बोधयतीत्येवार्थः । न तु विभज्य दर्शयतीति । अमुक्तास्त्रिविधा इत्यनेनैव विभागस्योक्तत्वादित्यवधेयम् । नित्यावर्तास्त्विति मूलस्य चोष्कूयते विश इन्द्रो मनुष्यान् पुनः पुनर्मनुष्यांस्तु सृतावावर्तयत्यज इत्यादिनोक्तप्रकारेण त्रिदिवनिरयभूगोचरा नित्यबद्धा एते मध्यमा इत्यर्थो द्रष्टव्यः ।।