भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक्
अभावपरीक्षा
टीका
ननु यदपेक्षया पूर्वमपरं चेत्युच्यते स एव प्रागभावप्रध्वंसाभावयोः प्रतियोगी । अत्यन्ताभावस्य तु कः प्रतियोगीति । मैवम् । तथा सति प्रागभावप्रध्वंसाभावयोः प्रतियोगिनियमो न स्यात् । तस्माद्यस्यासौ स एव प्रतियोगीति वाच्यम् । शशविषाणादीनां चाभावोऽत्यन्ताभाव इति स एव प्रतियोगी । अप्रामाणिकस्य कथं प्रतियोगित्वमिति चेत् किमिह तस्य सत्तया कृत्यमस्ति । न हि प्रतियोगित्वं रूपादिवद्धर्मिसत्तासापेक्षम् । प्रतीतिमात्रं तूपयुक्तम् । तदसतोऽप्यस्तीति । इष्यते प्रामाणिकैरिति शेषः ।। एतेन ये सर्वोऽप्ययं संसर्गाभाव एक एवेति मन्यन्ते तन्मतमपास्तं भवति । यथा च न कार्यकारणयोः संसर्गस्तथा वक्ष्यते । अत्यन्तासत्प्रतियोगिकस्य तथात्वानुपपत्तेरिति ।
अन्योन्याभावस्य धर्मिस्वरूपत्वसमर्थनम्
तथापि नाभावस्त्रिविधः अन्योन्याभावस्य चतुर्थस्य विद्यमानत्वादित्यत आह– भावाभावस्वरूपत्वादिति ।।
तत्वविवेकः
भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् ।
तादात्म्यप्रतियोगिकोऽभावोऽन्योन्याभावः । भेद इति यावत् । स च यदधिकरणस्तत्स्वरूपमेव । न तु प्रागभावादिवत्पृथक्प्रमेयमिति नाभावत्रित्वभङ्गः । धर्मिस्वरूपत्वादिति वक्तव्ये यद्भावाभावस्वरूपत्वादित्युक्तं तत्प्रपञ्चनार्थम् । अथ वा यद्यन्योन्याभावो न घटादिभ्यः पृथक् तर्हि तेषामभावत्वं स्यात् । स्यादेवैतत् । सर्वभावानां स्वेन रूपेण भावत्वं रूपान्तरेणाभावत्वमिति भावाभावस्वरूपत्वादित्युक्तम् । नन्वन्योन्याभाव इति वक्तव्ये किं भावप्रत्ययेन । मैवम् । नायं भावशब्दो भावसाधनः किं तु कर्तृसाधनः । भावश्चात्र प्रकृत इति तल्प्रत्ययोपपत्तिः ।
मन्दारमञ्जरी
ननु युक्तौ प्रागभावप्रध्वंसाभावौ तत्प्रतियोगिनोः सम्भवात् । तथा हि, पूर्वाभावः प्रागभावः उत्तराभावः प्रध्वंस इत्युक्तम् । तत्र एतस्मात्पूर्व इति यदपेक्षया प्रागभावस्य पूर्वत्वं एतस्मात्पर इति च यदपेक्षया प्रध्वंसस्य परत्वं स एव परः पूर्वश्च यथाक्रमं प्रागभावस्य प्रध्वंसस्य चावधित्वेन प्रतियोगी । अत्यन्ताभावस्त्रैकालिकत्वेन निरवधिकतया अवधिभूतप्रतियोगिरहित इति न युक्त इति शङ्कते ।। ननु यदपेक्षयेत्यादिना ।। स्यादेतदेवम् । यद्यवधित्वं प्रतियोगित्वं स्यात् । न चैतदस्ति । तथा सति युगपदुत्पन्नसव्येतरविषाणप्रागभावयोस्सव्यविषाणप्रागभावं प्रति दक्षिणविषाणमपि प्रतियोगि स्यात् । सव्यप्रागभावस्य सव्यापेक्षया पूर्वत्ववत्तेन सहैवोत्पन्नदक्षिणापेक्षयापि पूर्वत्वस्य सत्त्वात् । एवं युगपदुत्पन्नयोर्घटध्वंसयोरपि प्रतियोगिनियमो न स्यात् । तस्मादभाव इत्युक्तौ कस्येत्याकाङ्क्षायामस्येत्यधिकरणादिविलक्षणतया अभावनिरूपकत्वेन सम्बद्धस्य यस्यासावभावोऽनुयोगित्वेन सम्बद्ध्यते स एवाधिकरणादिविलक्षणो निरूपकः प्रतियोगी । एवं चात्यन्ताभावोऽपि शशृङ्गादिनिरूप्य इति तन्निरूपकं शशृङ्गादिकमेव तत्प्रतियोगीत्याह ।। मैवमित्यादिना स एव प्रतियोगीत्यन्तेन ।।
शशविषाणादीनां चाभाव इत्यत्र ग्रन्थे अभाव इति जातावेकवचनं विवक्षित्वा सर्वात्यन्ताभावेष्वप्रामाणिकप्रतियोगिकत्वानुगतिप्रदर्शनाय शशविषाणादीनामिति बहुवचनं प्रयुक्तम् । स एव च प्रतियोगीत्यत्र ग्रन्थे शशविषाणमेव तदभावप्रतियोगि नान्यदनिरूपकत्वात् । तथा चास्मिन्पक्षे न प्रतियोग्यनियम इति दर्शयितुं स एव प्रतियोगीत्येकवचनं प्रयुक्तमित्यविरोधः ।।
न हि प्रतियोगित्वमित्यादि ।। रूपादिकं यथा धर्मिसत्तासापेक्षं न तथा प्रतियोगित्वम् । प्रागभावादिदशायां असतोऽपि घटादेस्तत्प्रतियोगित्वदर्शनात् । कालान्तरे सत्वस्य चेदानीमनुपयोगात् । तज्ज्ञानहेतुभूतज्ञानविषयत्वविशेषरूपप्रतियोगित्वे प्रतीतिमात्रमुपयुक्तम् । तच्चासतोऽप्यस्ति । अन्यथा असदवच्छिन्नप्रतीतिनिषेधानुपपत्तेरिति भावः ।। सर्वोऽप्ययमिति ।। अन्योन्याभावस्य संसर्गाभावत्वानुपपत्तेः प्रकृतप्रागभावादित्रये एव सर्वशब्दमुपसंहर्तुं प्रकृतपरामर्शी अयं शब्दः प्रयुक्तः ।। यथा चेति ।। सति ह्युपादानोपादेययोस्संसर्गे उपादेयपूर्वकालसम्बद्धः संसर्गाभावः प्रागभावः । तदुत्तरकालसम्बद्धस्तु प्रध्वंस इति तयोस्संसर्गाभावान्तर्भावः स्यात् । स एव नास्ति । उपादानोपादेययोरभेदस्य वक्ष्यमाणत्वात् । तस्मान्न तयोस्संसर्गाभावेऽन्तर्भाव इत्यर्थः ।। अत्यन्तासदिति ।। शशृङ्गादिप्रतियोगिकस्य संसर्गाभावत्वानुपपत्तेरत्यन्ताभावस्यापि न तदन्तर्भाव इत्यर्थः ।। प्रपञ्चनार्थमिति ।। अभावप्रतियोगिकस्यान्योन्याभावस्य भावस्वरूपत्वं भावप्रतियोगिकस्य त्वभावस्वरूपत्वमिति प्रपञ्चनार्थमित्यर्थः । प्रपञ्चो न कर्तव्यः निष्प्रयोजनत्वात् । अन्यथा द्रव्यगुणादिस्वरूपत्वादित्यपि वक्तव्यं स्यादिति पूर्वत्रारुच्या अन्यथा व्याचष्टे ।। अथ वेति ।। स्यादेवैतदिति ।। एतत् घटादीनामभावत्वं स्यादेव । तथा चेष्टापत्तिरित्यर्थः ।।
नायं भावशब्द इति ।। यद्ययं भावशब्दो भवनं भाव इति भावसाधनस्स्यात्तदाऽभावशब्देन नास्तित्वापरपर्यायाभवनरूपस्याभावस्योक्तत्वात्तल्प्रत्ययो व्यर्थः स्यात् । अयं तु न भावसाधनः । किं तु भवतीति भाव इति कर्तृसाधनः । तथा चाभावशब्देनासदपरपर्यायस्याभाववत एवोक्तत्वेन अन्योन्याभावशब्देन तादात्म्यरहितस्यैवोक्ततया राहित्योक्तिसिद्ध्यर्थं तल्प्रत्ययः । तादात्म्यरहितत्वरूपान्योन्याभावस्यैव परेण चतुर्थप्रकाराश्रयतया शङ्कितत्वेन तस्यैव प्रकृतत्वादित्यर्थः । यद्यपि अकर्तरि च कारके सञ्ज्ञायामिति प्रतिषेधान्न कर्तरि घञ् । तथापि श्रिणीभुवोऽनुपसर्ग इत्यनेनैव भवतेः कर्तर्यपि घञ् भविष्यति । कृत्यल्युटो बहुलमिति बहुलग्रहणात् अकर्तरीति प्रतिषेधस्य मिषत्यसौ मेष इत्यादौ घञः प्रतिषेधार्थकत्वेन सावकाशत्वात् । दारयन्तीति दाराः जरयन्तीति जारा इति कर्तर्यपि घञो विधानाच्च । यद्वा अन्योन्याभावस्य भावाभावस्वरूपत्वादन्योन्याभावता न पृथक् । प्रागभावत्वादिवत्प्रकारान्तरं न भवति । येन त्रिधा विभागोऽपि विरुद्ध्येतेति मूलग्रन्थो योज्यः । टीकाऽपि अयं समासान्तर्गतो भावशब्दो भावत्वरूपभाववाचको न भवति । किं तु तदाश्रयस्य भेदस्यैव वाचकः । तथा चान्योन्याभावशब्दोऽपि भेदात्मकस्यान्योन्याभावस्यैव वाचकस्स्यात् । अन्योन्याभावत्वं च परेण चतुर्थप्रकारत्वेन शङ्कितमिति तदर्थं तल्प्रत्यय इति योज्या ।
तत्वविवेकटीकाविवरणं
यदपेक्षयेति । पूर्वाभावः प्रागभावः । अपराभावः प्रध्वंसाभाव इत्युक्तम् । तत्रैतस्मात्पूर्व इति यदपेक्षया प्रागभावस्य पूर्वत्वमेतस्मात्परत इति यदपेक्षया प्रध्वंसस्य परत्वं स एव प्रागभावस्य प्रध्वंसाभावस्यावधित्वेन प्रतियोगीति वक्तुं युक्तमित्यर्थः ।। कः प्रतियोगीति । अत्यन्ताभावस्तु त्रैकालिकतया निरवधिक इति अवधिभूतप्रतियोगिरहित इति भावः ।। तथा सतीति । स्यादेतदेवम् । यदि यदपेक्षया पूर्वोऽपरश्च स एव प्रतियोगीत्येवमवधित्वं प्रतियोगित्वं स्यात् । न चैतदस्ति । तथा सति पटापेक्षया घटप्रागभावस्यापि कदाचित्पूर्वत्वेन पटोऽपि घटप्रागभावस्य प्रतियोगी स्यात् । तथा पटापेक्षया कदाचिद्घटध्वंसस्यापि पश्चात्तनत्वेन पटोऽपि घटध्वंसस्य प्रतियोगी स्यात् इत्येवं घटप्रागभावघटप्रध्वंसयोर्घट एवप्रतियोगीति नियमो न स्यादित्यर्थः ।। यस्यासौ स एवेति । अभाव इत्युक्ते कस्येत्याकाङ्क्षायां घटस्येत्यभावनिरूपकस्य यस्य घटस्यासावभावोऽनुयोगित्वेन सम्बध्यते स एव निरूपकः प्रतियोगी । एवं च शशविषाणादीनामत्यन्ताभावोऽपि शशविषाणादिनिरूप्य इति शशविषाणादीनामेवात्यन्ताभावप्रतियोगित्वमित्यर्थः । स एवेति जात्येकवचनम् । शशविषाणादय एव प्रतियोगिन इत्यर्थः । यद्वा शशविषाणादीनामिति बहुवचनमेकवचनार्थे । शशविषाणादेरित्यर्थः । अप्रामाणिकस्य शशविषाणादेः प्रतियोगित्वमत्यन्ताभावप्रतियोगित्वम् । प्रतियोगित्वं नामाभावज्ञानजनकत्वम् । तच्च सत्तागर्भम् । अप्रामाणिकस्य शशविषाणादेश्चाप्रामाणिकत्वेन सत्त्वाभावात्कथमत्यन्ताभावप्रतियोगित्वमित्यर्थः । इहाभावे । तस्य प्रतियोगिनः । कुत इत्यत आह ।। न हीत्यादिना । रूपादिकं यथा धर्मिसत्तासापेक्षं तथा प्रतियोगित्वं स्वधर्मिभूतस्य प्रतियोगिनस्सत्वसापेक्षं न भवति । तथा सति प्रागभावादिदशायामसतोऽपि घटादेस्तत्प्रतियोगित्वं न स्यात् ।
ननु प्रागभावादिप्रतियोगिभूतो घटादिः कालान्तरे सन् न तथाऽत्यन्ताभावप्रतियोगीति चेन्न । कालान्तरे सत्त्वस्येदानीं प्रतीतिसमयेऽनुपयोगात् । प्रतियोगित्वं च नाभावज्ञानजनकत्वम् । येन तत्सत्वमपेक्षितं स्यात् । किं नामाभावज्ञानजनकज्ञानविषयत्वमेव । तच्च ज्ञानविषयत्वमसतोऽपि सम्भवत्येव । अन्यथाऽसद्वैलक्षण्यज्ञानमसन्न प्रतीयत इत्यसत्प्रतीतिनिराकरणं च न स्यादिति भावः ।। एतेनेति । प्रागभावत्वादित्रितयेऽभावविभाजकोपाधित्वस्यैव प्रामाणिकत्वकथनेनेत्यर्थः ।। सर्वोऽप्ययमिति । प्रागभावादिरित्यर्थः । अभावो द्विविधः । संसर्गाभावोऽन्योन्याभावश्चेति । संसर्गाभावस्त्रिविधः । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावश्चेति । तथा च प्रागभावत्वादीनां संसर्गाभावविभाजकोपाधित्वमेव नाभावविभाजकोपाधित्वम् । अभावविभाजकोपाधिस्तु संसर्गाभावत्वादिरेवेति मन्यन्त इति भावः । कथमपास्तं भवतीत्यत आह ।। यथा चेति ।। कार्यकारणयोरिति । उपादानोपादेययोरित्यर्थः ।। संसर्ग इति । सम्बन्ध्यतिरिक्तसमवायरूपसंसर्ग इत्यर्थः ।। वक्ष्यत इति । कार्यकारणयोश्चैवेत्यादिनोत्तरत्रेत्यर्थः । इदमुक्तं भवति । संसर्गाभावत्वं नाम संसर्गप्रतियोगिकाभावत्वं वा संसर्गारोपपूर्वकप्रमितिविषयाभावत्वं वा । नाद्यः । सति ह्युपादानोपादेययोस्संसर्गे उपादाने पूर्वकालसम्बद्धो य उपादेयसंसर्गप्रतियोगिकोऽभावस्स प्रागभावः । तथोपादाने उत्तरकालसम्बद्धो य उपादेयसंसर्गप्रतियोगिकाभावः सः प्रध्वंसाभाव इति स्यात् । न चैवम् । उपादानोपादेययोरभेदाङ्गीकारेण उपादाने उपादेयसंसर्गस्यैवाभावात् । प्रागभावादीनां घटप्रतियोगिकतयैवोपलम्भेन संसर्गप्रतियोगिकत्वस्यायुक्तत्वाच्च । नापि द्वितीयः । मृत्पिण्डे आरोप्य निषिध्यमानो घटसंसर्गस्समवाय एवेति वक्तव्यम् । स चान्यत्र निरस्त इति ।। तथात्वानुपपत्तेरिति । अत्यन्ताभावप्रतियोगिनः शशविषाणादेरत्यन्तासत्वेन तत्संसर्गस्य कुत्राप्यभावेन तत्प्रतियोगिकाभावस्य संसर्गाभावत्वानुपपत्तेरित्यर्थः । भेदस्य प्रतियोगिस्वरूपत्वे घटः पटो नेति प्रतीत्यापत्तेः । अतो न प्रतियोगिस्वरूपं भेदः । किं त्वित्यत आह ।। यदधिकरण इति । यद्धर्मिक इत्यर्थः ।। प्रपं(चनार्थ)चार्थमिति । अभावप्रतियोगिकोऽन्योन्याभावो भावस्वरूपम् । भावप्रतियोगिकोऽन्योन्याभावोऽभावस्वरूपमित्येवं धर्मिस्वरूपत्व प्रपञ्चनार्थमेव भावाभावस्वरूपत्वादित्युक्तमित्यर्थः ।। अभावत्वं स्यादिति । अभावाभिन्नत्वादित्यर्थः । इष्टापत्तिरित्याशयेनाह ।। स्यादेवेति । भावाभावस्वरूपत्वादित्यस्यार्थमाह ।। सर्वभावानामित्यादिना । स्वेन रूपेण घटत्वादिना । रूपान्तरेण अन्योन्याभावात्मकत्वरूपधर्मान्तरेण । इतीत्यनन्तरमाशयेनेति शेषः ।। किं भावप्रत्ययेनेति । तस्य भावस्त्वतलाविति सूत्रादन्योन्याभावस्य धर्मोऽन्योन्याभावत्वमिति भावार्थकतल्प्रत्ययेन किं प्रयोजनं न किमपि । तथा च स व्यर्थ इति भावः ।। नायं भावशब्द इति । अन्योन्याभावशब्दे विद्यमानो भावशब्द इत्यर्थः ।। भावसाधन इति । भावो धात्वर्थः तं साधयति प्रतिपादयतीति भावसाधनः । धात्वर्थप्रतिपादक इत्यर्थः । तथाहि । अन्योन्याभावशब्दान्तर्गताभावशब्दो यदि भवनं भाव इति धात्वर्थप्रतिपादकः स्यात् तर्हि अन्योन्यमभवनमन्योन्याभाव इति प्राप्त्याऽन्योन्यतादात्म्याभावत्वार्थकस्तल्प्रत्ययो व्यर्थस्स्यात् । किं तु भवतीति भाव इति कर्तृसाधनः । कर्तृत्वप्रतिपादक इति यावत् । तथा चान्योन्यं न भवतीत्यन्योन्याभावः । घटः पटात्मकत्वेन पटो घटात्मकत्वेनेत्यन्योन्यं भवनवन्न भवतीत्यन्योन्यतादात्म्यवन्न भवतीति यावत् । तथा चान्योन्यमभवनवतोऽन्योन्यतादात्म्यरहितस्येति यावत् । भावो धर्मोऽन्योन्याभावता । अन्योन्यमभवनम् । अन्योन्यतादात्म्याभाव इति यावत् । इति लभ्यते । अतो न तल्प्रत्ययो व्यर्थः । ननु कुत एवं व्याख्यायते । अन्योन्याभावशब्दान्तर्गतभावशब्दस्य भावसाधनत्वमेवाङ्गीकृत्यान्योन्याभावत्वमेवार्थः किं न स्यादिति चेन्न । अन्योन्याभावस्य चतुर्थस्य विद्यमानत्वादिति तादात्म्याभावरूपान्योन्याभाववत्त्वस्यैव चतुर्थप्रकारत्वेन परेण शङ्किततया तस्यैव प्रकृतत्वात् । अतः कर्तृसाधनत्वमेवाङ्गीकृत्य व्याख्येयमिति भावः । भावोऽपि द्विविधस्स्मृत इति मूले न केवलमभावो भेदवान् किं तु भावोऽपीत्यपिशब्दार्थो द्रष्टव्यः ।