चेतनोऽचेतनश्चेति भावश्च द्विविधः स्मृतः
भावविभागः
टीका
भावं विभज्य दर्शयति– चेतन इति ।।
तत्वविवेकः
चेतनोऽचेतनश्चेति भावश्च द्विविधः स्मृतः ।। ३ ।।
चेतयतीति चेतनः । अनेवंविधोऽचेतनः । स्मृत इति सर्वं चैतन्यमेवेति मतमपवदति ।।
मन्दारमञ्जरी
चेतयतीति ।। जानातीत्यर्थः ।
तत्वविवेकटीकाविवरणं
लक्षणाकथनान्न्यूनताशङ्कां परिहरन् संज्ञानिरुक्तयैव द्वयोर्लक्षणे लब्धे इत्याह ।। चेतयतीति । जानातीत्यर्थः । ज्ञानाधिकरणमिति यावत् । तथा च ज्ञानाधिकरणत्वं चेतनस्य लक्षणम् । तदनधिकरणत्वमचेतनलक्षणमिति भावः । सर्वं चैतन्यमेवेति मतमिति । मृदब्रवीदापोऽब्रुवन् ओषधयः संवदन्त इत्यादिवचनैर्मृदादीनां वाग्व्यवहारावगमनान्मृदादिकं सर्वं चेतनमेवेति मतमित्यर्थः ।। अपवदतीति । अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामित्यभिमान्यधिकरणन्यायेन मृदादिशब्दानां तदभिमानिदेवतापरतया प्रसिद्धजडमृदादिपरत्वाभावेन न तद्बलान्मृदादीनां चेतनत्वमिति भावः ।