ततोऽनन्तगुणो हरिः
विष्णोः सर्वोत्तमत्वम्
टीका
स्वातन्त्र्यं मुक्तिरिति केषाञ्चिन्मतम् । अतो मुक्तेभ्यो विष्णोर्न व्यावृत्तिरित्यत आह– तत इति ।।
तत्वविवेकः
... ... ... ततोऽनन्तगुणो हरिः ।
स्वरूपाविर्भाव एव मुक्तिरिति भावः ।
मन्दारमञ्जरी
।। गुणशब्दो गणनार्थ इति ।। सहस्रगुणमित्यादाविव गणनार्थः । न त्वानन्दादिगुणार्थः । गुणैरित्यनेन पौनरुक्तयादिप्रसङ्गादित्यर्थः ।
तत्वविवेकटीकाविवरणं
व्यावृत्तेत्युक्तमिति । संसारसंसर्गतदत्यन्ताभावरूपविरुद्धधर्माधिकरणत्वादिति भावः ।। साम्येति । मुक्तब्रह्मादिभिः श्रियो गुणैस्साम्यप्राप्तिशङ्कायामाहेत्यर्थः । अखिलैर्गुणैरित्यनेन पुनरुक्तिपरिहारमाह ।। बहुगुणेति । शतगुणं सहस्रगुणमित्यादाविव गुणशब्दो गणनार्थो न त्वानन्दादिगुणार्थः । येन पुनरुक्तिस्स्यादिति भावः ।। स्वातन्त्र्यमिति । पराधीनतैव संसारस्तदपगमेन सर्वेषां स्वातन्त्र्यप्राप्तिरेव मुक्तिः । पराधीनत्वापगमेन सर्वेषां साम्यमेव भवतीति रामानुजमतम् । तथा च मुक्तेभ्यस्सकाशाद्विष्णोस्स्वातन्त्र्येणाधिक्यप्रयुक्ता व्यावृत्तिर्भेदो वैलक्षण्यम् । उत्तमत्वमिति यावत् । नास्ति किन्तु साम्यमेवेत्यर्थः । तर्हि का मुक्तिरित्यत आह ।। स्वरूपेति । यथोक्तम् । मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिरिति ।।