मोक्षप्रकरणम्
मोक्षप्रकरणम्
इदानीमवशिष्टस्य मोक्षस्य परमात्मधीनत्वमुपपादयति - तन्मोक्षोऽपीति ।
तन्मोक्षोऽपि परमात्माधीनः ।। ५२८ ।।
जीवानां बन्धान्मोक्षोऽपीत्यर्थः । बन्धको भवपाशेन भवपाशाच्च मोचकः इत्याद्युक्तेः ।
कथं तस्य मोचकत्वमित्याकांक्षायां तदुपपादयति - तथाहीति ।
तथाहि अपरोक्षज्ञानानन्तरं परमभक्तिर्जायते । ततोऽत्यर्थप्रसादः ।। ५२९ ।।
परमभक्तिर्जायत इति ।
स्वोदयात्फलदं ज्ञानमादेहं कर्म वा रवेः ।
इति न्यायविवरणोक्तेरिति भावः । परमभक्तित्वरूपमुक्तं जिज्ञासाधिकरणसुधायाम्– परमेश्वरभक्तिर्नाम निरवधिकानंतानवद्यकल्याणगुणत्वज्ञानपूर्वकः स्वात्मात्मीयसमस्तवस्तुभ्योऽनेकगुणाधिकोऽन्तरायसहस्त्रेणाप्यप्रतिबद्धो निरन्तरप्रेमप्रवाह इति । न चासौ तत्साक्षात्कारमन्तरेणोत्पद्यत इति च ।
ततोऽत्यर्थप्रसाद इति-
जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ।
इति जिज्ञासाधिकरणानुव्याख्यानोक्तेः ।
यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेणेति श्रुतेः ।
भाष्येऽपि-
प्रसादात्त्वधमाद्विष्णोः स्वर्गलोकः प्रकीर्तितः ।
मध्यमाज्जनलोकादिरुत्तमस्त्वेव मुक्तिदः ।। इति ।
अत्र परमात्मप्रसादानामुत्तमत्वादिकन्तु फलोत्तमत्वादिनोपचारात् । प्रसादो नामेच्छाविशेषो गुणान्तरं वेति तत्रैव सुधायामुक्तम् । परमभक्तिप्रसादादीनां मोक्षसाधनत्वमुक्तं सुधायाम् । अतो जिज्ञासा निदिध्यासनपरमेश्वरानु- ग्रहतद्दर्शनपरमभक्तिपरमानुग्रहद्वारा मोक्षसाधनत्वात्कर्तव्येति ।
तस्मादिति-
तस्मात्प्रकृत्यविद्यादिभ्यो मोक्षः ।। ५३० ।।
अपरोक्षज्ञानादेः सकाशादित्यर्थः । नन्वज्ञानादिबन्धस्य जीवाश्रितत्वेऽपरोक्षज्ञानस्यान्तःकरणपरिणामरूपत्वेनान्तःकरणवृत्तित्वात्कथं तयोर्निवर्त्यनिवर्तकभावः । समानाधिकरणत्वाभावादिति चेन्न । अन्तःकरणस्यापि जीवाश्रितत्वेनापरोक्षज्ञानात्मना परिणतस्यापि जीवसम्बन्धसम्भवात् । यथा तप्ताय: पिण्डसम्बद्धाग्नेः पिण्डसम्बद्धवस्त्रादिदाहकत्वं तद्वत् ।
तदुक्तं प्रथमस्कन्धतात्पर्ये-
प्रकृतिं स्वात्मसंश्लिष्टां गुणान्सत्वादिकानपि ।
कर्माणि सूक्ष्मदेहं च जायमाना हरेर्दृशिः ।।
दहेत्तथाऽपि सन्दग्धेन्धनवच्च पुनः पुनः ।
यावदारब्धकर्म स्यादाविर्वाऽपि तिरोव्रजेत् ।। इति ।
नचाज्ञानमन्तःकरणाश्रितम् । न जीवाश्रितम् । तस्य स्वप्रकाशरूपत्वादिति वाच्यम् । स्वप्रकाशस्यापीश्वरेच्छयाऽविद्यावरणसम्भवात् । तदुक्तं जिज्ञासाधिकरणसुधायाम् तच्च स्वप्रकाशस्यापि जीवस्य परमेश्वरेच्छया परमेश्वरे स्वधर्मेषु चाज्ञानं सम्भवत्येवेति ।
मोक्षं विभजति - चतुर्विध इति ।
स चतुर्विधः कर्मक्षयः उत्क्रान्तिः अर्चिरादिमार्गो भोगश्चेति ।। ५३१ ।।
तदुक्तमुत्क्रान्तिपादीयानुव्याख्याने-
कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ।
फलं मोक्ष इति प्रोक्तः क्रमात्पादेषु चोदितः ।। इति ।
कर्मक्षयं निरूपयति- अपरोक्षज्ञाने जात इति ।
कर्मक्षयस्त्वपरोक्षज्ञाने जाते सञ्चितस्य सर्वस्यापि पापस्यानिष्टस्य पुण्यस्य च सर्वात्मना विनाशः । विनाशो नाम अनिष्टपुण्यस्य कस्य चित्सुहृद्भ्यो दानम् । पापस्य कस्य चिद्वेषिभ्यो दानम् । केषाञ्चित्स्वरूपत एव नाशः।।५३२।।
अन्यथा कर्मणामनन्तत्वेन भोगेन विना नाशायोगात् । भोगकालेऽप्यनेकमानुषादिशरीराऽपादककर्मणां करणादसमाप्तिप्रसङ्गात् ।
तदुक्तं गीताभाष्ये-
जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु ।
स्त्री वाऽप्यनूनदशकं देहं मानुषमार्जते ।।
चतर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः ।
अतोऽवित्त्वा परं देवं मोक्षाशा का महामुने ।। इति ।
भाष्यकृष्णामृतमहार्णवयोरपि-
आचतुर्दशमाद्वर्षात्कर्माणि नियमेन तु ।
दशावराणां देहानां कारणानि करोत्ययम् ।। इति ।
अतोऽपरोक्षज्ञानेन सञ्चितस्य नाशो वक्तव्य एव । तत्र प्रमाणानि पूर्वमेवोदाहृतानि । अनिष्टपुण्यस्येत्यादि । अत्र प्रमाणं पूर्वमेवोक्तम् ।
नन्वपरोक्षज्ञानेन कर्मणां विनाशे सद्य एव मोक्षः स्यात् । न च प्रारब्धकर्मणामविनष्टत्वान्न सद्यो मुक्तिरिति वाच्यम् । तर्हि प्रतिबन्धकसद्भावान्न कदाऽपि मोक्षः स्यादित्याशङ्कय भोगेन नाश इत्याह- प्रारब्धकर्मणस्त्विति ।
प्रारब्धकर्मणस्तु भोगेनैव नाशः ।। ५३३ ।।
नन्वेवं प्रारब्धकर्मणामप्यनन्तत्वे भोगेनापर्यवसानं स्यादित्यतो ब्रह्मादिमानुषान्तं प्रारब्धानां मर्यादामाह - ब्रह्मण इत्यादिना ।
ब्रह्मणः शतब्रह्मकल्पपर्यन्तं पुण्यं प्रारब्धफलस्य सत्यलोकाधिपत्यादेरनुभवः । गरुडशेषयोः पञ्चाशद्ब्रह्मकल्पपर्यन्तं पुण्यपापरूपप्रारब्धस्यानुभवः । इन्द्रकामयोर्विंशतिब्रह्मकल्पपर्यन्तं पुण्यपापप्रारब्धानुभवः । सूर्यचन्द्रादीनां देवानां दशकल्पपर्यन्तं प्रारब्धानुभवः । अन्येषां मनुष्योत्तमानां त्वेकब्रह्मकल्पमात्र इति । । ५३४ ||
तदुक्तं कर्मक्षयपादीयानुव्याख्याने-
ब्रह्मणां शतकालात्तु पूर्वमारब्धसङ्घयः ।
ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद्ब्रह्मणस्तथा ।
रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ।
अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्ख्यः ।। इति ।
भाष्येऽपि–
ब्रह्मणां शतकालात्तु पूर्वमारब्धसङ्क्षयः ।
नियमेन भवेन्नात्र कार्या काचिद्विचारणा ।। इति ।
द्वितीयतात्पर्येऽपि–
वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा ।
विधूय सर्वपापानि यान्ति किंस्तुघ्नकेशवम् ।। इति ।
न्यायविवरणेsपि-
प्रारब्धकर्मशेषस्तु विरजातरणावधिः ।। इति ।
ननु चतुर्थस्कन्धतात्पर्ये-
तथैव चत्वारिंशद्भिः पदं शैवं च जन्मभिः ।। इति ।
रुद्रस्य चत्वारिंशद्ब्रह्मकल्पेषु प्रारब्धानुभवोक्तेर्विरोध इति चेन्न । शते पञ्चाशन्यायेनोपपत्तेरिति । एवमेवोक्तं चतुर्थतात्पर्यप्रकाशिकायाम् ।।
इदानीं देहलयाधिकारिव्यतिरिक्तानां देहादुत्क्रान्तिमार्गौ निरूपयिष्यन् पीठिकामारचयति– प्रारब्धानुभवानन्तरमिति । ब्रह्मनाड्येति ।
प्रारब्धानुभवानन्तरं च ब्रह्मनाड्या देहादुत्क्रमन्ति ।। ५३५ ।।
शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वगन्या उत्क्रमणे भवन्ति ।। इति श्रुतेः ।
द्वितीयस्कन्धतात्पर्येsपि-
उदानगत्या ब्रह्मनाड्या । अथैकयोर्ध्व उदान इति श्रुतेः ॥
प्राणापानाविडायां च पिङ्गलायां च वर्ततः ।
व्यान: सिन्धुषु सर्वत्र उदानो ब्रह्मनाडिगः ।
सर्वत्रैव समानस्तु समं चरति सर्वग ।। इति ।
ननु षट्प्रश्नटीकायां एकया नाड्या सुषुम्नयोर्ध्वश्चरतीति सुषुम्नानाड्योर्ध्वगतेरुक्तेः कथं ब्रह्मनाड्योर्ध्वगतिरित्यत आह- सुषुम्नानाडीति ।
सुषुम्नानाडी ब्रह्मनाडी ।। ५३६ ।।
तथा च सुषुम्नानाड्या एव ब्रह्मनाडीति संज्ञा । ब्रह्मप्राप्तिसाधनत्वादिति भावः ।
तदुक्तं तन्त्रसारे-
मध्ये सुषुम्ना विज्ञेया वज्रिकाऽऽर्या प्रकाशिनी ।
वैद्युता ब्रह्मनाडीति सैव पञ्चप्रभेदिनी ।। इति ।
भाष्येऽपि-
तत्र श्वेतः सुषुम्नो ब्रह्मयान इति । नाड्या देहादुत्क्रमणं च मस्तक- मध्यस्थब्रह्मरन्ध्रेण बोध्यम् ।
तदुक्तं भाष्ये-
हृदिस्थेनैव हरिणा तस्यैवानुग्रहेण तु ।
उत्क्रान्तिर्ब्रह्मरन्ध्रेण तमेवोपासतो भवेत् ।। इति ।
सुषुम्नानाडीस्थानमाह— सेति ।
सा मूलाधारमारभ्य मूर्धपर्यन्तमृजुरूपेण दीर्घशलाकावदेहे वर्तते ।। ५३७ ।।
तदुक्तं तन्त्रसारे-
मूलाधारं समारभ्य त्वामूर्धानमृजुस्थिता । मध्ये सुषुम्ना विज्ञेया । इत्यादि ।।
सैवेति-
सैव पञ्चभेदिनी ।। ५३८ ।।
इडा च पिङ्गला चैव वज्रिका धारिणी तथा ।
सुषुम्नायाश्चतुर्दिक्षु वज्रिकाद्यासु तत्र च ।। इति ।
इडादिनामभेदेन वज्रिकार्यादीनामेवोक्तेरिति भावः ।
छान्दोग्यभाष्येऽपि–
स एष हृदि नाडीषु पञ्चरूपः प्रतिष्ठितः ।
नारायणाख्यं सौषुम्नमध्यस्थं रक्तवर्णकम् ।।
शुक्लं तु वासुदेवाख्यं नादिन्यामग्रतः स्थितम् ।
पिङ्गलायां पिङ्गलं च रूपं सङ्कर्षणाभिधम् ॥
पश्चिमे वज्रिकायां च पीतप्रद्युम्ननामकम् ।
इडायामनिरुद्धाख्यं नीलरूपं व्यवस्थितम् ।।
इति पञ्चनाडीनां नामान्तराण्युक्तानि । द्वितीयतात्पर्येऽप्येवमेवोक्तं द्रष्टव्यम् ।
सुषुम्नानाड्योत्क्रान्तानां केषाञ्चित्परमात्मप्राप्तिः केषाञ्चिद्वायुद्वारा चतुर्मुख- प्राप्तिरिति वक्तुं तेषां स्वरूपं विभज्य दर्शयति । तथा ज्ञानिनोऽपीति ।
तथा ज्ञानिनो द्विविधाः । प्रतीकालम्बना अप्रतिकालम्बनाश्चेति । देहादिप्रतीकेऽपरोक्षज्ञानवन्तः प्रतीकालम्बनाः । तदन्यत्रापरोक्षज्ञानवन्तोऽप्रतीकालम्बनाः । अप्रतीकालम्बनानां देवादिव्यतिरिक्तानां केषाञ्चित्सुषुम्नानाडीमध्यादुत्क्रमणम् । तत्काले हृदयस्याग्रं प्रद्योतते । तत्प्रकाशितद्वारो निष्क्रामति । तदा प्राज्ञेनान्वारूढो भवति । तत्परमात्मनोऽग्रतो वायुर्गच्छति । तथाऽर्चिरादिमार्गेण गमनं भवति ।। ५३९ ।
तत्र प्रमाणं तु पूर्वमेवोक्तम् व्याप्तापरोक्षज्ञानप्रकरणे ।
तत्काले हृदयस्येति । तदुक्तं बृहद्भाष्ये-
हृदयस्थेन रूपेण तदा जीवो न किञ्चन ।
जानातीति विदुः प्राज्ञास्तदा विष्णोः स्वतेजसा ।।
द्योतते हृदयाग्रं च तेन द्वारेण केशवः ।
निष्क्रामेज्जीवमादाय प्राण एनमनुव्रजेत् ।
प्राणमन्ये तथा देवा विद्या कर्म च योग्यता ।। इति ।
तथा सूत्रे भाष्ये च- ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्या- सामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ । उत्क्रान्तिकाले हृदयस्याग्रे ज्वलनं भवति । तत्प्रकाशितद्वारो निष्क्रामति । विद्यासामर्थ्यादिति । प्राज्ञेनात्मनाऽन्वारूढ उत्सृज्यद्यातीति श्रुतेश्च । तत्र तत्र लोकेषु पूजा चेति-
तत्र तत्र लोकेषु पूजा च भवति ।। ५४० ।।
तदुक्तं बृहद्भाष्ये - इदं मुक्तजीवस्वरूपमायाति । अतोऽनेन सहेदं परं ब्रह्माऽयातीति परब्रह्मणः पूजार्थं प्रतिकल्पन्ते । यथा राज्ञो ध्वजादिकं दृष्ट्वाऽयं ध्वज आगच्छति तस्माद्राजाऽऽयातीति पूजां प्रतिकल्पन्ते तद्वत् ।
यदा मुक्तो व्रजत्यूर्ध्वं तदा तत्सहितो हरिः ।
नियमाद्दृश्यते देवैरमुक्ते नियमो न तु ।
यथा ध्वजादिकं दृष्ट्वा पूजां राज्ञः प्रकुर्वते ।
एवं विमुक्तिगं दृष्ट्वा विष्णोः पूजाः प्रकुर्वते ।। इति ।
वैकुण्ठलोकप्राप्तिरिति-
ततः क्रमेण वैकुण्ठलोकप्राप्तिः ।। ५४१ ।।
तदुक्तं भाष्ये-
अप्रतीकाश्रया ये हि ते यान्ति परमेव तु ।
स्वदेहे ब्रह्मदृष्ट्यैव गच्छेद्ब्रह्मसलोकताम् ।। इति ।
तुरीयनामकभगवत्प्राप्तिरिति-
तत्र तुरीयनामकभगवत्प्राप्तिश्च ।। ५४२ ।।
तदुक्तं माण्डूकभाष्ये-
विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः ।
मुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते ।। इति ।
प्रतीकालम्बनानां विशेषमाह— प्रतीकेति ।
प्रतीकालम्बनानां त्वन्तकाले नियमतो भगवत्स्मरणं जायते ।। ५४३ ।।
अन्तकाल इति । तदुक्तं गीतायाम्-
अन्तकालेऽपि मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ।।
यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ।। इति ।
नचान्तकाले ज्ञानिनामपि भगवत्स्मरणमस्त्येवातो न ज्ञानिनो विशेष इति वाच्यम् । असिद्धेः । यस्य प्रारब्धकर्मावसानं तस्यैवान्ते नारायण- स्मृतिः । तत्सत्त्वे ज्ञानिनामपि नास्त्येव ।
तदुक्तं गीताभाष्ये-
ज्ञानिनां कर्मयुक्तानां कायत्यागक्षणो यदा ।
विष्णुमाया तदा तेषां मनो बाह्यं करोति हि ।। इति ।
गीतातात्पर्येऽपि— ज्ञानिनामप्यन्तकालेऽप्यन्यमनसां प्रारब्धकर्मभावा- ज्जन्मान्तरम् । प्रारब्धकर्मनाशकाले नियमेन भगवत्स्मृतिर्भवतीति ।
षष्ठतात्पर्येऽपि-
अजामिलोऽपि स्मरणाद्भक्त्या मृत्योरमुच्यत ।। इति ।
सुषुम्नानाडीपार्श्वस्थनाड्येति-
सुषुम्नानाडीपार्श्वस्थनाड्या भगवत्प्रकाशयुक्तद्वारा गमनम् ॥५४४ ॥
तदुक्तं बृहद्भाष्ये-
विष्णोर्लोकं परं गच्छन्नुत्क्रामेन्मूर्ध्न एव तु ।
तथैव ब्रह्मणो लोकं सुषुम्नाया विभेदतः ।। इति ।
अर्चिरादिलोकप्राप्तिरिति-
अर्चिरादिलोकप्राप्तिः । क्रमेण वायुलोकप्राप्तिः । वायुलोकप्राप्त्यनन्तरं च वायुरेव चतुर्मुखलोकं नयति ।। ५४५ ।।
तदुक्तं सूत्रे भाष्ये च- ॐ अर्चिरादिना तत्प्रथितेः ॐ । तेऽर्चिषमभिसंविशन्ति । अर्चिषोऽहरह्न आपूर्यमाणपक्षमिति छान्दोग्यश्रुतेश्च ।।
उत्क्रान्तस्तु शरीरात्स्वाद्गच्छत्यर्चिषमेव तु ।
ततो हि वायोः पुत्रं च योऽसौ नाम्नाऽऽतिवाहिकः ।।
ततोऽहः पूर्वपक्षं चाप्युदक् संवत्सरं तथा ।
तटितं वरुणं चैव प्रजापं सूर्यमेव च ।।
सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा ।
ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम् ।। इति ।
गीतायामपि-
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।। इति ।
गीताभाष्ये तु– अभिमानिदेवताश्चाग्यादयः ।।
दिवादिदेवताभिस्तु पूजितो ब्रह्म याति हि ।
पूजितस्त्वयनेनासौ मासैः परिवृतेन हि ।।
साह्ला मध्यंदिनेनाथ शुक्लेन च सपूर्णिमा ।
सविष्वा चायनेनासौ पूजितः केशवं व्रजेत् ।। इति ।
वायुरेव चतुर्मुखलोकं नयतीति ।
तत्पुरुषो मानवः स एनान्ब्रह्म गमयतीति श्रुतेः ।।
भाष्येऽपि-
विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापरः ।
कुतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम् ।। इति ।
ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ इति सूत्रोक्तेश्च ।
सृष्टिस्थितिसंहारादिप्रकरणे मोक्षप्रकरणम्
स च स्वशरीरेति-
स च स्वशरीरलयानन्तरं वैकुण्ठं नयति ।। ५४६ ।।
तदुक्तं भाष्ये-
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।।
परस्यान्ते परात्मानः प्रविशन्ति परं पदमिति । ते ब्रह्माणमभिपद्य यदैतद्विलीयतेऽथ सह ब्रह्मणा परमभिगच्छन्तीति ।
न्यायविवरणेऽपि–
यान्ति देवं परं केचित्पूर्वं केलिये विभुम् ।
योग्यतातारतम्येन विशेषोऽयमपीष्यते ।।
क्रमानुरागी भगवान्क्रमात्पुंभिरवाप्यते ।
अतः क्रमात्समृद्धे तु ज्ञाने ब्रह्मलये नरैः । प्रा
प्यते नियमेनैव कैश्विदेवाप्यते मृतौ ।। इति ।
द्वितीयतात्पर्येऽपि-
विष्णोर्लोकं तदैवैके यान्ति कालान्तरे परे ॥
आज्ञयैव हरेः केचिदपूर्तेः केचिदञ्जसा ।।
विहृत्यैवान्यलोकेषु मुच्यन्ते ब्रह्मणा सह ।। इति ।
एकगुणोपासकानां नोत्क्रमणमित्याह-एवमेकगुणेति ।
एवमेकगुणोपासकानामपरोक्षज्ञानानन्तरं न शरीरादुत्क्रमणम् । किन्तु शरीरस्य वैतीभावेनोच्छूनता जायते । ततः क्रमेण शरीरस्य विनाशः । तेषां च पृथिव्यादावेवावस्थानम् ।। ५४७ ।।
तदुक्तं बृहद्भाष्ये-
केचित्तु मानुषा मुक्तिमनुक्रम्यैव देहतः ।।
देहपाते तु देहस्य दोषान् भुक्त्वैव सर्वशः ।।
मरणोच्छूनतादींश्च स्वकीयारब्धकर्मजान् ।।
देहे क्षीणे तु गच्छन्ति दृष्ट्वा विष्णुमनुज्ञया ।।
पुनरत्रैव तिष्ठन्ति नित्यानन्दैकभोगिनः ।। इति ।
भाष्येऽपि-
केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ।। इति । इमामारभ्य पृथिवीम् । इति च ।
छान्दोग्यभाष्येऽपि-
श्वेतद्वीपं ततो गत्वा दृष्ट्वा विष्णुं च ते ततः ।
अनुज्ञाताः प्रमोदन्ते निर्दुःखास्तु धरादिषु ।। इति ।
सर्वेषामपि ज्ञानिनामुपदेशनियमं ज्ञानविशेषनियमं चाह-सर्वेषामपीति ।
सर्वेषामपि सत्यलोके चतुर्मुखोपदेशः ।। ५४८ ॥
चतुर्मुखोपदेशे प्रमाणन्तु – उपासनापादीयानुव्याख्यानम्-
उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ।। इति ।
चतुर्थतात्पर्येऽपि -
मुमुक्षवो ब्रह्मणश्च शिवादिन्द्रादिभिस्तथा ।
श्रुत्वा ज्ञानं परं गुह्यं मुच्यन्ते ब्रह्मणा सह ।। इति ।
षट्प्रश्नभाष्येऽपि-
प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च ।
ज्ञानं चतुर्मुखात्प्राप्य मुच्यते नात्र संशयः ।। इति ।।
नन्वेवं प्रणवोपासकानामेव चतुर्मुखोपदेशोऽत्रोच्यते न तु सर्वेषामपि । प्रणवोपासना च यतीनामेव ।
तदुक्तं मध्वविजये-
अनन्ततमात्रान्तमुदाहरन्ति यं त्रिमात्रपूर्वं प्रणवोच्चयं बुधाः ।
तदाऽभवद्भाविचतुर्मुखाकृतिर्जपाधिकारी यतिरस्य सूचितः ।। इति ।
गीतातात्पर्येऽपि-
बुद्ध्या विहिंसन्पुष्पैर्वा प्रणवेन समर्चयेत् । वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः ।। इति ।
अतो न सर्वेषां चतुर्मुखोपदेशनियम इति चेन्न । प्रणवोपासकानामेवेति नियमे साधकाभावात् ॥
उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ।।
इत्यनुव्याख्यानबलेन गृहस्थानां सन्यासिनां च चतुर्मुखोपदेशस्याऽवश्यकत्वात् । न चापरोक्षज्ञानिनामेव सत्यलोकप्राप्त्या चतुर्मुखोपदेशो वक्तव्यः । अन्यथा
ईयुस्त्रीन्कर्मणा लोकान्ज्ञानेनैव तदुत्तरान् ।।
इति गीताभाष्यादिविरोधप्रसङ्गात् । अपरोक्षज्ञानं च सन्न्यासिनामेव न तु गृहस्थानाम् । ‘“सन्यासयोगाद्यतयः शुद्धसत्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्व” इति श्रुतेः । ज्ञानद्वारो यतो न्यास इत्यादिस्मृतेश्चेति वाच्यम् ।
ब्रह्माद्या याज्ञवल्क्यान्ता मुच्यन्ते स्त्रीसहायिनः
देवाः सजाया मुच्यन्ते मानुषास्तूभयात्मकाः ।।
इति बृहद्भाष्यादिविरोधप्रसङ्गात् । गीताभाष्यबृहद्भाष्यादावपि- गृहस्थानामपि ज्ञानमुक्तम् । तस्य पुत्रा दायमुपयन्तीत्यादिश्रुतेः । यत्याश्रमस्तु प्रायत्यार्थो भगवत्तोषणार्थश्च । आधिकारिकास्तु तत्स्था एव प्रायत्ये समर्थाः । देवादीनामाधिराज्ञां महोद्योगेऽपि नो मनः । विष्णोश्चलति तद्भोगोप्यतीव हरितोषणमित्याद्युक्तम् । केचित्तु ब्रह्मादिसर्वजीवानामप्ये- कस्मिन्नेव जन्मनि यत्याश्रमो नियत एव । चतुर्मुखस्य वायुत्वावस्थायां नियमेन मध्वावतारे यत्याश्रमस्य दर्शनम् । शेषस्य रुद्रत्वावस्थायां दुर्वासावतारे सन्यासित्वदर्शनात् । अतस्तदन्येषामपि यत्याश्रमो नियत एवेत्याहुः । श्वेतद्वीप इति-
श्वेतद्वीपे वासुदेवदर्शनम् ।। ५४९ ।।
तदुक्तं भाष्यगीताभाष्ययोः-
बहुनात्र किमुक्तेन यावच्छ्वेतं न गच्छति ।
योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः ।। इति ।
एकगुणोपासकानामपि श्वेतद्वीपे वासुदेवदर्शनमुक्तं छान्दोग्यभाष्ये-
श्वेतद्वीपं ततो गत्वा दृष्ट्वा विष्णुं च ते ततः ।
अनुज्ञाताः प्रमोदन्ते निर्दुःखास्तु धरादिषु ।। इति ।
सृष्टिस्थितिसंहारादिप्रकरणे मोक्षप्रकरणम्
शिंशुमारदर्शनमिति–
ध्रुवलोकस्थशिंशुमारदर्शनं च नियतम् ।। ५५० ।।
तदुक्तं द्वितीयतात्पर्ये—
अशेषजगदाधारः शिंशुमारो हरिः परः ।
सर्वे ब्रह्मविदो नत्वा ते यान्ति परमं पदम् ।। इति । तमोयोग्यानां मुक्तिप्रकारमाह - तमोयोग्यनामपीति ।
तमोयोग्यानामपि द्वेषपरिपाकानन्तरं देहादुत्क्रमणं भवति । सर्वेषां कलिप्राप्तिः ।। ५५१ ।।
निर्णये-
मुक्तास्तु मानुषा देवान् देवा इन्द्रं स शङ्करम् ।
स ब्रह्माणं क्रमेणैव तेन यान्त्यखिला हरिम् ।
उत्तरोत्तरवश्याश्च मुक्ता रुद्रपुरस्सराः ।। इति ।
देवानामुत्तरोत्तरवश्यत्वमुक्त्वा दैत्यानामपि,
असुराः कलिपर्यन्ता एवं दुःखोत्तरोत्तराः ।
कलिर्दुःखाधिकस्तेषु तेऽप्येवं ब्रह्मवद्गणाः ।।
इत्युत्तरोत्तरवश्यत्वोक्तेः ।
तेषां देहलयस्य क्वाप्यनुक्तत्वेनोत्क्रान्तेरेव सिद्धेः ।
कलेस्त्विति-
कलेस्तु ब्रह्मणा सह लिङ्गभङ्गो वायुगदाप्रहाराद्भवति ।। ५५२ ।।
प्रतिदिनं दुर्योधनादिरूपेण हरिगुरुद्वेषाऽधिक्यसम्पादनेन तमसि दु:खबाहुल्यानुभवाय ब्रह्मणा सह लिङ्गभङ्गस्य न्याय्यत्वादित्यर्थः । वायुगदाप्रहारादिति । एतच्च गरुडपुराणादिनाऽवगन्तव्यम् ।।
सङ्कर्षणमुखज्वालादग्धं भूमण्डलं यदा ।
वायोर्गदाप्रहारेण तदा तल्लिङ्गभञ्जनम् । इति विष्णुरहस्ये ॥
अत्र न सर्वेषां परान्तकाल एव तम: प्राप्तिरिति नियमः । किन्तु ब्रह्मणः प्रतिदिनं मन्थरादिदैत्यानां तमः प्राप्तेर्निर्णयादावुक्तेः । तथाहि-
मन्थरा तु तमस्यन्धे पातिता दुष्टचारिणी ।
तेन चान्धतम ईयुरासुरा यज्ञमाह्वयदसौ च मैथिलीम् ।।
इति सुराणकदैत्यानां तमः प्राप्तिरुक्ता ।
जघान गदया युक्तस्तत्क्षणात्स विडूरथम् ।
विडूरथस्तमोऽगच्छद्दंतवक्रे च योऽसुरः ।।
इति विडूरथादेस्तम:प्राप्तिरुक्ता । अपतत्केशवद्विट् । जरासुतोऽन्धे तमसि क्रमेणेति जरासन्धस्य तमःप्राप्तिरुक्ता ।।
तमाश्रितश्च योऽसुरो महातमः प्रपेदिवान् ।। इति ।
शिशुपालाऽविष्टासुरस्य तमःप्राप्तिरुक्ता ।
ततोऽन्धमेव तत्तमो हरिद्विडेति निश्चयात् ।। इति ।
हंसडिबिकादीनामपि तमः प्राप्तिरुक्ता ।
वचांसि चास्य स्वीचक्रुराश्वेव जिनादिदैत्याः । ते ज्ञानधर्मावपहाय पापा विमोहिता देववरेण सर्वे ।।
जग्मुस्तमोन्धं क्षणिकं समस्तं ज्ञानं न सच्चेति दृढं स्मरन्तः ।। इति जिनादिदैत्यानां तमः प्राप्तिरुक्ता ।
तथा–
चतु:सहस्त्रे त्रिदशोत्तरे गते संवत्सराणां तु कलौ पृथिव्याम् ।
जातः पुनर्विप्रतनुः स भीमो दैत्यैर्निगूढं हरितत्त्वमाह ।
तदैव कृष्णाऽपि भुवि प्रजाता प्रीत्यै हरेरन्धतमस्यपातयत् ।।
महासुरानिति । मध्वावतारे द्रौपद्या दैत्यानामन्धतमःप्राप्तिरुक्ता ।।
सुयोधनाद्या यदि मे सुपापा आरब्धपुण्यक्षयमाप्य नित्यम् ।
निःशेषसौख्योज्ज्ञितनित्यदुःखेऽवशाः पतिष्यन्त्यपुनर्निवृत्ताः ।।
इति पुण्यभोगानन्तरं दुर्योधनादीनां तमः प्राप्तिरुक्ता ।। एवमन्येषां तत्र तत्रेदानीमेव तम:प्राप्तिरुक्ता । अतो दैत्यानां ब्रह्मप्रलय एव तमः प्राप्तिरिति न नियमः ।
नन्वेवं ब्रह्मणः प्रतिदिनं रामकृष्णाद्यवताराणामावश्यकत्वात्तत्र सुराणकमन्थरा जरासन्धहंसडिबिकशिशुपालदुर्योधनादिजिनादिदैत्यानामुत्पत्त्यभावेऽवतारवैयर्थ्यमेव स्यात् । न चान्ये कलिजरासन्धादय इति वाच्यम् । एकस्मिन्नेव ब्रह्मकल्पेऽनेककल्पादिपदयोग्यानां सद्भाव उत्पत्तौ च प्रमाणाभावात् । तेऽप्येवं ब्रह्मवद्गणा इत्यतिदेशबलाद्ब्रह्मादिवदेव तेषामेकैकस्मिन्ब्रह्मकल्पे एकैकस्योत्पत्तितमः साधनपूर्तितमः प्राप्तीनामावश्यकत्वात् । किञ्च भेजे खगेन्द्रध्वजपादमूलमिति परीक्षितो राज्ञो वैकुण्ठलोकप्राप्तेरुक्तत्वेन तस्यापीदानीमेव मुक्तिप्रसङ्गात् । तथा केषाञ्चिद्भक्तानां युद्धादिकाले रामकृष्णाद्यवतारदर्शनान्मुक्तिं गता इत्युक्तत्वेन तेषामपि ब्रह्मणा सह मुक्तिर्न स्यादिति चेत् । अत्र केचित् । प्रतिदिनं मन्थराजरासन्धाद्या भिन्नभिन्ना एवोत्पद्यन्त इत्याहुः । तन्न । प्रमाणाभावादित्युक्तत्वात् । वयं तु ब्रूमः । मन्थरादय एकांशेन तमःप्राप्ताः । अन्यांशेन मूलरूपं प्राप्ताः सन्तः पुनः पुनः प्रतिदिनमंशेनोत्पत्स्यन्त इति । अन्यथा तमोन्धं गता इति भूतार्थकक्तप्रत्ययानुपपत्तेः । न च भेजे खजेन्द्रध्वजपादमूलमित्यत्राप्यतीतार्थकलिटा परीक्षिदादीनामपि मोक्षः स्यादिति वाच्यम् । तेषां साधनपूर्तेर्जातत्वेन मोक्षस्य निश्चिततया एष्यत्तु निश्चितं यत्तदतीतत्वेन भण्यत इति प्रमाणबलेनातीतव्यवहारोपपत्तेः । वैकुण्ठलोकेऽमुक्तस्थानवासाभिप्रायेण वा तदुपपत्तेश्च । न च मन्थरादीनामपि साधनपूर्त्यभिप्रायेण वाऽनित्यनरकाभिप्रायेण वा तद्व्यपदेश:स्यादिति वाच्यम् । विशेषप्रमाणाभावात् । परीक्षिदादौ तु विशेषप्रमाणसद्भावात् । तथाहि निर्णये-
अन्ये तु देवांशभवाः समस्ताः स्वमूलरूपैक्यमवापुराशु ।
देवांशजा ये तु समस्तशस्ते स्वमूलरूपं समवाप्य काले ।।
स्वतारतम्यानुसृतां विमुक्तिं प्राप्स्यन्ति नात्रापि विचार्यमस्ति ।
पुनश्च ते स्थानमवाप्य सर्वे स्वीयं परान्ते तु विमुक्तिमाप्नुयुः ।। इति ।
दैत्यानां तु–
कर्मक्षयादेव सुरेतरास्तु पुण्यक्षयं प्राप्य भुवि प्रजाताः ।
चतु:सहस्त्रं त्रिदशोत्तरं गते संवत्सराणामनुभूय दिव्यान् ।।
भोगान्नरत्वेऽपि सदेश्वरोऽहमसज्जगच्चेति धियाऽऽनुवंस्तमः ।। इति ।
किञ्च परीक्षितो वैकुण्ठलोकात्पुनर्भूलोकप्राप्तिरुक्ता निर्णये-
तेषां प्रदत्तेष्वभिवाञ्छितेषु वैचित्रवीर्यः सह भार्ययैव ।
सम्मन्त्र्य निःशेषरणे हतानां सन्दर्शनं प्रार्थितवांस्तमीशम् ।।
ततस्तु ते सत्यवतीसुतस्य सर्वेश्वरस्याऽज्ञया सर्व एव ।
समागताः स्वर्गलोकात्क्षणेन दत्ता च दिव्या दूगमुष्य राज्ञः ।।
ऊषुश्च रात्रिं परमाज्ञयैव सर्वे स्वभार्यासहिता यथा पुरा ।
तृप्तः सदारो नृपतिश्च तत्र सर्वेऽपि दृष्ट्वा महदद्भुतं तत् ।।
अथाऽज्ञयैवास्य परस्य सर्वाः स्त्रियो निजेशैः सहिता ययुः स्वः ।
विनोत्तरां तां तु कथां निशम्य पारीक्षितोऽयाचत तादृष्टिम् ।।
तं चानयामास तदैव कृष्णो ह्यचिन्त्यशक्तिः स विकुण्ठलोकात् ।
दृष्ट्वा स पारीक्षित आप तुष्टिं स्वतातमीशेन समाहृतं पुनः ।।
सम्पूज्य तं कृष्णमपीशवन्द्यं क्षमापयामास परीक्षिदात्मजः ।। इति ।
नहि परीक्षितो लिङ्गभङ्गेन वैकुण्ठलोकप्राप्त्यङ्गीकारे पुनरागमनं युज्यते । न च मन्थरादीनामंशेन तमः प्राप्तिसत्त्वे लिङ्गभङ्गोऽस्ति न वा । नेतिपक्षे तमः प्राप्तिर्न स्यात् । लिङ्गभङ्गे चांशान्तरेण भूमावुत्पत्तिर्न स्यादिति वाच्यम् । सांशजीवानां लिङ्गशरीरस्यापि सांशत्वेन मन्थरादीनां लिङ्गभङ्गसम्भवात् । अंशान्तरेण भूमावुत्पत्तिसम्भवाच्च । अन्यथा वाय्वादीनामपि भीमार्जुनादिरूपेण भूमावुत्पत्तिर्न स्यात् । लिङ्गशरीराभावात् । अतो मन्थरादीनामंशेन तमःप्राप्तिर्युक्तैव ।।
नित्यसंसारिणां मुक्तिमाह—नित्यसंसारिणामपीति ।
नित्यसंसारिणामपि लिङ्गभङ्गः ।। ५५३ ।।
केचित्तु नित्यसंसारिणां न लिङ्गभङ्ग इति मन्यन्ते । तान्विपक्षे बाधकोत्त्या निराकरोति- अन्यथेति ।
अन्यथा तत्स्वरूपमात्रस्य कदाप्यनुभवाभावप्रसङ्गात् । साधनानुष्ठानवैयर्थ्यप्रसङ्गाच्च ।। ५५४ ।।
ननु नित्यसंसारिणां लिङ्गभङ्गाङ्गीकारे त्रिदिवनिरयभूगोचरान्नित्यबद्धानिति वायुस्तुतिविरोधः । मानुषा मध्यमा ये तु सृतियोग्याः सदैव हि । इति निर्णयविरोधः । मानुषा मिश्रमतयः सृतियोग्याः सदैव हि। इत्यनु– व्याख्यानविरोधः ।
उत्तमा मुक्तियोग्यास्तु सृतियोग्यास्तु मध्यमाः ।।
इति गीतातात्पर्यविरोधः । एवं नित्यावर्तास्तु मध्यमा इति तत्त्वसङ्ख्यानविरोधः । तथा च बहुप्रमाणविरोध इति चेत् । उच्यते । लिङ्गभङ्गाङ्गीकारेऽपि नित्यसंसारिणामेवंरूपत्वं युज्यत एव । तेषां सर्वदा सृतियोग्यत्वं नाम संसारावस्थायां यथा दुःखमिश्रसुखानुभवस्तथा लिङ्गभङ्गानन्तरमपि सुखमिश्रदुःखानुभव एव । तस्मात्सर्वदा सृतिगा इति व्यपदेशः । कदाप्यननुभूयमानस्वरूपसद्भावे प्रमाणाभावाच्च । मुक्तियोग्यस्य वैकुण्ठादिलोकवत्तमोयोग्यस्य तमोवन्नित्यसंसारिणां नियतस्थानाभावमात्रेणैव सर्वदा स्वर्गनिरयभूसञ्चारित्वेन च नित्यबद्धत्वव्यपदेशोपपत्तेश्च । इयांस्तु विशेषः । संसारे सुखानन्तरं दुःखं दुःखानन्तरं च सुखं मुक्तौ तु युगपदेव सुखदुःखमिश्रस्वरूपानुभव इति । तदुक्तं सूत्रे भाष्ये च । ॐ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॐ । व्यक्त्यनङ्गीकारे देवानां नित्योपलब्धिरानन्दादीनामसुराणां नित्यानुपलब्धिर्मनुष्याणां नित्योपलब्ध्यनुपलब्धी प्रसज्येते इति त्रयाणामावरणमभिधाय मोचकज्ञानमुक्तम् ।।
विज्ञानेनात्मयोग्येन निजरूपे व्यवस्थिति: ।
सम्यज्ज्ञानं तु देवानां मनुष्याणां विमिश्रितम् ।
विपरीतं तु दैत्यानां ज्ञानस्यैवं व्यवस्थितिः ।। इति ।
टीकायामपि यदि जीवस्वरूपस्याऽनन्दादिरूपत्वमङ्गीकृत्यावरणाभावाव्यक्तिरावरणनिवृत्तिर्मोक्षे नाङ्गीक्रियते तर्हि देवादीनां मोक्षयोग्यानां नित्यमानन्दाद्यनुभवः स्यात् । असुरादीनां न कदाप्यानन्दाद्यनुभवः स्यात् दुःखाद्यनुभव एव भवेत् । मध्यममानुषाणां च नित्यमानन्दादीनामुपलब्धिः केवलतदुपलब्ध्यभावो दुःखाद्युपलब्धिश्च समैव स्यात् । आवरणाभावेऽनुभवाभावायोगादिति । अतोऽस्त्येवाविद्यावरणं भगवत्प्रसादेन तन्निवृत्तिश्चेति भाव इति । तत्त्वप्रदीपिकायामपि नित्योपलब्धिसूत्रे साधनसम्पत्त्याऽऽवरणनिवृत्तिः सम्मता । तथाहि तद्वाक्यानि –
मुक्तियोग्या विनैव साधनसम्पत्त्या नित्यव्यक्ताऽनन्दा भवेयुः । तमोयोग्याः संसृतावपि सुखलेशहीना नित्यदुःखिनो भवेयुः । सृतियोग्या नित्यमिश्रा भवेयुरिति ।।
तथा चाऽवरणनिवृत्तिरभिप्रेता । माघमाहात्म्ये शाण्डिल्यतत्त्वेऽपि–
नित्यं सृतिस्था द्विविधाः स्वर्गमात्रैकभागिनः ।
पतमानास्तथा केचित्स्वर्गेषु नरकेषु च ।। इति ।
गरुडपुराणेsपि स्पष्टमुक्तो लिङ्गभङ्ग इति ।
नन्वर्चिरादिमार्गेण गतानां पुनरावृत्तिसद्भावे पुनः संसारित्वाऽपत्त्या साधनानुष्ठानवैयर्थ्यं स्यादित्यत आह- जनलोकमारभ्येति ।
जनलोकमारभ्योर्ध्वलोकं गतानां न पुनरावृत्तिः ।। ५५५ ।।
स्वर्गं गतानां जनानां क्षीणे पुण्ये मत्यलोकं विशन्तीत्यादिश्रुतिभिः पुनरा- वृत्तिसत्त्वात् । महर्लोकगतानामपि केषाञ्चित्पुनरावृत्तिः केषाञ्चिदनावृत्तिश्वोक्ता द्वितीयतात्पर्ये-
मन्वन्तरायुषः स्वर्ग्या महर्लोके तु काल्पिका: ।। इति ।
ईयुस्त्रीन्कर्मणा लोकान् ज्ञानेनैव तदुत्तरान् ।
तत्र मुख्या हरिं यान्ति तदन्ये वायुमेव तु ।।
अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा ।
स्थानमात्राऽश्रितास्ते तु पुनर्जनिविवर्जिताः ।। इति ।
एकादशतात्पर्येऽपि-
नित्यशो भगवद्रूपस्याऽपरोक्ष्येण दर्शनम् ।
मुहूर्तमात्रं ज्ञानं स्यान्महाज्ञानं ततोऽधिकम् ।।
ज्ञानेन ब्रह्मलोकः स्यान्महाज्ञानाद्धरेर्गतिः ।
सदैवाखण्डितं ध्यानं तप इत्युच्यते बुधैः ।।
अपरोक्षदृशा युक्तं नित्यं षण्मात्रकालया ।
अपरोक्षदृशा नित्यमेकमात्रयुजा युतम् ।।
योगनामा समुद्दिष्टं ध्यानं नित्यमखण्डितम् ।
तच्चतुर्भागया युक्तमपरोक्षदृशा युतम् ॥
पादयोगाख्यमुद्दिष्टं ध्यानं नित्यमखण्डितम् ।
पादयोगान्महर्लोको जनोलोकस्तु योगतः ।।
तपसस्तु तपोलोकः प्राप्यते नान्यतः क्वचित् ।। इति ।
जनलोकं गतानां तु ब्रह्मकल्पपर्यन्तमवस्थानं न पुनरावृत्तिः ।
आब्रह्मणो जनाद्यास्तु महर्लोकेऽपि ये वराः ।। इति तात्पर्योक्तेः ।
नन्वेवं जनलोकमारभ्याप्युपरि विद्यमाना लोका नापुनरावृत्तिमन्तः ।।
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्मन विद्यते ।।
इति गीतायां वैकुण्ठलोकमात्रस्यापुनरावृत्तिमत्त्वोक्तेरिति चेन्न । गीताभाष्येऽस्य श्लोकस्यान्यथाव्याख्यातत्वात् । तथाहि तत्र भाष्यम्— महामेरुस्थब्रह्मसदनमारभ्य न पुनरावृत्तिः ।। तच्चोक्तं नारायणगोपालकल्पे-आमेरुब्रह्मसदनादाजनान्न जनिर्भुवि ।। इति ।
तदर्थः प्रमेयदीपिकायामुक्तः - महामेरुस्थितेति परतः स्थितानाम् । एवं जनलोकमारभ्येत्यपि ग्राह्यम् । अनेनैवं व्याख्यातं भवति महामेरुस्थब्रह्मसदनं जनलोकं चाऽरभ्य न पुनरावृत्तिः । आब्रह्मभवनादेवमाजनाच्चार्वाक् भवा एव लोकाः पुनरावर्तिनः परे न पुनरावर्तिन इति ।। नन्वेवं जनलोकादौ विद्यमानानां देवानां भूमावंशेनोत्पत्तिविनाशदर्शनात्कथमाजनान्न जनिर्भुवीत्युक्तमिति चेन्न । अंशेनोत्पत्तिं लयं च विना वाय्वादीनां प्रलये पुनरावृत्तिं च विना मूलरूपे जन्माभावस्य विवक्षितत्वात् ।
तदुक्तं गीतातात्पर्ये-
नियमाज्जन्मनोऽभावो मुक्तस्यैव तथाऽपि तु ।
महर्लोकमतीतानां न जन्मांशलयौ विना ।
तत्राप्यवश्यं तत्स्थानं तैः क्षिप्रं पुनराप्यते ।। इति ।
नन्वेवं रैवतस्य राज्ञोऽर्चिरादिमार्गेण सत्यलोकं गतस्य पुनर्भूमिं प्रत्यागमनं निर्णयोक्तं कथम् । ब्रह्मवाय्वादिदेवानां द्वारकायां कृष्णकृतयज्ञे परिचर्याकरणं नारदादीनां पुनः पुनर्गमनागमनादिकं च निर्णयोक्तं कथमिति चेदुच्यते । ब्रह्मनाड्योत्क्रान्तानामर्चिरादिमार्गेण गतानामेव पुनरावृत्त्यभावस्य विवक्षितत्वात् । रैवतस्य ब्रह्मनाड्योत्क्रान्तत्वाभावात् । ब्रह्मवाय्वादीनामपि तथात्वाभावात् । अतो न विरोधः । नन्वेवमपि शुकाचार्योपदेशेनापरोक्ष- ज्ञानवतः सत्सङ्गत्यान्तकाले भगवत्स्मरणवतो गङ्गायां स्वकलेवरत्यागवतोऽर्चिरादिमार्गेण वैकुण्ठलोकं गतस्य परीक्षितः कथं व्यासाज्ञया पुनर्भूमावागमनं जनमेजयादीनां सन्दर्शनार्थं निर्णयोक्तमिति चेन्न । ईश्वराचिन्त्यशक्त्या पुनरागमनसम्भवात् । अत एव निर्णये । तदैव-
कृष्णो ह्यचिन्त्यशक्तिः स विकुण्ठलोकात् । इत्यचिन्त्यशक्तिरुक्ता ।
यद्वा चरमशरीरेऽर्चिरादिमार्गं गतानामेव पुनरावृत्त्यभावो विवक्षितः । परीक्षितस्तु पुनः पुनः प्रतिदिनं कृष्णावतारे भूमावुत्पत्तेरावश्यकत्वेन तच्छरीरत्यागस्य चरमशरीरात्यागरूपत्वात् । न च ब्रह्मणः प्रतिदिनं भिन्नभिन्न एव परीक्षिद्भविष्यतीति वाच्यम् । अनेकेषां परीक्षिदादीनां कल्पने प्रमाणाभावादित्युक्तत्वादित्यलम् ।
देवादिव्यतिरिक्तानां ब्रह्मनाड्योत्क्रमणमर्चिरादिमार्गश्चोक्तः । देवादीनां तु कथं मोक्ष इत्यत आह- देवादीनां त्विति ।
देवादीनां तु नोत्क्रमणं न वार्चिरादिमार्गः ।। ५५६ ।।
तदुक्तमुत्क्रान्तिपादीयानुव्याख्याने-
उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः ।। इति ।
नन्विन्द्रादिदेवानामर्जुनादिमानुषावतारे उत्क्रान्तिमार्गयोर्दर्शनात्कथमित्यत आह- मानुषादिषु जातानामिति ।
मानुषादिषु जातानां तूत्क्रमणं मार्गश्च भवति । तदा न मुक्ति: ।। ५५७ ।।
तदुक्तं तत्रैवानुव्याख्याने-
जातानां मानुषे लोके देवानां तु कदाचन ।
उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते ।। इति ।।
तर्हि कथं तेषां मुक्तिरित्यत आह-किन्त्विति ।
किन्तूत्तमेषु देहलयानन्तरमेव ।। ५५८ ।।
तदुक्तं तत्रैवानुव्याख्याने-
स्रष्टृष्वेव तु सृज्यानां प्रवेशो ब्रह्मणो लये ।
देवानां मार्ग उद्दिष्टो नार्चिरादिर्न चोत्क्रमः ।
लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ।
कथं मार्गो भवेत्तेषां विशतामुत्तमं स्वतः ।। इति ।
कस्य कस्य कस्मिन्कस्मिँल्लय इत्यतस्तदुपपादयति-- देहलयक्रमस्त्विति ।
देहलयक्रमस्तु मार्गौ द्वौ गरुडमार्गः शेषमार्गश्चेति ॥ ५५९ ॥
अत्र सर्वेषां देवानां गरुडमार्गशेषमार्गाभ्यामेव लयो न त्वव्यवस्थये- त्यभिप्रायेण सुधोक्तमार्गद्वयमनुवदति - मार्गों द्वाविति ।
गरुडमार्गप्रविष्टदेवानाह -तत्र गरुड इत्यादिना ।
तत्र गरुडः सौपर्णी इन्द्रो गुरुः सूर्योऽग्निरिति गरुडमार्गः । शेषो वारुणी कामोऽनिरुद्धः सोमो वरुण इति शेषमार्गः । अग्नेः सूर्ये लयः सूर्यस्य गुरौ लयः गुरोरिन्द्रे लयः इन्द्रस्य सौपर्ण्य लयः सौपर्ण्याश्च गरुडे लयः । एवं वरुणस्य सोमे लयः सोमस्यानिरुद्धे लयः अनिरुद्धस्य कामे लयः कामस्य वारुण्यां लयः वारुण्यास्तु शेषे लयः ।। ५६० ।।
अत्र गरुडमार्गशेषमार्गगतदेवानां सरस्वत्यां समावेशस्तस्याश्चतुर्मुखे लय इति विवेकः । गरुडमार्गयोग्यदेवाश्चोक्ता उत्क्रान्तिपादीयानुव्याख्याने-
सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम् ।
तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ।। इति ।
शेषमार्गप्रविष्टान्देवानाह– शेष इत्यादिना । तदुक्तं तत्रैवानुव्याख्याने-
सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ काममसौ च वारुणीम् । सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः ।। इति ।
ननु गरुडमार्गे गरुडादिषड्देवानां शेषमार्गे शेषादिषड्देवानामेवोक्तेरन्येषां देवानां देहलयो न स्यादित्यत आह- अन्येषामित्यादिना ।
अन्येषां तु केषाञ्चिद्गरुडमार्गे केषाञ्चिच्छेषमार्गे प्रवेशः । तथाहि भृग्वादीनां दक्षे लयः दक्षस्येन्द्रे लयः इति गरुडमार्गप्रवेशः ।। ५६१ ।।
तदुक्तमनुव्याख्याने-
भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ।
विशन्तीति । अत्र वसिष्ठमरीच्यादीनां ग्रहणमिति सन्न्यायरत्नावली ।
आकाशाभिमानिन इति-
आकाशाभिमानिनो गणेशस्य पृथिव्यभिमानिन्या धरायाश्च गुरौ लय इति गरुडमार्गप्रवेशः ।। ५६२ ।।
तदुक्तमनुव्याख्याने-
आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् ।। इति ।
कर्मजदेवानामिति–
कर्मजदेवानां प्रियव्रतगययोश्च स्वायंभुवमनौ लयः स्वायंभुवमनोरिन्द्रे लयः मरुद्गणानां जयादीनामपीन्द्रे लयः यमस्य मनौ लयः निरृतेश्च यमे लयः पितॄणां यमे लयः ।। ५६३ ।।
तदुक्तमनुव्याख्याने-
विशन्ति ये मनवो राजमुख्या मनुं प्रविश्यात्र गता महेन्द्रम् ।। इति ।
तदर्थस्तु सुधायामुक्तः- ये मनवो वैवस्वताद्या ये च राजमुख्याः प्रियव्रताद्यास्ते स्वायंभुवमनुं प्रविश्यात्र स्वायंभुवमनौ गता वर्तमाना महेन्द्रं विशन्तीति ।। नयचन्द्रिकायां तु ये मनवो वैवस्वतादयः पृथ्वादयो राजमुख्याश्च ते स्वायंभुवमनुं प्रविश्य तद्वारेण महेन्द्रं गता भवन्तीत्युक्तम् । केचित्तु कर्मजदेवानां पृथ्वादीनां वैवस्वतादिमनूनां च पुष्करावरत्वं मन्यमाना देहलयं नाङ्गीकुर्वन्ति । त उपेक्ष्याः । सुधानयचन्द्रिकाविरोधात् । न चानुव्याख्यानसुधानयचन्द्रिकासु वैवस्वतादीनां स्वायंभुवमनौ प्रवेशमात्रमुक्तं न तु तत्र देहलयः । यथा तत्रैव, वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोऽपि समेति काल इति मनुष्योत्तमानां धर्मप्रवेशो न तु देहलय उक्तस्तद्वदिति वाच्यम् । तद्व्याख्यानसुधायाम् उक्तस्यापवादमाह - वर्णाश्रमेति । एतच्च प्रसङ्गान्मुक्तौ प्रवेशमात्रमुक्तं न तु देहलयः । तेषामुत्क्रमणस्य विद्यमानत्वादित्यनेन मनुष्योत्तमव्यतिरिक्तानां देहलयस्य सम्मतत्वात् । किञ्च कर्मजदेवानां देहलयानङ्गीकारेऽपि पितॄणां गन्धर्वाणामाजानजदेवानां च कर्मजदेवावराणां देहलयो न स्यात् । न वन्ह्यवराणामाजानजादीनां देहलयस्तदुत्तमानां कर्मजानां न देहलय इति वक्तुं युक्तम् । व्याहतेः । न चाऽजानजदेवानामपि न देहलय इति वाच्यम् । अग्नौ सर्वे देवा विलीयंतेऽग्नावग्नय इति भाष्येऽग्निपुत्राणामाजानजदेवतासमानानां लयस्योक्तत्वेनाजानजानामपि लयसिद्धेः । अन्यथा परस्परसाम्यस्य निर्णयाद्युक्तस्यानुपपत्तेरित्यलम् ।
मरुद्गणानां जयादीनां चेति । तदुक्तमनुव्याख्याने-
प्रयाति धर्मं निरृतिस्तु शक्रं मरुद्गणाः पारिषदास्तथैव ।
वर्णाश्रमाचाररता मनुष्यधर्मं मनुं सोऽपि समेति काले
तमेव सर्वेऽपितर इति । न च मरुतो मारुत इति भाष्योदाहृतश्रुतौ मरुद्गणस्य प्रधानवायौ लयोक्तेस्तद्विरोध इति वाच्यम् । इन्द्रद्वारा तदुपपत्तेः ।।
अग्निपुत्राणामिति ।
अग्निपुत्राणामाजानजादीनामवशिष्टानां देवानां चाग्नौ लय इति गरुडमार्गप्रवेशः ।। ५६४ ।।
विशन्ति शिष्टा अपि हव्यवाहम् ।। इत्यनुव्याख्यानोक्तेः ।
अग्नावग्नय इति श्रुतेश्चेति भावः । आजानजानां त्वग्नौ लय इति बोध्यम् ।
भाष्ये तु-
पृथिव्यामृभवो विलीयन्ते वरुणेऽश्विनावग्नावग्नयः ।। इति ।
तथाऽऽकाश एव साध्या विलीयन्ते ।। इति ।
ऋभवः पृथिव्यां वरुण आपोऽग्नयस्तेजसि मरुतो मारुते आकाशे विनायका विलीयन्त इत्युक्तम् । तत्र यद्यपि पृथिव्यामृभूणां लयोऽनुपपन्नः । उभयोरप्युक्तशेषशतस्थान्तर्गतत्वेन समानत्वात् । शतस्थदेवाश्च तत्त्वप्रदीपिकायां सङ्गृहीतास्त एवास्मद्गुरुपादैश्च सङ्गृहीताः-
मरुद्रुद्राऽदित्यवसुविश्वेदेवा बृहस्पतिः ।
भृग्वश्विनौ च रोदस्यौ पितृपाश्च शतं सुराः ।। इति ।
तथाप्यृभ्वपेक्षया पृथिव्याः किञ्चिद्गुणाधिक्यं च वक्तव्यमेव मरुद्गणवत् । प्रधानवाय्वाऽहङ्कारिकप्राणप्रवहव्यतिरिक्तानां प्राणादिमरुतामुक्तशेषशतस्थान्तर्गतत्वेऽपि ।
मरुतश्च समाः सर्वे सप्त तेषु प्रधानकाः ।। इति दशमतात्पर्ये । प्राणादयः पञ्चमरुत्प्रवीरा इति निर्णये च किञ्चिदाधिक्योक्तेस्तन्यायेन पृथिव्याः किञ्चिदाधिक्यमिति न कश्चिद्दोषः ।
पुनः केषांचिच्छेषमार्गमाह – गन्धर्वाणामित्यादिना ।
गन्धर्वाणां कुबेरे लयः । कुबेरस्य सोमे लयः ।। ५६५ ।।
तदुक्तमनुव्याख्याने–
सुरानुगाः सर्वे कुबेरं स च सोममेवैति ।।
सनकादीनां त्विति-
सनकादीनां तु कामे लयः ५६६ ।।
सनादयो यतयः कामदेवं विशन्तीत्यनुव्याख्यानोक्तेः ।
विष्वक्सेनस्येति-
विष्वक्सेनस्यानिरुद्धे लय इति शेषमार्गप्रवेश: ।। ५६७ ।।
सर्वेऽनिरुद्धं पृतनाधिपाद्यास्तुरश्रुतिर्हीत्थमियं विमुक्तिः ।। इत्यनुव्याख्यानोक्तेः ।
गरुडमार्गशेषमार्गयोरन्तिमावधित्वेनोक्तयोर्गरुडशेषयोर्लयमाह– गरुडशेषयोश्चेति ।
गरुडशेषयोश्च सरस्वत्यां लयः । सरस्वत्याश्चतुर्मुखे लयः ।। ५६८ ।।
तत्र प्रमाणमुक्तमधस्तात् ।
इदानीं चतुर्मुखस्य लयमाह-चतुर्मुखस्येति ।
चतुर्मुखस्य लक्ष्मीद्वारा परमात्मनि लयः ।। ५६९ ।।
लक्ष्मीद्वारेति-
प्राणस्तेजसि तेजः परस्यां देवतायाम् ।। इति श्रुतेः ।
भाष्येऽपि-
प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम् ।। इति ।
ननु स्वायम्भुवमनोर्न देहलयो युक्तः । ईशावास्योपनिषदि तद्भाष्ये चार्चिरादिमार्गोक्तेः । ‘अग्ने नय सुपथा राये' अस्मान् । इत्युपनिषत् ।।
नय नो मोक्षवित्तायेत्यस्तौद्यज्ञं मनुः स्वराड् ।
इति तद्भाष्यमिति चेन्न । स्वायम्भुवमनोर्मूलरूपस्यान्यस्य सद्भावेन तस्य लयोपपत्तेः । भूमौ जातस्य प्रियव्रतपितुः शरीरस्य नाशेऽप्युत्क्रान्त्याऽर्चिरादिमार्गसद्भावेऽपि बाधकाभावात् ।
तदुक्तं तृतीयभागवततात्पर्ययोः-
कुशकाशमयं बर्हिरास्तीर्य भगवान्मनुः ।
अयजद्यज्ञपुरुषं लब्धं स्थानं यतो दृढम् ।।
स एवं स्वान्तरं निन्ये युगानामेकसप्ततिम् ।
वासुदेवप्रसङ्गेन परिभूतगतित्रयः ।।
शारीरा मानसा दिव्याः पर्यासे ये च मानुषाः ।।
भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ।।
इत्यत्र पर्यास इत्यस्य तात्पर्यं पर्यासे मानुषत्वेनावस्थानेऽपीति । तथा च न दोषः । अत्र ब्रह्माण्डान्तर्वर्तिनां ब्रह्मादीनां ब्रह्माण्डाद्बहिर्विद्यमानानां महदादितत्त्वाभिमानिनामंशिनां च देहलयो विवक्षितः । तथा हि-
काला जयाद्या अपि विष्णुपार्षदा यस्मादण्डात्परतः सम्प्रसूताः ।
नीचाः सुरेभ्यस्तत एव तेऽखिला विष्वक्सेनो वायुजः खेन तुल्यः ।।
इति निर्णयोक्ताण्डान्तःसृष्टविष्वक्सेनजयविजयादिसहपाठेनानुव्याख्याने ब्रह्मादीनां लयमुक्त्वा पुनरण्डाद्बहिर्विद्यमानत्तत्त्वाभिमानिनां देहलयप्रतिपादकभागवतश्लोकस्योदाहृतत्वात् । तच्छ्लोकस्तु—–
क्ष्मांभोऽनलानिलवियन्मन इन्द्रियार्थ
भूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा
कालं परं स्वमनुभूय परः स्वयम्भूः ।। इति ।
द्वितीयस्कन्धतात्पर्ये चायं श्लोको व्याख्यातः-
ज्ञानिनः प्रलये सर्वे ब्रह्मणा सह पार्थिवम् ।
परमात्मानमाविश्य वारिस्थं तत्समन्विताः ।
अग्निस्थं तद्युताश्चैव तेन नीताश्च वायुगम् ।।
नभोगतं तेन नीताः मनः स्थं तद्युतास्तथा ।
ततो बुद्धिस्थमीशेशं ततोऽहङ्कारगं हरिम् ।।
ततो विज्ञाननामानं महत्तत्वगतं हरिम् ।
तत आनन्दनामानमव्यक्तस्थं जनार्दनम् ।।
प्राप्य नाऽवृत्तिमायान्ति शान्तिभूता निरामयाः ।। इति ।
एवं ब्रह्मणो रूपविशेषस्य सरस्वत्यां लयः । महत्तत्वकालाद्यभिमानिदेवे स्वस्वरूपे च लयो बोध्यः ।
सृष्टिस्थितिसंहारादिप्रकरणे मोक्षप्रकरणम्
तदुक्तमेकादशतात्पर्ये—
गायत्री चैव सावित्री तथैव च सरस्वती ।
एवं त्रिरूपा प्रकृतिर्ब्रह्मपत्नी प्रकीर्तिता
महत्तत्वात्मको ब्रह्मा तज्जत्वात्तत्र लीयते ।
गुणाधिकः पतिरपि तस्याः सत्त्वादिभेदतः ।।
त्रिविधा मूलरूपायां प्रकृत्यां सा प्रलीयते ।। इति ।
प्रकृतिर्मूलरूपा सा ब्रह्मपत्नी जगन्मया ।
पुरुषाभिधे विरिचे तु स स्वस्मिन्कालसंज्ञिते ।
कालाभिधो विरिञ्चस्तु महालक्ष्म्यां विलीयते ।। इति ।
लक्ष्म्यास्तु हरेरत्यन्तसामीप्यं लयो लक्ष्म्याः प्रकीर्तित इति लयस्तत्रैव प्रतिपादितः । परमात्मनस्तु न सर्वथा लयः ।
तदुक्तं गीतातात्पर्ये–
अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता ।
नाशश्चतुर्विधो ज्ञेयस्तदभावो हरेः सदा ।। इति ।
नन्वेवं ब्रह्मादीनां न देहलयो युक्तः । नृसिंहनेत्राग्निना तद्देहभस्मीभावस्य नृसिंहनखस्तुतावुक्तेः यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्नि-स्फुरत्खद्योतोपमविष्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ।। इति । तथा-
ब्रह्मचर्मशिरःपट्टी दिक्पालोर्ध्वाङ्गभूषणः ।
द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः ।।
इत्यादिपुराणेषु ब्रह्मरुद्रादीनां लयं विनाऽपि देहत्यागोक्तेरिति चेन्न ।
उत्तमशरीरेषु लयं गतानामेव ब्रह्मादीनां प्रलयकाले शरीरान्तरं सृष्ट्वा नृसिंहस्य तेन क्रीडासम्भवात् ।
तदुक्तमेकादशतात्पर्ये—
आग्नेय्यान्ये धारणया दग्ध्वा देहं परं पदम् ।
यान्ति देवाः समस्ताश्च तेषामन्यां तनुं हरिः ।।
नृसिंहरूपी सर्वेषां भित्वा ताभिरलङ्कृतः ।
नृत्यते प्रलये देवः स्वयं कृष्णादिरूपवान् ।
अदग्ध्यैव तनुं याति नित्यानन्दस्वरूपतः ।। इति ।
ननु वायुभारतीरुद्रपार्वतीनां चतुर्णां प्रलये देहलयोऽस्ति न वा । नेति पक्षे नित्यमुक्तत्वाऽपत्तिः । उत्तरकल्पे ब्रह्मपदाद्यनवाप्तिश्च स्यात् । लय- पक्षेऽधमेषु लयाभावात्परमात्मन्येव लयो वक्तव्यः । तथा च ब्रह्मादि - वत्पुनरुत्पत्त्यभावप्रसङ्ग इत्यत आह- उमाया इत्यादिना ।
उमायाः रुद्रे लयः । रुद्रस्य भारत्यां लयः । भारत्याश्च वायौ लयः । वायोश्च लक्ष्म्यां लयः ।। ५७० ।।
तदुक्तमुत्क्रान्तिपादीयानुव्याख्यानसुधयोः - उमागिरीशावपि भारतीराविति स्म वाग्वेदगता ब्रवीतीति । उमारुद्रादिशब्दानामुमादि- परत्वस्याप्युक्तेः । सूत्रभाष्ययोरपि – ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ । वागभिमानिन्युमा मनोभिमानिनि रुद्रे विलीयत इत्यादि । वायोश्च प्रकृत्यां लय इति । तदुक्तं सूत्रभाष्ययोः - ॐ तदपीतेः संसारव्यपदेशात् ॐ । ‘प्रकृतौ विलीनः संसारमेति' इति ।
ननूमादिवाय्वंतानां प्रकृतौ लयाङ्गीकारे तदा मुक्तिर्न स्यादित्याशङ्कामिष्टा पत्त्या परिहरति - तेषामिति ।
तेषां तदा न मुक्तिः किन्त्वेतद्ब्रह्मकल्पानन्तरमेष्यत्कल्पे वायोर्ब्रह्मपदप्राप्तिः । भारती सरस्वती भविष्यति । रुद्रस्य शेषपदप्राप्तिः । उमा वारुणी भवष्यति । इत्येवं वाय्वादिचतुर्णां ब्रह्मादिभावानन्तरं मुक्तिः ।। ५७१ ।।
तदुक्तं सन्यायरत्नावल्याम्– उमागिरीशयोर्वारुणीशेषजन्मन्येव मुक्तिः । भारतीमुख्यवाय्वोरपि ब्रह्माणी ब्रह्मजन्मन्येव मुक्तिरिति ।
द्वियस्कन्धतात्पर्येऽपि-
एषां पदान्तराकाङ्क्षा वाय्वादीनां महात्मनाम् ।
आवर्त्य ते पुनर्यान्ति ज्ञानिनोऽपि निरामयाः ।। इति ।
गीताभाष्ये रुद्रस्य शेषभावानन्तरमेव मुक्तिरुक्ता–
स्थितप्रज्ञोऽपि यस्तूर्ध्वः प्राप्य रौद्रपदं पुनः ।
साङ्कर्षणं ततो मुक्तिमगाद्विष्णुप्रसादतः ।। इति ।
षष्ठतात्पर्येऽपि-
रुद्राद्याः शेषदेहस्थं विष्णुं सङ्कर्षणाभिधम् ।
शेषान्तर्यामिणं ज्ञात्वा स्वपदं प्रापुरञ्जसा ।। इति ।
वायोर्ब्रह्मपदप्राप्तिरित्यादि । तदुक्तं तृतीयस्कन्धतात्पर्ये-
नियमाद्वायुरेवैको ब्रह्मत्वं याति नापरः ।
तस्मात्समानता मुक्तौ वायुत्वे किञ्चिदूनता ।। इति ।
बृहद्भाष्येऽपि-
वायुरेव यतो ब्रह्मपदं नियमतो व्रजेत् ।। इति ।
निर्णयेऽपि-
एको ब्रह्मा च वायुश्च वीन्द्रो रुद्रसमस्तथा ।
एको रुद्रस्तथा शेषो न कश्चिद्वायुना समः ।
वायुर्हि ब्रह्मतामेति तस्माद्ब्रह्मैव स स्मृतः ।। इति ।
वायुत्वमाप्तः स हनूमदंशो ब्राह्मं पदं प्राप्य वृकोदरश्च । वागीश्वरीत्वं गतयैव कृष्णया सहैव मुक्तिं गमिताखिलोत्तमाम् ।। इति च ।
सन्यायरत्नावल्यामपि यस्मादुमादय एव महाकल्पान्तरे वारुण्यादिपदं प्राप्नुवन्तीति । छान्दोग्यभाष्यबृहद्भाष्यादावप्येवमेवोक्तमनुसन्धेयमिति ।
सर्वेषां लिङ्गभङ्गप्रकारमाह -एवमित्यादिना । विरजानानेनेति ।
एवं लयानन्तरं चतुर्मुखदेहे प्रविष्टानामेतद्ब्रह्मकल्पे लिङ्गभङ्गयोग्यानां ब्रह्मणा सह विरजानदीस्नानेन लिङ्गभङ्गो जायते ।। ५७२
तदुक्तं न्यायविवरणे–
स्वोदयात्फलदं ज्ञानमादेहं कर्म वाऽऽरवेः ।
प्रारब्धकर्मशेषस्तु विरजातरणावधिः ।।
तथाऽपि प्रकृतेर्बन्ध ब्रह्मणा सह भिद्यते ।
शरीरे पाप्मनो हित्वा सर्वान्कामान्समश्नुते ।।
स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव पाप्मना विनिर्मुक्तः समाप्नोति विरजां नदीं तत्सुकृतदुष्कृते विधूनत इति ।
विधेर्देहापगमने लिङ्गमात्रशरीरिणः ।
विरजायां कृतस्नाना ब्रह्मणा सह सर्वशः ।
त्यक्तलिङ्गास्ततः सर्वे स्वरूपेण व्यवस्थिताः ।। इति विष्णुरहस्ये ।
ब्रह्मणा सह लिङ्गभङ्गो जायत इति ।
तदुक्तमुत्क्रान्तिपादीयानुव्याख्याने-
भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह ।
परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः ।।
प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः ।
आनन्दव्यक्तिमायान्ति पूर्णां लिङ्गस्य भङ्गतः ।। इति ।
अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम् ।
सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ।। इति च ।
विरजानदी च कुत्रास्तीत्याकांक्षायामाह । विरजानदी चेति ।
विरजानदी च प्रधानाव्याकृताकाशयोर्मध्ये वर्तते । लक्ष्म्यात्मिका ।। ५७३ ।।
प्रधानपरमव्योम्नोरन्तरा विरजानदी ।। इति पुराणवाक्यादित्यर्थः ।
इदमुपलक्षणम् । सैव वैकुण्ठपरिघाकारा रूपान्तरेणास्तीति ज्ञेयम् । तत्रापि पुराणवाक्यमेव मानम् ।
लिङ्गशरीरभङ्गो जायत इत्युक्तम् । तत्कीदृशमित्याकांक्षायां तत्स्वरूपमाह -लिङ्गशरीरं चेति ।
लिङ्गशरीरं च दशेन्द्रियाणि सूक्ष्मरूपाणि पञ्चप्राणाः सूक्ष्मरूपाः मनश्च सूक्ष्मरूपं आहत्य षोडशकलोपेतम् ।। ५७४ ।।
तदुक्तं चतुर्थस्कन्धतात्पर्ये-
प्राणेन्द्रियान्तःकरणभेदेन त्रिविधं मतम् ।।
पञ्च पञ्चैव ते सर्वे प्राणा बुद्धीन्द्रियाणि च ।
कर्मेन्द्रियाणि च तथा तस्मात्पञ्चविधं स्मृतम् ।।
लिङ्गं षोडशकं प्राहुर्मनसा सह तत्पुनः ।। इति ।
चतुर्थभागवतेऽपि-
एकं पञ्चविधं लिङ्गं त्रिवृत्षोडशविस्तरम् ।
एष चेतनया युक्तो जीव इत्यभिधीयते ।। इति ।
ननु लिङ्गशरीरस्य कथं भङ्गः । प्रकृतिरूपत्वेनानाऽदिनित्यत्वादित्यत आह- तस्य भङ्गो नामेति ।
तस्य भङ्गो नाम जीवसम्बन्धनाशः ।। ५७५ ।।
सर्वेषां विरजानदीस्नानकाले जीवान्परित्यज्य नद्यां पतन्ति । नद्यामेव प्लवन्त इत्याहुः ।
पक्षान्तरमाह– स्वरूपत एव नाश इति ।
स्वरूपत एव नाश इति केचित् ।। ५७६ ॥
अनादित्वेऽपि प्रागभावाविद्यादिवत्स्वरूपत एव नाशः । तदुक्तं जिज्ञासाधिकरणसुधायाम् – अनादेः कीदृशो विनाश इति चेत् । स्वरूपध्वंस एवेति ।
ननु प्रलये भगवदुदरं प्रविष्टानां मुक्तानां कदा भोग इत्याकाङ्क्षायां प्रलये स्वरूपमात्रस्यानुभवः सृष्ट्यनन्तरं च विषयभोग इत्याह-- प्रलयकाल इति ।
प्रलयकाले सर्वेषां भगवदुदरे प्रवेशः । तदा न भोगः । किन्तु पुनःसृष्ट्यनन्तरं सृष्टिकाले भोगः ।। ५७७ ।।
तदुक्तं निर्णये-
दृष्ट्वा स चेतनगणान् जठरे शयाना
नानन्दमात्रवपुषः सृतिविप्रमुक्तान् ।
ध्यानं गतान्सृतिगतांश्च सुषुप्तिसंस्थान्
ब्रह्मादिकान्कलिपरान्मनुजांस्तथैक्षत् ।।
स्रक्ष्ये हि चेतनगणान्सुखदुःखमध्य-
सम्प्राप्तये तनुभृतां विहृतिं ममेच्छन् ।। इति ।
बृहद्भाष्येऽपि-
प्रलये तु प्रविश्यैव भगवन्तं जनार्दनम् ।
स्थित्वा ज्ञानाविलोपेन निर्गच्छन्ति पुनस्ततः ।।
न च ज्ञानसुखादीनां तेषां सृष्टौ लयेऽपि वा ।
विशेषः कश्चिदन्तश्च बहिश्चैव रमन्ति ते ।। इति ।
तृतीयतात्पर्येऽपि-
ब्रह्मा देवैः परिवृतः प्रलये परमेश्वरम् ।
प्रविश्य सर्गे तु पुनः श्वेतद्वीपे प्रमोदते ।।
ज्ञानधर्मफलांस्तत्र भोगान् भुक्त्वा लयं पुनः ।
नारायणं समाविश्य ज्ञानव्यक्तिं निजं सुखम् ।।
भुञ्जते त्वेवमेवैषां काले संसर्गनिर्गमौ ।
नित्यौ नित्यसुखं चैव सृष्टौ भोगास्तथोत्तमाः ।। इति ।
मुक्तौ सर्वेषां न भोगसाम्यं किन्तु तत्तद्योग्यतानुसारेणेति वक्तुं मुक्तान्विभजति - तत्र भोगयोग्या इति ।
तत्र भोगाश्चतुर्विधाः सालोक्यसामीप्यसारूप्यसायुज्यभोगवन्त इति ।। ५७८ ।।
तदुक्तं भाष्ये-
सालोक्यं च समीपत्वं सारूप्यं योग एव च ।
इमामारभ्य सर्वत्र यावत्सु क्षीरसागरम् ।
पुरुषोऽनन्तशयनः श्रीमान्नारायणाभिधः ।। इति ।
ननु तृतीयस्कन्धभागवते-
सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमित्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ।।
इति सार्ष्टिनामकमोक्षेण सह पाञ्चविध्योक्तेः कथं मोक्षश्चतुर्विध इति चेन्न । समानैश्वर्यभोगरूपसार्ष्टिमोक्षस्य सायुज्यमोक्षावान्तरप्रभेदत्वेनाविरोधात् । अत्र सायुज्यं नाम भगवन्तं प्रविश्य तच्छरीरेण भोगः । तस्याधिकारिणो देवाः
तदुक्तमुत्क्रान्तिपादीयानुव्याख्याने-
भोगस्तु सर्ववस्तूनां नरादीनां च विद्यते ।
तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।। इति ।
अत्र देवानां स्वस्वोत्तमप्रवेशेन परमात्मशरीरप्रवेशेन च भोगः । ब्रह्मणस्तु परमात्मशरीरप्रवेशेनैव भोगः ।
तदुक्तमणुभाष्ये-
उत्तरेषूत्तरेष्वेवं यावद्वायुं विमुक्तिगाः ।
प्रविश्य भुञ्जते भोगांस्तदन्तर्बहिरेव वा ।
वायुर्विष्णुं प्रविश्यैव भोगांश्चैवोत्तरोत्तरम् ।। इति ।
नचैवं तत्रैव भोगाङ्गीकारे निर्बन्धः स्यात् । अन्यत्र तदिच्छायां भोगाभावप्रसङ्गादिति वाच्यम् । स्वेच्छयैव प्रवेशनिर्गमयोरङ्गीकारात् ।
तदुक्तं बृहद्भाष्ये-
प्राप्नोति परमं बह्म प्रलये प्रलये सदा ।
अन्यदा स्वेच्छया विष्णोः स्वरूपाद्बहिरेष्यति ।
स्वेच्छयान्तर्बहिश्चैव रमते मुक्त आत्मवान् ।। इति ।
अनुव्याख्यानेऽपि -भुजन्त एवाऽसत ईशदेहे लयेऽथ सर्गे बाहिरेव यान्ति ।
भाष्येऽपि-
मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः ।
चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् ।।
तदङ्गानुगृहीतैश्च स्वाङ्गैरेव प्रवर्तनम् ।
कुर्वन्ति भुञ्जते भोगांस्तदन्तर्बहिरेव वा ।।
यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिताः ।। इति ।
सायुज्यभाजां भोगप्रकारश्च भाष्येऽभिहितः-
आदत्ते हरिहस्तेन हरिदृष्टट्यैव पश्यति ।
गच्छेच्च हरिपादेन मुक्तस्यैषा स्थितिर्भवेत् ।। इति ।
ननु परमात्मना सहभोगाङ्गीकारे परमात्मानन्दादिभोगाऽपत्तिरिति चेन्न । परमात्मदेहं प्रविश्य परमात्मानन्दादीन्परित्यज्य स्वस्वरूपानन्दादि- भोगस्यैवाङ्गीकारात् ।
तदुक्तं भाष्ये-
मुक्ताः प्राप्य परं विष्णुं तद्भोगाँल्लेशतः क्वचित् ।
बहिष्ठान्भुञ्चते नित्यं नानन्दादीन् कथञ्चन ।। इति ।
परमात्मा तु जीवभोज्याऽनन्दभोक्ताऽपि ।
तदुक्तं बृहद्भाष्ये-
जीवभोग्यस्य भोक्तेशो जीवस्तद्भोगभुङ् न तु ।। इति ।
मनुष्योत्तमानां सालोक्यभाजां भोगमुपपादयति - केचन भगवल्लोक इति ।
केचन भगवल्लोके यत्र कुत्रचित्स्थिता यथेष्टभोगवन्तः । केचन भगवत्समीपे यथेष्टभोगवन्तः ।। ५७९ ।।
तेन भगवल्लोकमात्रावस्थानं विना स्वर्गादिलोकेषु स्थित्वा भगवद्दर्शनेन भोग एव सालोक्यमुक्तिरिति सूचितम् ।
तदुक्तं भाष्ये-
सृष्टिस्थितिसंहारादिप्रकरणे मोक्षप्रकरणम्
केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ।
अत्रैव च स्थितिस्तेषामन्तरिक्षे तु केचन ।।
केचित्स्वर्गे महर्लोके जने तपसि चापरे ।
केचित्सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् ।। इति ।
सामीप्यमुक्तिभाज आह- केचनेति । ते च ऋष्यादयः I
तत्रापि क्रमयोगेन ज्ञानाऽधिक्यात्समीपगाः ।। इति भाष्योक्तेः ।
बृहद्भाष्येऽपि-
उपासनाबलान्मुक्तो भोगान्कर्मफलान्सदा ।
भुङ्क्ते विष्णोः समीपस्थः सर्वदोषविवर्जितः ।। इति ।
सारूप्यभाजां भोगमाह- केचन चतुर्भुजा इति ।
केचन चतुर्भुजाश्शंखचक्राद्यायुधवन्तो यथेष्टभोगिनः ।।५८० ।।
ते च जयविजयादयो द्वारपाः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुपेशसः ।। इति द्वितीयभागवतोक्तेः ।
सायुज्यभाजां भोगमाह— च ।
केचन भगवच्छरीरं प्रविश्य यथेष्टभोगवन्तः ।। ५८१ ।।
भगवच्छरीरमिति । तत्र प्रमाणं तूक्तं पूर्वमेव ।
पुनः सर्वेषां भोगस्थानमाह-केचन क्षीरसागरगा इति ।
एवं केचन क्षीरसागरगाः । केचनाश्वत्थवनगाः । केचनारण्याख्यसुधासमुद्रगाः । केचन बाह्योपवनगाः ।। ५८२ ।।
तदुक्तं बृहद्भाष्ये-
दुग्धसागरगाः केचित्केचिदश्वत्थकक्षगाः ।
अमृतहृदेषु केचिच्च पिबन्ति स्नातवत्सदा ।।
केचित्पश्यन्ति तं देवं सदा केचित्समीपगाः । इति ।
ऐतरेयभाष्येऽपि-
क्षीरसागरदघ्नास्तु केचित्तिष्टन्ति मुक्तिगाः ।
उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् ||
ऐरह्रदे केचिदपि देवा एव सदा हरिम् ।
नागभोगाशयं मुक्ता ददृशेऽधिकमोदिनः ।।
सागरादिस्थिता विष्णुं पश्यन्ति कचिदेव हि ।। इति ।
केचन मद्यसरोवरगा इत्यादि ।
तदुक्तं छान्दोग्यभाष्ये-
परस्य ब्रह्मणो लोके श्वेतद्वीपा परे ।।
अरण्यौ चार्णवौ दिव्यौ चिदानन्दरसात्मकौ ॥
यावानुच्चः स्वर्गलोकस्तावानुच्चतया स च ।।
श्वेतद्वीपो दिविष्ठोऽतस्तत्र मद्यं सरोवरम् ।।
सर्वभोज्यात्मकं दिव्यं तत्राश्वत्थाः सुधास्रवाः ।। इति ।
तत्र बहवो वृक्षा इत्यादि-
तत्र बहवो वृक्षाः । तेषु प्रतिशाखं धानापूपाः स्रवन्ति । तथा पायसकर्दमाः । मांसराशयश्च । तत्र तत्र मुक्तास्तत्तत्पदार्थभोगवन्तो भवन्ति ।। ५८३ ।।
तदुक्तं श्रुतिपादीयानुव्याख्याने-
आचक्ष्व मे परं मोक्षं धीरा यं प्रवदन्ति तम् ।
इत्युक्ता आह वाग्देवी परं मोक्षं प्रजापतेः ।।
शाखां शाखां महानद्यः संयान्ति परितः स्रवाः ।
धानापूपा मांसकामाः सदा पायसकर्दमाः ।।
यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणाः ।
ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते ।।
प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः ।
निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ।। इति ।
केचन स्त्रीभोगमिति-
केचन स्त्रीभोगं कुर्वन्ति । केचन गजतुरगादीन्धावयन्ति ।। ५८४ ।।
स तत्र पर्येति जक्षन्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वेति श्रुतेः ।
केचन दिव्याभरणादिमन्त इति-
केचनदिव्याभरणादिमन्तः स्त्रीभिस्सह जलक्रीडां कुर्वन्ति ।। ५८५ ।।
तदुक्तं मध्वविजये-
विहरन्ति साकमवगाह्य धवैर्जलमड्डुकोत्सवहसद्वदनाः ।
विविधा विधाय विहृतीः सलिले विकटेषु विद्रुमतटेषु गताः । सु
रभिं सुवर्णमथ वर्णकमाददते सखीकरगतं महिलाः ।। इति ।
मणिराजिराजितमहामुकुटं शितिकान्तकुन्तलसहस्रतयम् ।
अलिकार्धचन्द्रविलसत्तिलकं श्रवणोल्लसन्मकरकुण्डलयुक् ।। इति च ।
स्फटिकेन्द्रनीलमण्यादीति-
स्फटिकेन्द्रनीलमण्यादिनिर्मितविचित्रसद्मप्रासादेषु रमन्ते ।। ५८६ ।।
तदुक्तं मध्वविजिये-
सितसौधसन्ततिरुचा स्फुरिता परितोऽरुणाश्मगृहपतिरुचिः ।
शबला वलीकघटितस्फटिकद्युतिभिर्हरिन्मणिमयी वलभी ।।
प्रतिसद्म भातीत्यादि ।
केचन ऋगादीति-
केचन ऋगादिवेदोच्चारणेन भगवन्तं स्तुवन्ति ।। ५८७ ।।
ऋचां त्वः पोषमास्ते पुपुष्मान् गायत्रं त्वो गायति शक्करीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उत्वः ।। इति श्रुतेः ।
केचन सुखोद्रेकेणेति–
केचन सुखोद्रेकेण हावु हावु इत्यादिशब्दानुच्चरन्ति ।। ५८८ ॥
इमाँल्लोकान्कामान्नीकामरूप्यनुसञ्चरन्नेतत्सामगायन्नास्ते हा हा हा इति श्रुतेः ।
केचन पूर्वाभ्यासेति-
केचन पूर्वाभ्यासवशेन यज्ञादिकं कुर्वन्ति ।। ५८९ ।।
तदुक्तं सूत्रे भाष्ये च- ॐ छन्दत उभयाविरोधात् ॐ । स्वेच्छया कुर्वन्ति न वा । बन्धप्रत्यवाययोरभावात् ।
कदाचित्कर्म कुर्वन्ति कदाचिन्नैव कुर्वते ।
प्रत्यवायस्य बन्धस्याप्यभावात्स्वेच्छया भवेत् ।। इति ।
टीकायां संस्कारपाटवादुपासनादीत्युक्तेश्च ।
केचनाऽजन्ममरणमिति ।
केचनाजन्ममरणं स्मृत्वा हर्षं प्राप्नुयुः ।। ५९० ।।
आजन्ममरणं स्मृत्वा मुक्ता हर्षमवाप्नुयुः । इति छान्दोग्यभाष्योक्तेः ।
केचनेच्छामात्रेणेति-
केचनेच्छामात्रेण पित्रादिदर्शनवन्तो भवन्ति । केचन सर्वलोकचारिणः ।। ५९१ ।।
तदुक्तं सूत्रे भाष्ये च - ॐ सङ्कल्पादेव च तच्छ्रुतेः ॐ ।
स यदि पितृलोककामो भवति ।
सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्तीत्यादिश्रुतेः ।।
केचन शुद्धसत्त्वनिर्मितेति-
केचन शुद्धसत्त्वनिर्मित लीलाशरीराण्युपादाय क्रीडन्ते ॥ ५९२ ॥
तदुक्तं सूत्रे भाष्ये च-
ॐ भावं जैमिनिर्विकल्पानानात् ॐ ।।
चिता वाऽचिता वा नित्येन वाऽनित्येन वाऽथाऽनन्दी ह्येवैष भवतीति ।
स्वेच्छया वा शरीराणि तेजोरूपाणि कानि चित् ।
स्वीकृत्य जागरितवद्भुक्त्वा त्यागः कथञ्चन ।
ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः ।।
भुञ्जते सुसुखान्येव न दुःखादीन्कदाचन ।
तीर्णा हि सर्वशोकांस्ते पुण्यपापादिवर्जिताः ।।
सर्वदोषनिवृत्तास्ते गुणमात्रस्वरूपिणः ।। इति ।
केचित्तु मुक्तानां स्वेच्छया पाञ्चभौतिकशरीरग्रहणेन भोगो युज्यत एव । न च दुःखाद्यापत्तिः । स्वकर्मनिर्मितत्वाभावेन दुःखादेरभावात् । व्रीह्यादिगतजीवान्तरवदित्याहुः ।
केचन भगवद्गुणकर्माणीत्यादि-
केचन भगवद्गुणकर्माणि गायन्ति । केचन नृत्यन्ति केचन वाद्यानि वादयन्ति ।। ५९३ ॥
मुक्तगन्धर्वादीनां गानादिकर्तृत्वात् ।।
तदुक्तं बृहद्भाष्ये-
केचिद्गानरता नित्यं गन्धर्वा नर्तकाः परे ।
केचिद्वाद्यरता नित्यं चारणादेव चारकाः । इति ।
मुक्तावपि संसारवत्सुखादौ तारतम्यं ब्रह्मादीनामित्याह-सर्वेऽपीति ।
सर्वेऽपि तारतम्यवन्तः ।। ५९४ ।।
बृहदारण्यके तैत्तरीयके च - श्रोत्रियस्य चाकामहतस्येत्यनेन मुक्तावपि तारतम्योक्तेः । संसारिणां तु श्रोत्रियत्वमकामहतत्वं चानुपपन्नमिति बृहदारण्यकभाष्य एवोक्तम् ||
प्राप्तश्रुतिफलत्वात्तु श्रोत्रिया आप्तमोक्षिणः ।
त एव चाप्तकामत्वात्तथाऽकामहताः श्रुताः ।।
सर्वं श्रुतिफलं मुक्तैः प्राप्यं नान्येन केनचित् ।
अतस्तु श्रोत्रियो मुक्तो ह्यन्यः श्रोत्रियको भवेत् ॥
अदुःखत्वं च तस्यैव कामैराहतता तथा ।
यः कामितं न प्राप्नोति स कामहत उच्यते ।।
काम्याप्राप्तेश्च पापाच कामात् कामहतः स्मृतः ।
उभयस्याप्यभावेन मुक्तौ कामहतो मतः ।। इति ।
तैत्तिरीयभाष्येऽपि-
यस्य श्रुतिफलं पूर्णं स श्रोत्रिय उदाहृतः ।
स मुक्तो कामहतः स हि कामैर्न हन्यते ।।
यस्य कामास्तु सत्याः स्युः स हि कामैर्न हन्यते ।। इति ।
ननु श्रोत्रियस्य चाकामहतस्येत्यनेन मुक्तो न विवक्षितः । किन्तु चतुर्मुखः । तस्य सर्वकर्तुः कामहतेरभावादिति चेन्न । तस्यापि मुख्यतो कामहतत्वाभावात् ॥
तदुक्तं बृहद्भाष्ये-
ब्रह्मणाऽपि ह्यमुक्तस्य नाकामहतता परा । यतस्तस्यापि कामस्य क्षणव्यवहतिर्भवेत् ।। इति ।
अत एव निर्णये-
इच्छाव्यक्तिः प्रायशो मारुतस्य तदन्येषां व्यक्तता कारणेन ।। इति । हनूमद्भीमादेरिच्छायां सत्यामपि क्षणव्यवधानसूचनाय प्रायश इत्युक्तम् । ननु मुक्तानां तारतम्यसद्भाव ईर्ष्यासूयादिदोषः स्यात् संसारे तथा दर्शनादित्यत आह- ईर्ष्यासूयादीति-
ईर्ष्यासूयादिदोषरहिता मोदन्ते ।। ५९५ ।।
मुक्तानां कामक्रोधादिदोषहितत्वेन परस्परस्नेहस्यैव युक्तत्वात् । तदुक्तं सूत्रे भाष्ये च- ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तमिति । न चासमत्वेन विरोधो भवति । ब्रह्मधीत्वाद्दोषाभावसाम्यादौपसदवच्छिष्यवत् ।।
नानाविधा जीवसङ्घा विमुक्तौ न चैव तेषां ब्रह्मधियां विरोधः । दोषाभावाद्गुरुशिष्यादिभावाल्लोकेऽपि नासौ किमु तेषां विमुक्तेः ।। इति ।
अनुव्याख्यानेऽपि-
अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।
विशेषो देवतादीनां मोक्षे चैव विशेषतः ॥
न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः ।
आभासत्वात्परेषां तदवराणां च सर्वशः ।
सृष्टिस्थितिसंहारादिप्रकरणे मोक्षप्रकरणम्
यतोऽवराणां सर्वेऽपि गुणाः सर्वाः क्रिया अपि ।
नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ।।
यतः सच्छिष्यवत्तेषां नैवेर्ष्यादिः कथञ्चन ।। इति ।
मोक्ष आनन्दातिशयोऽस्तीत्याह- अपरोक्षज्ञानानन्तरमिति ।
अपरोक्षज्ञानानन्तरमनुष्ठितकर्मोपासनादिवशादानन्दातिशयवन्तो भवन्ति । अन्यथा तदनुष्ठानवैयर्थ्यापातात् । अनुतिष्ठन्ति च रुद्रादयः ।। ५९६ ।।
पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता ।
प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् ।
मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्न हि । इति ज्ञानपादीयानुव्याख्यानोक्तेः ||
बृहद्भाष्येऽपि-
उपासनाबलान्मुक्तो भोगान्कर्मफलान्सदा ।
भुङ्क्ते विष्णोः समीपस्थः सर्वदोषविवर्जितः ।। इति ।
पूर्वमपि बहूनां प्रमाणानामुदाहृतत्वाच्च ।
लवणार्णव इति-
तथाहि लवणार्णवे रुद्रेण दशकल्पं तपश्चीर्णम् । शक्रेण कोटिवर्षं धूमः पीतः । सूर्येणायुतवर्षमर्वाक्शिरसा तपः कृतम् । आकाशशायिना धर्मेण सहस्रवर्षं मरीचयः पीताः । अत आनन्दातिशयः ।। ५९७ ।।
तदुक्तं ज्ञानपादीयानुव्याख्याने-
दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे ।
त्यक्त्वा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ।।
शक्रेण वर्षकोटीश्च धूमः पीतोऽतिदुःखतः ।
वर्षायुतं च सूर्येण तपोऽर्वाक्शिरसा कृतम् ।
सुदुःखेन सुखं त्यक्त्वा धर्मेणाकाशशायिना ।।
पीता मरीचयो वर्षसाहस्त्रमतिसादरम् ।
अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोऽपि हि ।
इत्येतदखिलं मोक्षे विशेषाभावतः कथम् ।। इति ।
ननु जीवानामत्यन्ताणूनां मुक्तौ स्त्र्यादिभोगः कथमित्यत आह- स्वर्णकार इत्यादिना ।
स्वर्णकारः सुवर्णवत्परमात्मा मुक्तानां स्वेच्छयैव भोगार्थं कल्याणतमं महद्रूपं करोति ।। ५९८ ।।
तदुक्तं बृहदारण्यकोपनिषद्भाष्ययोः-
शरीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कुरुते इत्युपनिषत् ।।
जीवस्य सूक्ष्मरूपं तु प्राप्य स्थूलं परित्यजेत् ।
इदं शरीरं भूतेषु विलापयति केशवः ।।
अविद्यां चैव जीवस्य गमयेज्ज्ञानसर्जनात् ।
स्वर्णकारा यथा स्वर्णमलमग्नौ निहत्य च ।।
सृष्टिस्थितिसंहारादिप्रकरणे मोक्षप्रकरणम्
शुद्धेन तेन चात्मेष्टं कुरुते रूपमञ्जसा ।
एवं स भगवान्विष्णुर्जीवस्वर्णस्य यन्मलम् ।।
अविद्याकामकर्माद्यमात्माग्नावस्य सर्वकृत् ।
स्वेच्छया कुरुते रूपं यद्योग्यं तस्य मुक्तिगम् ।।
पितृजीवस्य पित्र्यं च गान्धर्वं तस्य चैव हि ।
दैवं तु देवजीवस्य प्राजापत्यं प्रजापतेः ।।
ब्रह्मणो ब्राह्ममेवेति नित्यानन्दस्वरूपकम् ।
न योग्या तं विना क्वापि पूर्वप्रज्ञा श्रुतेः क्वचित् ॥
अल्पतेजस्तथैवाल्पं जीवरूपं हि संसृतौ । तथैव सुमहत्तेजः करोति भगवान्महत् ।
अतो नवतरं चैतद्ब्रह्मादीनां करोत्यजः ।। इति ।
इदमेव वाक्यं ज्ञानपादीयानुव्याख्यानसुधासन्यायरत्नावलीनयचन्द्रिका- सूदाहृत्य व्याख्यातमिति ।
ननु मुक्तानामीश्वरकृतं महत्परिमाणं नित्यमनित्यं वा । नाद्यः । जीवानामणुत्वमेवेति सिद्धान्तविरोधात् । अनित्यत्वे च तदुपादानं प्रकृतिरेवेति तेषां संसारित्वाऽपत्तिरिति चेन्न । तेषां स्वरूपतोऽणुत्वेऽप्यणिमाद्यष्टैश्वर्यवत्त्वेन मुक्तावीश्वरेण व्यक्तीकरणसम्भवात् ।
ननु वैकुण्ठलोकस्य प्रलये विनाशे तद्गतानां मुक्तनामपि विनाशेन संसारिसाम्यं स्यादित्यत आह- वैकुण्ठादाविति ।
वैकुण्ठादौ विद्यमानाः सर्वेऽपि पदार्था लक्ष्म्याद्यात्मकाः ।। ५९९ ।।
तदुक्तं गीतातात्पर्ये- शाश्वतं स्थानं वैकुण्ठादि ।
श्रीरेव लोकरूपेण विष्णोस्तिष्ठति सर्वदा ।
अतो हि वैष्णवा लोका नित्यास्ते चेतना अपि ।। इति ।
छान्दोग्यभाष्येऽपि-
परस्य ब्रह्मणो लोके श्वेतद्वीपाभिधे परे ।
इत्यारभ्य
चित्सुवर्णमयं दिव्यं लक्ष्मीस्तत्तत्स्वरूपिणी ।। इत्युक्तम् ।
मध्वविजयेऽपि–
विमलाकृतिः प्रकृतिरेव महामणिहेममय्यखिलवस्तुमयी ।
इह सम्भवेत्सकलकान्तिरसः कथितोऽधिकोक्तिभिरतः कविभिः ।। इति ।
ननु मुक्तब्रह्मादीनां पुनः सृष्टिकाले सत्यलोकाद्याधिपत्ये सति संसारित्वाऽपत्त्या मोक्षस्यापुरुषार्थत्वं स्यादित्यत आह- मुक्तब्रह्मादीनामिति ।
मुक्तब्रह्मादीनां जगत्सृष्ट्यादिव्यापारो नास्ति ।। ६०० ।।
तदुक्तं सूत्रभाष्ययोः- ॐ विकाराऽवर्ति च तथाहि दर्शयति ॐ ।।
विकाराऽवर्तिव्यापारो मुक्तानां न विद्यते ।
इमं मानवमावर्तं नाऽवर्तन्त इति श्रुतेः ।।
न विकाराधिकारस्तु मुक्तानामन्य एव तु ।
विकाराधिकृता ज्ञेया ये नियुक्तास्तु विष्णुना ।। इति ।
निर्णयेऽपि-
देवानिमान्मुक्तसमस्तदोषान्स्वसन्निधाने विनिवेश्य देवः ।
पुनस्तदन्यानधिकारयोग्यांस्तत्तद्गणानेव पदे नियुङ्क्ते ।। इति ।
ननु मुक्तब्रह्मादीनामनधिकारे तत्तदुत्तमत्वतत्तन्नियामकत्वादिकं न स्यादित्यत आह- मुक्तस्वकीयेति ।
मुक्तस्वकीयावरनियामकत्वं चास्त्येव ।। ६०१ ।।
तदुक्तं भोगपादीयानुव्याख्याने-
मुक्तस्वकीयावरयन्तृताऽस्ति मुक्तावपि ब्रह्म पुरःसराणाम् ।। इति ।
निर्णयेsपि-
ब्रह्मैव सर्वजीवेभ्यः सदा सर्वगुणाधिकः ।
मुक्तोऽपि सर्वमुक्तानामाधिपत्ये स्थितः सदा ।। इति ।
भाष्येऽपि-
स्वाधिकारेण वर्तन्ते देवा मुक्तावपि स्फुटम् ।
बलिं हरन्ति मुक्ताय विरिञ्चाय च पूर्ववत् ।
पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतुर्मुख इति ।।
ननु मोक्षे सुखानुभवानन्तरं स्वर्गादिवत्पुनः पाते तस्य महापुरुषार्थत्वं न स्यात् । तदर्थं महासाधनानुष्ठानं च न स्यादित्यत आह- पुनः संसार इति ।
पुनस्संसारे नाऽवर्तन्ते मुक्ताः ।। ६०२ ।।
तदुक्तं सूत्रभाष्ययोः- ॐ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॐ ।। इति ।
ब्रह्मलोकमभिसम्पद्य न च पुनरावर्तते न च पुनरावर्तते ।। इति ।
छान्दोग्यभाष्येऽपि ।
दृष्ट्वा तं परमं विष्णुं तल्लोकं प्रतिपद्यते ।
नाऽवर्तते पुनस्तस्मात्कदाचित्केनचित्कचित् ।। इति ।
निर्णयेऽपि-
मुक्तिर्नित्या तमश्चैव नाऽवृत्तिः पुनरेतयोः ।। इति ।
द्वितीयतात्पर्येऽपि-
तत आनन्दनामानमव्यक्तस्थं जनार्दनम् ।
प्राप्य नाऽवृत्तिमायान्ति शान्तीभूता निरामयाः ।। इति ।
गीतायामपि-
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ।। इति ।
ननु तृतीयस्कन्धभागवतादौ वैकुण्ठवासिनां जयविजयादीनां भगवद्द्वारपानामपि सनकादिशापेन पुनर्भूमौ रावणकुम्भकर्णादिरूपेणोत्पत्तेः प्रतिपादितत्वेन मुक्तानामनावृत्तिरेव नेति चेन्न । सनकादिशापविषयाणां मुक्तत्वाभावात् । तत्र जयाद्या द्विविधाः । अधिकारस्था अनधिकारस्थाश्चेति । अधिकारस्था न मुक्ताः । किन्तु शापादियोग्याश्च । अनधिकारस्थास्तु मुक्ताः शापाद्यविषयाश्चेति ।
तदुक्तं सप्तमस्कन्धतात्पर्ये-
अधिकारस्थितश्चैव विमुक्ताश्च द्विधा जनाः ।
विष्णुलोकस्थितास्तेषां वरशापादियोगिनः ।।
अधिकारस्थिता मुक्तिं नियतं प्राप्नुवन्ति च ।
विमुक्त्यनन्तरं तेषां वरशापादयो न तु ।। इति ।
अत्र केचित् । एतत्कल्पे मुक्तियोग्यानामेवैतत्कल्पे सृष्टिः । न तु कल्पान्तरे मुक्तियोग्यानामपि । तेषामेवैतद्ब्रह्मकल्पे साधनसम्पत्तिः । एतद्ब्रह्मणा सह मुक्तिश्च । सृज्यसृष्टावीक्षा बभूव परनामनिमेषकान्त इति निर्णयोक्तेः । किञ्च प्रतिब्रह्मकल्पं सर्वेषां सृष्टयङ्गीकारे साधनसम्पत्त्या सर्वेषामपि मुक्त्याऽपत्त्या पुनः सृष्ट्यादिकं न स्यात् । न च केषाञ्चिदेव साधनपूर्तिर्न तु सर्वेषामतो न सर्वमुक्तिरिति वाच्यम् । समानगणस्थानां मध्ये केषाञ्चिदेव मुक्त्यङ्गीकारे केषाञ्चिद्बहुजन्माङ्गीकारे च जन्ममरण- सुखदुःखक्षुत्पिपासादीनामाधिक्याऽपत्त्या समानगणत्वं न स्यात् । किञ्च अनन्तजन्मसु सृष्टाः साधनानुष्ठानवन्तो जाताः पुनश्चैष्यत्स्वनन्तजन्मसूत्पत्स्यन्ते साधनान्यनुतिष्ठन्ति च पुनश्च न मुच्यन्त इत्यस्यानुभवबाधि- तत्वात् । अतः प्रतिकल्पं न सर्वेषां सृष्टिः । किन्तु योग्यानामेवेत्याहुः । तन्न । प्रतिब्रह्मकल्पं सर्वेषां जीवानां सृष्टेरावश्यकत्वात् । नियमे प्रमाणाभावात् । स इदं सर्वमसृजतेति श्रुतेः । अन्यथा सर्वथा सृष्ट्ययोग्यानां लक्ष्म्यव्याकृताकाशादीनां वर्णानां च पराधीनविशेषावाप्तिलक्षणसृष्टिकथनप्रयासवैयर्थ्याऽपत्तेः । तथा च वियदधिकरणसुधानुव्याख्यानविरोधप्रसङ्गात् । श्रुतिसङ्कोचे मानाभावाच्च । यच्चोक्तम् । सृज्यसृष्टावीक्षा बभूवेति निर्णयवाक्ये सृज्यपदं प्रमाणमिति तदयुक्तम् । तस्य मुक्तव्यावृत्त्यर्थत्वेन चरितार्थत्वात् ।न च मुक्तस्य तत्राप्रसक्तिरिति वाच्यम् । तस्योदरस्थजगत इति पूर्वश्लोके, दृष्ट्वा स चेतनगणाञ्जठरे शयानानानन्दमात्रवपुषः सृतिविप्रमुक्तानित्युत्तरश्लोके च मुक्तामुक्तसमुदायस्य प्रलयकाले परमात्मशरीरप्रविष्टत्वेन प्रसक्तिसम्भवात् । यच्चोक्तमनेकजन्ममरणसुखदुःखादिबाहुल्यं स्यादिति । तदपि न समञ्जसम् । प्राकृतसुखदुःखादिषु वैषम्यसम्भवेऽपि मोक्षसुखस्य समानत्वसम्भवात् । न च बहुसाधनवतो मोक्षेऽपि सुखाऽधिक्यं स्यादिति वाच्यम् । स्वर्गादि- सुखार्थमेव साधनानुष्ठानसम्भवात् । प्रद्युम्नसृष्टसूक्ष्मशरीराणि स्वीकृत्य कर्माभिमानितयाऽपि स्थितिसम्भवाच्च । किञ्च ब्रह्माद्याधिकारिकदेवानां शतादिब्रह्मकल्पेषु साधनस्यापरोक्षज्ञानानन्तरं पुनः शतादिब्रह्मकल्पेषु प्रारब्धानुभवस्य चोक्तत्वेन तेषामेकब्रह्मकल्पे सृष्ट्यनुपपत्तेः । न च मनुष्योत्तमादीनामेव न सर्वेषां सर्वब्रह्मकल्पेषु सृष्टिरिति वाच्यम् । तर्हि तेषां कदाऽपि सृष्ट्याद्यभावप्रसङ्गात् । पूर्वं शरीरारम्भककर्माभावात् । तेषां पूर्वं शरीरसम्बन्धाभावेन कर्मकरणायोगात् । अनादिपूर्वकर्मण एव न कर्माविभागादिति चेन्नानादित्वादिति सूत्रे हठवादादौ च शरीरकारणत्वोक्तेः । अन्यथा परमात्मनो वैषम्यनैर्घृण्यादिदोषप्रसङ्गात् । न च कर्मणां स्वरूपत एवानादित्वमिति वाच्यम् । प्रवाहत एवानादित्वं कर्मणामिति टीकादिविरोधप्रसङ्गात् । गीताभाष्येऽपि - यदि सादिः स्यात्संसारः पूर्वकर्माभावादतत्प्राप्तिरित्युक्तेः । न चानुव्याख्याने मनुष्योत्तमादीनामन्येषां ब्रह्ममात्रत इत्येकब्रह्मकल्पे मोक्षप्रयत्नप्रारब्धयोरुक्त्यनुपपत्तिरिति वाच्यम् । नानाकल्पेषु जन्मवतां मोक्षार्थमकृतप्रयत्नानामेवेश्वरेच्छयैनमेतस्मिन्कल्पे मोचयामीत्येवं रूपयैकस्मिन्नेव ब्रह्मकल्पे मोक्षार्थं साधनानुष्ठानस्य प्रारब्धानुभवस्य चोपपत्तेः । अत एव ऋजूनामपि मोक्षार्थमुत्साहाभावस्य ऋजूनामेक एवास्ति ।
परमोत्साहवर्जनमित्यनुव्याख्यानोक्तेश्च । अतः सर्वेषामपि सर्वेषु ब्रह्मकल्पेषु सृष्टिरिति सिद्धम् ।
अपरे तु
खगा मृगास्तृणादयः पिपीलिकाश्च गर्दभाः ।
तदाऽऽसुरुत्तमा यतो नृवानरास्तु किं पुनः ।। इति ।
तथा–
पिपीलिकातृणान्तानां ददौ लोकाननुत्तमान् ।
वैष्णवान्सन्ततत्वाच्च नाम्ना सान्तानिकान्विभुः ।। (निर्णये)
इति रामावतारे एकगुणोपासकानां तृणजीवानां चतुर्गुणोपासकानां मनुष्योत्तमानां रामेण सह गमनेनापुनरावृत्तिकसांतानिकलोकप्राप्तिस्तत्र स्थितिश्च तेषामिति मन्यन्ते । तन्न । ते तृणजीवा अपरोक्षज्ञानिनो न वा । नेति पक्षे ईयुस्त्रीन्कर्मणा लोकान्ज्ञानेनैव तदुत्तरानिति प्रमाणबलेन सान्तानिकलोकानामपरोक्षज्ञानसाध्यत्वोत्त्या तद्विरोधप्रसङ्गात् । नाद्यः । सान्तानिकलोकस्थितिः प्रारब्धकर्मफलं न वा । नेति पक्षे तद्गमनस्थित्योरसम्भवः । नाद्यः । अन्येषां ब्रह्ममात्रस्य त्वन्तरारब्धसङ्क्षय इत्यनुव्याख्यानविरोधात् । तत्र ब्रह्मणोन्तिमदिन एव मनुष्योत्तमानां प्रारब्धसङ्क्षयस्योक्तत्वेन बहुदिनपर्यन्तं तत्र प्रारब्धानुभवासम्भवात् । नचान्तरारब्धसङ्क्षय इति पाठः । न त्वन्त आरब्धसङ्क्षय इति । तथा च । अन्तराप्रतिदिनं मध्ये मध्ये ब्रह्मणोष्टादशसहस्रात्मकदिनमध्ये केषाञ्चिन्मनुष्योत्तमानां प्रथमदिन एवापरोक्षज्ञानं रामेण सह गमनसान्तानिकलोकप्राप्तिप्रारब्धानुभवा इत्यङ्गीकर्तव्यम् । केषाञ्चिद्द्वितीयदिने अपरेषां तृतीयदिन इत्यादिक्रमेण प्रारब्धानुभव इति वाच्यम् । तथा सति समानगणस्थानां केषाञ्चित्प्रथमदिने प्रारब्धानुभवः केषाञ्चिद्वितीयदिन इति स्यात् । न चेष्टाऽपत्तिः । प्रथमदिनानुगतानां बहुकालप्रारब्धानुभव: अन्तिमदिनानुगतानां त्वल्पकालप्रारब्धानुभव इति महावैषम्यापत्तेः । तथाचान्तरेत्यपपाठः अन्त आरब्धसङ्क्षय इति सप्तम्यन्तपाठस्साधुः । नन्वेवं सति खगा मृगा इति निर्णयस्थश्लोकस्य कोऽर्थः । पक्षद्वयेऽपि बाध इति चेदुच्यते । खगमृगतृणनृवानरणां देवर्ष्याद्यवताररूपत्वेनैकगुणोपासकचतुर्गुणोपासकमनुष्योत्तमत्वाद्यभावात् । अत एव नृवानराणां स्वांशिप्रवेशस्तत्रैवोक्तः । तथाहि-
ये तु देवा इहोद्भूता नृवानरशरीरिणः ।
ते सर्वे स्वांशितामापुस्तान्मैन्दविविदावृतः ।। इति ।
मनुष्योत्तमादित्वपक्षे तेषां निरंशत्वेन प्रवेशानुपपत्तिरिति सर्वमवदातम् ।
वैकुण्ठलोके परमात्मनः स्थितिमाह -परमात्मा चे ।
परमात्मा चात्र सकलभोगयुक्तः । मुक्तब्रह्मादिभिरीड्यमानो लक्ष्म्यात्मके विमिताख्ये पर्यंके शेते ।। ६०३ ।।
सकलभोगयुक्तो मुक्तब्रह्मादिभिरिति-
कृष्णो मुक्तैरिज्यते वीतमोहैः ततो हरिः प्रलये श्रीसहायः ।
शेते निजानन्दममन्दसांद्रसन्दोहमेकोऽनुभवन्ननन्तः ।।
अनन्तशीर्षास्यकरोरुपादः सोऽनन्तमूर्तिः स्वगुणाननन्तान् ।
अनन्तशक्तिः परिपूर्णभोगो भुञ्जन्नजस्रं निजरूप आस्ते ।। इति ।
संस्थाप्य दूरे सरथं सविप्रं पार्थं स्वरूपे द्विचतुष्कबाहौ ।
समस्तरत्नोज्ज्वलदिव्यभूषणे विवेश नित्योरुगुणार्णवे प्रभुः ।
सहस्रमूर्धन्युरुशेषभोग आसीनरूपेऽमितसूर्यदीधितौ ।
रमासहाये तटिदुज्ज्वलाम्बरे मुक्तैर्विरिञ्चादिभिरर्चिते सदा ।
स्थित्वैकरूपेण मुहूर्तमीश्वरो विनिर्ययौ विप्रसुतान्प्रगृह्य ।। इति ।
स पूर्वरूपेण समेत्य चैक्यं विभज्य चेच्छानुसृतोऽथ रेमे । हरिः श्रिया ब्रह्ममुखैश्च मुक्तैः सम्पूज्यमानोऽमितसद्गुणात्मा । इत्यादिनिर्णयोक्तेरिति भावः ।
लक्ष्म्यात्मके विमिताख्ये पर्यंक इति ।
तदुक्तं छान्दोग्यभाष्ये-
तत्र विष्णोः परं दिव्यमपराजितनामकम् ।
विमिताख्यं च पर्यङ्कं विष्णोर्मानेन संमितम् ।
चित्सुवर्णमयं दिव्यं लक्ष्मीस्तत्तत्स्वरूपिणी ।। इति ।
तत्र प्रियकर्म गायतीत्यादि-
तत्र प्रियकर्म गायती बहुधा विभूतिभिर्बहुमानं करोति महालक्ष्मीरित्यशेषमति मङ्गलम् ।। ६०४ ।।
तदुक्तं द्वितीयस्कन्धभागवते-
श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ।
प्रेंखस्थिताः याः कुसुमाकरानुगैर्विगीयमाना प्रियकर्म गायती ।
ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् ।
सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षमुख्यैः परिसेवितं विभुम् ।
भृत्यप्रसादाभिमुखं दृगासवैः प्रसन्नहासारुणलोचनाननम् ।
किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया ।। इत्यादि ।
अत्र महाफलमोक्षाधिकारिणः क इत्याकाङ्क्षायामहोरात्रं परमादरेणानवरतं श्रीमध्वशास्त्रालोडनवन्त एवेत्यभिप्रायेण श्रीमध्वविजयश्लोकमन्ते निबध्नाति । महानन्दतीर्थस्येति ।
महानन्दतीर्थस्य ये भाष्यभावं मनोवाग्भिरावर्तयन्ते स्वशक्त्या । सुराद्या नरान्ता मुकुन्दप्रसादादिमं मोक्षमेते भजन्ते सदेति ।। ६०५ ।।
।। इति मोक्षप्रकरणम् ॥
रघुनाथार्यशिष्येण पद्मनाभेन धीमता ।
कृतः पदार्थसङ्क्षेपोप्यनुगृह्णन्तु सूरयः ।। १ ।।
।। इति श्री वेदगर्भ पद्मनाभसूरिविरचितः पदार्थसङ्ग्रहः समाप्तः ।।
महतामनुग्रहायैव पद्मनाभेन सूरिणा ।
मध्वसिद्धान्तसारोऽयं सप्रमाणः कृतोऽञ्जसा ।।
।। इति श्रीमन्महाभाष्यरघुनाथाचार्यशिष्येण श्री वेदगर्भ पद्मनाभेन कृतः पदार्थसङ्ग्रहव्याख्यारूपः मध्वसिद्धान्तसारः समाप्तः ।।
।। श्रीकृष्णार्पणमस्तु ।।