मङ्गलाचरणम्
मङ्गलाचरणम्
श्रीः
श्रीवेदगर्भ पद्मनाभसूरिविरचितः मध्वसिद्धान्तसारः
स्वोपज्ञपदार्थसङ्ग्रहव्याख्यानरूपः
।। श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।। हरिः ॐ
लक्ष्मीनारायणं वन्दे पूर्णबोधगुरूनपि ।
जयार्यान् व्यासराजांश्च मद्गुरूनपि सादरम् ।।
वेदगर्भकुलीनेन पद्मनाभेन धीमता ।
मध्वसिद्धान्तसारोऽयं तन्यते सेव्यतां बुधैः ॥
इह खलु जगदुदयादिनिमित्तत्वेन परमात्मतत्त्वज्ञानं मोक्षसाधनमित्यवान्तरानेकभेदभिन्नपदार्थनिरूपणं कुर्वन् ग्रन्थादौ मङ्गलमाचरति-लक्ष्मीपतिमिति ।
लक्ष्मीपतिं सम्प्रणम्य सर्वज्ञादिगुरूनपि ।
पदार्थानां सङ्ग्रहोऽयं क्रियते शास्त्रतोऽञ्जसा ।। १ ।।
ननु नैयायिकादिभिरेव पदार्थनिरूपणस्य कृतत्वाद्व्यर्थ एवाऽयं ग्रन्थः इत्यत आह–अञ्जसेति । नैयायिकादिनिरूपितपदार्थमध्ये कस्यचित् स्वरूपत एवाभावात्केषाञ्चिच्छास्त्रविरुद्धतया निरूपणात्तस्याञ्जस्यमेव नास्तीति भावः । ननु भवन्निरूपणस्यापि शास्त्रविरुद्धत्वे तद्वदनुपादेयता स्यादित्यत आह-शास्त्रत इति । ल्यब्लोपनिमित्ता पञ्चमी । शास्त्रमनुसृत्येत्यर्थः ।