द्रवणप्राप्यत्वं द्रव्यसामान्यलक्षणम् द्रवणं च गमनम्
द्रव्यप्रकरणम्
पूर्वं सूचीकटाहन्यायेन कर्मसामान्यादेर्निरूपितत्वादवशिष्टद्रव्यगुणयोर्विशेषाकारेण निरूपणं चिकीर्षुर्गुणाश्रयत्वेन द्रव्यस्य प्राधान्यादादौ द्रव्यलक्षणमाह-द्रवणप्राप्यत्वमिति ॥
द्रवणप्राप्यत्वं द्रव्यसामान्यलक्षणम् । द्रवणं च गमनम् ॥ ५६ ॥
अंह पूर्वमहं पूर्वमिति विवदमानयोः पुरुषयोर्यद्धावनप्राप्यं तद्द्रव्यमित्यर्थः ।
तदुक्तं द्वितीयस्कन्धतात्पर्ये-
द्रव्यं तु द्रवणप्राप्यं द्वयोर्विवदमानयोः ।
पूर्वं वेगाभिसम्बन्धादाकाशस्तु प्रदेशतः ।। इति ।
अनेनाव्याकृताऽकाशप्रकृतिकालवर्णानां व्याप्तानामपि प्रदेशतो गमनप्राप्यत्वमिति नाव्याप्तिरिति बोध्यम् ।।
लक्षणान्तरमाह—
उपादानकारणत्वं वा द्रव्यत्वम् ।। ५७ ॥
वाशब्दो व्यवस्थितविकल्पार्थः । तमेवाह-उपादानत्वं चेति ॥
उपादानत्वं च परिणामोऽभिव्यक्तिश्चेति द्विविधम् ॥ ५८ ॥
अत्र प्रकृतिमारभ्य ब्रह्माण्डपर्यन्तं तथाऽविद्याकालान्धकारवासनाप्रतिबिम्बानां च परिणामः । तत्रापि प्रकृतेर्महदाद्यात्मना परिणामः । स्वयं च नान्येन परिणता । महदादेस्तु स्वयं परिणतत्वमहंकारादिपरिणामहेतुत्वं च । ब्रह्माण्डस्य परिणतत्वमात्रम् । अविद्याया उभयम् । अन्धकारवासनाकालप्रतिबिम्बानां च परिणतत्वमिति बोध्यम् । परमात्मलक्ष्मीजीवाव्याकृताऽकाशवर्णानामभिव्यक्तिरिति व्यवस्थेत्यर्थः । परमात्मनोऽनन्तावताराभिव्यञ्जकत्वम् । लक्ष्म्या अपि सीतारुक्मिण्याद्यनन्तावताराभिव्यक्तिमत्त्वम् । जीवानां सांशानामंशाभिव्यञ्जकत्वम् । निरंशानां पराधीनशरीरादिभिरभिव्यक्तिमत्त्वम् । अव्याकृताकाशस्य पराधीनमूर्तसम्बन्धरूपविशेषवत्त्वेनाभिव्यक्तत्वम् । एतच्च प्रथमभागवते स्पष्टम् एतन्नानावताराणां निधानं बीजमव्ययम् ।। इति ।
एतच्च वियदधिकरणसुधाऽनुव्याख्यानयोरपि स्पष्टम् । वर्णानामपि वर्णान्तराभिव्यञ्जकत्वम् ।
तदुक्तं तन्त्रसारे-
पञ्चाशद्वर्णवाच्यास्ता वर्णास्तारार्णभेदिताः ।
नारायणाष्टाक्षराच्च व्याहृतिभ्यस्तथैव च ।
विभेदो द्वादशार्णानां केशवाद्याश्च देवताः ।
नारायणाष्टाक्षराच्च व्याहृतित्रिगुणात्पुनः ।
वेदमाता तु गायत्री द्विगुणा द्वादशाक्षरात् ।। इति ।
अत्रायं सम्प्रदायः । प्रलयकाले सर्वेऽपि वर्णाः परस्परं निबिडतया सम्बद्धाः । नानादीपालोकवत् । सृष्टिकाले प्राप्ते परमात्मा तत्तद्वर्णानुच्चारणेन विभजति । तत्र ताराष्टाक्षरविभागकाले नारायणाष्टाक्षरसम्बद्धांस्ताराष्टाक्षरानुच्चारणेन विभजति । ततस्ताराष्टाक्षरेभ्यो नारायणाष्टाक्षरानुच्चारणेनोद्धरति । एवं नारायणाष्टाक्षरादपि । दीपाद्दीपान्तरवत् ।
तदुक्तं तन्त्रसारे-
वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः ।
व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ।। इति ।
***