प्रत्यक्षानुमानप्रकरणम्

प्रत्यक्षानुमानप्रकरणम् २९

प्रत्यक्षानुमानोपमानशब्दभेदाच्चत्वारि ज्ञानकरणानि । तान्येव यथार्थज्ञानकरणानीति तार्किकाः । तान्निराकरोति - ज्ञानकरणमिति

ज्ञानकरणं त्रिविधम् । प्रत्यक्षानुमानशब्दभेदात् ।। ३५१ ।।

उपमानादेरनुमान एवान्तर्भावात्त्रैविध्यं युक्तमिति भावः । तदुक्तं प्रमाणलक्षणे- अर्थापत्त्युपमे अनुमाविशेषः । अभावोऽनुमा प्रत्यक्षं चेति ।

भक्तिपादीयानुव्याख्यानेऽपि -

अर्थापत्त्युपमाऽभावा अनुमान्तर्गताः क्वचित् । इति ।

तत्त्वनिर्णयेऽपिअर्थापत्तिश्चोपमा च ह्यनुमाभेद एव त्विति । अन्तर्भावप्रकारश्च तत्तट्टीकातोऽवगन्तव्यः । विस्तरभयान्नेह लिख्यते ।

प्रमाणसामान्यलक्षणमाह-तत्रेति

तत्र यथार्थज्ञानकरणानि प्रमाणानि । अयथार्थज्ञानकरणान्यप्रमाणानि ।। ३५२ ।।

तच्च यथार्थज्ञानसाधनरूपानुप्रमाणस्य लक्षणम् । यथार्थज्ञानेऽपि प्रामाण्यव्यवहारात्तत्साधारणं लक्षणं तु याथार्थ्यमेव । यथार्थं प्रमाणमिति प्रमाणलक्षणोक्तेः

युक्तिपादीयानुव्याख्यानेऽपि -

याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः । इति ।

तत्त्वनिर्णयेऽपि-

याथार्थ्यमेव प्रामाण्यं तन्मुख्यं ज्ञानशब्दयोः । इति ।

तार्किकास्तु । न यथार्थज्ञानं प्रमाणमित्याहुः । तन्नेत्याह-यथार्थज्ञानमपीति

यथार्थज्ञानमपि प्रमाणम् । स्वरूपेन्द्रियं साक्ष्यपि प्रत्यक्षरूपं प्रमाणम् । इन्द्रियार्थसन्निकर्षद्वारा चक्षुरादिषडिन्द्रियाणि ज्ञानजनकानि ।। ३५३ ।।

लोके व्यवहारबलादुक्तप्रमाणबलाच्चेत्यर्थः ।

ननु षडिन्द्रियाणां प्रामाण्याङ्गीकारे मनः कुत्रार्थे प्रमाणम् । न तावदात्मनि सुखदुःखादौ च प्रमाणम् । तेषां साक्षिवेद्यत्वोक्तेः । नापि बाह्यार्थे । तत्र स्वातन्त्र्याभावादित्यत आह- संस्कारद्वारेति

संस्कारद्वारा मनः स्मरणसाधनम् । यथार्थस्मृतिरपि प्रमाणम् ।। ३५४ ।।

एतेन मनसो बाह्यार्थैः सन्निकर्षाभावान्न स्मरणजनकं मन इति परास्तम् । संस्कारस्यैव सम्बन्धरूपत्वादिति भावः ।

तदुक्तं युक्तिपादीयानुव्याख्याने-

प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ।

याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ।

अङ्गीकृतं चेत्प्रामाण्यं स्मृत्यादेः का विरुद्धता । इति ।

पद्धत्यादावपि स्वातन्त्र्येण स्मरणसाधनं मन इति ।

नन्विन्द्रियाणां न प्रामाण्यम् । कदाचिदयथार्थज्ञानजनकत्वादित्यत आह-दोषसहकारेणेति

दोषसहकारेणेन्द्रियाण्ययथार्थज्ञानजनकानि ।। ३५५ ।।

तदा न प्रमाणमित्यर्थः ।

प्रत्यक्षसहकारिणं निरूप्यानुमानसहकारिणं निरूपयति-व्याप्तिज्ञानमिति

व्याप्तिज्ञानं समुचितदेशादौ सिद्धिवानुमानसहकारि । न तु पक्षधर्मताज्ञाननियमः ।। ३५६ ।।

अज्ञातव्याप्तेर्लिङ्गादनुमित्यदर्शनाव्याप्तिज्ञानमनुमानसहकारीत्यर्थः । समुचितदेशादावितियद्देशे यत्काले च स्थित्वा पक्षे साध्यानुमितिजनन- समर्थं लिङ्गं तस्य तद्देशे तत्काले च सिद्धिरनुमितिसहकारि । यथोर्ध्वदेशो वृष्टिमानधो देशे नदीपूरात् । उपरि सविता भूमेरालोकात् । अयं कालो रोहिण्युदयासत्तिमान्कृत्तिकोदयवत्त्वादिति । नह्यत्र परम्परासम्बन्धेन वा पक्षभेदेन वा पक्षधर्मता वक्तुं शक्येति वाच्यम् । लौकिकवैदिकपरीक्षकाणां तथा प्रतीतेरभावात् । तदुक्तं प्रमाणलक्षणे-व्याप्तिरेव हि प्रयोजिकेति ।

भक्तिपादीयानुव्याख्यानेऽपि -

रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः ।

इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधिका । इति ।

शाब्दज्ञानकारणमाहशक्तिज्ञानमिति

शक्तिज्ञानमाकांक्षाऽऽसत्योश्च ज्ञानं शाब्दज्ञानकारणम् ||३५७॥

शक्त्याकाङ्क्षासन्निधिविशिष्टपदप्रत्यक्षमित्यर्थः । न तु शक्त्यादेः प्रत्येकं ज्ञानम् । ननु पदार्थस्मरणस्याप्यावश्यकत्वात्तत्कुतो नोक्तमिति चेन्न । शक्तिज्ञान एवान्तर्भूतत्वात् । तदुक्तं जिज्ञासाधिकरणसुधायाम् पक्षनिचयश्रवणवाक्यार्थबोधावन्तरा पदार्थस्मृतीनामेवानभ्युपगमादिति ।

योग्यताज्ञानं शाब्दज्ञाने कारणमिति नैयायिकाः । तन्नेत्याहनत्विति

न तु योग्यताज्ञानमपि ।। ३५८ ।।

नन्वेवमग्निना सिञ्चेदित्याद्ययोग्यवाक्येऽप्यन्वयबोधप्रसङ्गादित्यत इष्टापत्त्या परिहरतिअत्यन्तासत्यपीति

अत्यन्तासत्यप्यर्थे शब्दस्य ज्ञानजनकत्वदर्शनात् । स्वातन्त्र्येण पदार्थस्मरणं न हेतुः । शक्तिज्ञान एवान्तर्भूतत्वात् ।। ३५९ ।।

अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि । इत्युक्तेः ।

तदुक्तं भक्तिपादीयसुधायाम्-अग्निना सिञ्चेदित्यादौ योग्यताभावेऽप्यन्वयप्रतीतेः प्रकृतानुपयोगाद्योग्यताऽपि नोक्तेति ।

व्याप्त्यादिस्वरूपमाह-साहचर्येति

साहचर्यनियमो व्याप्तिः । पदपदार्थयोर्वाच्यवाचकभावसम्बन्धः शक्तिः । तद्ग्रहश्च सादृश्यपुरस्कारेण सर्वधूमायोः सर्वपदार्थयोश्च भवति । न तु सामान्यप्रत्यासत्त्या ।। ३६० ।।

यद्यप्यविनाभावो व्याप्तिरिति पद्धत्यादावुक्तम् । तथाऽपि साहचर्यनियम इति यावदिति तत्रैवोक्तेः ।

भक्तिपादीयसुधायामपि - अविनाभावमात्रस्य व्याप्तित्वात् । अविनाभावश्च क्वचिदेकाश्रयतामन्तर्भाव्य भवतीत्यादिना साहचर्यनियम एव पर्यवसानमुक्तम् । पदपदार्थयोरित्यादिग्रन्थः पदशक्तिप्रकरणादौ व्याख्यातः ।

नामजात्यादियोजनाहीनं निर्विकल्पकं ज्ञानान्तरमस्तीति तार्किकाः । शब्दादपरोक्षज्ञानमिति मायावादिनः । तान् दूषयति- प्रत्यक्षादीति

प्रत्यक्षादिजन्यं ज्ञानं सविकल्पकमेव । न तु निर्विकल्पकम् । मानाभावात् ।। ३६१ ।।

ननु जागराऽव्यवहितोत्पन्नं गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञानत्वात् दण्डीति ज्ञानवत् । तच्च विशेषणज्ञानं न विशिष्टज्ञानम् । तत्रापि विशेषणज्ञानान्तरस्य कारणत्वे तत्राप्येवं तत्राप्येवं इत्यनवस्थाऽपत्तेः । अतस्तन्निष्प्रकारकमेवाङ्गीकर्तव्यमिति चेन्न । विशिष्टप्रत्यक्षे विशेषणेन्द्रियसन्निकर्षस्यैव कारणत्वोपपत्तौ विशेषणज्ञानस्यापि कारणत्वे मानाभावात् । दण्डी देवदत्त इत्यादिविशिष्टवैशिष्ट्यावगाहिज्ञाने विशेषणतावच्छेदकप्रकारकज्ञानस्यानन्यगत्या कारणत्वाङ्गीकारात् । अधिकं तु तर्कताण्डवे बोध्यम् ।

प्रत्यक्षप्रमाणं विभजति-प्रत्यक्षप्रमाणमिति

प्रत्यक्षप्रमाणमष्टविधम् । साक्षिषडिन्द्रिययथार्थज्ञानभेदात् ।। ३६२ ।।

ननु प्रमाणलक्षणे प्रत्यक्षं सप्तविधम् । साक्षिषडिन्द्रियभेदेनेति प्रत्यक्षस्य सप्तविधत्वमुक्तम् ।

युक्तिपादीयानुव्याख्याने तु-

प्राकृतं शुद्धचैतन्यमक्षन्तु द्विविधं मतम् ।

पञ्चेन्द्रियमनोभेदात्प्राकृतं षड्विधं स्मृतम् ।। इति षड्विधत्वमुक्तम्

बृहद्भाष्ये तु-

चेतनं च जडं चेति चक्षुराद्यं तथैव च ।

चेतनं त्विन्द्रियं ह्यात्मस्वरूपं नापरं स्मृतम् ॥

मुक्तानां चेतनं त्वेव बद्धानामुभयं तथा । इति द्वैविध्यमुक्तम् ।

I तत्कथमष्टविधत्वमुच्यत इति चेदुच्यते । सर्वत्र प्रमाणलक्षणादौ विवक्षाभेदेनानुप्रमाणस्यैव सप्तविधत्वादिकमुक्तम् । अत्र केवलप्रमाणमपि स्वीकृत्याष्टविधत्वमुक्तमित्यविरोधः । अत एव प्रमाणलक्षणे आदिभागे तद्विविधम् । केवलमनुप्रमाणं चेति । यथार्थज्ञानं केवलमिति यथार्थज्ञानस्यापि केवलप्रमाणत्वमुक्तमिति द्रष्टव्यम् ।

अनुमानं विभजतिअनुमानमिति

अनुमानं त्रिविधम् । केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदात् ।। ३६३ ।।

प्रमाणलक्षणटीकायां पद्धतौ चैवमेव विभागकरणादिति भावः ।

केवलान्वय्यनुमानलक्षणमाह- अन्वयेति

अन्वयसहचारमात्रग्राह्यव्याप्तिकं केवलान्वयि ।। ३६४ ।।

मात्रपदाभावेऽन्वयव्यतिरेकिण्यतिव्याप्तिः । अतो मात्रेति । तस्योभयसहचारग्राह्यव्याप्तिकत्वादित्यर्थः । यथा घटोऽभिधेयः प्रमेयत्वादित्यनुमानं केवलान्वयि । न च सिद्धान्ते प्रमेयत्वाभिधेयत्वयोः प्रतिव्यक्तिभिन्नत्वेन कथं केवलान्वयित्वमिति वाच्यम् । सर्वपदार्थवृत्त्यनुगतैकधर्मत्वं केवलान्वयित्वमित्यनङ्गीकारात् । किन्तु यो धर्मो यत्र दृश्यते तत्सदृशा धर्मा अन्यत्र सर्वत्रापि सन्ति चेत्स एव धर्मः केवलान्वयी । अभिधेयत्वप्रमेयत्वादिकं च तथा । घटत्वादिकं तु न तथा । घटत्वसदृशघटत्वान्तरस्य पटादाववृत्तेः । केचित्तु । आकाशात्यन्ताभावः संयोगात्यन्ताभावश्च केवलान्वयीत्याहुः । तन्न । आकाशस्य संयोगवृत्त्या सर्वगतत्वेन तदत्यन्ताभावस्यालीकत्वात् । अत्यन्ताभावप्रतियोगित्वे गगनस्याऽलीकत्वाऽपाताच्च । संयोगस्यापि सर्वत्र सुलभत्वेन तदत्यन्ताभावस्यापि केवलान्वयित्वाभावात् । किन्तु शशशृङ्गाद्यलीकात्यन्ताभाव एव केवलान्वयीति ।

केवलव्यतिरेकिवत्केवलान्वयी न परम्परयाऽनुमितिहेतुः किन्तु साक्षादेवेत्याहस्वातन्त्र्येणेति

स्वातन्त्र्येणानुमितिहेतुः ।। ३६५ ।।

केवलव्यतिरेकिणं निरूपयति- व्यतिरेकसहचारमात्रेति

व्यतिरेकसहचारमात्रग्राह्यान्वयव्याप्तिकं केवलव्यतिरेकि ।। ३६६ ।।

व्यतिरेकिणि व्यतिरेकव्याप्तिग्रहस्यानुपयुक्तत्वेनाग्रहणादसम्भववारणायान्वय- व्याप्तिकमिति ।

तदेव विवृणोति- व्यतिरेकव्याप्तीति

व्यतिरेकव्याप्तिज्ञानमन्वयव्याप्तिज्ञानद्वाराऽनुमितिहेतुः । न तु साक्षात् ।। ३६७ ॥

व्यतिरेकसहचारेण व्यतिरेकव्याप्तिज्ञानं सामग्रीसत्त्वे कार्यं जन्यत इत्यभिप्रेत्य । वस्तुतस्तु साक्षान्नानुमितिहेतुरित्यत्र तात्पर्यम् ।

ननु व्यतिरेकिणि व्यतिरेकसहचाराद्व्यतिरेकव्याप्तिग्रहः । ततः साध्याभावव्यापकाभावप्रतियोगिमानयमिति व्यतिरेकपरामर्शः । ततः पक्षे साध्यानु - मिति: । यथा जीवच्छरीरं सात्मकं प्राणादिमत्त्वादित्यादावित्यत आह- व्यधिकरणत्वादिति

व्यधिकरणत्वाद्व्यतिरेकव्याप्तेः ।। ३६८ ।।

पक्षधर्मताव्यधिकरणत्वादित्यर्थः । पक्षधर्मतासमानाधिकरणव्याप्तिज्ञानस्यैवानुमानमात्रे कारणत्वेन क्लृप्तत्वात् । अत्र विजातीयसामग्य्रपरिकल्पनात् । न हि साध्याभावे व्याप्तिज्ञानं साधनेन साध्यानुमितावुपयोगि । परम्परासम्बन्धस्यातिप्रसक्तत्वात् । तथा च साधनं साध्यव्याप्यम् । साध्याभावव्यापकाभावप्रतियोगित्वादित्यन्वयव्याप्तिज्ञानद्वारेणैव व्यतिरेकिणो गमकत्वं वाच्यम् ।

तदुक्तं भक्तिपादीयानुव्याख्याने-

व्याप्तिश्च व्यतिरेकेण तत्र तैश्चावगम्यते । इति ।

तद्व्याख्यातं तत्रैव सुधायाम् तत्र जीवच्छरीरं सात्मकं प्राणादिमत्त्वादित्यादिके वलव्यतिरेकि समूहैस्तैरप्रसिद्धैरपि सात्मकत्वादिभिः साध्यैर्व्याप्तिश्चास्ति । व्यतिरेकेण साध्याभावस्य साधनाभावव्याप्यत्वेन लिङ्गे- नावगम्यते च सेति । पद्धतावपि-कथं केवलव्यतिरेकिणः संव्यवहारः । इत्थम् । प्राणादिमत्त्वं सात्मकत्वेन व्याप्तं तदभावव्यापकाभावप्रतियोगित्वादित्यादि ।

अन्वयव्यतिरेकिणं लक्षयति- उभयेति

उभयसहचारग्राह्यव्याप्तिकमन्वयव्यतिरेकि ।। ३६९ ।।

नन्वत्रोभयव्याप्तिज्ञानस्यापि सम्भवादुभयोरप्यनुमितिहेतुत्वे किमपराद्धं व्यतिरेकिणेत्यत आह- अत्रापीति ।

अत्राप्यन्वयव्याप्तिज्ञानमेवानुमितिहेतुः ।। ३७० ।।

नन्वेवमनुमानत्रयेऽप्यन्वयव्याप्तिज्ञानस्यैवानुमितिहेतुत्वे कथमनुमानत्रैविध्यमित्यत आह- व्याप्तिज्ञानेति

व्याप्तिज्ञानकारणभेदाद्भेदः ।। ३७१ ।।

केवलान्वयिन्यन्वयसहचारेणैव व्याप्तिज्ञानम् । केवलव्यतिरेकिणि व्यतिरेकसहचारेणैवान्वयव्याप्तिज्ञानम् । अन्वयव्यतिरेकिण्युभय-सहचाराभ्यामन्वय- व्याप्तिज्ञानं जन्यत इति कारणभेदादित्यर्थः ।

प्रकारान्तरेणानुमानं विभजति-स्वार्थमिति

स्वार्थं परार्थं चेति पुनर्द्विविधमनुमानम् । स्वार्थं स्वानुमितिहेतुः । परानुमितिहेतुः परार्थम् ।। ३७२ ।।

परार्थानुमाने प्रतिज्ञाहेतूदाहरणोपनयनिगमनादिपश्चावयवा नियमेन प्रयोक्तव्या इति नैयायिकाः । ते भ्रान्ता इत्याह । यावता विनेति ।

यावता विना नानुमितिस्तावदवयवाः प्रयोक्तव्याः । न तु पञ्चावयवनियमः ।। ३७३ ।।

परोपदेशस्य पञ्चावयवनियतिं वदन् प्रष्टव्यः । किमेतत्पञ्चावयववाक्यमागमतया व्याप्तिपक्षधर्मताविशिष्टलिङ्गप्रतिपादकं उत स्मरणमात्रोपयुक्तम् । नाद्यः । वादिप्रतिवादिनोरितरेतरस्मिन्ननाऽश्वासात् । आश्वासे वा प्रतिज्ञामात्रेणार्थसिद्धौ हेत्वाद्यभिधानवैयर्थ्यात् । न द्वितीयः । यत्र स्मारका- भावस्तत्रैव स्मरणार्थमेकैकमेव प्रयोक्तव्यं न तु सर्वेऽप्यवयवाः । किञ्चाविवादेनैव प्रतिज्ञार्थसिद्धौ प्रमाणाकांक्षायां हेतूपन्यास एव युक्तो न त्ववयवान्तरोपन्यासः । यदि च लिङ्गं पक्षे ज्ञातं तदा कुतोऽस्य गमकत्वमित्याकांक्षायां व्याप्तिप्रदर्शनायोदाहरणमात्रं प्रयोक्तव्यम् । नत्ववयवान्तरम् । आधिक्यं स्यात् । किञ्च हेतूपनयौ किं पक्षे लिङ्गानुसन्धानवतः प्रयोक्तव्यात तद्रहितं प्रति । नाद्यः । व्यर्थत्वात् । न द्वितीयः । लिङ्गस्यैवाज्ञाने प्रमाणप्रवृत्तेरेवाभावेन कथाया एवानुदयात् । न च यावत्पर्यन्तं विवादस्तावत्पर्यन्तं वाक्यानि प्रयोक्तव्यानीति वाच्यम् । तर्हि पञ्चावयवनियमो न स्यात् । न हि पञ्चावयवपर्यन्तमेव विवादो नत्वनन्तरमित्यत्र प्रमाणमस्ति । तस्मान्न नियमपक्षो युक्तः ।

तदुक्तं युक्तिपादीयानुव्याख्याने-

प्रतिज्ञातार्थसिद्ध्यर्थं व्याप्तिरेव यदोदिता ।

अवशिष्टं किमत्रास्ति लिङ्गं तत्र विजानतः ॥

यदि लिङ्गमसिद्धं स्यात्कुत एवास्य मानता ।

यदि स्मारकमात्रं स्यात्स्मर्तुर्नात्र प्रयोजनम् ।।

न पञ्चावयवोक्तौ च विवादावसतिर्भवेत् । इति ।

तत्त्वनिर्णयेऽपि

प्रतिज्ञा हेतुगर्भैव पृथक् प्रामाण्यमेष्यति ।

सिद्धत्वेन प्रतिज्ञाया हेतुर्मानं पृथग्भवेत् ।। इति ।

प्रमाणलक्षणेऽपिहेतुगर्भा प्रतिज्ञा केवलाऽपि । सिद्धौ प्रतिज्ञायां हेतुमात्रं च । दृष्टान्तः सप्रतिज्ञो हेतुगर्भ इति ।

।। इति प्रत्यक्षानुमानप्रकरणम् ।।

***

Load More