open/close
open/close
गुणप्रकरणम्
गुणप्रकरणम्
द्रव्याण्युक्तानि । गुणा निरूप्यन्ते ।
तत्रादौ गुणसामान्यलक्षणमाह-दोषभिन्नत्वमिति ।
दोषभिन्नत्वं गुणत्वम् ।। २०४ ।।
नचैवं गुणभिन्नत्वं दोषत्वमिति परस्परसापेक्षत्वादन्योन्याश्रय इति वाच्यम् । दुष्टव्यवहारजनकत्वं दोषत्वमित्यङ्गीकारादिति भावः ।