ज्ञानप्रकरणम्
ज्ञानप्रकरणम् ५
ज्ञानमपि परमात्माधीनमित्याह -येन येनेति ।
येन येन साधनेन यस्य यस्य यद्यज्ज्ञानं जायते तत्सर्वं परमात्मना जन्यत इति ज्ञानमपि परमात्माधीनम् । तद्द्विविधम् । संसारहेतुर्मोक्षहेतुश्चेति ॥। ४७८ ।।
अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।
इत्यनुव्याख्यानोक्तेरिति भावः ।
संसारहेतुत्वमेव ज्ञानस्य दर्शयति-देहेति ।
देहापत्यकलत्राऽदिषु ममतादिरूपं ज्ञानं संसारहेतुः ।। ४७९ ।।
तदुक्तं तृतीयस्कन्धतात्पर्ये-
भ्रान्त्या जीवस्य संसार ईशज्ञानाद्विलीयते ।
भ्रान्तिर्देहाद्यभिमतिरतो ज्ञानाद्विनश्यति ।। इति ।
नैषां ममाहमिति धीः श्वसृगालभक्ष्ये । इत्यादिभागवतोक्तेश्च ।