बन्धप्रकरणम्

बन्धप्रकरणम्

इदानीं बन्धस्य परमात्माधीनत्वमाहबन्धोऽपीति

बन्धोऽपि जीवस्य परमात्माधीनः ।। ५२५ ।।

के ते बन्धा जीवस्येत्याकांक्षायामाह-ईश्वरेच्छेत्यादिना

बन्धास्तु ईश्वरेच्छाऽविद्या कामकर्म लिङ्गशरीरं त्रिगुणात्मकं मनः स्थूलशरीरमित्यादि ।। ५२६ ।।

तदुक्तं द्वितीयतात्पर्ये-

अशरीरस्य जीवस्य शरीरोत्पत्तिकारणम् ।।

ईश्वरेच्छा प्राथमिकी तां विना न हि किञ्चन ।।

द्वितीया प्रकृतिः प्रोक्ता तद्रूपा हि गुणास्त्रयः ।।

तेषां सम्पातजो भावो ममाहमिति या मतिः ॥

देहात्परस्य देहित्वमहंभावमृते कुतः ।। इति ।

माण्डूकभाष्येsपि -

अनादिमायया विष्णोरिच्छया स्वापितो यदा ।

तया प्रबोधमायाति तदा विष्णुं प्रपश्यति ।। इति ।

अविद्याया आवरणत्वमुक्तमविद्याप्रकरणे ।

गीतायामपि-

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ।। इति ।

कामकर्मणोऽपि बन्धकत्वम् ।।

कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।। इत्युक्तेः ।

समयपादीयानुव्याख्यानेऽपि -

अनादिकर्मणा बद्धो जीवः संसारमण्डले ।

वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ।। इति ।

गीताभाष्ये तुयथोल्बेनावृत्य बद्धो भवति गर्भस्तथा कामेन जीव इति कामस्यैव बन्धकत्वमुक्तं तच्च काम्यकर्मणो मूलकारणत्वाभिप्रायेण । लिङ्गशरीरस्वरूपमुत्तरत्र वक्ष्यते ।

त्रिगुणात्मकं मन इति-

मन एव मनुष्याणां कारणं बन्धमोक्षयोरित्याद्युक्तेः ।

भक्तिपादीयानुव्याख्यानेऽपि -

त्रिगुणात्मकं मनोऽस्त्येव यावन्मुक्तिः सदातनम् ।

सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते ।

सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ।। इति ।

स्थूलशरीरस्य नानाविधपुण्यपापजनकत्वेन बन्धकत्वं प्रत्यक्षसिद्धमिति भावः ।

प्रकृतप्रमेयमुपसंहरति- एवं चेति

एवं च सृष्ट्यादयो बन्धान्ताः परमात्माधीनाः ।। ५२७ ।।

।। इति बन्धप्रकरणम् ।।

***