अथातोऽनुव्याहाराः

अथ तृतीयारण्यके प्रथमोऽध्यायः चतुर्थ: खण्ड:

उपनिषत्

अथातोऽनुव्याहाराः । प्राणो वंश इति विद्यात् । स य एनं प्राणं वंशमुपवदेच्छक्नुवन्तं चेन्मन्येत प्राणं वंशं समधां३ । प्राणं मा वंशं सन्दधतं न शक्नोषीत्याह । प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात् । अथ चेदशक्नुवन्तं मन्येत प्राणं वंशं समधित्सिषन्तं नाशकः सन्धातुं प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात् । यथा तु कथा च ब्रुवन्वा ब्रुवन्तं वा ब्रूयादभ्याशमेव यत् तथा स्यात् । न त्वेवान्यत् कुशलाद् ब्राह्मणं ब्रूयात् । अतिद्युम्न एव ब्राह्मणं ब्रूयात् । नातिद्युम्ने च न ब्राह्मणं ब्रूयात् । नमो अस्तु ब्राह्मणेभ्य इति ह स्माह शूरवीरो माण्डूकेयः ॥ ।।३.१.४ ॥

पूर्वोत्तरखण्डयोः पुनरुक्तिपरिहारः

भाष्यम्

भगवदुपासकस्य यस्मिन् कस्मिंश्चिद्दोष उक्ते तं प्रत्युक्तिप्रकारः पूर्वं दर्शितः । अनुव्याहारशब्देन भगवदुपासनाविषय एवास्याशक्त्यादिदोषं वदतः प्रत्युक्तिरुच्यते । निर्भुजं वदन्तमित्यादि त्ववस्थामात्रदर्शनम् । आत्मनो ज्ञानसामर्थ्यानुसारेण वक्तव्यत्वादनुव्याहारः ।

भावप्रदीप:

'अथातोऽनुव्याहाराः' इत्यादिखण्डं व्याख्यास्यन्नादौ तावत् पूर्व-खण्डेन अस्य अगतार्थतासिद्ध्यै उभयोस्तात्पर्यभेदं दर्शयति- भगवदुपासकस्येति । पुर्वं पूर्वखण्डे ' यद्येनं निर्भुजं वदन्तं ब्रुवन्तं' इत्यादिना दर्शितिः । अत्र तु भगवदुपासनाविषय एव अस्य उपासकस्य त्वमुपासनायामशक्त इत्यादिप्रकारेणाशक्त्यादिदोषं वदतः पुरुषस्य, वदन्तं प्रति प्रत्युक्तिः प्रत्युक्तिप्रकारः कथ्यत इत्यनुव्या- हारशब्देनोच्यत इत्यर्थः । ननु पूर्वखंडोक्तोऽपि प्रत्युक्तिप्रकारो भग- वदुपासनाविषयकदोषं वदन्तं प्रत्येव । अन्यथा 'निर्भुजं ब्रुवन्त- मुपवदेत् । प्रतृणं ब्रुवन्तमुपवदेत्' इत्याद्युपासनाविशेषानुवादो न स्यात् । अतः कथं विषयभेद इत्यतस्तदुक्तेरभिप्रायं व्यनक्ति- निर्भुजमिति । तथा च निर्भुजाद्यध्ययनकाले भगवदुपासकस्य यस्मिन्कस्मिंश्चिद्दोष उक्ते तं प्रत्युक्तिप्रकारः पूर्वं प्रदर्शितः । इदानीं तु भगवदुपासनाविषय एव दोषं वदतः प्रत्युक्तिप्रकारः प्रदर्श्यत इति विषयभेदकल्पने नोक्तानुपपत्तिरिति भावः । नन्वनुव्याहारशब्देन भग- वदुपासनाविषय एवास्याशक्त्यादिदोषं वदतः प्रत्युक्तिरित्युच्यत इत्युक्तम् तत्कथं लभ्यत इत्यतोऽनुव्याहारशब्दार्थमाह- आत्मन इति ॥ 'शक्नुवन्तं चेन्मन्येत— ‘अथ चेदशक्नुवन्तं चेन्मन्येत' इत्यादिनाऽऽत्मनो ज्ञानसामर्थ्यानुसारेण प्रत्युक्ते वक्तव्यत्वावगमादेते व्याहारा अनुव्याहारा इत्युच्यन्ते । तदुक्तिप्रकारपर्यालोचनायां चैषा प्रत्युक्ति- भगवदुपासनाविषय एवास्याऽशक्त्यादिदोषं वदन्तं प्रतीत्यवगम्यत इति भावः ।।

Load More