तद्वा इदं बृहतीसहस्रं सम्पन्नं तद्यशः

।।  अथ तृतीयाध्याये सप्तम: खण्डः ।।

भगवानेव मुख्यतः इन्द्रशब्दवाच्यः

उपनिषत्

तद्वा इदं बृहतीसहस्रं सम्पन्नं तद्यशः । स इन्द्रः स भूतानामधिपतिः । स य एवमेतमिन्द्रं भूतानामधिपतिं वेद विस्रसा हैवास्माल्लोकात् प्रैतीति ह स्माऽऽह महिदास ऐतरेयः ।

भाष्यम्

विद्यान्तरोपदेशार्थं 'तद्वा इदं बृहतीसहस्रं ' इति पुनः पुनः परामर्शः तदिदं बृहतीसहस्रं तद्यशस्तस्य नारायणस्य यशः । यस्य नारायणस्यै- तद्यशः स भगवानेवेन्द्रनामा । स हि यत्प्रथमत इन्द्रो बभूव स्वेच्छया यज्ञनामा । तस्मात् तमेव वेदा इन्द्रशब्देन वदन्ति मुख्यतः । 'इदि परमैश्वर्ये' इति धातोश्च तस्यैव हि परमैश्वर्यम् । अन्येषां तु द्वादशानां तेन दत्तमेवेन्द्रत्वं न तु मुख्यतः ।।

भावप्रदीप:

तद्वा इदं बृहतीसहस्रं संपन्नं' इत्युत्तरखण्डं व्याकरिष्यन्नत्र पूर्व- खण्डेषु च ' तद्वा इदं' इत्यादि पुनः पुनः कथनस्य प्रयोजनं तावदाह - विद्यान्तरेति ॥ तत्र ' तदिदं बृहतीसहस्रं ' इत्येताव- दनुर्त्य 'तद्यशः' इत्येतद्वाक्यं व्याचष्टे - तदिदमिति ॥ स इन्द्रः ' इत्येतद्विवृणोति - यस्येति । एतत् बृहतीसहस्रं । तस्येन्द्रत्वमुपपा- दयति- स हीति ।। हिशब्दो भागवतादिप्रसिद्धिद्योतकः । सर्वे- श्वरस्येन्द्रपदप्राप्तिरत्यल्पा कथं युज्यत इत्यत उक्तम्- स्वेच्छयेति ॥ पुरन्दरादीनामपीन्द्रत्वेन वेदेषु गीयमानत्वादत्रेन्द्रनामापि तेष्वन्यतम एव किं न स्यात्, भगवानेव कुतोऽवधार्यत इत्यत आह- तस्मा- दिति ।। भगवतः प्रथमेन्द्रत्वादित्यर्थः । अन्येषामप्यमुख्यतः प्रति- पाद्यत्वमविरोधेन निषिध्यत इति भावेनोक्तम्- मुख्यत इति । भगवत एवेन्द्रनामत्वे युक्तयन्तरं चाह - इदीति । एतच्चेन्द्रशब्द- प्रवृत्तिनिमित्तं परमैश्वर्यं भगवत इवान्येषामप्यस्ति चेत्पुनः स एवेन्द्र - नामेत्यवधारणानुपपत्तिरिति तत्राह तस्यैवेति ॥ कुतस्तस्यैवे - त्युच्यत इत्यत आह अन्येषामिति ।।

Load More